Vachaspati Mishra and Tattvavaisharadi

Chapter 1

योगासूत्रम् (समाधिपादः)

अथ योगानुशासनम् ॥१॥

नमामि जगद्-उत्पत्ति-हेतवे वृषकेतवे । क्लेश-कर्म-विपाकादि-रहिताय हिताय च ॥
नत्वा पतञ्जलिम् ऋषिं वेद-व्यासेन भाषिते । सङ्क्षिप्त-स्पष्ट-बह्वर्थां भाष्ये व्याख्या विधीयते ॥

इह हि भगवान् पतञ्जलिः पारिप्सितस्य शास्त्रस्य सङ्क्षेपतस् तात्पर्यार्थं प्रेक्षावत् तत्-प्रवृत्त्य्-अङ्गं श्रोतुश् च सुखावबोधार्थम् आचिख्यासुर् आदाव् इदं सूत्रं रचयाञ्चकार-अत्र योगानुशासनम् । तत्रप्रथमावयवम् अथ-शब्दं व्याचष्टअथेत्य् अयम् अधिकारार्थः । अथैष ज्योतिर् इतिवत्, न त्व् आनन्तर्यार्थः । अनुशासनम् इति हि शास्त्रम् आह-अनुशिष्यत्ऽनेनेति व्युत्पत्त्या । न चास्य शुभदम् आद्य्-अनन् तरं प्रवृत्तिः, अपि तु तत्त्व-ज्ञान-चिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस् तु स्यात् । यथाम्नायते-तस्मात् शान्तो दान्त उपरतः तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत् इति । शिष्य-प्रश्न-तपश्चरण-रसायनाद्य्-उपयोगानन्तर्यस्य च सम्भवेऽपि नाभिधानं शिष्य-प्रतीति-प्रवृत्त्योर् अनुपयोगात् प्रामाणिकत्वे योगानुशासनस्य तद्-अभावेऽप्य् उपेयत्वाद् अप्रामाणिकत्वे च तद्-भावेऽपि हेयत्वात् । एतेन तत्त्व-ज्ञान-चिख्यापयिषयोर् आनन्तर्याभिधानं परास्तम् । अधिकार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात् सफल-शास्त्र-तात्पर्यार्थ-व्याख्यानेन शिष्यः सुखेनैव बोधितश् च प्रवर्तितश् च भवतीति । निःश्रेयसस्य हेतुः समाधिर् इति हि श्रुति-स्मृतीतिहास-पुराणेषु प्रसिद्धम् ।

ननु किं सर्व-सन्दर्भ-गतोऽथ-शब्दोऽधिकारार्थः ? तथा सति अथातो ब्रह्म-जिज्ञासा इत्य् आदाव् अपि प्रसङ्ग इत्य् अत आह अयम् इति । ननु हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः किति योगि-याज्ञवल्क्य-स्मृतेः कथं पतञ्जलेर् योग-शास्त्र-कर्तृत्वम् इत्य् आशङ्क्य सूत्र-कारेणानुशासनम् इत्य् उक्तम् । शिष्टस्यानुशासनं न तु शासनम् इत्य् अर्थः । यदायम् अथ-शब्दोऽधिकारार्थस् तदैष वाक्यार्थः सम्पद्यत इत्य् आह-योगानुशासनं शास्त्रम् अधिकृतम् इति ।

ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रम् इत्य् अत आह-वेदितव्यम् इति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्-विषयेणशास्त्रेणकरणेन व्युत्पाद्यः । करण-गोचरश् च व्युत्पादकस्य व्यापारो न कर्म-गोचर इति कर्तृ-व्यापार-विवक्षया योग-विषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्र-व्यापार-गोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथ-शब्दस्यान्यार्थ-नीयमानोद-कुम्भ-दर्शनम् इव३श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् ॥

शब्द-सन्देह-निमित्तम् अर्थ-सन्देहम् अपनयति-योगः समाधिर् इति । युज् समाधौ इत्य् अस्माद् व्युत्पन्नः समाद्य्-अर्थो न तु युजिर् योगे इत्य् अस्मात् संयोगार्थ इत्य् अर्थः । ननु समाधिर् अपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गं, न चाङ्गम् एवाङ्गीत्य् अत आह-स च सार्वभौमः । चस् त्व्-अर्थोऽङ्गाद् अङ्गिनं भिनत्ति४ । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कार-शेषास् ताश् चित्तस्य । तासु सर्वासु विदितः सार्वभौमश् चित्त-वृत्ति-निरोध-लक्षणो योगः । तद्-अङ्गं तु समाधिर् नैवं-भूतः । व्युत्पत्ति-निमित्त-मात्राभिधानं चैतद् योगः समाधिर् इति अङ्गाङ्गिनोर् अभेद-विवक्षा-मात्रेण । प्रवृत्ति-निमित्तं तु योग-शब्दस्य चित्त-वृत्ति-निरोध एवेति परमार्थः ।

वृत्तयो ज्ञानान्यात्माश्रयाणि, अतस् तन्-निरोधोऽप्य् आत्माश्रय एवेति ये पश्यन्ति, तन्-निरासायाह-चित्तस्य धर्म इति । चित्त-शब्देनान्तः-करणं बुद्धिम् उपलक्षयति । न हि कूटस्थ-नित्या चिति-शक्तिर् अपरिणामिनी ज्ञान-धर्मा भवितुम् अर्हति । बुद्धिस् तु भवेद् इति भावः ।

स्याद् एतत्-सार्वभौमश् चेद् योगो हन्त भोः क्षिप्त-मूढ-विक्षिप्ता अपि चित्त-भूमयः। अस्ति च परस्परापेक्षया वृत्ति-निरोधोऽप्य् आस्व् इति तत्रापि योगत्व-प्रसङ्ग इत्य् आशङ्क्य हेयोपादेअ-भूमीर् उपन्यस्य तिक्षिप्तम् इत्य्-आदि। क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तम् अस्थिरम् । मूढं तु तमः-समुद्रेकान् निद्रा-वृत्तिमत् । क्षिप्ताद् विशिष्टं विक्षिप्तम् । विशेषोऽस्थेम-बहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थेम-बहुलता सांसिद्धिको वा वक्ष्यमाण-व्याधि-स्त्यानाद्य्-अन्तराय-जनिता वा (१.३०) । एकाग्रम् एक-तानम् । निरुद्ध-सकल-वृत्तिकं संस्कार-मात्र-शेषं चित्तं निरुद्धम् ।

तत्र क्षिप्त-मूढयोः सत्य् अपि परस्परापेक्षया वृत्ति-निरोधे पारम्पर्येणापि निःश्रेयस-हेतु-भावाभावात् तद्-रूप-घातकत्वम् इति न तयोर् योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्क-सद्-भूत-विषय-स्थेम-शालिनः सम्भाव्येत योगत्वम् इति निषेधति-तत्र इति । विक्षिप्ते चेतसि समाधिः कादाचित्कः स-भूत-विषयश् चित्तस्य स्थेमा न योग-पक्षे वर्तते । कस्मात् ? यतस् तद्-विपक्ष-विक्षेपोपसर्जनी-भूतः । विपक्ष-वर्गान्तर्गतस्य हि स्वरूपम् एव दुर्लभम् । प्राग् एव कार्य-करणम् । न खलु दहनान्तर्गतं बीजं त्रि-चतुर-क्षणावस्थितम् उप्तम् अप्य् अङ्कुराय कल्पत इति भावः ।

यदि विक्षेपोपसर्जनीभूतः समाधिर् न योगः कस् तर्हि ? इत्य् अत आह-यस् त्व् एकाग्रं चेतसीति । भूतम् इति समारोपितम् अर्थं निवर्तयति । निद्रा-वृत्तिर् अपि स्वालम्बने तमसि भूते भवत्य् एकाग्रेत्य् अत उक्तंसद् इति ।७शोभनं नितान्ताविर्भूतस् तत्त्वम् । तमः-समुद्रस् त्व् अशोभनस् तस्य क्लेश-हेतुत्वाद् इति ।

द्योतनं हि तत्त्व-ज्ञानागमाद् आनुमानाद् वा भवद् अपि परोक्ष-रूपतया न साक्षात्कारवतीम् अविद्याम् उच्छिनत्ति, द्वि-चन्द्र दङमोहादिष्व् अनुच्छदकत्वाद् अत आह-प्रेति । प्र-शब्दो हि प्रकर्षं द्योतयन् साक्षात्कारं सूचयति । अविद्या-मूलत्वाद् अस्मितादीनां क्लेशानां विद्यायाश् चाविद्याच्छद-रूपत्वाद् विद्योदये चाविद्यादि-क्लेश-समुच्छेदो विरोधित्वात् कारणावनाशाच् चेत्य् आहक्षिणोति चेति । स चेति । अत एवकर्म-रूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वम् अभिमतम्, कार्ये कारणोपचारात् । श्लथयति स्व-कार्याद् अवसादयति । वक्ष्यति हि-सति मूले तद्-विपाकः [२.१३] इति ।

किं च, निरोधम् अभिमुखं करोत्य् अभिमुखीकरोति । स च सम्प्रज्ञातश् चतुष्-प्रकार इत्य् आह—स चेति । असम्प्रज्ञातम् आह-सर्व-वृत्तीति । रजस्-तमो-मयी किल प्रमाणादि-वृत्तिः सात्त्विकीं वृत्तिम् उपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासाम् एव निरोध इत्य् अर्थः । तद् इह भूमि-द्वये समाप्ता या मधुमत्य्-आदयो भूमयस् ताः सर्वास् तासु विदितः सार्वभौम इति सिद्धम् ॥१॥

योगश्चित्तवृत्तिनिरोधः ॥२॥

द्वितीयं सूत्रम् अवतारयति-तस्य लक्षणेति । तस्येति पूर्व-सूत्रोपात्तं द्विविधं योगं परामृशतियोगश् चित्त-वृत्ति-निरोधः । निरुध्यन्ते यस्मिन् प्रमाणादि-वृत्तयोऽवस्था-विशेषे चित्तस्य सोऽवस्था-विशेषो योगः ।

ननु सम्प्रज्ञातस्य योगस्याव्यापकत्वाद् अलक्षणम् इदम् ? अनिरुद्धा हि तत्र सात्त्विकी चित्त-वृत्तिः ? इत्य् अत आह-सर्व-शब्दाग्रहणाद् इति । यदि सर्व-चित्त-वृत्ति-निरोध इत्य् उच्येत, भवेद् व्यापकं सम्प्रज्ञातस्य । क्लेश-कर्म-विपाकाशय-परिपन्था चित्त-वृत्ति-निरोधस् तु तम् अपि१० संगृह्णाति, तत्रापि राजस-तामस-चित्त-वृत्ति-निरोधात् तस्य च तद्-भावाद् इत्य् अर्थः ।

कुतः ? पुनर् एकस्य चित्तस्य क्षिप्तादि-भूमि-सम्बन्धः ।

किम्-अर्थं चैवम् अवस्थस्य चित्तस्य वृत्तयो निरोद्धव्याः ? इत्य् आशङ्क्य प्रथमं तावद् अवस्था-सम्बन्ध-हेतुम् उपन्यस्य ति-चित्तं हीति । प्रख्या-शीलत्वात् सत्त्व-गुणम् । प्रवृत्ति-शीलत्वाद् रजो-गुणम् । स्थिति-शीलत्वात् तमो-गुणम् । प्रख्या-ग्रहणम् उपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसाद-लाघव-प्रीत्य्-आदयः सूच्यन्ते । प्रवृत्त्या च परिताप-शोकादयो राजसाः, प्रवृत्ति-विरोधो तमो-वृत्ति-धर्मः स्थितिः । स्थिति-ग्रहणाद् गौरवावरण-दैन्यादय उपलक्षयन्ति ।

एतद् उक्तं भवति-एकम् अपि चित्तं त्रिगुण-निर्मिततया गुणानां च वैषम्येण परस्पर-विमर्द-वैचित्र्याद् विचित्र-परिणामं सद् अनेकावस्थम् उपपद्यत इति ।

क्षिप्ताद्या एव चित्तस्य भूमीर् यथा-सम्भवम् अवान्तरावस्था-भेदवतीर् आदर्शयति-प्रख्या-रूपं हीति । चित्त-रूपेण परिणतं सत्त्वं चित्त-सत्त्वम् । तद् एवं प्रख्या-रूपतया सत्त्व-प्राधान्यं चित्तस्य दर्शितम् । तत्र चित्तं सत्त्वात् किञ्चिद् ऊने रजस्-तमसी यदा मिथः समे च भवतस् तद् ऐश्वर्यं च विषयाश् च शब्दादयस् तान्य् एव प्रियाणि यस्य , तत् तथोक्तम् ।

सत्त्व-प्राधान्यात् खलु चित्तं तत्त्वे प्रणिधित्सद् अपि तत्त्वस्य तमसा पिहितत्वाद् अणिमादिकम् ऐश्वर्यम् एव तत्त्वम् अभिमन्यमानं तत् प्रणिधित्सति, प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्य् अलब्ध-स्थिति-विशेषात् तत्-प्रिय-मात्रं भवति । शब्दादिषु पुनर् अस्य स्वरस-वाही प्रेमा निरूढ एव । तद् अनेन विक्षिप्तं चित्तम् उक्तम् ।

क्षिप्तं चित्तं दर्शयन् मूढं सूचयति-तद् एव तमसेति । यदा हि तमो रजो विजित्य प्रसूतं, तदा चित्त-सत्त्वावरक-तमः-समुत्सारणेऽशक्तत्वाद् रजसस् तमः-स्थगितं चित्तम् अधर्माद्य् उपगच्छति । अज्ञानं च विपर्यय-ज्ञानम् अभाव-प्रत्ययालम्बनं च निद्रा-ज्ञानम् उक्तम् । ततश् च मूढावस्थापि सूचितेति । अनैश्वर्यं सर्वत्रेच्छा-प्रतीघातः । अधर्मादि-व्याप्तं चित्तं भवतीत्य् अर्थः ।

यदा तु तद् एव चित्त-सत्त्वम् आविर्भूत-सत्त्वम् अपगत-तमः-पटलं सरजस्कं भवति, तदा धर्म-ज्ञान-वैराग्यैश्वर्याण्य् उपगच्छतीत्य् आह-प्रक्षीणेत्य् आदि । मोहस् तमस् तद् एव चावरणं प्रकर्षेण क्षीणं यस्य तत् तथोक्तम् । अत एव सर्वतो विशेषाविशेष-लिङ-मात्रालिङ्ग-पुरुषेषु प्रद्योतमानम् । तथापि न धर्मायैश्वर्याय च कल्पते, प्रवृत्त्य्-अभावाद् इत्य् अत आह-अनुविद्धं रजो-मात्रया । रजसः प्रवर्तकत्वाद् अस्ति धर्मादि-प्रवृत्तिर् इत्य् अर्थः । तद् अनेन सम्प्रज्ञात-समाधि-सम्पन्नयोर् मधु-भूमिक-प्रज्ञा-ज्योतिषो-मध्यमयोर् योगिनीश् चित्त-सत्त्वं संगृहीतम् ।

सम्प्रत्यतिक्रान्त-भावनीयस्य ध्यायिनश् चतुर्थस्य चित्तावस्थाम् आह-तद् एव । चित्तं रजो-लेशान् मलाद् अपेतम् अत एव स्वरूप-प्रतिष्ठम् । अभ्यास-वैराग्य-पुट-पाक-प्रबन्ध-विधूत-रजस्-तमो-मलस्य हि बुद्धि-सत्त्व-तपनीयस्य स्वरूप-प्रतिष्ठस्य विषयेन्द्रिय-प्रत्याहृतस्यानवसिताधिकारतया च कार्य-कारिणा विवेक-ख्यातिः परं कार्यम् अवशिष्यत इत्य् आहसत्त्व-पुरुषान्यताख्याति-मात्रं चित्तं धर्म-मेघ-ध्यानोपगं भवति । धर्ममेघश् च वक्ष्यते ।

अत्रैव योगि-जन-प्रसिद्धिम् आह-तदिति । सत्त्व-पुरुषान्यताख्याति-मात्रं चित्तं धर्म-मेघ-पर्यन्तं परं प्रसङ्ख्यानम् इत्य् आचक्षते ध्यायिनः । चित्त-सामानाधिकरण्यं च धर्म-धर्मिणोर् अभेद-विवक्षया द्रष्टव्यम् ।

विवेख-ख्यातेर् हान-हेतुं चिति-शक्तेश् चोपादान-हेतुं निरोध-समाधिम् अवतारयितुं चिति-शक्तेः साधुताम् असाधुतां च विवेक-ख्यातेर् दर्शयति-चिति-शक्तिर् इत्य् आदि । सुख-दुःख-मोहात्मकत्वम् अशुद्धिः । सुख-मोहाव् अपि हि विवेकिन दुःखाकुरुतः । अतो दुःखवद् धेयौ । तथातिसुन्दरम् अप्य् अन्तवद् दुनोति । तेन तद् अपि हेयम् एव विवेकिनः । सेयम् अशुद्धिर् अन्तश् च चिति-शक्तौ पुरुषे न स्त इत्य् उक्तम्शुद्धा चानन्ता चैति ।

ननु सुख-दुःख-मोहात्मक-शब्दादीन् इयं चेतयमाना तद्-आकारापन्ना कथं विशुद्धा, तदाकार-परिग्रह-परिवर्जने च कुर्वती कथम् अनन्तेत्य् अत उक्तम्-दर्शित-विषयाइति । दर्शितो विषयः शब्दादिर् यस्य इ सा तथोक्ता । भवेद् एतद् एव यदि बुद्धिवच् चिति-शक्तिर् विषयाकारताम् आपद्येत, किं तु बुद्धिर् एव विषयाकारेण परिणता सती अतद्-आकारायै चिति-शक्त्यै विषयम् आदर्शयति । ततः पुरुषश् चेतयत इत्य् उच्यते ।

ननु विषयाकारां बुद्धि-धमनारूढायाश् चिति-शक्तेः कथं विषय-वेदनम् ? विषयारोहे वा कथं न तद्-आकारापत्तिः ? इत्य् अत उक्तम्-अप्रतिसंक्रमाइति । प्रतिसंक्रमः सञ्चारः । स चितेर् नास्तीत्य् अर्थः ।

