King Bhoja and Rajamartanda
Chapter 4
अथ कैवल्यपादः
यदाजयैव कैवल्यं विनोपायैः प्रजायते ।
तमेकमजमीवानं चिदानन्दमयं स्तुमः ॥
इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञापनाय कैवल्यपादोऽयमारम्यते । तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविध जन्मादिकारणप्रतिपादनद्वारेणैव वोघयति-यदि वा या एताः सिद्धयः ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिवलाज् जन्मादिनिमित्तमात्रत्वेनाश्रित्य प्रवत्तन्ते । ततश्चानेकभवसाध्यस्य समाधेनं क्षतिरस्तीत्याश्वासोत्पादनाय’ समाधिसिद्धेश्च प्राधान्यख्यापनार्थ कैवल्योपयोगार्थमाह-
जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥
वृत्तिः- काश्चन जन्मनिमित्ता एव सिद्धयः; यथा-पक्ष्यादीनामाकाशेगमनादयः यथा वा-कपिलमहर्षिप्रभृतीनां जन्मसमन्तरमेवोपज । यमाना ज्ञानादयः सांसिद्धिका गुणाः । ओषधिसिद्धयो यथा-पारदादिरसायनाद्युपयोगात् । मन्त्रसिद्धिर्यथा-मन्त्रजपात् केषाञ्चिदाकाशगमनादिः । तपः सिद्धिर्यथा-विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक् प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षयित क्लेशानामेवोपजायन्ते ; तस्मात् समाधिसिद्धाविव अन्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारणं, मन्त्रादीनि निमित्तमात्राणि ॥१॥
ननु नन्दीश्वरादिकानां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते, तत् कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यत इत्याशङ्कयाह-
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
वृत्तिः- योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापरात, पाश्चात्त्या एव हि प्रकृतयोऽमुष्मिन् जन्मनि विकारानापूरयन्ति जात्यान्तरीकारेण परिणामयन्ति ॥२॥
ननु धर्मधर्मादयस्तत्र क्रियमाणा उपलभ्यन्ते,. तत्कथं प्रकृतीनामपूरकत्वम् इत्याह-
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
वृत्तिः- निमित्त धर्मादि, तत् प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकं, न हि कार्य्येण कारणं प्रवर्त्तते । कुत्र तहिं तस्य धर्मादेर्व्यापार इत्याह-वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद् धर्माद् वरणमावरणकम् अधर्मादि, तस्यैव विरोधित्वाद् भेदः क्षयः क्रियते, तस्मिन् प्रतिबन्धे क्षीणे प्रकृतयः स्वयम-भिमतकार्य्याय प्रभवन्ति । दृष्टान्तमाह-क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीवलः केद्रारात् केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकावरणभेदमात्रं करोति, तस्मिन् भिन्ने जलं स्वयमेव प्रसरदूपं परिणामं गृह्णाति, न तु जलप्रसरणे तस्य कश्चित् प्रयत्नः; एवं धर्मादिर्बोद्धव्यम् ॥३॥
यदा साक्षात्कृतत्त्वस्य योगिनो युगपत् कर्मफलभोगाय आत्मीयनिरतिशयविभूत्यनुभवाद् युगपदनेकशरीरनिर्मित्सा जायते, तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह-
निर्माणचित्तान्यस्मितामात्रात् ॥४॥
वृत्तिः- योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणाद्, अस्मितामात्रादेव तदिच्छ्या प्रसरन्ति, अग्ने विस्फुलिङ्गा इव युगपत् परिणमन्ति ॥४॥
ननु बहूनां चित्तानां भिन्नाभिप्रायत्वान्नैककार्य्यकर्तृत्वं स्यादित्याह-
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
वृत्तिः- तेषाम अनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्वे एकं योगिनश्चित्तम् प्रयोजकं प्रेरकम्, अधिष्ठातृत्वेन, तेन न भिन्नमतत्वम् । अयमर्थः यथा आत्मीयशरीरे मनश्चक्षुः पाण्यादीनि यथेच्छं प्रेरयति, अधिष्ठातृत्वेन, एवं कार्यान्तरेष्वपीति ॥५॥
जन्मादिप्रभवत्वात् सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेव ; ततोजन्मादिप्रभवोच्चित्तात् समाविप्रभवस्य चित्तस्य वैलक्षण्यमाह-
तत्र ध्यानजमनाशयम् ॥६॥
वृत्तिः- ध्यानजं समाधि जं यच् चित्तं तत् पञ्चसु मध्ये अनाशयं कर्मवासनारहितमित्यर्थः ॥६॥
यथा इतरचित्तं भ्यो योगिनश्चित्तम् विलक्षणं क्लेशादिरहितं, तथा कर्मापि विलक्षर्णामित्याह्-
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥
वृत्तिः- शुभफलदं कर्म योगादि शुक्लम्, अशुभफलदं ब्रह्महत्यादि कृष्णम्, उभयसङ्कीर्ण शुक्लकृष्णम् । तत्र शुक्लं कर्म विचक्षणानां दान- तपःस्वाध्यायादिमतां पुरुषाणाम् । कृष्णं कर्म दानवानाम्’ । शुक्लकृष्णं मनुष्याणाम् । योगिनान्तु सन्यानवतां त्रिविधकर्मविपरीतं यत् फलत्यागानुसन्धानेनैवानुष्ठानाद् न किञ्चित्फलमारभते ॥७॥
अस्यैव कर्मणः फलमाह-
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥
वृत्तिः- इह हि द्विविधा कर्मवासनाः, स्मृतिमात्रफलाः जात्यायुर्भोगफलाश्च । तत्र जात्यार्युभोगफला अनेकज’न्मभवा इत्यनेन पूर्वमेव (२।१२-१३) कृतनिर्णयाः । यास्तु स्मृतिमात्रफलाः ताः, ततः कर्मणः, येन कर्मणा यादृक् शरीरमारब्धंदेव-मनुष्य-तिर्य्यगादिभेदं, तस्य विपाकस्य, अनुगुणा अनुरूपाः, यां वासना; तासामेवाभिव्यक्तिर्भवति । अयमर्थः-येन कर्मणा पूर्व देवतादिशरीरमारब्धं, जात्यन्तरशतव्यवधानेन पुनस्तथाविस्यैव शरीरस्य आरम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटी भवन्ति, लोकान्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञाः तिष्ठन्ति, न तस्यां दशायां नारकादिशरीरोद्भवा वासना व्यक्तिमायान्ति ॥८॥