स एव कुतोऽस्या नास्ति ? इत्य् अत उक्तम्-अपरिणामिनीइति । न चितेस् त्रिविधोऽपि धर्म-लक्षणावस्था-लक्षणः परिणामोऽस्ति, येन क्रिया-रूपेण परिणता सती बुद्धि-धर्म-योगेन परिणमेत चिति-शक्तिः । असङ्क्रान्ताया अपि विषय-संवेदनम् उपपादयिष्यते१२ ।

तत् सिद्धं चिति-शक्तिः शोभनेति । विवेक-ख्यातिस् तु बुद्धि-सत्त्वात्मिक्ऽशोभनेत्य् उक्तम्-अतश् चिति-शक्तेर् विपरीतेति । यदा च विवेक-ख्यातिर् अपि हेया, तदा कैव कथा वृत्त्य्-अन्तराणां दोष-बहुलानाम् इति भावः ।

ततस् तद्-धेतोर् निरोध-समाधेर् अवतारो युज्यत इत्य् आह-अतस् तस्याम् इति । ज्ञान-प्रसाद-मात्रेण हि परेण वैराग्येन विवेक-ख्यातिम् अपि निरुणद्धीत्य् अर्थः ।

अथ निरुद्धाशेष-वृत्तिं चित्तं कीदृशम् ? इत्य् अत आह-तद्-अवस्थम् इत्य् आदि । स निरोधोऽवस्था यस्य तत् तथोक्तम् । निरोधस्य स्वरूपम् आहस निर्बीज इति । क्लेश-सहितः कर्माशयो जात्य्-आयुर्-भोग-बीजम् । तस्मान् निर्गत इति निर्बीजः । अस्यैव योगि-जन-प्रसिद्धाम् अन्वर्थ-संज्ञाम् आदर्शयतिन तत्रेति । उपसंहरतिद्विविधः स योगश् चित्त-वृत्ति-निरोध इति ॥२॥

दा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

सम्प्रत्य् उत्तर-सूत्रम् अवतारयितुं चोदयति-तद्अवस्थे चेतसीति । किम् आक्षेपे । तत्-तद्-आकार-परिणत-बोधात्मा खल्व् अयं पुरुषः सदानुभूयते, न तु बुद्धि-बोध-रहितः । अतोऽस्य पुरुषस्य बुद्धि-बोधः स्वभावः सवितुर् इव प्रकाशः । न च संस्कार-शेषे चेतसि सोऽस्ति । न च स्वभावम् अपहाय भावो वर्तितुम् अर्हतीति भावः । स्याद् एतत् ? संस्कार-शेषाम् अपि बुद्धिः कस्मात् पुरुषो न बुध्यते ? इत्य् अत आह-विषयाभावाद् इति । न बुद्धि-मात्रं पुरुषस्य विषयः, अपि तु पुरुषार्थवती बुद्धिः । विवेक-ख्याति-विषय-भोगौ च पुरुषार्थौ । तौ च निरुद्धावस्थायां न स्त इति सिद्धे विषयाभाव इत्य् अर्थः ।

सूत्रेण परिहरति-तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्य् आरोपितं शान्त-घोर-मूढ-स्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपम् अनौपाधिकं, न तु बुद्धि-बोधः शान्तादि-रूपः । औपाधिको हि सः, स्फटिकस्येव स्वभाव-स्वच्छ-धवलस्य जपा-कुसुम-संनिधानोपाधिर् अरुणिमा । न चोपाधि-निवृत्ताव् उपहित-निवृत्तिः, अतिप्रसङ्गाद् इति भावः । स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरण-भाव उक्त इति ।

अयम् एवार्थो भाष्य-कृता द्योत्यते-स्वरूप-प्रतिष्ठितेति । तदानीं-निरोधावस्थायां न व्युत्थानावस्थायाम् इति भावः । स्याद् एतत् ? व्युत्थानावस्थायाम् अप्रतिष्ठिता स्वरूपे चिति-शक्तिर् निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनीं वा स्यात् । व्युत्थाने२० वा स्वरूप-प्रतिष्ठाने व्युत्थान-निरोधयोर् अविशेष इत्य् अत आह-व्युत्थान-चित्ते त्व् इति । न जातु कूटस्थ-नित्या चिति-शक्तिः स्वरूपाच् च्यवते । तेन यथा निरोधे तथैव व्युत्थानेऽपि । न खलु शक्तिकायाः प्रमाण-विपर्यय-ज्ञान-गोचरत्वेऽपि स्वरूपोदय-व्ययौ भवतः । प्रतिपत्ता तु तथा-भूतम् अप्य् अतथात्वेनाभिमन्यते । निरोध-समाधिम् अपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानम् एवेति ॥३॥

वृत्तिसारूप्यमितरत्र ॥४॥

सूत्रान्तरम् अवतारयितुं पृच्छति-कथं तर्हीति । यदि तथा भवन्तो न तथा, केन तर्हि प्रकारेण प्रकाशत इत्य् अर्थः । हेतु-पदम् अध्याहृत्य सूत्रं पठति-दर्शित-विषयत्वाद् वृत्ति-सारूप्यम् इतरत्र ॥ इतरत्र व्युत्थाने याश् चित्त-वृत्तयः शान्त-घोर-मूढास् ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य, स तथोक्तः । सारूप्यम् इत्य् अत्र स-शब्द एक-पर्यायः ।

एतद् उक्तं भवति-जपा-कुसुम-स्फटिकयोर् इव बुद्धि-पुरुषयोः संनिधानाद् अभेद-ग्रहे बुद्धि-वृत्तीः समारोप्य शान्तोऽस्मि, दुःखितोऽस्मि, मूढोऽस्मीत्य् अध्यवस्य ति । यथा मलिने दर्पण-तले प्रतिबिम्बितं मुखं मलिनम् आरोप्य शोचत्य् आत्मानं मलिनोऽस्मीति । यद्यपि पुरुष-समारोपोऽपि शब्दादि-विज्ञानवद् बुद्धि-वृत्तिः, यद्यपि च प्राकृतत्वेनाचिद्-रूपतयानुभाव्यः, तथापि बुद्धेः पुरुषत्वम् आपादयन् पुरुष-वृत्तिर् इवानुभव इवावभासते । तथा चायम् अविपर्ययोऽप्य् आत्मा विपर्ययवान् इव, अभोक्तापि भोक्तेव, विवेक-ख्याति-रहितोऽपि तत्-सहित इव विवेक-ख्यात्या प्रकाशते । एतच् च चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौस्व-बुद्धि-संवेदनम् [४.२२] इत्य् अत्र सत्त्व-पुरुषयोर् अत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः [३.३५] इत्य् अत्र चोपपादयिष्यते ।

एतच् च मतान्तरेऽपि सिद्धम् इत्य् आह-तया चैति । पञ्चशिखाचार्यस्य सूत्रंएकम् एव दर्शनं,ख्यातिर् एव दर्शनमिति ।

ननु कथम् एकं दर्शनं यावता बुद्धेः शब्दादि-विषया विवेक-विषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य चैतन्यम् अनुभवो दर्शनम् इत्य् अत आह-ख्यातिर् एव दर्शनमिति । उदय-व्यय-धर्मिणीं वृत्तिं ख्यातिं लौकिकीम् अभिप्रेत्यैतद् उक्तंएकम् एव इति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत् तु न लोक-प्रत्यक्ष-गोचरः, अपि त्व् आगमानुमान-गोचर इत्य् अर्थः । तद् अनेन व्युत्थानावस्थायां मूल-कारणम् अविद्यां दर्शयता तद्-धेतुकः संयोगो भोग-हेतुः स्व-स्वामि-भावोऽपि सूचित इति । तद् उपपादयन्न् आह-चित्तं॰ स्वं भवति पुरुषस्य स्वामिन इति सम्बन्धः ।

ननु चित्त-जनितम् उपकारं भजमानो हि चेतनश् चित्तस्येशिता । न चास्य तज्-जनितोपकार-सम्बन्ध-सम्भवः, तद्-अनुपकार्यत्वात्, तत्-संयोग-तद्-उपकार-भागित्वे परिणाम-प्रसङ्गाद् इत्य् अत आह-अयस्कान्त-मणि-कल्पं संनिधि-मात्रोपकारि दृश्यत्वेन इति । न पुरुष-संयुक्तं चित्तं, अपि तु तत्-संनिहितम् । संनिधिश् च पुरुषस्य न देशतः कालतो वा, तद्-असंयोगात्, किन्तु योग्यता-लक्षणः । अस्ति च पुरुषस्य भोक्तृ-शक्तिः, चित्तस्य भोग्य-शक्तिः । तद् उक्तं-दृश्यत्वेनैति । शब्दाद्य्-आकार-परिणतस्य भोग्यत्वेनेत्य् अर्थः । भोगश् च यद्यपि शब्दाद्य्-आकारा वृत्तिश् चित्तस्य धर्मस् तथापि चित्त-चैतन्ययोर् अभेद-समारोपाद् वृत्ति-सारूप्यात् पुरुषस्यापरिणामिता चेति सिद्धम् ।

ननु स्व-स्वामि-सम्बन्धो भोग-हेतुर् अविद्या-निमित्तः, अविद्या तु किं-निमित्ता ? न खल्व् अनिमित्तं कार्यम् उत्पद्यते । यथाहुः-स्वप्नादिवद् अविद्यायाः प्रवृत्तिस् तस्य किं कृताइति शङ्काम् उपसंहार-व्याजेनोद्धरतितस्माच् चित्त-वृत्ति-बोधे । शान्त-घोर-मूढाकार-चित्त-वृत्त्य्-उपभोगे अनाद्य्-अविद्या-निमित्तत्वाद् अनादिः संयोगो हेतुः, अविद्या-वासनयोश् च सन्तानो बीजाङ्कुर-सन्तानवद् अनादिर् इति भावः ॥४॥

वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥५॥

स्याद् एतत् ? पुरुषो हि शक्य उपदिश्यते । न च वृत्ति-निरोधो वृत्तीन् विज्ञाय शक्यः । न च सहस्रेणापि पुरुषायुषैर् अलम् इमाः कश्चित् परिगणयितुम् । असङ्ख्याताश् च कथं निरोद्धव्या इत्य् आशङ्क्य तासां इयत्ता-स्वरूप-प्रतिपादन-परं सूत्रम् अवतारयति-ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥

वृत्ति-रूपोऽवयव्य् एकः । तस्य प्रमाणादयोऽवयवाः पञ्च । आर्रय् अवयवा पञ्चतयी पञ्चावयवा वृत्तिर् भवति । ताश् च वृत्तयश् चैत्र-मैत्रादि-चित्त-आर्रय् बह्व्य इति बहु-वचनम् उपपन्नम् । एतद् उक्तं भवति-चैत्रो वा मैत्रो वान्यो आर्रय् कश्चित् सर्वेषाम् एव तेषां वृत्तयः पञ्चतय्य एव नाधिका इति । चित्तस्येति चैक-वचनं जात्य्-अभिप्रायम् । चित्तानाम् इति तु द्रष्टव्यम् ।

तासाम् अवान्तर-विशेषम् अनुष्ठानोपयोगिनं दर्शयति—क्लिष्टाक्लिष्टा इति । अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्याः । ता अपि परेणवैराग्येणेति । अस्य व्याख्यानम्-क्लेश-हेतुका इति । यद् वा,पुरुषार्थ-प्रधानस्य रजस्-तमो-मयीनां हि वृत्तीनां क्लेश-कारणत्वेन क्लेशायैव प्रवृत्तिः । क्लेशः क्लिष्टं तद् आसाम् अस्तीति क्लिष्टा इति । यत एव क्लेशोपार्जनार्थम् अमूषां प्रवृत्तिर् अत एवकर्माशय-प्रचय-क्षेत्री-भूताः । प्रमाणादिना खल्व् अयं प्रतिपत्ता अर्थम् अवसाय तत्र सक्तो द्विष्टो वा कर्माशयम् आचिनोतीति भवन्ति धर्माधर्म-प्रचय-प्रसव-भूमयो वृत्तयः क्लिष्टा इति ।

अक्लिष्टा व्याचष्टे-ख्याति-विषयाइति। विधूत-रजस्-तमसो बुद्धि-सत्त्वस्य प्रशान्त-वाहिनः प्रज्ञा-प्रसादः ख्यातिः, तयाविषयिण्या तद्-विषयं सत्त्व-पुरुष-विवेकम् उपलक्षयति । तेन सत्त्व-पुरुष-विवेक-विषया यतोऽत एव गुणाधिकार-विरोधिन्यः । कार्यारम्भणं हि गुणानाम् अधिकारो विवेक-ख्याति-पर्यवसानं च तद् इति चरिताधिकाराणांगुणानाम् अधिकारं विरुधन्तीति । अतस् ता अक्लिष्टाः प्रमाण-प्रभृतयो वृत्तयः । स्याद् एतत्-वीत-राग-जन्मादर्शनात् क्लिष्ट-वृत्तय एव सर्वे प्राण-भृतः । न च क्लिष्ट-वृत्ति-प्रवाहे भवितुम् अर्हन्त्य् अक्लिष्टा वृत्तयः । न चामूषां भावेऽपिकार्य-कारिता, विरोधिम् अध्यपातित्वात् ।

तस्मात् क्लिष्टानाम् अक्लिष्टाभिर् निरोधः, तासां च वैराग्येण परेणेति मनोरथ-मात्रम् इत्य् अत आह-क्लिष्ट-प्रवाहेति । आगमानुमानाचार्योपदेश-परिशीलन-लब्ध-जन्मनी अभ्यास-वैराग्ये क्लिष्ट-च्छिद्रम् अन्तरा तत्र पतिताः स्वयम् अक्लिष्टा एव यद्यपि क्लिष्ट-प्रवाहपतिताः । न खलु शालग्रामे किरात-शत-सङ्कीर्णे प्रतिवसन्न् अपि ब्राह्मणः किरातो भवति । अक्लिष्ट-च्छिद्रेष्विति निदर्शनम् । क्लिष्टान्तर-वर्तितया च क्लिष्टाभिर् अनभिभूता अक्लिष्टाः ।

संस्कार-परिपाक-क्रमेण क्लिष्टा एव तावद् अभिभवन्त्य् आह-तथाजातीयकाइति । अक्लिष्टाभिर् वृत्तिभिर् अक्लिष्टाः संस्कारा इत्य् अर्थः । तद् इदं वृत्ति-संस्कार-चक्रम् अनिशम् आवर्तते, आनिरोध-समाधेः । तद् एवं-भूतं चित्तम् निरोधावस्थं संस्कार-शेषं भूत्वात्म-कल्पेनावतिष्ठत इत्य् आपाततः,प्रलयं वा गच्छतीतिपरमार्थतः । पिण्डीकृत्य सूत्रार्थम् आह-ता इति । पञ्चधेत्य् अर्थ-कथन-मात्रम्, न तु शब्द-वृत्ति-व्याख्यानं, तयपः प्रकारेऽस्मरणात् ॥५॥

 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥

ताः स्व-संज्ञाभिर् उद्दिशति-प्रमाणेत्य्-आदि । निर्देशो यथा-वचनं विग्रहः । चार्थे द्वन्द्वः समास इतरेतर-योगे । यथा अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या इत्य् उक्तेऽपि न दिङ्-मोहालाल-चक्रादि-विभ्रमा व्युदस्य न्त एवम् इहापि प्रमाणाद्य्-अभिधाएऽपि वृत्यन्तर-सद्-भाव-शङ्का न व्युदस्येतेति तन्-निरासाय वक्तव्य पञ्चतय्य इति । एतावत्य एव वृत्तयो नापराः सन्तीति दर्शितं भवति ॥६॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥

तत्र प्रमाण-वृत्तिं विभजन् सामान्य-लक्षणम् आह-तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥ अनधिगत-तत्त्व-बोधः पौरुषेयो व्य्वहार-हेतुः प्रमा । तत्-करणं प्रमाणम् । विभाग-वचनं च न्यूनाधिक-सङ्ख्या-व्यवच्छेदार्थम् ।

तत्र सकल-प्रमाण-मूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति-इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्-विषया इति बाह्य-गोचरतया ज्ञानाकार-गोचरत्वं निवारयति । चित्त-वर्तिनो ज्ञानाकारस्य बाह्य-ज्ञेय-सम्बन्धं दर्शयतिबाह्य-वस्तूपरागातिति । व्यवहितस्य तद्-उपरागे हेतुम् आहइन्द्रिय-प्रणालिकयाइति ।

सामान्य-मात्रम् अर्थम् इत्य् एके । विशेष एवेत्य् अन्ये । सामान्य-विशेष-तद्वत्तेत्य् अपरे वादिनः प्रतिपन्नाः तान् निरासायाह-सामान्य-विशेषात्मनैतिन तद्वत्ता, किं तु तादात्म्यम् अर्थस्य । एतच् च एकान्तानभ्युपगमात्, इत्य् अत्र प्रतिपादयिष्यते ।

अनुमानागम-विषयात् प्रत्यक्ष-विषयं व्यवच्छिनत्ति-विशेषावधारण-प्रधानाइति । यद्यपि सामान्यम् अपि प्रत्यक्षे प्रतिभासते, तथापिविशेषं प्रत्य्पसर्जनीभूतम् इत्य् अर्थः । एतच् च साक्षात्कारोपलक्षण-परम् । तथा च विवेक-ख्यातिर् अपि लक्षिता भवति । फल-विप्रतिपत्तिं निराकरोति-फलम् पौरुषेयश् चित्त-वृत्ति-बोधः इति।

ननु पुरुषवर्ती बोधः कथं चित्त-गताया वृत्तेः फलम्, न हि खदिर-गोचर-व्यापारेण परशुना पलाशे छिदा क्रियते इत्य् अत आह-अविशिष्टैति । न हि पुरुष-गतो बोधो जन्यते, अपि तु चैतन्यम् एव बुद्धि-वृत्त्यार्थाकारया तद्-आकारताम् आपद्यमानं फलम् । तच् च तथा-भूतं बुद्धेर् अविशिष्टं बुद्ध्य्-आत्मकम्, वृत्तिश् च बुद्ध्य्-आत्मिकेति सामानाधिकरण्याद्य्-उक्तः प्रमान-फल-भाव इत्य् अर्थः । एतच् चोपपादयिष्याम इत्य् आह-प्रतिसंवेदीइति ।

प्रत्यक्षानन्तरं प्रवृत्त्य्-आदि-लिङ्गक-श्रोतृ-बुद्ध्य्-अनुमान-प्रभव-संबन्ध-दर्शन-समुत्थतयागमस्यानुमानजत्वाद्

अनुमितस्य चागमेनान्वाख्यानाद् आगमात् प्राग् अनुमानं लक्षयति-अनुमेयस्य इति । जिज्ञासित-धर्म-विशिष्टो धर्म्य्-अनुमेयः, तस्य तुल्य-जातीयाः साध्य-धर्म-सामान्येन समानार्थाः स-पक्षाः, तेष्व् अनुवृत्त इत्य् अनेन विरुद्धत्वम् असाधारणत्वं च साधन-धर्मस्य निराकरोति । भिन्न-जातीया असपक्षाः, ते च सपक्षाद् अन्ये, तद्-विरुद्धास् तद्-अभावश् च तेभ्यो व्यावृत्तः । तद् अनेन साधारणानैकान्तिकत्वम् अपाकरोति । सम्बन्ध्यत इतिसम्बन्धो लिङ्गम् । अनेन पक्ष-धर्मता दर्शयन्न् असिद्धतां निवारयति । तद्-विषया तन्-निबन्धना । षिञ् बन्धने इत्य् अस्माद् विषय-पद-व्युत्पत्तेः । सामान्यावधारण- इति प्रत्यक्ष-विषयाद् व्यवछिनत्ति । सम्बन्ध-संवेदनाधानजम् अनुमानं विशेषेषु सम्बन्ध-ग्रहणाभावेन सामान्यम् एव सुकर-सम्बन्ध-ग्रहं गोचरयतीति ।

उदाहरणम् आह-यथाइति । चो हेत्व्-अर्थः । विन्ध्योऽगतिर् यतस् तस्मात् तस्याप्राप्तिर् अतो गति-निवृत्तौ प्राप्तेर् निवृत्तेर् देशान्तर-प्राप्तेर्गतिमच् चन्द्र-तारकं चैत्रवदिति सिद्धम् ।

आगमस्य वृत्तेर् लक्षणम् आह-आप्तेन इति । तत्त्व-दर्शन-कारुण्य-करणपाटवाआर्रय्-सम्बन्ध आप्तिः । तया सह वर्तनम् इत्य् आप्तः । तेनदृष्टोऽनुमितो वार्थः ।श्रुतस्य पृथग् अनुपादानं तस्य दृष्टानुमित-मूलत्वेन ताभ्याम् एव चरितार्थत्वात् । आप्त-चित्त-वर्ति-ज्ञान-सदृशस्य ज्ञानस्य श्रोतृ-चित्ते समुत्पादः स्व-बोध-संक्रान्तिस् तस्य इ । अर्थ उपदिश्यते श्रोतृ-हिताहित-प्राप्ति-परिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् ।

यस्यागमस्य अश्रद्धेयार्थो वक्ता, यथा यान्य् एव दश दाडिमानि तानि षड् अनूपा भविष्यन्तीति,न दृष्टानुमितार्थः,यथा चैत्यं वन्देत स्वर्ग-कामः इतिस आगमः प्लवते ।

नन्व् एवं मन्वादीनाम् अप्य् आगमः प्लवते । न हि तेऽपिदृष्टानुमितार्थाः, यथाहुः-

यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्व-ज्ञान-मयो हि सः ॥

इत्यत  आह-मूल-वक्तरि त्विति । मूल-वक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः ॥७॥

 

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥

विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥ विपर्यय इति लक्ष्य-निर्देशः । मिथ्या-ज्ञानम् इत्य् आदिलक्षणम् । यज् ज्ञान-प्रतिभास-रूपम् तद्-रूपाप्रतिष्ठम् एवातद्-रूप-प्रतिष्ठम् । यथाश्राद्ध-भोजीति । अतः संशयोऽपि संगृहीतः । एतावांस् तु विशेषः-तत्र ज्ञानारूढैवाप्रतिष्ठितता, द्वि-चन्द्रादेस् तु बाध-ज्ञानेनैव ।

नन्व् एवं विकल्पोऽपि तद्-रूपाप्रतिष्ठानाद् विचारतो विपर्ययः प्रसज्येतेत्य् अत आह-मिथ्या-ज्ञानम् इति । अनेन हि सर्वजनीनानुभव-सिद्धा बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात् । पण्डित-रूपाणाम् एव तु विचारयतां तत्र बाध-बुद्धेर् इति ।

चोदयति-स कस्मान् न प्रमाणम् ? नोत्तरेणोपजात-विरोधिना ज्ञानेन पूर्वं बाधनीयम्, अपि तु पूर्वेणैव प्रथमम् उपजातेनानुपजात-विरोधिना परम् इति भावः । परिहरति-यतः प्रमाणेन इति । यत्र हि पूर्वापेक्षा परोत्पत्तिस् तत्रैवम् । इह तु स्व-स्व-कारणाद् अन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वम् अनुपमृद्योदयमनासादयतस् तद्-अपबाधात्मैवोदयः, न तु पूर्व् स्योत्तर-बाधात्मा, तस्य तदानीम् अप्रसक्तेः । तस्माद् अनुपजात-विरोधिता बाध्यत्वे हेतुः । उपजात-विरोधिता च बाधकत्वे, तस्माद् भूतार्थ-विषयत्वात्प्रमाणेनाप्रमाणस्य बाधनम्सिद्धम् । उदाहरणम् आह-तत्र प्रमाणेनैति ।

अस्य कुत्सितत्वं हानाय दर्शयति-सेयं पञ्च- इति । अविद्या-सामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्व् इत्य् अर्थः । अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अष्टस्व् अनात्म-स्वात्म-बुद्धिर् अविद्या तमः । एवं योगिनाम् अष्टस्व् अणिमादिकेष्व् ऐश्वर्येष्व् अश्रेयःसु श्रेयो-बुद्धिर् अष्ट-विधो मोहः पूर्वस्माज् जघन्यः स चास्मितोच्यते । तथा योगेनाष्ट-विधम् ऐश्वर्यम् उपादाय सिद्धो भूत्वा दृष्टानुश्रविकान् शब्दादीन् दश विषयान् भोक्ष्य इत्य् एवम् -आत्मिका प्रतिपत्तिर् महा-मोहो रागः । एवम् एतेनिवाभिसन्दिना प्रवर्तमानस्य केनचित् प्रतिबद्धत्वाद् अणिमादीनाम् उत्पत्तौ तन्-निबन्धनस्य दृष्टानुश्रविक-विषयोपभोगस्यासिद्धेः प्रतिबन्धक-विषयः क्रोधः स तामिस्राचार्यो द्वेषः । एवम् अणिमादि-गुण-सम्पत्तौ दृष्टानुश्रविक-विषय-प्रत्युपस्थाने च कल्पान्ते सर्वम् एतन् नङ्क्ष्यतीति यस् त्रासः सोऽभिनिवेशोऽन्ध-तामिस्रः ।

तद् उक्तं-

भेदस् तमोऽष्ट-विधो मोहस्य च दशविधो महा-मोहः ।

तामिस्रोऽष्टादश-विधो तथाभवत्य् अन्ध-तामिस्रः ॥ इति॥८॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥

शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥ ननु शब्द-ज्ञानानुत्पाती चेद् आगम-प्रमाणान्तर्गतो विकल्पः प्रसज्यते । निर्वस्तुकत्वे वा विपर्ययः स्याद् इत्य् अत आह-स नैति ।

न प्रमाण-विपर्ययान्तर्गतः । कस्मात् ? यतो वस्तु-शून्यत्वेऽपिइतिप्रमाणान्तर्गतिं निषेधति । शब्द-ज्ञान-माहात्म्य-निबन्धन इति विपर्ययान्तर्गतिम् ।

एतद् उक्तं भवति-क्वचिद् अभेदे भदेम् आरोपयति, क्वचित् पुनर् भिन्नानाम् अभेदम् । ततो भेदस्याबेधस्य च वस्तुतोऽभावात् तद्-आभासो विकल्पो न प्रमाणम् । नापि विपर्ययः, ववहाराविसंवादाद् इति ।

शास्त्र-प्रसिद्धम् उदाहरणम्-तद् यथाइति । किं विशेष्यम् ?केन व्यपदिश्यते ? नाभेदे विशेष्य-विशेषण-भावः, न हि गवा गौर् विशेष्यते, किं तु भिन्नेन । तद् इदम् आह—भवति च व्यपदेशे वृत्तिः । व्यपदेश-व्यपदेश्ययोर् भावो व्यपदेशः, विशेषण-विशेष्य-भाव इति यावत् । तस्मिन्वृत्तिर् वाक्यस्य , यथा चैत्रस्य गौरिति ।

शास्त्रीयम् एवोदाहरणान्तरं समुच्चिनोति-तथा इति । प्रतिषिद्धो वस्तुनःपृथिव्य्-आदेर् धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ ? निष्क्रियः पुरुषः । न खलु सर्व-भूतीये राद्धान्तेऽभावो नाम कश्चिद् अस्ति वस्तु-धर्मो येन पुरुषो विशेष्येत्य् अर्थः । क्वचित् पाठः प्रतिषिद्धा वस्तु-धर्मा इति ।

तस्यार्थः-प्रतिषेध-व्याप्ताः प्रतिषिद्धाः । न वस्तु-धर्माणां तद्-व्याप्यता, भावाभावयोर् असम्बन्धात्, अथ च तथा प्रतीतिर् इति । लौकिकम् उदाहरणम् आह-तिष्ठति बाणः इति। यथा हि पचति, भिनत्तीत्य् अत्र पूर्वापरी-भूतः कर्म-क्षण-प्रचय एक-फलावच्छिन्नः प्रतीयत एवं तिष्टतीत्य् अत्रापि । पूर्वापरीभावम् एवाह-स्थास्यति इति ।

ननु भवतु पाकवत् पूर्वापरी-भूतयावस्थान-क्रियया बाणाद् भिन्नया बाणस्य व्यपदेश इत्य् अत आह-गति-निवृत्तौधात्व्-अर्थ-मात्रं गम्यते । गति-निवृत्तिर् एव तावत्-कल्पिता, तस्या अपि भाव-रूपत्वं, तत्रापि पूर्वापरी-भाव इत्य् अहो कल्पना-परम्परेत्य् अर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्व-पुरुषेषु गम्यते, न पुनः पुरुष-व्यतिरिक्तो धर्मः कश्चिद् इत्य् उदाहरणान्तरम् आह-तथानुत्पत्ति-धर्माइति ।

प्रमाण-विपर्याभ्याम् अन्या न विकल्प-वृत्तिर् इति वादिनो बहवः प्रतिपेदिरे । तत्-प्रतिबोधनाय उदाहरण-प्रपञ्च इति मन्तव्यम् ॥९॥

अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१०॥

अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥ अधिकृतं हि वृत्ति-पदम् अनुवादकम् । प्रमाण-विपर्यय-विकल्प-स्मृतीनां वृत्तित्वं प्रति परीक्षकाणाविप्रतिपत्तेः । अतस् तद् अनूद्यते विशेष-विधानाय । निद्रायास् तु वृत्तित्वे परीक्षकाणाम् अस्ति विप्रतिपत्तिर् इति वृत्तित्वं विधेयम् । न च प्रकृतम् अनुवादकं विधानाय कल्पत इति पुनर् वृत्ति-ग्रहणम् । जाग्रत्-स्वप्न-वृत्तीनाम् अभावः, तस्य प्रत्ययः कारणं बुद्धि-सत्त्वाच्छादकं तमः, तद् एवालम्बनं विषयो यस्यास् तथोक्ता वृत्तिर् निद्रा । बुद्धि-सत्त्वे हि त्रि-गुणे यदा सत्त्व-रजसी अभिभूय समस्त-करणावरकम् आविरस्ति तमस् तदा बुद्धेर् विषयाकार-पारिणामाभावाद् उद्भूततमो-मयीं बुद्धिम् अवबुध्यमानः पुरुषः सुषुप्तोऽन्तःसंज्ञम् इत्य् उच्यते ।

कस्मात् पुनर् निरुद्ध-कैवल्ययोर् इव वृत्त्य्-अभाव एव न निर्देत्य् अत आह-सा च सम्प्रबोधे प्रत्यवमर्शात् सोपपत्तिकात् स्मरणात् प्रत्यय-विशेषः । कथम् ? यदा हि सत्त्व-सचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति-सुखम् अहम् अस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति स्वच्छीकरोतीति । यदा तु रजः-सचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्य् आह-दुःखम् अहम् अस्वाप्सम्स्त्यानम् अकर्मण्यं मे मनः । कस्मात् ? यतो भ्रमत्य् अनवस्थितम् । नितान्ताभिभूत-रजः-सत्त्वे तमः-समुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शम् आह—गाढं मूढोऽहम् अस्वाप्सम्, गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् अलसं मुषितम् इव तिष्ठतीति ।

साध्य-व्यतिरेके हेतु-व्यतिरेकम् आह-स खल्व् अयम् इति । प्रबुद्धस्य प्रबुद्ध-मात्रस्य बोध-काले । प्रत्ययानुभवे वृत्त्य्-अभाव-कारणानुभवे तद्-आश्रिताः बोध-जन्याः । तद्-विषया वृत्त्य-अभाव-कारण-विषया इत्य् अर्थः ।

ननु प्रमाणादयो व्युत्थान-चित्ताधिकरणा निरुध्यन्तं समाधि-प्रतिपक्षत्वात् । निद्रायास् त्व् एकाग्र-वृत्ति-तुल्यायाः कथं समाधि-प्रतिपक्षतेत्य् अत आह-सा च समाधाव् इति । एकाग्र-तुल्यापि तामसत्वेन निद्रा स-बीज-निर्बीज-समाधि-प्रतिपक्षेति सापि निरोद्धव्येत्य् अर्थः ॥१०॥

अनुभूत विषयासम्प्रमोषः स्मृतिः ॥११॥

अनुभूत-विषयासम्प्रमोषः स्मृतिः ॥ प्रमाणादिभिर् अनुभूते विषये योऽसम्प्रमोषोऽस्तेयं, सा स्मृतिः । संस्कार-मात्रजस्य हि ज्ञानस्य संस्कार-कारणानुभवावभासितो विषय आत्मीयः, तद्-अधिक-विषय-परिग्रहस् तु सम्प्रमोषः स्तेयम् । कस्मात् ? सादृश्यात्, मुष स्तेये इत्य् अस्मात् प्रमोष-पद-व्युत्पत्तेः । एतद् उक्तं भवति-सर्वे प्रमाणादयोऽनधिगतम् अर्थं सामान्यतः प्रकारतो वाधिगमयन्ति । स्मृतिः पुनर् न पूर्वानुभव-मर्यादाम् अतिक्रामति । तद्-विषया तद्-ऊन-विषया वा, न तु तद्-अधिक-विषया । सोऽयं वृत्त्य्-अन्तराद् विशेषः स्मृतेर् इति ।

विमृशति-किं प्रत्ययस्य इति । ग्राह्य-प्रवणत्वाद् अनुभवस्य स्वानुभवाभावात् तज्जः संस्कारो ग्रह्यम् एव स्मारयतीति प्रतिभाति । अनुभव-मात्र-जनितत्वाच् चानुभवम् एव वेति । विमृश्य्पपत्तित उभय-स्मरणम् अवधारयति ग्राह्य-प्रवणतया-ग्राह्योपरक्तः । परमार्थतस् तु ग्राह्य-ग्रहणे एवोभयं तयोर् आकारंस्वरूपं निर्भासयतिप्रकाशयति । स्व-व्यञ्जन-कारणम् अञ्जनम् आकारो यस्य स तथोक्तः । स्व-करणाकार इत्य् अर्थः । स्व-कारणाकार-व्यञ्जकम् उद्बोधकं, तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्य् अर्थः ।

ननु यदि कारण-विचारेणबुद्धि-स्मरणयोः सारूप्यं, कस् तर्हि भेदः ? इत्य् अत आह-तत्र ग्रहण- इति । ग्रहणम् उपादानम् । न च गृहीतस्योपात्तस्योपादानं संभवति । तद्-अनेनानधिगत-बोधनं बुद्धिर् इत्य् उक्तम् । ग्रहणाकारो ग्रहण-रूपं पूर्वं प्रधानं यस्याःसा तथोक्ता । विकल्पितश् चायम् अभेदेऽपिगुण-प्रधान-भाव इति । ग्राह्याकारः पूर्वःप्रथमो यस्याः सा तथोक्ता । इदम् एव च ग्राह्याकारस्य ग्राह्य् अस्य पूर्वत्वं यद् वृत्त्य्-अन्तर-विषयी-कृतत्वम् अर्थस्य । तद् अनेन वृत्त्य्-अन्तर-विषय्कृत-गोचरा स्मृतिर् इत्य् उक्तं भवति । सोऽयम् असम्प्रमोष इति ।

नन्व् अस्ति स्मृतेर् अपि सम्प्रमोषः । दर्शयति हि पित्रादेर् अतीतस्य देश-कालान्तरानुभूतस्याननुभूत-चर-देश-कालान्तर-सम्बन्धं स्वप्न इत्य् अत आह-सा च द्वयीइति । भावितः कल्पितः स्मर्तव्यो अयति सा तथोक्ता । अभावितोऽकल्पितः पारमार्थिका इति यावत् । नेयं स्मृतिः, अपि तु विपर्ययः, तल्-लक्षणोपपन्नत्वात् । स्मृत्याभासतया तु स्मृतिर् उक्ता प्रमाणाभासम् इव प्रमाणम् इति भावः ।