आसामेव वासनानां कार्य्यकारणाभावानुपपत्तिमाशङ्कय समर्थयितुमाह-
जाति-देश-कालव्यवहितानामप्यानन्तर्य्यं, स्मृति-संस्कारयोरेकरूपत्वात् ॥९॥
वृत्तिः- इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद् योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनि प्रतिपद्यते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसन्, तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति; जाति-देश-कालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाघने आनन्तर्य्यनैरन्तर्य्यम् । कुतः? स्मृतिसंस्कारयोरेकरूपत्वात् । तथा हि-अनुष्ठीयमानात् कर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते, स च स्वर्गनरकादीनां फलानाञ्चाङ कुरीभावः, कर्मणां वा यागादीनां शक्तिरूपतया अवस्थानं, कर्त्तुर्वा तथाविधभोग्यऽभोक्तृत्वरूपं सामर्थ्यम् । संस्कारात् स्मृतिः, स्मृतेश्च सुख-दुःखोपभोगः, तदनुभवाच्च पुनरपि संस्कार-स्मृत्यादयः । एवं च यस्य स्मृति-संस्कारादयो भिन्नाः, तस्यानन्तर्य्याभावे दुर्लभः कार्य्यकारणभाव ; अस्माकं तु यदानुभव एव संस्कारीभवति, संस्कारश्च स्मृतिरूपतया परिणमते, तदैकस्यैव चित्तस्यानुसन्धातृत्वेन स्थितत्वात् न कार्य्यकारणभावो दुर्घटः ॥९॥
भवत्वानन्तर्य्य कार्य्यकारणभावश्च वासनानां, यदा तु प्रथममेवानुभवः प्रवत्त ते, तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह-
तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
वृत्तिः- तासां वासनानाम्, अनादित्वं न विद्यते आदिर्यस्य तस्य भावस्तत्वं, तासामा दिर्नास्तीत्यर्थः ; कुत इति? आशिषो नित्यत्वात्-येयमाशीर्महामोहरूपा, सदैव सुखसाधनानि मे भूयासुः, मा कदाचन तैः मे वियोगो भूदिति यः सङ्कल्पविशेषो वासनानां कारणं, तस्य नित्यत्वाद् अनादित्वमित्यर्थः । एतदुक्तं भवति-कारणस्य सन्निहितत्वाद् अनुभवसंस्कारादीनां कार्य्याणां प्रवृत्तिः केन वार्य्यते? अनुभव-संस्कारानुविद्ध सङ्कोच विकाशधर्म चित्त तत्तदभिव्यञ्जक-विपाकलाभात्’ तत्तत्फलरूपतया परिणमत इत्यर्थः ॥१०॥
तासामानन्त्याद् हानं कथं भवतीत्याशङ्क्य हानोपायमाह-
हेतु-फलाश्रयालम्बनैः सङगृहीतत्वाद् एषामभावे तदभावः ॥११॥
वृत्तिः- वासनानामनन्तरानुभवो हेतुः, तस्याप्यनुभवस्य रागादयः, तेषामविद्येति साक्षात् पारम्पर्येण हेतुः ; फलं शरीरादि स्मृत्यादि च; आश्रयो बुद्धिः; आलम्बनं यदेवानुभवस्य तदेव वासनानाम्; अतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां सङ्गृहीतत्वात् ; एषां हेत्वादीनाम् अभावे ज्ञानयोगाभ्यां दग्धबीजकल्पत्वे विहिते निर्मूलत्वाच्च वासनाः प्ररोहं न यान्ति न कार्य्यमारभन्त इति तासाम् अभावः ॥११॥
ननु प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेर्वासनानां तत्फलानाञ्च कार्य्यकारणभावेन युगपद्भावित्वाद् भेदे कथमेकत्वमित्याशङ्क्य एकत्वसमर्थनायाह-
अतीतानागतं स्वरूपतोऽस्त्यव्वभेदाद् धर्माणाम् ॥१२॥
वृत्तिः- इह अत्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती, तेषां सत्त्वसम्बन्धा-योगात्; न हि शशविषाणादीनां क्वचिदपि सत्त्वसम्बन्घो दृष्टः, निरुपाख्ये च काय्यें किमुद्दिश्य कारणानि प्रवर्त्तन्ते ? न ह्यसन्तं विषयमालोच्य कश्चित्प्रवत्त ते। सतामपि विरोधान्नाभावसम्बन्धोऽस्ति यत् स्वरूपं लब्धसत्ताकं तत् कथं निरुपाख्यतामभावरूपतां वा भजते न विरुद्ध रूपं स्वी करोतीत्यर्थः । तस्मात् सतामभावासम्भवात्, असतां च उत्पत्त्यसम्भवातैस्तैर्धर्मे विपरिणममानो धर्मी सदैकरूप एवावतिष्ठते, धर्मास्तु त्यधिकत्वेन’ त्रैकालिकत्वेन तत्र व्यवस्थिताः स्वस्मिन्नघ्वनि व्यवस्थिताः तु स्वरूपं त्यजन्ति, वर्त्तमाने ध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते तस्माद्धर्माणामेवातीतानागताद्यव्वभेदात्तेनैव रूपेण कार्य्यकारणभावोऽस्मिन् दर्शने प्रतिपद्यते; तस्मादपवर्गपर्य्यन्तमेकमेव चित्तं धर्मिचयाऽ-नुवर्त्तमानं न निह्नोतुं पार्य्यते ॥१२॥
ते एते धर्म-धर्मिणः किंरूपा इत्याह-
ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥
वृत्तिः- य एते धर्म-धर्मिणः प्रोक्ताः, ते व्यक्त-सूक्ष्मभेदेन व्यवस्थिताः गुणाः सत्त्वरजस्तमोरूपाः, तदात्मानस्तत्स्वभावाः, तत्परिणामरूपा इत्यर्थः; यतः सत्त्वरजस्तमोभिः सुख-दुःख-मोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनाम् अन्वयानुगमा दृश्यन्ते, यद् यदन्वयि तत्तत् परिणामरूपं दृष्टं यथा घटादयो मृदन्विता मृत्परिणामरूपाः ॥१३॥
यद्येते त्रयो गुणा सर्वत्र मूलकारणं, कथमेको घर्मीति व्यपदेश इत्याशङ्कयाह-
परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥
वृत्तिः- यद्यपि त्रयो गुणाः, तथापि तेषामङ्गाङ्गिभावगमनलक्षणो यः परिणामः क्वचित् सत्त्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपः, तस्येकत्वाद्वस्तुनस्तत्त्वमेकमुच्यते ; यथा-इयं वृथिवी, अयं वायुरित्येवमादि ॥१४॥
ननु ज्ञानव्यतिरिक्ते सत्यर्थं वस्त्वेकमनेकं वा वक्तु युज्यते, यदा च विज्ञानमेव वासनावशात्कार्य्यकारणभावेनावस्थितं तथा तथा प्रतिभाति, तदा कथमेतच्छक्वते वक्तुम् इत्याशङ्कयाह-
वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥१५॥
वृत्तिः- तयोज्ञानार्थ’ योविविक्तः पन्था विविक्तो मार्गः,२ देश इति यावत्; कथम् वस्तुसाम्ये चित्तभेदात् । समाने वस्तुनि स्त्र्यादावुपलभ्यमाने नानाप्रमातृणः चित्तस्य भेदः सुख-दुःख-मोहरूपतया समुपलभ्यते ; तथा हि एकस्यां रूप-लावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते, सपत्न्यास्तद्द्वेषः, परिब्राजकादेघृ’णा इत्येकस्मिन् वस्तुनि नानाविधचित्तोदयात् कथं’ चित्तकार्यत्वं वस्तुनः एकचित्तकार्व्यत्वे वस्त्वेकरूपतयैवावभासेत । किञ्च, चित्तकार्य्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्य्य’, तस्मिन्नर्था-न्तरव्यासक्तं तद्वस्तु न किञ्चित् स्यात्, भवत्विति चेन्न, तदेव कथमन्यैर्बहुभिरुपलभ्येत? उपभ्यते च तस्मान्न चित्तकार्य्यम् ; अथ युगपद् बहुभिः सोऽर्थ क्रियते, तदा वहुनिर्मितस्यार्थस्यैकनिर्मिताद् वैलक्षण्यं स्यात् । यदा तु वैलक्षण्यं नेष्यते, तदा कारणभेदे सति कार्य्यभेदस्याभावे निर्हेतुकमेकरूपं वा जगत् स्यात् । एतदुक्तं भवति-सत्यपि भिन्ने कारणे यदि कार्य्यस्याभेदः, तदा समग्रं जगद् नानाविधकारणजन्यमेकरूपं स्यात्, कारणभेदाननुगमात् स्वातन्त्र्येण निहेतुकं वा स्यात्; यद्येवं कथं तेन त्रिगुणात्मना चितेनं कस्यैव प्रमातुः सुख-दुःखमोहमयानि ज्ञानानि जन्यन्ते ? मैवम्; यथा अर्थत्रिगुणः, तथा चित्तमपि त्रिगुणं, तस्यार्थप्रति-भासोत्पत्तौ धर्मादयः सहकारिकारणं, तदुद्भवाभिभववशात् कदाचित् चित्तस्य तेन तेन रूपेणाभिव्यक्तिः । तथा च-कामुकस्य सन्निहितायां योषिति धर्मसहकृतं चित्तं सत्त्वस्थाङ्गितया परिणममानं सुखमयं भवति तदेव अधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपत्नीमात्रस्य भवति; तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गित्वेन कोपनायाः सपत्न्या मोहमयं भवति; तस्माद्विज्ञानव्यतिरेकेणास्ति ग्राह्यार्थः तदेवं विज्ञानार्थयोस्तादात्म्यविरोधान्न कार्यकारणभावः कारणाभेदे सत्यपिकार्य्ययभेदप्रसङ्गादितिज्ञानाद्वयतिरिक्तत्वमर्थस्य व्यवस्थितम्” ॥१५॥
यद्येवं, ज्ञानञ्चेत् प्रकाशकत्वाद् ग्रहणस्वभावम्, अर्थश्च प्रकाश्यत्वाद् ग्राह्यस्वभावः, तदा युगपत् सर्वानर्थान् कथं न गृह्णाति, न स्मरति च – इत्याशङ्कां परिहत्तुमाह-
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१६॥
वृत्तिः- तस्यार्थस्य, उपरागादाकारसमर्पणाच् चित्तं बाह्यं वस्तु ज्ञातमज्ञातञ्च भवति । अयमर्थः सर्वः पदार्थः आत्मलाभे सामग्रीमपेक्षते; नीलादिज्ञानञ्चोपजायमानमिन्द्रियप्रणालिकया’ समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते; व्यतिरिक्तस्यार्थस्य सम्बन्धाभावात् ग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य स्वरूपोपरागः कृतः, तमेवार्थं तज्ज्ञानं व्यवहारयोग्यतां नयति; ततः सोऽर्थः ज्ञात उच्यते; येन चाकारो न समर्पितः, स न ज्ञातत्वेव व्यवह्रियते । यस्मिश्चानुभूतेऽर्थे सादृशादिरर्थः संस्कारमुद्बोधयन् सहकारितां प्रतिपद्यते, तस्मिन्नेवार्थं स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि स्मृतिरिति न कश्चिद्विरोधः ॥१६॥
यद्येवं प्रमातापि पुरुषो यस्मिन् काले नीलं वेदयते, न तस्मिन् काले “पीतादिमतश्चित्तसत्त्वस्यापि कदाचित् ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहत्तुमाह-
सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१७॥
वृत्तिः- या एताश्चित्तस्य प्रमाण – विपर्य्ययादिरूपा वृत्तयः, यास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञाताः तस्य चिद्रूपतया परिणामित्वात् परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्थात् तदा परिणामस्य कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः- पुरुषस्य चिद्रूपस्य सदेवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं, तस्यापि सदैवावस्थितत्वाद् येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य, सदैव चिच्छायासङ्क्रान्तिसद्भावः, तस्यां सत्यां सिद्धं ज्ञातृत्वमिति न कदाचित्काचित् परिणामित्वाशङ्का’ ॥१७॥
ननु चित्तमेव यदि सत्त्वोत्कर्षात् प्रकाशकं तदा स्व-परप्रकाशरूपत्वादात्मानमर्थञ्च प्रकाशयतीति तावतैव व्यवहारसमाप्तिः, किं ग्रहीत्रन्तरेण इत्याशङ्खामपेनेतुमाह-
न तत्स्वाभासं दृश्यत्वात् ॥१८॥
वृत्तिः- तञ्चित्तं स्वाभासं स्वप्रकाशकं न भवति, पुरुषवेद्यं भवतीति यावत्; कुतः ? दृश्यत्वात्, यत् किल दृश्यं तत् द्रष्टृवेद्यं दृष्टं यथा घटादि । दृश्यञ्च’ चित्तं तस्मान्न स्वाआसम् ॥१८॥
ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् । किञ्च स्वबुद्धिसंवेदनद्वारेण हिताहितप्राप्ति-परिहाररूपा वृत्तयो दृश्यन्ते; तथा हि, क्रुद्धोऽहम्, भीतोऽहम्, अत्र मे राग इत्येवमाद्या संवित् बुद्धेरसंवेदने नोपपद्येत इत्याशङ्का-मपनेतुमाह-
एकसमये चोभयानवधारणम् ॥१९॥
वृत्तिः- अर्थस्य संवित्तिः इदन्तया व्यवहारयोग्यतापादनम् । अयमर्थः- सुखहेतुर्दुःखहेतुर्वेति बुद्धेः संविद् अहमित्येवमाकारेण सुख-दुःखरूपतया व्यवहारक्षमतापादनम्; एवंविधञ्च व्यापारद्वयमर्थ प्रत्यक्षकाले ‘ न युगपत् कत्तु शक्यं, विरोधात्; न हि विरुद्धयोर्व्यापारयोर्युगपत् सम्भवोऽस्ति । अत एकस्मिन् काले उभयस्य स्वरूपस्य अर्थस्य चावधारयितुमशक्यत्वाद् न चित्तं स्वप्रकाशकं भवति । किन्तु एवंविधव्यापार द्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद् बहिर्मुखतयैव स्वनिष्ठत्वेन चित्तस्य स्वयं वेदनादर्थं निष्ठमेव फलं, न स्वनिष्ठमित्यर्थः॥१९॥
ननु मा भूद् बुद्धेः स्वयं ग्रहणं, बुद्ध्यन्तरेण भविष्यतीत्याशङ्कयाह-
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥२०॥
वृत्तिः– यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते, सापि बुद्धिः ‘स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयम्, तस्या अप्यन्यदित्यनवस्थानात् पुरुषान्तरेणार्थप्रतीतिर्न स्यात्; न हि प्रतीतौ अप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसङ्करश्च प्राप्नोति, रूपे रसे व समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद् बह्वयः स्मृतयः क्रियन्ते, तदा बुद्धेरपर्य्यवसानाद् बुद्धि-स्मृतीनाञ्च बह्वीनां युगपदुत्पत्तेः ‘कस्मिन्नर्थं स्मृतिरियमुत्पन्नेति’ ज्ञातुमशक्यत्वात् स्मृतीनां सङ्करः स्यात्-इयं रूपे स्मृतिरियं
रसे स्मृतिरिति न ज्ञायेत ॥२०॥
ननु बुद्धेः स्वकाशत्वाभावे बुद्ध्यन्तरे चासंवेदने कथम् अयं विषयसंवेदनरूपो व्यवहारः इत्याशङ्कय स्वसिद्धान्तमाह-
चितेरप्रतिसङ्क्रमायास्तदाकारापत्ती स्वबुद्धिसंवेदनम् ॥२१॥
वृत्तिः- पुरुषश्चिद्रूपत्वाच्चितिः, साऽप्रतिसङ्क्रमा न विद्यते प्रतिसङ्क्रमोऽत्यत्र गमनं यस्याः सा तथोक्ता, अन्येनासङ्कीर्णेति यावत् । तथा गुणा अङ्गाङ्गिभावलक्षणे परिणामे अङ्गिनं गुणं सङ्क्रामन्ति तद्रूपतामिवापद्यन्ते; तथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति’, नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया सुप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्सन्निघाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवो पजायते, बुद्धिवृत्तिप्रतिसङ्क्रान्ता च यदा चिच्छक्तिः बुद्धिवृत्तिविशिष्टतया संवेद्यते, तदा बुद्धे: स्वस्यात्मनो’ वेदनं संवेदनं भवतीत्यर्थः ॥२१॥
इत्थं स्वसंविदितं चित्तं सर्वानुग्रहणसामर्थेन’ सकलव्यवहारनिर्वाहक्षमं भविष्यतीत्याह-
द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२२॥
वृत्तिः- द्रष्टा पुरुषः, तेनोपरक्तं तत्सन्निघानेन तद्रूपतामिव प्राप्नोति, दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थ भवति; यथा निर्मलं स्फठिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थम्, एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच् चिच्छायाग्रहणसमर्थं भवति, न पुनरशुद्धत्वाद्रजस्तमसी । तद् न्यग्भूतरजस्तमोरूपर्माङ्गतया सत्त्वं निश्चलप्रदीपशिखाकारं सदैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादा-मोक्षप्राप्तेरवतिष्ठते । यथा अयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्गयमभिव्यज्यंते चैतन्यम् । अत एव अस्मिन् दर्शने द्वे चिच्शक्तीनित्योदिता अभिव्यङ्ग्या च; नित्योदिता चिच्छक्तिः पुरुस्सन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वम्; अभिव्यङ्ग्या चिच्छक्तिः तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः साङ्ख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यत्तु अनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्यचिदङ्गित्वात् त्रिगुणं प्रतिक्षणं परिणममानं सुख-दुःख-मोहात्मकर्मानिर्मलं तत्तस्मिन् कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यता मापादयति, तत् शुद्धमाद्यं चित्तसत्त्वमेवंति प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविषयाकारेण चित्तेन उपढोकितमाकारं चित्सङ्क्रान्तिवलात् चेतनायमानं वातवचैतन्याभावेऽपि सुख-दुःखस्वरूपं भोगमनुभवति, स एवं भोगोऽत्यन्तसन्निधानेन विवेकाग्रहणाद् अभोक्तुरपि पुरुषस्य भोग इति व्यपदिष्यते । अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तं – “सत्त्वतप्यत्वमेव पुरुषतप्यत्वम्” इति । अन्यत्रापि – “प्रतिबिम्बे प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते; एवं सत्त्वेऽपि पौरुषे यचिच्छायास ‘दृशचिदभिव्यक्तिः प्रतिसङ्क्रान्तिशब्दार्थः” इति । ननु प्रतिबिम्बं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टम्; यथा मुखस्यदर्पणे, अत्यन्तनिर्मलस्य व्यापकस्य अपरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात्
पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनमुपद्यते ? उच्यते-प्रतिबिम्बनस्य स्वरूपमनव गच्छता भवतेदमभ्यधायि, यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्शक्तेः पुरुषस्य सान्निध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते, यादृशी पुरुषगता चिच्छक्तिस्तच्छायाप्यत्राविर्भवति । पुरुषः अत्यन्तनिर्मलः कथमनिर्मले सत्त्वे प्रतिसङ क्रामतीति ? यदप्युक्तम्-तदप्यनैकान्तिकं, नैर्मल्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसङ्क्रान्ताः समुपलभ्यन्ते । यदप्युक्तम् अनवच्छिन्नस्य नास्ति प्रतिसङ क्रान्ति, तदप्ययुक्तं व्यापकस्यास्याकाशस्य दर्पणादौ प्रतिसङ्क्रान्तिदर्शनात् एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसन्निघानादभिव्यङ्ग यायाश्चिच्छक्तेर्बाह्याकारसङक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तं, तदनुपपन्नं, तदेव चित्तसत्त्वं प्रकृतावपरिणतायां कथं सम्भवति ? किमर्थश्च तस्याः परिणामः ? अथोच्येत, पुरुषस्यार्थोपभोगसम्पादनं तया कर्त्तव्यम्, अतः पुरुषार्थकर्त्तव्यतयाऽस्या युक्त एव परिणाम । तच्चानुपपन्नं, पुरुषार्थ कर्त्तव्यताया एवानुपपत्तेः; पुरुषार्थो मया कर्त्तव्य एवंविधोऽध्यवसायः पुरुषार्थकत्त व्यतोच्यते, जडायाश्च कथं जडत्वम् प्रकृतेः कथं प्रथममेवंविधोऽध्यवसायः ? अस्ति चेदध्यवसायः, अत्रोच्यते – अनुलोम-प्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति, तदेव पुरुषार्थकर्त्तव्यतोच्यते; सा च शक्तिरचेतनाया अपि प्रक्रतेः सहजैव । तत्र महदादिमहाभूतपर्य्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणानुप्रवेशन-द्वारेणा स्मिताऽन्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्य भोगपरिसमाप्तेः’ सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिर्न पुनः परिणाममारभते; एवंविधानाञ्च पुरुषार्थकत्तव्यतायां जडाया अपि प्रकृतेनं काचिदनुपपत्तिः । ननु यदि ईदृशी शक्ति: सहजैव प्रधानस्यास्ति, तत् किमर्थ मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते ? मोक्षस्य चानर्थनीयत्वे तदुपदेशक शास्त्रस्यानर्थक्यं स्यात् ? उच्यते-योऽयं प्रकृतिपुरुषयोरनादिर्भोग्य-भोक्तृत्वलक्षण: सम्बन्धः तस्मिन् सति व्यक्तचेतनायाः प्रकृतेः कर्त्तृत्वाभिमानाद् दुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिको मम स्याद् इति भवत्येवाध्यवसायः ; अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षा अस्त्येव प्रधानस्य ; तथाभूतमेव कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः, दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽचिक्रियते अस्य स च मोक्षाय प्रयतमान एवंविधशास्त्रोपदेशं सहकारिणमपेक्ष्य मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्य्याणि प्राप्तायां सामग्रचामात्मानं लभन्ते, प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य मोक्षाख्यस्य कार्य्यस्य ईदृश्येव सामग्री प्रमाणेन निश्चिता, प्रकारान्तरेणानुपपत्तेः ; अतस्तां बिना कथं भवितुमर्हति ? अतः स्थितमेतत्-सङ्क्रान्त विषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषय-निश्चयद्वारेण समग्रां लोकयात्रां निर्बाहयतीति । एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं* चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति ॥२२॥
ननु यद्येवंविधादेव चित्तात् सकलव्यवहारनिष्पत्तिः, कथं प्रमाणशून्यो द्रष्टा अभ्युपगम्यते-इत्याशङ्कय द्रष्टुः प्रमाणमाह-
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥२३॥
वृत्तिः- तदेव चित्त सङ्ख्यातुमक्याभिर्वासनभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्ग लक्षणमर्थ साधयतीति; कुतः ? संहत्यकारित्वात् संहत्य सम्भूय मिलित्वाऽर्थक्रियाकारित्वात्; यच्च संहत्यार्थक्रियाकारि, तत् परार्थं दृष्टम्; यथा शयनासनादि । सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि च, अतः परार्थानि । यः परः स पुरुषः । ननु यादृशेन शयनासनादीनां’ परेण शरीरवता पारार्थ्यमुपलब्धं, तद्दृष्टान्तबलेन तादृश एव परः सिष्यति, यादृशश्च भवतां परोऽसंहतरूपोऽभिप्रेतः तद्विपरी-तस्य सिद्धेरयमिष्टविघातकृद्धेतुः । उच्यते-यद्यपि सामान्येन परार्थमात्र व्याप्तिर्गृहीता, तथाऽपि सत्त्वादि-विलक्षणर्धामिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति, तथा चेन्धनावृते शिखरिणिविलक्षणाद्धमाद्वन्हिरनुमीयमान इतरवन्हिविलक्षणश्चेन्धनप्रभव एव प्रतीयते, एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ता अधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति । यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयत तथापि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं, प्रकाशरूपेन्द्रियाश्रयत्वात्, तस्मादपि प्रकृष्यन्ते इन्द्रियाणि, ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपं तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः, चिद्रूप एव भवतीति कुतस्तस्य संहतत्वम् ? ॥२३॥