कस्मात् पुनर् अन्ते स्मृतेर् उपन्यासः ? इत्य् अत आह—सर्वाश् चैताः स्मृतयः इति । अनुभवः प्राप्तिः । प्राप्ति-पूर्वा वृत्तिः स्मृतिस् ततः स्मृतीनाम् उपजन इत्य् अर्थः ।

ननु ये पुरुषं क्लिश्यन्ति, ते निरोद्धव्याः प्रेक्षावता । क्लेशाश् च तथा, न च वृत्तयः । तत् किम्-अर्थम् आसां निरोधः ? इत्य् अत आह-सर्वाश् चैताः । सुगमम् ॥११॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

निरोधोपायं पृच्छति-अथेति । सूत्रेणोत्तरम् आह-अभ्यासेति । अभ्यास-वैराग्ययोर् निरोधे जनयितव्येऽवान्तर-व्यापार-भेदेन समुच्चयः, न तु विकल्प इत्य् आह-चित्त-नदीति । प्राग्-भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥१२॥

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

तत्राभ्यासस्य स्वरूप-प्रयोजनाभ्यांलक्षणम् आह-तत्रस्थितौ यत्नोऽभ्यासः ॥ तद् व्याचष्टे-चित्तस्यावृत्तिकस्य राजस-तामस-वृत्ति-रहितस्य, प्रशान्त-वाहिता विमलता सात्त्विक-वृत्ति-वाहितैकाग्रता स्थितिः । तद्-अर्थैतिस्थिताव् इति निमित्त-सप्तमी व्याख्याता, यथा चर्मणि द्वीपिनं हन्तीति । प्रयत्नम् एव पर्यायाभ्यां विशदयति-वीर्यम् उत्साहैति । तस्येच्छा-योनिताम् आह-तत्-सम्पादयिषया । तदितिस्थितिं परामृशति । प्रयत्नस्य विषयम् आह-तत्-साधनेति । स्थिति-साधनान्य् अन्तरङ्ग-बहिरङ्गानि यम-नियमादीनि । सयित्वाधन-गोचरः कर्तृ-व्यापारो न फल-गोचर इति ॥१३॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥

ननु व्युत्थान-संस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इत्य् आह-स त्व् इति । सोऽयम् अभ्यासो विशेषण-त्रय-सम्पन्नः सन्दृढावस्थो न सहसा व्युत्थान-संस्कारैर् अभिभूत-स्थिति-रूप-विषयो भवति । यदि पुनर् एवं-भूतम् अप्य् अभ्यासं कृत्वोपरमेत् ततः काल-परिवासेनाभिभूयेत । तस्मान् नोपरन्तव्यम् इति भावः ॥१४॥

दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥

वैराग्यम् आह-दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् । चेतनाचेतनासु दृष्ट-विषयेषु वितृष्णताम् आह-स्त्रियैति । ऐश्वर्यम् आधिपत्यम् । अनुश्रवा वेदः, ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यम् आह-स्वर्गेति । देह-रहिता विदेहाः कारणेषु लीनाः, तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिम् एवात्मानम् अभिमन्यमानाः प्रकृत्य्-उपासकाः प्रकृतौ साधिकारायाम् एव लीनाः, तेषां भावः प्रकृति-लयत्वं, तत्-प्राप्ति-विषये, आनुश्रविक-विषये वितृष्णस्य । आनुश्रविक-विषये वितृष्णो हि स्वर्गादि-प्राप्ति-विषये वितृष्ण उच्यते ।

ननु यदि वैतृष्ण्य-मात्रं वैराग्यं हन्त विषयाप्राप्ताव् अपि तद् अस्तीति वैराग्यं स्याद् इत्य् अत आह-दिव्यादिव्येति । न वैतृष्ण्य-मात्रं वैराग्यं, अपि तु दिव्यादिव्य-विषय-सम्प्रयोगेऽपि चित्तस्यानाभोगात्मिका । ताम् एव स्पष्टयति-हेयोपादेय-शून्या । आसङ्ग-द्वेष-रहितोपेक्षाबुद्धिर् वशीकार-संज्ञा ।

कुतः पुनर् इयम् ? इत्य् अत्राह-प्रसङ्ख्यान-बलादिति । ताप-त्रय-परीतता विषयाणां दोषः, तत्-परिभावनया तत्-साक्षात्कारः प्रसङ्ख्यानं, तद्-बलाद् इत्य् अर्थः । यतमान-संज्ञा, व्यतिरेक-संज्ञा, एकेन्द्रिय-संज्ञा, वशीकार-संज्ञा चेति चतस्रः संज्ञा इत्य् आगमिनः-

रागादयः खलु कषायाश् चित्त-वर्तिनः, तैर् इन्द्रियाणि यथा-स्वंविषयेषु प्रवर्तन्ते, तन् “मा प्रवर्तिषतेन्द्रियाणि तत्-तद्-विषयेषुइति तत्-परिपाचनायारम्भः प्रयत्नः, सा यतमान-संज्ञा ।

तद्-आरम्भे सति केचित् कषायाः पक्वाः, पच्यन्ते, पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेक-संज्ञा ।

इन्द्रिय-प्रवर्तनासमर्थतया पक्वानाम् औत्सुक्य-मात्रेण मनसि व्यवस्थानम् एकेन्द्रिय-संज्ञा ।

औत्सुक्य-मात्रस्यापि निवृत्तिर् उत्थितेष्व् अपि दिव्यादिव्य-विषयेषूपेक्षा-बुद्धिः संज्ञा-त्रयात् परा वशीकार-संज्ञा ।

एतयैव च पूर्वासां चरितार्थत्वान् न ताः पृथग् उक्ता इतिसर्वम् अवदातम् ॥१५॥

तत्परं पुरुषख्यातेर्गुण वैतृष्ण्यम् ॥१६॥

अपरं वैराग्यम् उक्त्वा परम् आह-तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्य ॥ अपर-वैराग्यस्य परं वैराग्यं प्रति कारणत्वम् ।

तत्र च द्वारम् आदर्शयति-दृष्टानुश्रविक-विषय-दोष-दर्शी विरक्तैति । अनेनापरं वैराग्यं दर्शितम् ।पुरुष-दर्शनाभ्यासात् आगमानुमानाचार्योपदेश-समधि-गतस्य पुरुषस्य दर्शनंतस्याभ्यासः पौनःपुन्येन निषेवणम्, तस्मात् । तस्य दर्शनस्य शुद्धीरजस्-तमः-परिहाण्या सत्त्वैकतानता, तया यो गुण-पुरुषयोः प्रकर्षेण विवेकः-पुरुषः शुद्धोऽनन्तस् तद्-विपरीता गुणा इति तेनाप्यायिता बुद्धिर् यस्य योगिनः, स तथोक्तः । तद् अनेन धर्म-मेघाख्यः समाधिर् उक्तः । स तथा-भूतो योगी गुणेभ्यो व्यक्ताव्यक्त-धर्मकेभ्यः, सर्वथाविरक्तः सत्व-पुरुषान्यता-ख्याताव् अपि गुणात्मिकायांयावद् विरक्त इति । तस्माद्द्वयं वैराग्यम् ।पूर्वं हि वैराग्यं सत्त्व-समुद्रेक-विधूत-तमसि रजः-कण-कलङ्क-सम्पृक्ते चित्त-सत्त्वे । तच् च तौष्टिकानाम् अपि समानम् । ते हि तेनैव प्रकृति-लया बभूवुः । यथोक्तं-वैराग्यात् प्रकृति-लय इति ।

तत्र तयोर् द्वयोर् मध्ये यद् उत्तरंतज् ज्ञान-प्रसाद-मात्रम् । मात्र-ग्रहणेन निर्विषयतां सूचयति । तद् एव हि तादृशं चित्त-सत्त्वं रजो-लेश-मलेनाप्य् अपरामृष्टम् अस्याश्रयः, अत एव ज्ञान-प्रसाद इत्य् उच्यते । चित्त-सत्त्वं हि प्रसाद-स्वभावम् अपि रजस्-तमः-सम्पर्कान् मलिनताम् अनुभवति । वैराग्याभ्यास-विमल-वारि-धारा-धौत-समस्त-रजस्-तमो-मलं त्व् अतिप्रसन्नं ज्ञान-प्रसाद-मात्र-परिशेषं भवति ।

तस्य गुणानुपादेयत्वाय दर्शयति-यस्योदये प्रत्युदित-ख्यातिः । ख्याति-विशेषे सति वर्तमान-ख्यातिमान् इत्य् अर्थः । प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति—जीवन्न् एव विद्वान् मुक्तो भवति [४.३०, व्यासः], संस्कार-मात्रस्य च्छिन्न-मूलस्य सिद्धत्वाद् इति भावः ।

कुतः प्राप्तम् ? यतः-क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः स-वासनाः । नन्व् अस्ति धर्माधर्म-समूहो भवस्य जन्म-मरण-प्रबन्धस्य सङ्क्रमः प्राणिनाम् । तत् कुतः कैवल्यम् ? इत्य् अत आह-छिन्नैति । श्लिष्टानि निःसन्धीनि पर्वानि यस्य स तथोक्तः ।धर्माधर्म-समूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर् मरण-जन्म-प्रबन्धेन त्यक्ष्यते । सोऽयं भव-सङ्क्रमः क्लेश-क्षये छिन्नः । यथा वक्ष्यति-क्लेश-मूलः कर्माशयः, सति मूले तद्-विपाकः[२.१२-१३] इति ।

ननु प्रसङ्ख्यान-परिपाकं धर्ममेघं च निरोधम् अन्तरा किं तद् अस्ति यज् ज्ञान-प्रसाद-मात्रम् इत्य् अत आह-ज्ञानस्यैव इति । धर्ममेघ-भेद एव परं वैराग्यं, नान्यत् । यथावक्ष्यति-प्रसङ्ख्यानेऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः [४.२९] । तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् इति च । तस्माद् एतस्य हि नान्तरीयकम् अविनाभाविकैवल्यमिति ॥१६॥

वितर्कविचारानन्दाऽस्मितानुगमात्सम्प्रज्ञातः ॥१७॥

उपायम् अभिधाय स-प्रकारोपेय-कथनाय पृच्छति-अथोपाय-द्वयेनेति । वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥ सम्प्रज्ञात-पूर्वकत्वाद् असम्प्रज्ञातस्य प्रथमं सम्प्रज्ञातोपवर्णनम् । सम्प्रज्ञात-सामान्यं वितर्क-विचारानन्दास्मितानांरूपैःस्वरूपैर् अनुगमात् प्रतिपत्तव्यम् ।

वितर्कं विवृणोति-चित्तस्येति । स्वरूप-साक्षात्कारवती प्रज्ञा आभोगः । स च स्थूल-विषयत्वात्स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलम् एव लक्ष्यं विध्यति, अथ सूक्ष्मं, एवं प्राथमिको योगी स्थूलम् एव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोति।

अथ सूक्ष्मम् इति । एवं चित्तस्यालम्बने सूक्ष्म आभोगः स्थूल-कारण-भूत-सूक्ष्म-पञ्च-तन्मात्र-लिङ्गालिङ्ग-विषयो विचारः ।

तद् एव ग्राह्य-विषयं वशयित्वा ग्रहण-विषयं दर्शयति-आनन्द इति । इन्द्रिये स्थूलालम्बने चित्तस्याभोगो ह्लाद आनन्दः ।

प्रकाश-शीलतयाखलु सत्त्व-प्रधानाद् अहङ्काराद् इन्द्रियाण्य् उत्पन्नानि । सत्त्वं सुखम् इति तान्य् अपि सुखानीति तस्मिन्न् आभोगो ह्लाद इति ।

ग्रहीतृ-विषयं सम्प्रज्ञातम् आह—एकात्मिका संविदिति । अस्मिता-प्रभवानीन्द्रियाणि । तेनैषाम् अस्मिता सूक्ष्मं रूपम् । सा चात्मना ग्रहीत्रा सहबुद्धिर् एकात्मिका संवित् । तस्यां च ग्रहीतुर् अन्तर्-भावाद् भवति । ग्रहीतृ-विषयः सम्प्रज्ञात इति ।

चतुर्णाम् अपरम् अप्य् अवान्तर-विशेषम् आह-तत्रप्रथम इति । कार्यं कारणानुप्रविष्टं न कारणं कार्येण । तद् अयं स्थूल आभोगः स्थूल-सूक्ष्मेन्द्रियास्मिता-कारण-चतुष्टयानुगतो भवति । उत्तरे तु त्रि-द्व्य्-एक-कारणकास् त्रि-द्व्य्-एक-रूपा भवन्ति । असम्प्रज्ञाताद् भिनत्ति-सर्व एतैति ॥१७॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

क्रम-प्राप्त-सम्प्रज्ञातम् अवतारयितुं पृच्छति-अथेति । विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः ॥१८॥ पूर्व-पदेनोपाय-कथनम् उत्तराभ्यां च स्वरूप-कथनम् ।

मध्यमं पदं विवृणोति-सर्व-वृत्ति- इति । प्रथमं पदं व्याचष्टे-तस्य परम् इति । विरामः वृत्तीनाम् अभावः । तस्य प्रत्ययः कारणं, तस्य अभ्यासः, तद्-अनुष्ठान-पौनःपुन्यम् । तद् एवपूर्वं यस्य स तथोक्तः ।

अथापरं वैराग्यंनिरोध-कारणं कस्मान् न भवति ? इत्य् आह-सालम्बनोहिइति । कार्य-सरूपं युज्यते, न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बन-समाधिना कार्येण । तस्मान् निरालम्बनाद् एव ज्ञान-प्रसाद-मात्रात् तस्योत्पत्तिर् युक्ता ।

धर्म-मेघ-समाधिर् एव हि नितान्त-विगलित-रजस्-तमो-मलाद् बुद्धि-सत्त्वाद् उपजातस् तद्-विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्य-दर्शी समस्त-विषय-परित्यागाच् च स्वरूप-प्रतिष्ठः सन् निरालम्बनः संस्कार-मात्र-शेषस्य निरालम्बनस्य समाधेः कारणम् उपपद्यते ।

सारूप्यादिति । आलम्बनी-करणम् आश्रयणम् । भाव-प्राप्तम् इव वृत्ति-रूप-कार्याकरणान् निर्बीजः निरालम्बनः । अथवा, बीजं क्लेश-कर्माशयाः, ते निष्क्रान्ता यस्मात् स तथा ॥१८॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥

निरोध-समाधेर् अवान्तर-भेदं हानोपादानाङ्गम् आदर्शयति-स खल्व् अयंनिरोध-समाधि द्विविधः-उपाय-प्रत्ययोभव-प्रत्ययश् च । उपायोवक्ष्यमाणः श्रद्धादिः प्रत्ययःकारणं यस्य निरोध-समाधेः स तथोक्तः । भवन्ति जाय्यन्तेऽस्यां जन्तव इति भवोऽविद्या, भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अनात्मस्व् आत्म-ख्यातिस् तौष्टिकानांवैराग्य-सम्पन्नानाम् ।

स खल्व् अयं भवः-प्रत्ययः कारणं यस्य निरोध-समाधिः स भव-प्रत्ययः । तत्र तयोर् मध्ये, उपाय-प्रत्ययो योगिनां मोक्षमाणां भवति । विशेष-विधानेन शेषस्य मुमुक्षु-सम्बन्धं निषेधति । केषां तर्हि भव-प्रत्ययः ? इत्य् अत्र सूत्रेणोत्तरम् आह-भव-प्रत्ययः विदेह-प्रकृति-लयानाम् ॥ विदेहाश् च प्रकृति-लयाश् च तेषाम् इत्य् अर्थः ।

तद् व्याचष्टे-विदेहानां देवानां भव-प्रत्ययः । भूतेन्द्रियाणाम् अन्यतमम् आत्मत्वेन प्रतिपन्नास् तद्-उपासनया तद्-वासना-वासितान्तः-करणाः पिण्ड-पातानन्तरम् इन्द्रियेषु भूतेषु वा लीनाः संस्कार-मात्रावशेष-मनसः षाट्कौशिक-शरीर-रहिता विदेहाः । ते हि स्व-संस्कार-मात्रोपयोगेन चित्तेन कैवल्य-पदम् इवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकार-संस्कार-शेषता च वैरूप्यम् ।

संस्कार-मात्रोपभोगेनेति क्वचित् पाठः । तस्य थार्थः-संस्कार-मात्रम् एवोपभोगो यस्य, न तु चित्त-वृत्तिर् इत्य् अर्थः । प्राप्तावधयः स्व-संस्कार-विपाकं तथा-जातीयकम् अतिवाहयन्ति अतिक्रामन्ति, पुनर् अपि संसारे विशन्ति । तथा च वायु-प्रोक्तम्-

दश मन्वन्तराणीह तिष्ठन्तीन्द्रिय-चिन्तकाः ।

भौतिकास् तु शतं पूर्णम् ॥

तथा प्रकृति-लयाश् चाव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेष्व् अन्यतमम् आत्मत्वेन प्रतिपन्नास् तद्-उपासनया तद्-वासनासितान्तःकरणाः पिण्ड-पातानन्तरम् अव्यक्तादीनाम् अन्यतमे लीनाः । साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद् यदि विवेक-ख्यातिम् अपि जनयेद् अजनित-सत्त्व-पुरुषान्यता-ख्यातेस् तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति ।

साधिकारे चेतसि प्रकृति-लीने कैवल्य-पदम् इवानुभवन्ति, यावन् न पुनर् आवर्ततेऽधिकार-वशाच् चित्तम् इति । प्रकृति-साम्यम् उपगतम् अप्य् अवधिं प्राप्य पुनर् अपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्-भावम् उपगतो मण्डूक-देहः पुनर् अम्भोद-वारि-धारावसेकान् मण्डूक-देह-भावम् अनुभवतीति । तथा च वायु-प्रोक्तं-

सहस्रं त्व् आभिमानिकाः ।

बौद्धा दश सहस्राणि तिष्ठन्ति विगत-ज्वराः । पूर्णं शत-सहस्रं तु तिष्ठन्त्य् अव्यक्त-चिन्तकाः ।

पुरुषं निर्गुणं प्राप्य काल-सङ्ख्या न विद्यते ॥ इति ।

तद् अस्य पुनर्-भव-प्राप्ति-हेतुतया हेयत्वं सिद्धम् ॥१९॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

योगिनां तु सिद्धान्तेर् उपाय-क्रमम् आह-श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥

नन्व् इन्द्रियादि-चिन्तका अपि श्रद्धावन्त एवेत्य् अत आह-श्रद्धा चेतसः सम्प्रसादः । स चागमानुमानाचार्योपदेश-सिद्धान्ति-गत-तत्त्व-विषयो भवति हि चेतसः सम्प्रसादोऽभिरुचि-रतीच्छा श्रद्धा । नेन्द्रियादिष्व् आत्माभिमानिनाम् अभिरुचिर् असम्प्रसादो हि सः,व्यामोह-मूलत्वाद् इत्य् अर्थः ।

कुतोऽसाव् एव श्रद्धा ? इत्य् अत आह-सा हि जननीव कल्याणी योगिनं पाति,विमार्ग-पात-जन्मनोऽनर्थात् । सोऽयम् इच्छा-विशेष इष्यमाण-विषयं प्रयत्नं प्रसूत इत्य् आह-तस्य हि श्रद्दधानस्य । तस्य विवरणं-विवेकार्थिनो वीर्यम् उपजायते ।

स्मृतिर् ध्यानम् । अनाकुलं विक्षिप्तम् । समाधीयतेयोगाङ्ग-सिद्धान्ति-युक्तं भवति । यम-नियमादिनान्तरीयक-समाध्य्-उपन्यासेन च यम-नियमादयोऽपिसूचिताः । तद् एवम् अखिल-योगाङ्ग-सम्पन्नस्य सम्प्रज्ञातो जायत इत्य् आह-समाहित-चित्तस्य इति । प्रज्ञायाविवेकः प्रकर्ष उपजायते ।

सम्प्रज्ञात-पूर्वम् असम्प्रज्ञातोत्पादम् आह-तद्-अभ्यासात्तत्रैव तत्-तद्-भूमि-प्राप्तौ तद्-विषयाच् च वैराग्याद् असम्प्रज्ञातः सिद्धान्तिर् भवति । स हि कैवल्य-हेतुः । सत्त्व-पुरुषान्यता-ख्याति-पूर्वो हि निरोधश् चित्तम् अखिल-कार्य-करणेन चरितार्थम् अधिकाराद् अवसादयति ॥२०॥

तीव्रसंवेगानामासन्नः ॥२१॥

ननु श्रद्धादयश् चेद् योगोपायास् तर्हि सर्वेषाम् अविषयेण समाधि-तत्-फले स्याताम् । दृश्यते तु कस्यचित् सिद्धिः कस्यचिद् असिद्धिः कस्यचिच् चिरेण सिद्धिः कस्यचिच् चिरतरेण कस्यचित् क्षिप्रम् ? इत्य् अत आह-ते खलु नव योगिनैति । उपायः श्रद्धादयो मृदु-मध्याधिमात्राः प्राग्-भवीय-संस्कारादृष्ट-वशाद् येषां ते तथोक्ताः । संवेगो वैराग्यं तस्यापि मृदु-मध्य-तीव्रता प्राग्भवीय-वासनादृष्ट-वशाद् एवेति तेषु यादृशां क्षेपीयसी सिद्धिस् तान् दर्शयति सूत्रेण-तीव्र-संवेगानाम् आसन्नैति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलम् असम्प्रज्ञातः, तस्यापि कैवल्यम् ॥२१॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

मृदु-मधाधिमात्रत्वात् ततोऽपिविशेषः ॥ निगद-व्याख्यातेन भाष्येण व्याख्यातम् इति ॥२२॥

ईश्वरप्रणिधानाद्वा ॥२३॥

सूत्रान्तरं पातयितुं विमृशति-किम् एतस्माद् एवेति । न वा-शब्दः संशय-निवर्तकः । ईश्वर-प्रणिधानाद् वा । व्याचष्टे-प्रणिधानाद् भक्ति-विशेषान् मानसाद् वाचिकात् कायिकाद् वावर्जितोऽभिमुखीकृतस् तम् अनुगृह्णाति । अभिध्यानम् अनागतार्थेच्छा-इदम् अस्याभिमतम् अस्त्व् इति । तन्-मात्रेण न व्यापारान्तरेण । शेषं सुगमम् ॥२३॥

क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥२४॥

ननु चेतनाचतनाभ्याम् एव व्यूढं नान्येव विश्वम् । ईश्वरश् चेद् अचेतनस् तर्हि प्रधानं, प्रधान-विकाराणाम् अपि प्रधान-मध्य-पातात् । तथा च न तस्यावर्जनम्, अचेतनत्वात् । अथ चेतनस् तथापिचिति-शक्तेर् औदासीन्याद् असंसारितया चास्मितादि-विरहात् कुत आवर्जनं कुतश् शभिध्यानम् इत्य् आशयवान् आह-अथ प्रधान- इति । अत्र सूत्रेणोत्तरम् आह-क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥

अविद्यादयः क्लेशाः । क्लिश्यन्ति खल्व् अमी पुरुषं सांसारिक-विविध-दुःख-प्रहारेणेति । कुशलाकुशलानि इतिधर्माधर्माः । तेषां च कर्मजत्वाद् उपचारात् कर्मत्वम् । विपाको जात्य्-आयुर्-भोगः । विपाकानुगुणावासनास्ता चित्त-भूमाव् आशेरत इत्य् आशयाः ।

न हि करभ-जाति-निर्वर्तकं कर्म प्राग्भवीय-करभ-भोग-भावितां भावनां न यावद् अभिव्यनक्ति तावत् करभोचिताय भोगाय कल्पते । तस्माद् भवति करभ-जात्य्-अनुभव-जन्मा भावना करभ-विपाकानुगुणेति ।

नन्व् अमी क्लेशादयो बुद्धि-धर्मा न कथञ्चिद् अपि पुरुषं परामृशन्ति । तस्मात् पुरुष-ग्रहणाद् एव तद्-अपरामर्श-सिद्धेः कृतं क्लेश-कर्मेत्य्-आदिनेत्य् अत आह-ते च मनसि वर्तमानाःसांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात् ? स हि तत्-फलस्य भोक्ता चेतयितेति ।

तस्मात्पुरुषत्वाद् ईश्वरस्यापि तत्-सम्बन्धः प्राप्त इति तत्-प्रतिषेध उपपद्यत इत्य् आह-यो ह्य् अनेन बुद्धि-स्थेनापि पुरुष-मात्र-साधारणेन भोगेनापरामृष्टःस पुरुष-विशेषईश्वरः । विशिष्यत इतिविशेषः । पुरुषान्तराद् व्यवच्छिद्यते ।

विशेष-पदस्य व्यावर्त्यं दर्शयितु-कामः परिचोदना-पूर्वं परिहरति-कैवल्यं प्राप्तास् तर्हि इति । प्रकृति-लयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणा-बन्धो दिव्यादिव्य-विषय-भोग-भाजाम् । तान्य् अमूनि त्रीणि बन्धनानिप्रकृति-भावना-संस्कृत-मनसो हि देह-पातानन्तरम् एव प्रकृति-लयताम् आपन्ना इति तेषां पूर्वाबन्ध-कोटिः प्रज्ञायते, तेनोत्तर-कोटि-विधान-मात्रम् । इह तु पूर्वापर-कोटि-निषेध इति । संक्षिप्य विशेषं दर्शयति-स तु सदैव मुक्तः सदैवेश्वरैति । ज्ञान-क्रिया-शक्ति-सम्पद् ऐश्वर्यम् ।

अत्र पृच्छति-योऽसौ इति । ज्ञान-क्रिये हि न चिच्-छक्तेर् अपरिणामिन्याः सम्भवत इति रजस्-तमो-रहित-विशुद्ध-चित्त-सत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा-मुक्तस्याविद्या-प्रभव-चित्त-सत्त्वम् उक्तर्षेण सह स्व-स्वामि-भावः सम्बन्धः सम्भवतीत्य् अत उक्तम्-प्रकृष्ट-सत्त्वोपादानाद् इति। न ईश्वरस्य पृथग्-जनस्येवाविद्या-निबन्धनश् चित्त-सत्त्वेन स्व-स्वामि-भावः, किं तु ताप-त्रय-परीतान् प्रेत्य-भाव-महार्णवाज् जन्तून् उद्धरिष्यामि ज्ञान-धर्मोपदेशेन, न च ज्ञान-क्रिया-सामर्थ्यातिशय-सम्पत्तिम् अन्तरेण तद्-उपदेशः । न चेयम् अपहत-रजस्-तमो-मल-विशुद्ध-सत्त्वोपादानं विनेत्य् आलोच्य सत्त्व-प्रकर्षम् उपादत्ते भगवान् अपरामृष्टोऽप्य् अविद्यया । अविद्याभिमानी चाविद्यायास् तत्त्वम् अविद्वान् भवति, न पुनर् अविद्याम् अविद्यात्वेन सेवम् आनः । न खलु शैलूषो रामत्वम् आरोप्य तास् ताश् चेष्टा दर्शयन् भ्रान्तो भवति । तद् इदम् आहार्यम् अस्य रूपं न तात्त्विकम् इति ।

स्याद् एतत्, उद्दिधीर्षया भगवता सत्त्वम् उपादेयं तद्-उपादानेन च तद्-उद्धिधीर्षा, अस्या अपि प्राकृतत्वात् । तथा चान्योन्य-संश्रय इत्य् अत उक्तम्-शाश्वतिकैति । भवेद् एतद् एवं यदीदं-प्रथमता सर्गस्य भवेत् । अनादौ तु संसर्ग-संहार-प्रबन्धे सर्गान्तरम् अनुपन्न-संजिहीर्षावधि-समये पूर्णे मया सत्त्व-प्रकर्षे उपादेय इति प्रणिधानं कृत्वा भगवान् जगत् सञ्जहार । तदा चेश्वर-चित्त-सत्त्वं प्रणिधान-वासना-वशात् तथैवेश्वर-चित्त-सत्त्व-भावेन परिणमते । यथा चैत्रः श्वः प्रातर् एवोत्थातव्यं मयेति प्रणिधाय सुप्तस् तदैवोत्तिष्ठते प्रणिधान-संस्कारात् । तस्माद् अनादित्वाद् ईश्वर-प्रणिधान-सत्त्वोपादानयोः शाश्वतिकत्वेन नान्योन्य-संश्रयः । न चेश्वरस्य चित्त-सत्त्वं महा-प्रलयेऽपि न प्रकृति-साम्यम् उपैतीति वाच्यम् । यस्य हि न कदाचिद् अपि प्रधान-साम्यं न तत् प्राधानिकं नापिचिति-शक्तिर् अज्ञत्वाद् इत्य् अर्थान्तरम् अप्रामाणिकम् आपद्येत । तच् चायुक्तम्, प्रकृति-पुरुष-व्यतिरेकेणार्थान्तराभावात् ।

सोऽयम् ईदृश ईश्वरस्य शाश्वतिक उत्कर्षः किं स-निमित्तः स-प्रमाणक आहो स्विन् निर्निमित्तो निष्प्रमाणकैति ? उत्तरम्-तस्य शास्त्रं निमित्तम्। श्रुति-स्मृतीतिहास-पुराणानि शास्त्रम् ।

चोदयति-शास्त्रं पुनः किं-निमित्तम् ? प्रत्यक्षानुमान-पूर्वं हि शास्त्रं, न चेश्वरस्य सत्त्व-प्रकर्षे कस्य चित् प्रत्यक्षम् अनुमानं वास्ति । न चेश्वर-प्रत्यक्ष-प्रभवं शास्त्रम् इति युक्तम् । कल्पयित्वापि ह्य् अयं ब्रूयाद् आत्मैश्वर्य-प्रकाशनायेति भावः । परिहरति-प्रकृष्ट-सत्त्व-निमित्तम् । अयम् अभिसन्धिः-मन्त्रायुर् वेदेषु तावद् ईश्वर-प्रणीतेषु प्रवृत्ति-सामर्थ्याद् अर्थाव्यभिचार-निश्चयात् प्रामाण्यं सिद्धम् । न चौषधि-भेदानां तत्-संयोग-विशेषाणां च मन्त्राणां च तत्-तद्-वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर् लौकिक-प्रमाण-व्यवहारी शक्तः कर्तुम् अन्वय-व्यतिरेकौ । न चागमाद् अन्वय-व्यतिरेकौ ताभ्यां चागमस् तत्-सन्तानयोर् अनादित्वाद् इति प्रतिपादयितुं युक्तम्, महा-प्रलये तत्-सन्तानयोर् विच्छेदात् । न च तद्-भावे प्रमाणाभावः । अभिन्नं प्रधान-विकारो जगद् इति हि प्रतिपादयिष्यतिए । सदृश-परिणामस्य च विसदृश-परिणामता दृष्टा । यथा क्षीरेक्षु-रसादेर् दधि-गुडादि-रूपा । विसदृश-परिणामस्य पूर्वं सदृश-परिणामता च दृष्टा । तद् इह प्रधानेनापि महद्-अहङ्कारादि-रूप-विसदृश-परिणामेन सता भाव्यं कदाचित् सदृश-परिणामेनापि । सदृश-परिणामश् चास्य साम्यावस्था । स च महा-प्रलयः । तस्मान् मन्त्रायुर् वेद-प्रणयनात् तावद् भगवतो विगलित-रजस्-तमो-मलावरणतया परितः प्रद्योतमानं बुद्धि-सत्त्व-प्रकर्षाद् एव भवितुम् अर्हति । न च सत्त्वोत्कर्षे रजस्-तमः-प्रभ्वौ विभ्रम-विप्रलम्भौ सम्भवतः । तत् सिद्धं प्रकृष्ट-सत्त्व-निमित्तं शास्त्रम् इति ।

स्याद् एतत्, प्रकर्ष-कार्यतया प्रकर्षं बोधयच् छास्त्रं शेषवद् अनुमानं भवेन् न त्व् आगम इत्य् अत आह-एतयोरिति । न कार्यत्वेन बोधयत्य् अपि त्व् अनादि-वाच्य-वाचक-भाव-सम्बन्धेन बोधयतीत्य् अर्थः । ईश्वरस्य हि बुद्धि-सत्त्वे प्रकर्षो वर्तते, शास्त्रम् अपि तद्-वाचकत्वेनतत्र वर्तत इति ।

उपसंहरति-एतस्मादीश्वरस्य सत्त्व-प्रकर्ष-वाचकाच् छास्त्रात्, एतद् भवति ज्ञायते, विशेषित्य् आह-विषयिणी लक्षणात् सदैवेश्वरः सदैव मुक्तैति । तद् एवं पुरुषान्तराद् व्यवच्छिद्येश्वरान्तराद् अपि व्यवच्छिनत्ति-तच् च तस्य इति । अतिशय-विनिर्मुक्तिम् आह-न तावदिति । कुतः ? यद् एवैति । कस्मात्सर्वातिशय-विनिर्मुक्तिम् तवैश्वर्यम् इत्य् अत आह-तस्माद् यत्रैति । अतिशय-निष्ठाम् अप्राप्तानाम् औपचारिकम् ऐश्वर्यम् इत्य् अर्थः । साम्य-विनिर्मुक्तिम् आह-न च तत्-समानम् इति । प्राकाम्यम् अविहतेच्छता । तद्-विघाताद् ऊनत्वम् । अनूनत्वे वा द्वयोर् अपि प्राकाम्य-विघातः, कार्यानुत्पत्तेः । उत्पत्तौ वा विरुद्ध-धर्म-समालिङ्गितम् एकदा कार्यम् उपलभ्येतेत्य् आशयवान् आह-द्वयोश् चेति । अविरुद्धाभिप्रायत्वे च प्रत्येकम् ईश्वरत्वे कृतम् अन्यैर् एकेनैवेशनायाः कृतत्वात् । सम्भूयकारित्वे वा न कश्चिद् ईश्वरः परिषद्वत् । नित्येशनायोगिनां च पर्यायायोगात् कल्पनागौरव-प्रसङ्गाच् चेति द्रष्टव्यम् । तस्मात् सर्वम् अवदातम् ॥२४॥

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

एकम् अस्य क्रिया-ज्ञान-शक्तौ शास्त्रं प्रमाणम् अभिधाय ज्ञान-शक्ताव् अनुमानं प्रमाणयति-किं चैति । तत्र निरतिशयं सर्व-ज्ञत्व-बीजम् ॥

व्याचष्टे-यद् इदमिति। बुद्धि-सत्त्वावरकतमोऽपगम-तारतम्येन यद् इदम् अतीतान् आगत-प्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानाम् अतीन्द्रियाणां ग्रहणम् । तस्य विशेषणम् अल्पं बह्वितिसर्व-ज्ञ-बीजम्कारणम् । कश्चित् किञ्चिद् एवातीतादि गृह्णाति, कश्चिद् बहु, कश्चिद् बहुतरं, कश्चिद् बहुतमम् इति ग्राहापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् ।

एतद् धि वर्धमानं यत्रनिष्क्रान्तम् अतिशयात् स सर्व-ज्ञ इति । तद् अनेन प्रमेय-मात्रं कथितम् । अत्र प्रमाणयति-अस्ति काष्ठा-प्राप्तिः सर्व-ज्ञ-बीजस्य इति साध्य-निर्देशः । निरतिशयत्वं काष्ठा, यतः परम् अतिशयवत्ता नास्तीति । तेन नावधि-मात्रेण सिद्ध-साधनम् ।

सातिशयत्वादितिहेतुः । यद् यत् सातिशयं तत् तत् सर्वं निरतिशयं, यथा कुल्वलामलक-बिल्वेषु सातिशयं महत्त्वम् आत्मनि निरतिशयम् इति व्याप्ति दर्शयति-परिमाणवदिति । न च गरिमादिभिर् गुणैर् व्यभिचार इति साम्प्रतम् । न खल्व् अवयव-गरिमातिशयी गरिमावयविनः, किं त्व् आपरमाणुभ्य आन्त्यावयविभ्यो यावन्तः केचन तेषांसर्वेषां प्रत्येक-वर्तिनी गरिम्णः समाहृत्य गरिम-वर्धमानाभिमानः । ज्ञानं तु न प्रतिज्ञेयं समाप्यतैत्य् एक-द्वि-बहु-विषयतया युक्तं सातिशयम् इति न व्यभिचारः ।