इदानीं शास्त्रफलं कैवल्यं निर्णेतु दशभिः सूत्रैरुपक्रमते-
विशेषदर्शन आत्मभावभावनानिवृत्तिः ॥२४॥
वृत्तिः- एवं सत्त्व-पुरुषयोरन्यत्वे साघिते यस्तयोर्विशेषं पश्यति अयमस्मादन्य इत्येवंरूपं, तस्य विज्ञातचित्तरूपसत्त्वस्य चित्ते या आत्मभावभावना सा निवर्त्तते, चित्तमेव कर्त्ती, ज्ञातृ, भोक्तृ इत्यभिमानो निवत्तते ॥२४॥
तस्मिन् सति किं भवतीत्याह-
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२५॥
वृत्तिः- यदस्य अज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्, तदिदानीं विवेकमार्गमन्तर्मुखं कैवल्यप्राग्भारं कैवल्यप्रारम्भं’ सम्पद्यते इति ॥२५॥
अस्मिश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह-
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२६॥
वृत्तिः- तस्मिन् समाधौ स्थितस्य, छिद्रेष्वन्तरायेषु यानि प्रत्ययान्ताराणि व्युत्थानरूपाणि ज्ञानानि, प्राग्भूतेभ्यः, व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहंममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति, अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्त्तव्यमित्युक्तं भवति ॥२६॥
हानमेषां क्लेशवदुक्तम् ॥२७॥
वृत्तिः- यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं (२।१०-११), तथा संस्कराणामपि कर्त्तव्यं, यथा ते ज्ञानाग्निना प्लुष्टा दग्घबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते, तथा संस्कारा अपि ॥२७॥
एवञ्च प्रत्ययान्तरान्तरानुदये स्थिरीभूते समाधी यादृशस्य योगिनः समाधेः प्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह-प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्याते-
धर्ममेघः समाधिः ॥२८॥
वृत्तिः- प्रसङ्ख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनं, तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः, प्रत्ययान्तराराणामनुदये’ सर्वप्रकारविवेकख्यातेः परिशेषाद् धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्म परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेघः, अनेक प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥२८॥
तस्माद्धमंमेघात् किं भवतीत्याह-
ततः क्लेश-कर्मनिवृत्तिः ॥२९॥
वृत्तिः- क्लेशानामविद्यादीनामभिनिवेशान्तानां, कर्मणाञ्च शुक्लादिभेदेन त्रिविधानां, ज्ञानोदयात् पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति ॥२९॥
तेषु निवृत्तषु कि भवतीत्याह-
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥३०॥
वृत्तिः- आव्रियते चित्तमेभिरित्यावरणानि क्लेशाः, ते एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य, ज्ञानस्य गगननिभस्य, आनन्त्यादनवच्छेदात्, ज्ञेयमल्पं गणनास्पदं भवति, ‘ अक्लेशेनैव सर्व ज्ञेयं जानातीत्यर्थः ॥३०॥
ततः किमित्याह-
ततः कृतार्थानां परिणामक्रमसमाप्तिगुणानाम् ॥३१॥
वृत्तिः- कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्थाः, गुणाः सत्त्व-रजस्तमांसि तेषां परिणाम आपुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येनाङ्गाङ्गिभावः स्थितिलक्षणः, तस्य योऽसौ क्रमो वक्ष्यमाणः, तस्य परिसमाप्तिनिष्ठा, न पुनरुद्भव इत्यर्थः ॥३१॥
क्रमस्योक्तस्य लक्षणमाह-
क्षणप्रतियोगी परिणामापरान्तनिग्रह्यः क्रमः ॥३२॥
वृत्तिः- क्षणोऽल्पोयान् कालः तस्य योऽसौ प्रतियोगी क्षणविलक्षणः, परिणामः अपरान्तनिर्ग्राह्यः अनुभूतेषु क्षणेषु पश्चात् सङ्कलनबुद्ध्यैव यो गृह्यते, स क्षणानां क्रम उच्यते, न ह्यननुभूतेषु क्रमः परिज्ञातुं शक्यः ॥३२॥
इदानीं फलभूतस्य कैवल्यस्यासाधारणस्वरूपमाह-
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥३३॥
वृत्तिः- समाप्त भोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः यदि वा–चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूपः यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते, तथा हि-संसारदशायामात्मा कर्त्तृत्वभोक्तृत्वानुसन्धातृत्वमयः प्रतीयते, अन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्, तदा ज्ञानक्षणानामेव पूर्वापरानुसन्धातृशून्यानामात्मभावे नियतः कर्मफलसम्वन्धो न स्यात् कृतहाना कृताभ्यागमप्रसङ्गश्च ।
यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्, तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत, सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्य अनुसन्धानेनैव प्राप्तत्वात्, ज्ञानक्षणानां परस्परभेदेनानुसन्धानशून्यत्वात् तदनुसन्घानाभावे कस्यचिदपि व्यवहारानुपपत्तेः कर्त्ता भोक्ता अनुसन्धाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्य अवशिष्यते, तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते, न पुनरात्मसंवेदनेन, यस्माद्विषयग्रहणसमर्थनमेव’ चिते रूपं, नात्मग्राहकत्वम्; तथा हि-अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते, स्वरूपं गृह्यमाणमहमिति, न पुनर्युगपद्, बहिर्मुखताऽन्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धंकत्तु शक्यम्; अत एकस्मिन् समये व्यापारद्वयस्य कर्त्तुमशक्यत्वाच् चिद्रूपतयैवावशिष्यते; अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवात्माऽवतिष्ठते इत्येव युक्तम् । संसारदशयान्तु एवम्भूतस्यैव कर्तृत्वं भोक्तृत्वमनुसन्धातृत्वञ्च सर्वमुपपद्यते; तथा हि-योऽयं प्रकृत्या सहानादिनंसर्गिकोऽस्य भोग्यभोक्तृत्वलअणसम्बन्धोऽवि-वेकख्यातिमूलः, तस्मिन् सति पुरुषार्थकर्त्तव्यतारूपशक्तिद्वयसद्भावे या महदादि-भावेन परिणतिः, तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्पण-सामर्थ्यं, बुद्धिसत्त्वस्य च सङ्क्रान्तचिच्छायाग्रहणसामर्थ्य, चिदवष्टब्धायाश्चबुद्धेयॉऽयं कर्त्त त्व-भोक्तृत्वाध्यवसायः, ततु एव सर्वस्यानुसन्धानपूर्वकस्य व्यव-हारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनाजल्यैः ” ? यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्त्त त्वाद्यङ्गीक्रियेत, तदाऽस्य परिणामित्वप्रसङ्गः, परिणामित्वाच्चानित्यत्वे तस्य आत्मत्वमेव न स्यात्। यथा ह्येकस्मिन्नेव समये एकेनैकरूपेण न परस्परविरुद्धावस्थानुभवः सम्भवति । तथाहि – यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृ-त्वम् न तस्यामेवावस्थायां दुःखानुभवितृत्वम्; अतोऽवस्थानानात्वात् तदभिन्नस्यावस्थावतो नानात्वं, नानात्वाच्च परिणामित्वान्नात्मत्वं, नापि नित्यत्मम्; अत एव शान्तब्रह्मवादिभिः साङ्ख्यैरात्मनः सदैव संसारदशायां मोक्षदशायाञ्च एक रूपमङ्गीक्रियते । तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षं मन्यन्ते, तेषां न युक्तः पक्षः; तथाहि-आनन्दस्य सुखस्वरूपत्वात् सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात् संवेद्यमानत्वञ्च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्य-संवेदनयाद्वयोरम्युपगमाद् अद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत, तद् विरुद्धधर्माध्यासा-दनुपपन्नं, न हि संवेदनं संवेद्यञ्चैकं भवितुमर्हतीति । किञ्च, अद्वैतवादिभिः कर्मात्म-परमात्मभेदेन आत्मा द्विविधः स्वीकृतः; इत्थञ्च तत्र येनैव रूपेण सुख-दुःखभोक्तृवं कर्मात्मनः, तेनैव रूपेण यदि परमात्मनः स्यात्, तदा कर्मात्मवत् परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद् भोक्तृत्वं किन्तु तदुपढौकितमुदासीनतया अधिष्ठातृत्वेन स्वीकरोति, तदा अस्मदर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किञ्च, अविद्यास्वभावत्वे निःस्वभावत्वात् कः शास्त्राधिकारी ? न तावन्नित्यनिर्मुक्तत्वात् परमात्मा, नापि अविद्यास्वभावत्वात् कर्मात्मा; ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गोक्रियमाण कस्याविद्येति विचार्य्यते न तावत् परमात्मनः नित्यमुक्तत्वाद् विद्यारूपत्वाच्च; कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः ? अथोच्यते, एतदेवविद्याया अविद्यात्वं यदविचारणीयत्वम् । अविचारणीयत्वं नाम यैवहि विचारेण दिनकरस्पष्टनीहारवद् विमलमुपयाति साऽविद्येत्युच्यते; मैवं. यद्वस्तु किञ्चत् कार्य्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नंवा वक्तव्यम्, अविद्यायाश्च संसारलक्षणकार्य्यकर्त्तृ’ त्वमवश्यमङ्गीकर्त्तव्यं, तस्मिन् सत्यपि यदि अनिर्वाच्यत्वमुच्यते, तदा कस्यचिदपि वाच्यत्वं न स्यात्, ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपद्यते, अधिष्ठातृत्त्वं च चिद्रूपत्वमेव, तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते, चेतनापि तस्य मनःसंयोगजा; तथा हि-इच्छा-ज्ञान- प्रयत्नादयो ये गुणास्तस्य व्यवहारदशायाम् आत्म-मनःसंयोगादुत्पद्यन्ते, तैरेव च गुणैः स्वयं ज्ञाता कत्तः भोक्तेति व्यपदिश्यते, मोक्षदशायां तु मिध्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तिः, तेषां बुद्ध्यादोनां विशेषगुणानामत्यन्तोच्छित्तिः, स्वरूपमात्र प्रतिष्ठत्वमात्मनोऽङ्गीकृतं, तेषामयुक्तः पक्षः । यंतस्तस्यां दशायां नित्यत्व व्यापकत्वादयो गुणा आकाशादीनामपि सन्ति, अतस्तद्वैलक्षण्येनात्मनश्चिद्र पत्वमवश्यमङ्गो काय्यंम् । आत्मत्वविलक्षणजातियोग इति चेत्, न; सर्वस्यैव तज्जातियोगः सम्भवति; अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्य मङ्गीकर्त्तव्यं, तस्याधिष्ठातृत्वं चिद्रूपतयैव चटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृ रूप आत्मा अङ्गीक्रियते; तेषामपि न युक्तः पक्षः; तथाहि-अहं प्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा; अहं प्रत्यये च कर्त्तृत्वं