उपसंहरति-यत्र काष्ठाइति । ननु सन्ति बहवस् तीर्थकरा बुद्धार्हत्-कपिल-र्षि-प्रभृतयः । तत् कस्मात् त एव सर्व-ज्ञा न भवन्त्य् अस्माद् अनुमानादि इत्य् अत आह-सामान्य- इति । कुतस् तर्हि तद्-विशेष-प्रतिपत्तिर् इत्य् अत आह-तस्य इति । बुद्धादि-प्रणीतश् चागमाभासो न त्व् आगमः, सर्व-प्रमाण-बाधित-क्षणिक-नैरात्म्यादि-मार्गोपदेशकत्वेन विप्रलम्भकत्वाद् इति भावः । तेन श्रुति-स्मृतीतिहास-पुराण-लक्षणाद् आगमत आगच्छति बुद्धिम् आरोहन्ति अस्माद् अभ्युदय-निःश्रेयसोपाया इत्य् आगमः ।

तस्मात् संज्ञादि-विशेष-प्रतिपत्तिः, संज्ञा-विशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदि-पदेन षड्-अङ्ग-तादृशाव्ययते संगृहीते । यथोक्तं वायु-पुराणे-

सर्व-ज्ञता तृप्तिर् अनादि-बोधः

स्वतन्त्रता नित्यम् अलुप्त-शक्तिः।

अनन्त-शक्तिश् च विभोर् विधिज्ञाः

षड् आहुर् अङ्गानि महेश्वरस्य ॥ [वा.पु. १२.३३]

तथा-

ज्ञानं वैराग्यम् ऐश्वर्यं तपः सत्यं क्षमा धृतिः ।

स्रष्टृत्वम् आत्म-सम्बोधो ह्य् अधिष्ठातृत्वम् एव च ।

अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥ [वा.पु. १०.६५-६६]

 स्याद् एतत्। नित्य-तृप्तस्य भगवतो वैराग्यातिशय-सम्पन्नस्य स्वार्थे तृष्णा-सम्भवात् कारुणिकस्य च सुखैकतान-जन-सर्जन-परस्य दुःख-बहुल-जीव-लोक-जननानुपपत्तेर्र् अप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्य्-अनुपपत्तेः क्रिया-शक्ति-शालिनोऽपि न जगत्-क्रियेत्य् अत आह-तस्यात्मानुग्रहाभावेऽपि इति । भूतानां प्राणिनाम् अनुग्रहः प्रयोजनम् ।

शब्दाद्य्-उपभोग-विवेक-ख्याति-रूप-कार्य-करणात् किल चरितार्थं चित्तं निवर्तते । ततः पुरुषः केवली भवति । अतस् तत्-प्रयोजनाय कारुणिको विवेक-ख्यात्य्-उपायं कथयति । तेनाचरितार्थत्वाच् चित्तस्य जन्तून् ईश्वरः पुण्यापुण्य-सहायः सुख-दुःखे भावयन्न् अपि नाकारुणिकः ।

विवेक-ख्यात्य्-उपाय-कथने द्वारम् आह-ज्ञान-धर्मोपदेशेनैति । ज्ञानं च धर्मश् च ज्ञान-धर्मौ, तयोर् उपदेशेन ज्ञान-धर्म-समुच्चयाल् लब्ध-विवेक-ख्याति-परिपाकात् कल्प-प्रलयेब्रह्मणो दिवसावसाने यत्र सत्य-लोक-वर्जं जगद् अस्तम् एति । महा-प्रलये स-सत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणःस्व-कारण-गामिनोऽतस् तदा मरण-दुःख-भाजः । कल्पेत्य् उपलक्षणम् अन्यदापि । स्वार्जित-कर्म-पाक-वशेन जन्म-मरणादि-भाजः ।

पुरुषान् उद्धरिष्यामीतिकैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्य् अर्थः । एतच् च करुणा-प्रयुक्तस्य ज्ञान-धर्मोपदेशनं कापिलानाम् अपि सिद्धम् इत्य् आह-तथा चोक्तम् इति । पञ्चशिखाचार्येण इति शेषः । आदि-विद्वान्कपिल इति । आदि-विद्वान् इति पञ्चशिखाचार्य-वचनादि-मुक्त-स्व-सन्तानादि-गुरु-विषयं, न त्व् अनादि-मुक्त-परम-गुरु-विषयम् । आदि-मुक्तेषु कदाचिन् मुक्तेषु विद्वत्सु कपिलोऽस्माकम् आदि-विद्वान् मुक्तः स एव च गुरुर् इति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहाद् एव ज्ञान-प्राप्तिः श्रूयत इति । कपिलो नाम विष्णोर् अवतार-विशेषः प्रसिद्धः । स एवेश्वर आदि-विद्वान् कपिलो विष्णुः स्वयम्भूर् इति भावः । स्वायम्भुवानां त्व् ईश्वर इति भावः ॥२५॥

पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥

सम्प्रति भगवतो ब्रह्मादिभ्यो विशेषम् आह-स एष इति । पातनिकास एष इति । सूत्रंपूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥

व्याचष्टे-पूर्वं हिइति । कालस् तु शत-वर्षादिः अवच्छेदार्थेनावच्छेदेन प्रयोजनेन, नोपावर्ततेन वर्तते प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् । तद् अनेन प्रबन्धेन भगवानीश्वरो दर्शितः ॥२६॥

तस्य वाचकः प्रणवः ॥२७॥

सम्प्रति तत्-प्रणिधानं दर्शयितुं तस्य वाचतम् आह-तस्य वाचकः प्रणवः । व्याचष्टेवाच्यैति । तत्र परेषां मतं विमर्श-द्वारेणोपन्यस्य तिकिम् अस्य इति ।

वाचकत्वम् प्रतिपादकत्वम् इत्य् अर्थः । परे हि पश्यन्ति-यदि स्वाभाविकः शब्दार्थयोः सम्बन्धः सङ्केतेनास्माच्शब्दाद् अयम् अर्थः प्रत्येतव्य इत्य् एवम् आत्मकेनाभिव्यज्येत, ततो यत्र नास्ति स सम्बन्धस् तत्र सङ्केत-शतेनापि न व्यज्येत । न हि प्रदीप-व्यङ्ग्यो घटो यत्र नास्ति, तत्र प्रदीप-सहस्रेणापि शक्यो व्यक्तुम् । कृत-सङ्केतस् तु करभ-शब्दो वारणे वारण-प्रतिपादको दृष्टः ।

ततः सङ्केत-कृतम् एव वाचकत्वम् इति विमृश्याभिमतम् अवधारयति-स्थितोऽस्यैति । अयम् अभिप्रायःसर्व एव शब्दाः सर्वाकारार्थाभिधान-समर्था इति स्थित एवैषां सर्वाकारैर् अर्थैः स्वाभाविकः सम्बन्धः । ईश्वर-सङ्केतस् तु प्रकाशकश् च नियामकश् च तस्य । ईश्वर-सङ्केतासङ्केत-कृतश् चास्य वाचकापभ्रंश-विभागः । तद् इदम् आहसङ्केतस् त्व् ईश्वरस्य इति ।

निदर्शनम् आह-यथाइति । ननु शब्दस्य प्राधानिकस्य महा-प्रलय-समये प्रधान-भावम् उपगतस्य शक्तिर् अपि प्रलीना । ततो महद्-आदि-क्रमेणोत्पन्नस्यावाचकस्यैव माहेश्वरेण सङ्केतेन न शक्या वाचक-शक्तिर् अभिज्वलयितुं विनष्ट-शक्तित्वाद् इत्य् अत आहसर्गान्तरेष्व् अपिइति । यद्यपि सह शक्त्या प्रधान-साम्यम् उपगता शब्दस् तथापि पुनर् आविर्भवंस् तच्-छक्ति-युक्त एवाविर्भवति वर्षातिपात-समधिगत-मृद्-भाव इवोद्भिजो मेघ-विसृष्ट-वारि-धारावसेकात् ।

तेन पूर्व-सम्बन्धानुसारेण सङ्केतःक्रियतेभगवतेति । तस्मात् सम्प्रतिपत्तेः सदृश-व्यवहार-परम्परायाःनित्यतया नित्यःशब्दार्थयोःसम्बन्धोन कूटस्थ-नित्य इत्य् आगमिकाः प्रतिजानते, न पुनर् आगम-निरपेक्षाः सर्गान्तरेष्व् अपि तादृश एव सङ्केत इति प्रतिपत्तुम् ईशत इति भावः ॥२७॥

वाच्य ईश्वरः प्रणवस्य । किम् अस्य सङ्केत-कृतं वाच्य-वाचकत्वम् अथ प्रदीप-प्रकाशवद् अवत्स्थितम् इति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस् त्व् ईश्वरस्य स्थितम् एवार्थम् अभिनयति । यथावस्थितः पिता-पुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयम् अस्य पिता, अयम् अस्य पुत्र इति । सर्गान्तरेष्व् अपि वाच्य-वाचक-शक्त्य्-अपेक्षस् तथैव सङ्केतः क्रियते । सम्प्रतिपत्ति-नित्यतया नित्यः शब्दार्थ-सम्बन्ध इत्य् आगमिनः प्रतिजानते ॥२७॥

तज्जपस्तदर्थभावनम् ॥२८॥

वाचकम् आख्याय प्रणिधानम् आह-तज्-जपस् तद्-अर्थ-भावनम् ॥ व्याचष्टेप्रणवस्येति । भावनं पुनः पुनश् चित्ते निवेशनम् । ततः किं सिध्यतीत्य् अत आहप्रणवम् इति । एकाग्रं सम्पद्यते एकस्मिन् भगवत्य् आरमति चित्तम् । अत्रैव वैयासिकीं गाथाम् उदाहरतितथा चेति । ततः ईश्वरः सिद्धान्ति-तत्-फल-लाभेन तम् अनुगृह्णाति ॥२८॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥

किं च परम् अस्मात् ? ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च ॥प्रतीपं विपरीतम् अञ्चति विजानातीति प्रत्यक्, स चासौ चेतनश् चेति प्रत्यक्-चेतनोऽविद्यावान् पुरुषः । तद् अनेनेश्वराच् छाश्वतिक-सत्त्वोत्कर्ष-सम्पन्नाद् विद्यावतो निवर्तयति । अविद्यावतः प्रतीचश् चेतनस्य अधिगमो ज्ञानं स्वरूपतोऽस्य भवति । अन्तराया वक्ष्यमाणास् तद्-अभावश् च ।

अस्य विवरणं-ये तावदिति। स्वम् आत्म तस्य रूपम् । रूप-ग्रहणेनाविर्द्या-समारोपितान् धर्मान् निषेधति ।

नन्व् ईश्वर-प्रणिधानमीश्वर-विषयं कथम् इव प्रत्यक्-चेतनंसाक्षात् करोति । अतिप्रसङ्गाद् इत्य् अत९२ आह-तथैवेश्वरैति । शुद्धः कूटस्थ-नित्यतयोदय-व्यय-रहितः । प्रसन्नः क्लेश-वर्जितः । केवलःधर्माधर्मापेतः । अत एव अनुपसर्गः । उपसर्गाः जात्य्-आयुर्-भोगाः ।

सादृश्यस्य किञ्चिद् भेदाधिष्ठानत्वाद् ईश्वराद् भिनत्ति-बुद्धेः प्रतिसंवेदीइति । तद् अनेन प्रत्यग् ग्रहणं व्याख्यातम् । अत्यन्त-विधर्मिणोर् अन्यतरार्थानुचिन्तनं न तद्-इतरस्य साक्षात्काराय कल्पते । सदृशार्थानुचिन्तनंतु सदृशान्तर-साक्षात्कारोपयोगिताम् अनुभवति एक-शास्त्राभ्यास इव तत्-सदृशार्थ-शास्त्रान्तर-ज्ञानोपयोगिताम् । प्रत्यासत्तिस् तु स्वात्मनिसाक्षात्कार-हेतुर् न परात्मनीति सर्वम् अवदातम् ॥२९॥

व्याधिस्त्यान संशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्धभूमि-कत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥

पृच्छति-अथ कैति । सानान्येनोत्तरंयैति । विशेष-साङ्ख्ये पृच्छतिके पुनः? इति । उत्तरम् व्याधीत्य्-आदि सूत्रम् । अन्तरायानव । एताश् चित्त-वृत्तयो योगान्तराया योग-विरोधिनः । चित्तं खल्वमी व्याध्य्-आदयो योगाद् विक्षिपन्तिय् अपनयन्तीति विक्षेपाः ।

योग-प्रतिपक्षत्वे हेतुम् आह-सहैतैति । संशय-भ्रान्ति-दर्शने तावद् वृत्तितया वृत्ति-निरोध-प्रतिपक्षौ । येऽपिन वृत्तयो व्याधि-प्रभृतयस् तेऽपि वृत्ति-साहचर्यात् तत्-प्रतिपक्षा इत्य् अर्थः । पदार्थान् व्याचष्टेव्याधिरिति । धातवो वात-पित्त-श्लेष्माणः, शरीर-धारणात् । अशित-पीताहार-परिणाम-विशेषो रसः । करणानीन्द्रियाणि । तेषां वैषम्यम् । न्यूनाधिक-भावैति । अकर्मण्यता कर्मानर्हता । संशय उभय-कोटि-स्पृग् विज्ञानम् । सत्य् अप्य् अतद्-रूप-प्रतिष्ठत्वेन संशय-विपर्यासयोर् अभेदे उभय-कोटि-स्पर्शास्पर्श-रूपावान्तर-विशेष-विवक्षयात्र भेदेनोपन्यासः । अभावनम् अकरणं तत्राप्रयत्नमिति यावत् । कायस्य गुरुत्वं तमसा । गर्धस् तृष्णा । मधुमत्य्-आदयः समाधि-भूमयः । लब्ध-भूमेर् यदि तावतैव दुस्थितं-मन्यस्य समाधि-भ्रेषः स्यात् ततस् तस्या अपि भूमेर् अपायः स्यात् । यस्मात्समाधि-प्रतिलम्भे तद् अवस्थितम् स्यात् तस्मात् तत्र प्रयतितव्यमिति ॥३०॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥

न केवलं नवान्तरायाः, दुःखादयोऽप्य् अस्य तत्-सहभुवो भवन्तीत्य् आह-दुःखेति । प्रतिकूल-वेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधि-वशान् मानसं च कामादि-वशात् । आधिभौतिकं व्याघ्रादि-जनितम् । आधिदैविकं ग्रह-पीडादि-जनितम् । तच् चेदं दुःखं प्राणि-मात्रस्य प्रतिकूल-वेदनीयतया हेयम् इत्य् आहयेनाभिहताइति । अनिच्छतः प्राणो यद् बाह्यं वायुम् आचमति पिबति, प्रवेशयतीति यावत्, स श्वासः समाध्य्-अङ्ग-रेचक-विरोधी । अनिच्छतोऽपि प्राणो यत् कौष्ठ्यं वायुं निःसरयति, स प्रश्वासः समाध्य्-अङ्ग-पूरक-विरोधी ॥३१॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

उक्तार्थोपसंहार-सूत्रम् अवतारयति-अथैतैति । अथोक्तार्थानन्तरम् उपसंहरन्न् इदं सूत्रम् आहेति सम्बन्धः । निरोद्धव्यत्वे हेतुर् उक्तःसमाधि-प्रतिपक्षाइति । यद्यपीश्वर-प्रणिधानाद् इत्य् अभ्यास-मात्रम् उक्तं, तथापि वैराग्यम् इह तत्-सहकारितया ग्राह्यम् इत्य् आह-ताभ्याम् उक्त-लक्षणाभ्याम् एवाभ्यास-वैराग्याभ्यांनिरोद्धव्याः ।

तत्र तयोर् अभ्यास-वैराग्ययोर् मध्ये अभ्यासस्य अनन्तरोक्तस्येति ।

तत्-प्रतिषेधार्थम् इत्य्-आदि । एकं तत्त्वम् ईश्वरः । प्रकृतत्वादिति । वैनाशिकानां तु सर्वम् एकाग्रम् एव चित्तं नास्ति किञ्चिद् विक्षिप्तमिति तद्-उपदेशानां तद्-अर्थानां च प्रवृत्तीनां वैयर्थ्यम् इत्य् आह-यस्य त्विति । यस्य मते प्रत्यर्थेऽर्प्यमाण एकस्मिन्न् अनेकस्मिन् वा, नियतं यावद्-अर्थावभासम् उत्पन्नं, तत्रैव समाप्तम् अनन्य-गामि ।

अर्थान्तरं तावत् प्रथमं गृहीतत्वार्थान्तरम् अपि पश्चात् कस्मान् न गृह्णाति ? इत्य् अत आह—क्षणिकंच । क्षणस्याभेद्यत्वेन पूर्व-पश्चाद्-भावस्याप्य् अभावैति भावः । अस्मन्-मते त्व् अक्षणिकं चित्तं स्व-विषय एकस्मिन्न्न् अनेकस्मिन्न् वानवस्थितं प्रतिक्षणं तत्-तद्-विषयोपादान-परित्यागाभ्यां विषयानियतं विक्षिप्तम्, अतो विक्षेप-परिणामम् अपनीय शक्यैकाग्रताधातुमिति।

तद्-उपदेश-प्रवृत्त्योर् नानर्थकत्वम् इत्य् आह-यदि पुनर् इदमिति । उपसंहरतिअतो नैति ।

वैनाशिकम् उत्पादयति-योऽपिइति । मा भूद् एकस्मिन् क्षणिके चित्त एकाग्रताधान-प्रयत्नः । चित्त-सन्ताने त्व् अनादाव् अक्षणिके विक्षेपम् अपनीयैकाग्रताधास्यत इत्य् अर्थः । तद् एतद् विकल्प्य दूषयतितस्येति । तस्य दर्शने एकाग्रता यदि प्रवाहचित्तस्य चित्त-सन्तानस्य वा धर्मः, तत्रैकं क्रमवद् उत्पादेषु प्रत्ययेष्व् अनुगतं नास्ति प्रवाह-चित्तम् । कुतः ? यद् यावद् अस्ति तस्य सर्वस्य क्षणिकत्वाद् अक्षणिकस्य चासत्त्वाद् भवतां दर्शनैति भावः ।

द्वितीय-कल्पं गृह्णाति-अथैति । सांवृतस्य प्रवाहांशः प्रत्ययः परमार्थः सन्, तस्य प्रत्ययस्य इकाग्रता प्रयत्न-साध्योधर्मः । दूषयति-स सर्वः इति । सांवृत-प्रवाहापेक्षया सदृश-प्रत्यय-प्रवाही वा विसदृश-प्रत्यय-प्रवाही वा। अतः परमार्थ-सत्ता-रूपेणप्रत्यर्थ-नियतत्वादर्थावभास उत्पन्नस् तत्र समाप्तत्वातेकाग्र एवेति विक्षिप्त-चित्तानुपपत्तिः, यद् अपनयेनैकाग्रताधीयतैति । उपसंहरति-तस्मादिति।

इतोऽपिचित्तम् एकम् अनेकार्थम् अवस्थितं चेत्य् आह-यदि च इति । यथा हि मैत्रेणाधीतस्य शास्त्रस्य न चैत्रः स्मरति । यथा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा कर्माशयस्य आत्मामात्रम् तद्-असम्बन्ही चैत्रो न भुङ्क्ते, एवं प्रत्ययान्तर-दृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरोपचितस्य वा कर्माशयस्य आत्मामात्रम् च न प्रत्ययान्तरम् उपभुञ्जीतेत्य् अर्थः ।

ननु नातिप्रसज्यते, कार्य-कारण-भावे९६सतीति विशेषणाच् छ्राद्ध-वैश्वानरीयेष्ट्य्-आदाव् अकर्तृ-मातृ-पित्र्-आदि-गामि-आत्मामात्र-दर्शनान् मधुर-रस-भावितानाम् आम्र-बीजादीनां परम्परया आत्मामात्र-माधुर्य-नियमाद् इत्य् अत आहकथञ्चित् समाधीयमानम् अप्य् एतत् । अयम् अभिसन्धिःकः खल्व् एक-सन्तान-वर्तिनां प्रत्ययानां सन्तानान्तर-वर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैक-सन्तान-वर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्माशयस्य तत्-सन्तानवर्त्य् एव प्रत्ययः स्मर्ता भोक्ता च स्यान् नान्य-सन्तान-वर्ती ? न हि सन्तानो नाम कश्चिद् अस्ति वस्तु सन् य एनं सन्तानिनं सन्तानान्तर-वर्तिभ्यो भिन्द्यात् । न च काल्पनिको भेदः क्रियायाम् उपपद्यते । न खलु कल्पिताग्नि-भावो माणवकः पचति । न च कार्य-कारण-भाव-सम्बन्दोऽपि वास्तवः । सह-भुवोः सव्येतर-विषाणयोर् इवाभावाद् असहभुवोर् अपि प्रत्युत्पन्नाश्रयत्वायोगात् । न ह्य् अतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुम् अर्हतः । तस्मात् सन्तानेन वा कार्य-कारण-भावेन वा स्वाभाविकेनानुपहिताः परमार्थ-सन्तः प्रत्ययाः परस्परासंस्पर्शित्वेन स्व-सन्तान-वर्तिभ्यः पर-सन्तान-वर्तिभ्यो वा प्रत्यान्तरेभ्यो न भिद्यन्ते ।

सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायः-गोमयं पायसंगव्यत्वाद् उभय-सिद्ध-पायसवदिति । तम् आक्षिपति न्यायाभासत्वेन ततोऽप्य् अधिकत्वादिति । न चात्र कृत-नाशाकृताभ्यागम-चोद्यम् । यतश् चित्तम् एव कर्मणां कर्तृ, तद् एव तज्-जनिताभ्यांसुख-दुःखाभ्यां युज्यते । सुख-दुःखे च चिति-च्छायापन्नं चित्तं भुङ्क्तेइतिपुरुषे भोगाभिमानश् चिति-चित्तयोर् अभेद-ग्रहादिति । स्व-प्रत्ययं प्रतीत्य समुत्पन्नानांस्वभाव एवैषां तादृशो यत्त एव स्मरन्ति आत्मामात्रम् चोपभुञ्जते, न त्व् अन्ये । न च स्वभावो नियोग-पर्यनुयोगाव् अर्हति-एवं भवतु, मैवं भूदिति वा । कस्मान् नैवमिति वेति ।

यः पूर्वोक्ते न परितुष्यति तं प्रत्य् आह-किं च, स्वात्म – इति । उदय-व्यय-धर्माणाम् अनुभवानाम् अनुभव-स्मृतीनां च नानात्वेऽपि तद्-आश्रयम् अभिन्नं चित्तम् अहमिति प्रत्ययः प्रतिसन्दधानः कथम् अत्यन्त-भिन्नान् प्रत्ययानालम्बेत् ।

ननु ग्रहण-स्मरण-रूप-कारण-भेदात् पारोक्ष्य-रूप-विरुद्ध-धर्म-संसर्गाद् वा न प्रत्यभिज्ञानं नामैकः प्रत्ययो यतः प्रत्ययिनश् चित्तस्य इकता स्याद् इत्य् अत आह-स्वानुभवेति ।

ननु कारण-भेद-विरुद्ध-धर्म-संसर्गाव् अत्र बाधकाव् उक्ताव् इत्य् अत आह-न च प्रत्यक्षस्येति ।प्रत्यक्षानुसारत एव सामग्र्य-भेदः पारोक्ष्यापारोक्ष्य-धर्माविरोधश् चोपपादितो न्याय-कणिकायाम् । अक्षणिकस्य चार्थ-क्रिया न्याय-कणिका-ब्रह्म-तत्त्व-समीक्षेणभावुपपादितेति सर्वम् अवदातम् ॥३२॥

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥

अपरिकर्मित-मनसोऽसूयादिमतः समाधि-तद्-उपाय-सम्पत्त्य्-अनुत्पादाच् चित्त-प्रसादनोपायान् असूयादि-विरोधिनः प्रतिपादयितुम् उपक्रमते-यस्येदमिति । यस्य चित्तस्य व्युत्थितस्येदं परिकर्म इत्य् अर्थः । मैत्री-करुणेत्य्-आदिप्रसादनान्तं सूत्रम् ।

सुखितेषु मैत्रीं सौहार्दं भावयत ईर्ष्या-कालूष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणाम् आत्मनीव परस्मिन्दुःख-प्रहाणेच्छां भावयतः परापकार-चिकीर्षा-कालूष्यं चेतसो निवर्तते । पुण्य-शीलेषु प्राणिषु मुदितां हर्षं भावयतोऽसूया-कालुष्यं चेतसो निवर्तते । अपुण्य-शीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्ष-कालुष्यं चेतसो निवर्तते ।

ततश् चास्य राजस-तामस-धर्म-निवृत्तौ शुक्लो धर्म उपजायते । सत्त्वोत्कर्ष-सम्पन्नः सम्भवति । वृत्ति-निरोध-पक्षे तस्य प्रसाद-स्वाभाविक्याच् चित्तं प्रसीदति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थिति-पदं लभते । असत्यां पुनर् मैत्र्य्-आदि-भावनायां, न तु उपायाः स्थित्यै कल्पन्तैति ॥३३॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

तान् इदानीं स्थित्य्-उपायान् आह-प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य । वा-शब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः । न मैव्यादि-भावापेक्षया । तया सह समुच्चयात् ।

प्रच्छर्दनं विवृणोति-कौष्ठ्यस्येति । प्रयत्न-विशेषाद् योग-शास्त्र-विहिताद् येन कौष्ठ्यो वायुर् नासिका-पुटाभ्यां शनै रेच्यते । विधारणं विवृणोति—विधारणं प्राणायामः । रेचितस्य प्राणस्य कौष्ठ्य् अस्य वायोर् यद् आयामो बहिर् एव स्थापनं, न तु सहस्या प्रवेशनम् । तद् एताभ्यां प्रच्छर्दन-विधारणाभ्यां वायोर् लघूकृत-शरीरस्य मनः स्थिति-पदं लभते । अत्र चोत्तर-सूत्र-गतात् स्थिति-निबन्धनीति पदात् स्थिति-ग्रहणम् आकृष्य सम्पादयेद् इत्य्-अर्थ-प्राप्तेन सम्बन्धनीयम् ॥३४॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥३५॥

स्थित्य्-उपायान्तरम् आह-विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥ व्याचष्टेनासिकाग्रे धारयतैति । धारणा-ध्यान-समाधीन् कुर्वतस् तज्-जयाद्या दिव्य-गन्ध-संवित्-तत्-साक्षात्कारः । एवम् अन्यास्व् अपि प्रवृत्तिषु योज्यम् । एतच् चागमात् प्रत्येतव्यं नोपपत्तितः । स्याद् एतत्, किम् एतादृग्भिर् वृत्तिषु कैवल्यं प्रत्यनुपयोगिनीभिर् इत्य् अत आह-एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाः चित्तम् ईश्वर-विषयायां वा विवेक-ख्याति-विषयायां वा स्थितौ निबध्नन्ति ।

नन्व् अन्य-विषया वृत्तिः कथम् अन्यत्रस्थितिं निबन्ध्नातीत्य् अत आह-संशयं विधमन्ति अपसारयन्ति । अत एवसमाधि-प्रज्ञायामिति । वृत्त्य्-अन्तराणाम् अप्य् आगम-सिद्धानां विषयवत्त्वम् अतिदिशतिएतेनेति ।

नन्व् आगमादिभिर् अवगतेष्व् अर्थेषु कुतः संशय इत्य् अत आह-यद्यपि हीति । श्रद्धा-मूलो हि योगः । उपदिष्टार्थैक-देश-प्रत्यक्षी-करणे च श्रद्धातिशयो जायते । तन्-मूलाश् च ध्यानादयोऽस्याप्रत्यूहं भवन्तीत्य् अर्थः ॥३५॥

विशोका वा ज्योतिष्मती ॥३६॥

विशोका वा ज्योतिष्मती ॥ विगत-शोका दुःख-रहिता । ज्योतिष्मती ज्योतिर् अस्या अस्तीति ज्योतिष्मती प्रकाश-रूपा । हृदय-पुण्डरीके इति । उदरोरसोर् मध्ये यत् पद्मम् अधोमुखं तिष्ठत्य् अष्टदलं रेचक-प्राणायामेन तद् ऊर्ध्व-मुखं कृत्वा तत्र चित्तं धारयेत् । तन्-मध्ये सूर्य-मण्डलम् अ-कारो जागरित-स्थानम् । तस्योपरि चन्द्र-मण्डलम् उ-कारः स्वप्न-स्थानं, तस्योपरि वह्नि-मण्डलं म-कारः सुषुप्ति-स्थानं, यस्योपरि पर-व्योमात्मकम्ब्रह्म-नादं तुरीय-स्थानम् अर्ध-मात्रम् उदाहरन्ति ब्रह्म-वादिनः । तत्र कर्णिकायाम् ऊर्ध्व-मुखी सूर्यादि-मण्डल-मध्यगा ब्रह्म-नाडी । ततोऽप्य् ऊर्ध्वं प्रवृत्ता सुषुम्णा नाम नाडी, तया खलु बाह्यान्य् अपि सूर्यादीनि प्रोतानि । सा हि चित्त-स्थानम् । तस्यां योगिनश् चित्त-संविद् उपजायते । उपपत्ति-पूर्वकं बुद्धि-संविद् आकारम् आदर्शयति-बुद्धि-सत्त्वं हि इति ।

आकाश-कल्पमिति व्यापिताम् आह । सूर्यादीनां प्रभास् तासांरूपम् तद्-आकारेण विकल्पते नाना-रूपा भवति । मनश् चात्र बुद्धिर् अभिमतं, न तु महत्-तत्त्वम् । तस्य च सुषुम्ना-स्थस्य वैकारिकाहङ्कार-जन्मनः सत्त्व-बहुलतया ज्योती-रूपता विवक्षिता, तत्-तद्-विषय-गोचरतया च व्यापित्वम् अपि सिद्धम् ।

अस्मिता-कार्ये मनसि समापत्तिं दर्शयित्वाऽस्मिता-समापत्तेः स्वरूपम् आह-तथाइति । शान्तमपगत-रजस्-तरङ्गम् । अनन्तम्व्यपि । अस्मिता-मात्रंन पुनर् नाना-प्रभा-रूपम् । आगमान्तरेण स्व-मतं समीकरोतियत्रैति । यत्रेदम् उक्तं पञ्चशिखेनतम् अणुं दुरधिगमत्वाद् आत्मानमहङ्कारास्पदम् अनुविद्यानुचिन्त्यास्मीत्य् एवंतावत्जानीतैति ।

स्याद् एतत्-नाना-प्रभा-रूपा भवतु ज्योतिष्मती, कथम् अस्मित्मा-मात्र-रूपा ज्योतिष्मतीत्य् आह-एषा द्वयी इति। विधूतरजस्-तमो-मलास्मितैव सत्त्वमयी ज्योतिरिति भावः । द्विविधाया अपि ज्योतिष्मत्याः आत्मामात्रम् आहयथेति ॥३६॥

वीतरागविषयं वा चित्तम् ॥३७॥

वीत-राग-विषयं वा चित्तम् ॥ वीत-रागाः कृष्ण-द्वैपायन-प्रभृतयस् तेषां चित्तं तद् एवालम्बनं, तेनोपरक्तमिति ॥३७॥

स्वप्न निद्राज्ञानालम्बनं वा ॥३८॥

स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥ यदा खल्व् अयं विविक्त-वन-संनिवेश-वर्तिनीम् उत्कीर्णाम् इव चन्द्र-मण्डलात् कोमल-मृणाल-शकलानुकारिभिर् अङ्ग-प्रत्यङ्गैर् उपेताम् अभिजात-चन्द्रकान्त-मणि-मयीम् अतिसुरभि-मालती-मल्लिका-माला-हारिणीं मनोहरां भगवतो महेश्वरस्य प्रतिमाम् आराधयन्न् एव प्रबुद्धः प्रसन्न-मनाः, तदा ताम् एव स्वप्न-ज्ञानालम्बनी-भूताम् अनुचिन्तयतस् तस्य तद्-एकाकार-मनसस् तत्रैव चित्तं स्थिति-पदं लभते । निद्रां चेह सात्त्विकी ग्रहीतव्या, यस्याः प्रबुद्धस्य सुखम् अहम् अस्वाप्समिति प्रत्यवमर्शी भवति । एकाग्रं हि तस्यां मनो भवति । तावन्-मात्रेण चोक्तं-एतद् एवब्रह्म-विदो ब्रह्मणो रूपम् उदाहरन्ति सुषुप्तावस्थेति । ज्ञानम् च ज्ञेय-रहितं न शक्यं गोचरयितुमिति ज्ञेयम् अपि गोचरीक्रियते॥३८॥

यथांभिमतध्यानाद्वा ॥३९॥

यथाभिमत-ध्यानाद् वा ॥ किं बहुना ? यद् एवाभिमतं तत् तद् देवता-रूपमिति ॥३९॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

कथं पुनः स्थिति-पदम् आत्मी-भावोऽवगन्तव्य इत्य् अत आह-परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः ॥व्याचष्टेसूक्ष्मैति । उक्तम् अर्थं पिण्डीकृत्य वशीकार-पदार्थम् आहएवं ताम् उभयीमिति । वशीकारस्यावान्तर-आत्मामात्रम् आहतद्-वशीकारादिति ॥४०॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥

तद् एवं चित्त-स्थितेर् उपाया दर्शिताः । लब्ध-स्थितिकस्य चित्तस्य वशीकारोऽपि दर्शितः । सम्प्रति लब्ध-स्थितिकस्य चेतसः किं-विषयः किं-रूपश् च सम्प्रज्ञातो भवतीति पृच्छति-अथेति । अत्रोत्तर-सूत्रम् अवतारयतितद् उच्यतेइति । सूत्रं पठतिक्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनतासमापत्तिः ॥

तद् व्याचष्टे-क्षीणेति । अभ्यास-वैराग्याभ्यां क्षीण-राजस-तामस-प्रमाणादि-वृत्तेश् चित्तस्य । तस्य व्याख्यानम्प्रत्यस्तमित-प्रत्ययस्येति । तद् अनेन चित्त-सत्त्वस्य स्वभाव-स्वच्छस्य रजस्-तमोभ्याम् अभिभव उक्तः । तं स्पष्टयतियथेति । उपाश्रयः उपाधिर् जपा-कुसुमादिः । उपरक्तस् तच्-छायापन्नः । उपाश्रयस्य यदात्मीयं रूपं लोहित-नीलादि तद् एवाकारस् तेन लक्षितो निर्भासते । दार्ष्टन्तिके योजयतितथा ग्राह्येति । ग्राह्यं च तद्-आलम्बनं च तेनोपरक्तं तद्-अनुविद्धम् । तद् अनेन ग्रहीतृ-ग्रहणाभ्यां व्यवच्छिनत्ति । आत्मीयम् अन्तःकरण-रूपम् अपिधाय ग्राह्य-समापन्नं ग्राह्यताम् इव प्राप्तमिति यावत् । अतो ग्राह्य-स्वरूपाकारेण निर्भासते । ग्राह्योपरागम् एव सूक्ष्म-स्थूलताभ्यां विभजतेभूत-सूक्ष्मेति । विश्व-भेदश् चेतनाचेतन-स्वभावो गवादिर् घटादिश् च द्रष्टव्यः । तद् अनेन वितर्क-विचारानुगतौ समाधी दर्शितौ ।