कर्मत्वञ्चात्मन एव; न च एतद् विरुद्धत्वादुपपद्यते, कर्त्तृत्वं प्रमातृत्वं, कर्मत्वञ्च प्रमेयत्वं, न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते, यत् विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावी; विरुद्धे च कर्तृत्वकर्मत्वे ? अथोच्यते- न कर्तृत्व-कर्मत्वयोविरोधः, किन्तु कर्तृत्व करणत्वयोः । केन एतदुक्तं, विरुद्धधर्माध्यासस्य तुल्यत्वात् कर्तृ त्वकरणत्वयोरेव विरोधः, न कर्तृत्व-कर्मत्वयोः; तस्मादहं प्रत्ययग्राह्यत्वं परिहृत्य आत्मनोऽधिष्ठातृत्वमेवोपपन्नं, तच्च चेतनत्वमेव । यैरपि’ ‘द्रव्यबोधपर्य्यायभेदेन आत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते,’ तेषाम् उत्थानपराहत एव पक्षः; परिणामित्वे चिद्रू पताहाने: चिद्रूपताऽभावे किमात्मन आत्मत्वम् ? तस्मादात्मन आत्मत्वमिच्छता चिद्र पत्वमेवाङ्गीकर्त्तव्यं, तच्चाघिष्ठातृत्वमेव । केचित्` ‘कत्तृ रूपमेवात्मानमिच्छन्ति; तथा हि-विषयसान्निध्ये या ज्ञान-लक्षणा क्रिया समुत्पन्ना, तस्यां विषयसंवित्तिः फलं, तस्याञ्च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते, विषयश्च ग्राह्यतया, आत्मा च ग्राहकतया, ‘घटमहं जानामी’ त्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारणं कर्त्तेव भवति, इत्यतः कत्त त्वं भोक्तृत्वञ्चात्मनो रूपमिति । तदनुपपन्नं, यस्मात्तासां संवित्तीनां स कि कत्तृत्वं युगपत् प्रतिपद्यते ? क्रमेण वा ? युगपत् कर्तृ त्वे क्षणान्तरे तस्य कर्त्त त्वं न स्यात् । अथ क्रमेण कर्त्त त्वम् ? तदैकरूपस्य न घटते । एकेन रूपेण चेत् तस्य कत्त त्वं, तदैकस्य सदैव सन्निहितत्वात् सर्वफलमेकरूपं स्यात् । अथ नानारूपतया तस्य कर्त्त त्वम् ? तदा परिणामित्वम्; परिणामित्वाच्च न चिद्रूपत्वम्; अतश्चिद्रूपत्वमात्मन इच्छद्भिर्न साक्षात्कर्त्तृत्वमङ्गीकर्त्तव्यं, यादृशमस्माभिः कर्त्तत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्र पस्य, वोपपन्नम् । तदेएतेन ‘स्वप्रकाशस्य आत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यज्यते’ इति ये वदन्ति तेऽपि अनेनैव निराकृताः । केचिद्विमर्शात्मकत्वेन आत्मनश्चिन्मयत्वमिच्छन्ति, त आहुः, न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूययितुं शक्यं जगद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते, तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथा अवतिष्ठते । तदनुपपन्नम्; इदमित्थमेव रूपमिति यो विचारः सः विमर्श इत्युच्यते, स वास्मिताव्यतिरेकेण नोत्थानमेव लभते, तथा हि-आत्मन्युपजायमानो विमर्शः अहमेवम्भूत’ इत्यनेन आकारेण संवेद्यते; ततश्चाहंशब्दभिन्नस्य आत्मलक्षणस्य अर्थस्य तत्र स्फुरणान्न तत्र विकल्पस्वरूप ‘ताऽतिक्रमः; विकल्पश्चाध्यवसायात्मा बुद्धिधर्मः, न चिद्धर्मः, कूटस्थ नित्यत्वेन चितेः सदैकरूपत्वाद् नित्यत्वान्नाहङ्कारानुप्रवेशः । तदनेन सविमर्शत्वंमात्मनः प्रतिपादयता बुद्धिरेवात्मत्वेन भ्रान्त्या प्रतिपादिता, न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति । इत्यं सर्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्च जडाद्वैलक्षण्यमेव, चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति, यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति । एवञ्च सति नित्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं, तद्विहाय दर्शनान्तराणां नान्या गतिः; तस्मादिदमेव युक्तमुक्तं, वृत्तिसारू प्यपरिहारेण स्वरूपे प्रतिष्ठाचितिशक्तेः कैवल्यम् । तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय, जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य, धर्मादोनां प्रतिबन्धकनिवृत्तमात्रे एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा, तेषाञ्च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य, योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिघाय, तत्कर्मणामलौकिकत्वञ्चोपपाद्य, विपाकानुगुणानां वासनानामभिव्यक्तिसामथ्यं कार्य्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्घ्यमुपपाद्य, तासामानन्त्येऽपि हेतु – फलादिद्वारेण हानमुपदर्य, बतोतादिष्वध्वसु वर्माणां सद्भावमुपपाद्य, विज्ञानवादं निराकृत्य, साकारवादञ्च प्रतिष्ठाप्य, पुरुषस्य ज्ञातृत्वमुक्त्वा, चित्तद्वारेण सकलव्यवहा रनिष्पत्तिमुपपाद्य, पुरुषसत्त्वं प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रः क्रमेणोपयोगिनोऽर्थानभि घाय, शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य केवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः ।
सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानतिप्रभ्रश्यन्मकुटेषु मूर्द्धसु दधत्याज्ञां धरित्रीभृतः ।
यद्वक्त्राम्बुजमाप्य गर्वमसमं वाग्देवता संश्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्तिव्यधात् ।
Share This
Share this post with your friends!