तथा ग्रहणेष्व् अपीन्द्रियेष्विति । गृह्यन्त एभिर् अर्थाइति ग्रहणानीन्द्रियाणि । एतद् एव स्पष्टयति-ग्रहणालम्बनेति । ग्रहणं चालम्बनं च तदिति ग्रहणालम्बनम् । तेनोपरक्तम् अनुविद्धम् आत्मीयम् अन्तःकरण-रूपम् अपिधाय ग्रहणम् इव बहिष्करण् इवापन्नमिति । तद् अनेनानन्दानुगत-मुक्तास्मितानुगतम् आहतथा ग्रहीतृ-पुरुषेति । अस्मितास्पदं हि ग्रहीता पुरुषैति भावः । पुरुषत्वाविशेषापदनेनैव मुक्तोऽपिपुरुषः शुक-प्रह्लादादिः समाधि-विषयतया सङ्ग्रहीतव्य इत्य् आहतथा मुक्तेति ।

उपसंहरंस् तत्-स्थ-तद्-अञ्जनता-पदं व्याचष्टे-तद् एवमिति । तेषु ग्रहीतृ-ग्रहण-ग्राह्येषु स्थितस्य धारितस्य ध्यान-परिपाक-वशाद् अपहत-रजस्-तमो-मलस्य चित्त-सत्त्वस्य या तद्-अञ्जनता तद्-आकारता, सा समापत्तिः सम्प्रज्ञात-लक्षणो योगः उच्यते । तत्र च ग्रहीतृ-ग्रहण-ग्राह्येष्विति सौत्रः पाठ-क्रमोऽर्थ-क्रमाविरोधान् नादर्तव्यः । एवं भाष्येऽपि प्रथमं भूत-सूक्ष्मोपन्यासो नादरणीयैतिसर्वं रमणीयम् ॥४१॥

तत्र शब्दार्थज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥४२॥

सामान्यतः समापत्तिर् उक्ता । सेयम् अवान्तर-भेदाच् चतुर्विधा भवति । तद् यथा-स-वितर्का, निर्वितर्का, सविचारा, निर्विचाराइति । तत्र स-वितर्कायाः समापत्तेर् लक्षणम् आह-तत्रेत्य्-आदि समापत्त्य्-अन्तं सूत्रम् । तत्र तासु समापत्तिषु मध्ये स-वितर्का समापत्तिः प्रतिपत्तव्या । कीदृशी ? शब्दश्चार्थश् च ज्ञानं च तेषां विकल्पाः । वस्तुतो भिन्नानाम् अपि शब्दादीनाम् इतरेतराध्यासाद् विकल्पः । अप्य् एकस्मिन् भेदम् आदर्शयति भिन्नेषु चाभेदम् । तेनशब्दार्थ-ज्ञान-विकल्पैः सङ्कीर्णा व्यामिश्रेत्य् अर्थः ।

तद् यथा, गौरितिशब्दैति । गौर् इत्य् उपात्तयोर् अर्थ-ज्ञानयोः शब्दाभेद-विकल्पो दर्शितः । गौर् इत्य् अर्थैति । गौर् इत्य् उपात्तयोः शब्द-ज्ञानयोर् अर्थाभेद-विकल्पो दर्शितः । गौरिति ज्ञानमिति । गौर् इत्य् उपात्तयोः शब्दार्थयोर् ज्ञानाभेद-विकल्पः । तद् एवम् अविभागेन विभक्तानाम् अपिशब्दार्थ-ज्ञानानांग्रहणं लोके द्रष्टव्यम् ।

यद्य् अविभागेन ग्रहणं कुतस् तर्हि विभाग इत्य् अत आह-विभज्यमानाश् चेति । विभज्यमानाश् चान्वय-व्यतिरेकाभ्यां परीक्षकैः, अन्ये शब्द-धर्माः, ध्वनि-परिणाम-मात्रस्य शब्दस्योदात्तादयो धर्माः । अन्येऽर्थस्य जडत्व-मूर्तत्वादयः, अन्ये प्रकाश-मूर्ति-विरहादयो ज्ञानस्य धर्माइति । तस्माद् एतेषां विभक्तः पन्थाः स्वरूप-भेदोन्नयन-मार्गः । तत्र विकल्पिते गवाद्य्-अर्थे समापन्नस्येति । तद् अनेन योगिनोऽपरं प्रत्यक्षम् उक्तम् । शेषं सुगमम् ॥४२॥

तद् यथा गौरिति शब्दो गौर् इत्य् अर्थो गौरिति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम् । विभज्यमानाश् चान्ये शब्द-धर्मा अन्येऽर्थ-धर्मा अन्ये ज्ञान-धर्मा इत्य् एतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्य्-अर्थः समाधि-प्रज्ञायां समारूढः स चेच् छब्दार्थ-ज्ञान-विकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते ॥४२॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निवितर्का ॥४३॥

सूत्रं योजयितुं प्रथमतस् तावन् निर्वितर्कां व्याचष्टे-यदा पुनरिति । परिशुद्धिर् अपनयः । शब्द-सङ्केत-स्मरण-पूर्वे खल्व् आगमानुमाने प्रवर्तेते । सङ्केतश् चायं गौरिति शब्दार्थ-ज्ञानानाम् इतरेतराध्यासात्मकः । ततश् चागमानुमान-ज्ञान-विकल्पौ भवतः । तेन तत्-पूर्वा सिद्धान्ति-प्रज्ञा सवितर्का ।

यदा पुनर् अर्थ-मात्र-प्रवणेन चेतसार्थ-मात्रादृतेन तद्-अभ्यासान् नान्तरीकताम् उपगता सङ्केत-स्मृतिस् त्यक्ता, तत्-त्यागे च श्रुतानुमान-ज्ञान-विकल्पौ तन्-मूलौ त्यक्तौ, तदा तच्-छून्यायांसमाधि-प्रज्ञायांस्वरूप-मात्रेणावस्थितोऽर्थस् तत्-स्वरूपाकार-मात्रतयैव, न तु विकल्पितेनाकारेण परिच्छिद्यते, सा निर्वितर्का समापत्तिरिति । तद् योगिनां परं प्रत्यक्षम् असद्-आरोप-गन्धस्याप्य् अभावात् ।

स्याद् एतत्-परेण प्रत्यक्षेणार्थ-तयाम् गृहीत्वा योगिन उपदिशन्त्य् उपपादयन्ति च । कथं चातद्-विषयाभ्याम् आगम-परार्थानुमानाभ्यां सोऽर्थ उपदिश्यत उपपाद्यते च ? तस्माद् आगामानुमाने तद्-विषये, ते च विकल्पावितिपरम् अपि प्रत्यक्षं विकल्प एवेत्य् अत आह-तच् च श्रुत- इति । यदि हि स-वितर्कम् इव श्रुतानुमान-सहभूतम् तद्-अनुषक्तं स्याद् भवेत् सङ्कीर्णम् । तयोस् तु बीजम् एवैतत् । ततो हि श्रुतानुमाने प्रभवतः । न च यद् यस्य कारणम् तत्-तद्-विषयम् भवति । न हि धूम-ज्ञानं वह्नि-ज्ञान-कारणमिति वह्नि-विषयम् । तस्माद् अविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्प्योपदिशन्ति चोपपादयन्ति च । उपसंहरतितस्मादिति । व्याख्येयं सूत्रं योजयतिनिर्वितर्कायाइति । स्मृति-परिशुद्धौ इत्य् आदि सूत्रम् ।

शब्द-सङ्केतश् श्रुतं चानुमानं च, तेषां ज्ञानम् एव विकल्पस् तस्मात् स्मृतिस् तस्याः परिशुद्धिर् अगमस् तस्याम् । अत्रच सङ्केत-स्मृति-परिशुद्धि-हेतुः, श्रुतादि-ज्ञान-स्मृति-परिशुद्धिश् च हेतुमती । अनुमान-शब्दश् च कर्म-साधनोऽनुमेय-वाचकः । स्व-मिआर्रय्तीव-कारो भिन्न-क्रमस् त्यक्त्वेति-पदानन्तरं द्रष्टव्यः ।

विषय-विप्रतिपत्तिं निराकरोति-तस्या एक- इति । एकां बुद्धिम् उपक्रमत आरभत इत्य् एक-बुद्ध-उपक्रमः । तद् अनेन परमाणवो नानात्मनो न निर्वितर्क-विषया इत्य् उक्तं भवति, योग्यत्वेऽपि तेषां परम-सूक्ष्माणां नाना-भूतानां महत्त्वैकात्मर्थ-समवेतैकत्व-निर्भास-प्रत्यय-विषयत्वायोगात् ।

अस्तु तर्हि परमार्थ-सत्सु परमाणुषु सांवृतः प्रतिभास-धर्मः स्थौल्यम् इत्य् अत आह-अर्थात्म- इति । नासति बाधके स्थूलम् अनुभव-सिद्धं शक्यापह्नवमिति भावः । तत्र ये पश्यन्ति द्व्य्-अणुकादि-क्रमेण गो-घटादय उपजायन्तैति तान् प्रत्य् आहअणु-प्रचय- इति । अणूनां प्रचयः स्थूल-रूप-परिणामः । स च विशिष्यतेऽन्यस्मात् परिणामान्तरात् । स एवात्म स्वरूपं यस्य स तथोक्तः । गवादिर् भोगायतनम् । घटादिर् विषयः । तच् चैतद् उभयम् अपि लोक्यतैतिलोकः ।

नन्व् एष भूत-सूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्यात् । भिन्नश् चेत् कथं तद्-आश्रयः, कथं च तद्-आकारः ? न हि घटः पटाद् अन्यस् तद्-आकारस् तद्-आश्रयो वा । अभिन्नश् चेत् तद्वद् एव सूक्ष्मोऽसाधारणश् च स्यात्, अत आह-स चैति । अयम् अभिप्रायःनैकान्ततः परमाणुभ्यो भिन्नो घटादिर् अभिन्नो वा । भिन्नत्वे गवाश्ववद्-धर्म-धर्मि-भावानुपपत्तेः । अभिन्नत्वे धर्मि-रूपवत् तद्-अनुपपत्तेः । तस्मात् कथंचिद् भिन्नः कथञ्चिद् अभिन्नश् चास्थेयः । तथा च सर्वम् उपपद्यते । भूत-सूक्ष्माणामिति षष्ठ्या कथञ्चिद् भेदं सूचयति, आत्म-भूतैति चाभेदम् । आत्ममात्रेन व्यक्तेन तद्-अनुभव-लक्षणेन तद्-व्यवहार-लक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः ।

कारणाभेदेन च कारणाकारतोपपन्नेत्य् आह-स्व-व्यञ्जकाञ्जन इति । स किं तद्-आत्म-भूतो धर्मो नित्यः ? न, इत्य् आह-धर्मान्तरैति । धर्मान्तरस्य कपालादेर् उदय इत्य् अर्थः । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपम् आदर्शयतिस एषैति । परमाणु-साध्यायाः क्रियायाः अन्या क्रिया मधूदकादि-धारण-लक्षणा, तद्-धर्मकैति । न केवलम् अनुभवाद् अपि तु व्यवहारतोऽपि, तन्-निबन्धनत्वाल् लोक-यात्राया इत्य् आह-तेनैति ।

स्याद् एतत् । असति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकम् । यत् सत् तत् सर्वम् अनवयवम् । यथा विज्ञानम् । सच् च गो-घटादीति स्वभाव-हेतुः । सत्त्वं हि विरुद्ध-धर्म-संसर्ग-रहितत्वेन व्याप्तम् । तद्-विरुद्धश् च विरुद्ध-धर्म-संसर्गः सावयव उपलभ्यमानो व्यापक-विरुद्धोपलब्ध्या सत्त्वम् अपि निवर्तयति ।

अस्ति चावयविनि तद्-देशत्वातद्-देशत्वावृतत्वानावृतत्व-रक्तत्वारक्तत्व-चलत्वाचलत्व-लक्षणो विरुद्ध-धर्म-संसर्गः, इत्य् अत आह-यस्य पुनरिति । अयम् अभिप्रायःअनुभव-सिद्धं सत्त्वं हेतुः क्रियते यत् किल पांशुल-पादुको हालिकोऽपि प्रतिपद्यते, अन्यद् वानुभव-सिद्धात् ? तत्रान्यद् असिद्धत्वाद् हेतुः । अनुभव-सिद्धं तु घटादीनां सत्त्वम् अर्थ-क्रिया-कारित्व-रूपं न स्थूलाद् अन्यत् । सोऽयं हेतुः स्थूलत्वम् अपाकुर्वन्न् आत्मना एव व्याहन्ति ।

ननु न स्थूलत्वम् एव सत्त्वं, अपि त्व् असतो व्यावृत्तिः । अस्थौल्याभावेऽपि न सत्त्व-व्याहतिः, अन्यत्वात् । भवतु वा व्यावृत्ति-भेदाद् अवसाय-विषय-भेदः । यत् पूर्वकास् त्व् अवसायास् तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषयैति निरूपयतु भवान् ? रूप-परमाणवो निरन्तरोत्पादा अगृहीत-परम-सूक्ष्मत्वात् ?इति चेत्, हन्त ! एते गन्ध-रस-स्परश-परमाणुभिर् अन्तरिता न निरन्तराः । तस्माद् अन्तरालाग्रह एक-धनवनप्रत्ययवत् परमाण्व्-आलम्बनः सन्न् अयं विकल्पो मिथ्येति तत्-प्रभवा विकल्पा न पारम्पर्येनापि वस्तु-प्रतिबद्धाइति कुतस् तद्-अवसितस्य सत्त्वस्यानवयवत्व-साधकत्वम् ? तस्माद् अविकल्पकस्य प्रत्यक्षस्य प्रामाण्यम् इच्छता तद् अनुभूयमान-स्थौल्यस्यैव सत्त्वम् अविकल्पावसेय-कामयताप्य् अभ्युपेयम् । तथा च तद् बाधमानं सत्त्वम् आत्मानम् एवापबाधेत । परम-सूक्ष्माः परमाणवो विजातीय-परमाण्व्-अनन्तरिता अनुभव-विषयाइति व्याहतम् अङ्गीकरणम् ।

तद् इदम् उक्तम्-यस्य पुनरवस्तुकः स प्रचय-विशेषः निर्विकल्पस्य विषयः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्प-विषया इत्य् अत आह—सूक्ष्मंच कारणम् अनुपलभ्यम् अविकल्पस्यैति । तस्यावयव्य-भावाद् हेतोर् अतद्-रूप-प्रतिष्ठं मिथ्या-ज्ञानमिति लक्षणेन सर्वम् एव प्राप्तं मिथ्या-ज्ञानम् । यच् च तद्-अधिष्ठान-सत्त्वालम्बनम् इत्य् अर्थः ।

नन्व् एतावतापि न ज्ञानम् आत्मनि मिथ्या भवति, तस्यावयवित्वेनाप्रकाशाद् इत्य् अत आह-प्रायेणेति ।

ननु किम् एतावतापि ? इत्य् अत आह-तदा चैति । सत्त्वादि-ज्ञानम् चेन् मिथ्या, तदा सत्त्वादि-हेतुकम् अनवयवित्वादि-ज्ञानम् अपि मिथ्यैव । तस्यापि हि निर्विकल्पागोचर-स्थूलम् एवावसेयतया विषयः । स च नास्तीति तात्पर्यथार्थः ।

विषयाभाव एव कुतः ? इत्य् अत आह-यद् यदिति । विरोधश् च परिणाम-वैचित्र्येण भेदाभेदेन चोक्तोपपत्त्य्-अनुसारेणोद्धर्तव्यैति सर्वं रमणीयम् ॥४३॥

 एतयैव सविचारा निविचारा च सूक्ष्मविषया व्याख्याता ॥४४॥

एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता । अभिव्यक्तो घटादिर् धर्मो यैस् ते तथोक्ता । घटादि-धर्मोपगृहीताइति यावत् । देश उपर्य्-अधः-पार्श्वादिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर् गन्ध-तन्मात्र-प्रधानेभ्यः पञ्च-तन्मात्रेभ्य उत्पत्तिः । एवम् आप्यस्य परमाणोर् गन्ध-तन्मात्र-वर्जितेभ्यो रस-तन्मात्र-प्रधानेभ्यश् चतुर्भ्यः । एवं तैजसस्य गन्ध-रस-तन्मात्र-रहितेभ्यो रूप-तन्मात्र-प्रधानेभ्यस् त्रिभ्यः । एवं वायवीयस्य गन्धादि-तन्मात्र-रहिताभ्यां स्पर्श-प्रधानाभ्यां स्पर्श-शब्द-तन्मात्राभ्याम् । एवं नाभसस्य शब्द-तन्मात्राद् एवैकस्मात् । तद् इदं निमित्तं भूत-सूक्ष्माणाम् । एतेषां देश-काल-निमित्तानाम् अनुभवः, तेनावच्छिन्नेषु । नाननुभूत-विशेषणा विशेष्ये बुद्धि-रूपजायत इत्य् अर्थः ।

ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्य् अत आह-तत्रापिइति । पार्थिवो हि परमाणुः पञ्च-तन्मात्र-प्रचयात्मैक-बुद्धि-निर्ग्राह्यः । एवम् आप्यादयोऽपि चतुस्-त्रि-द्व्य्-एक-तन्मात्रात्मन एक-बुद्धि-निर्ग्राह्या वेदितव्याः । उदितो वर्तमानो धर्मस् तेन विशिष्टम् । एतावता चात्र सङ्केत-स्मृत्य्-आगमानुमान-विकल्पानुवेधः सूचितः । न हि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते, अपि त्व् आगमानुमानाभ्याम् । तस्माद् उपपन्नम् अस्याः सङ्कीर्णत्वमिति ।

निर्विचाराम् आह-या पुनरिति । सर्वथासर्वेण नील-पीतादिना प्रकारेण । सर्वतैति हि सार्वविभक्तिकस् तसिः, सर्वैर् देश-काल-निमित्तानुभवैर् इत्य् अर्थः । तद् अनेन स्वरूपेण कालानवच्छेदः परमाणूनामिति दर्शितम् । नापि तद्-आरब्ध-धर्म-द्वारेणेत्य् आह-शान्तेति । शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास् तैर् अनवच्छिन्नेषु।

नन्व् अभव-च्छिन्ना धर्मैः परमाणवः किम् असम्बद्धा एव तैर् इत्य् अत आह-सर्व-धर्मानुपातिष्विति । कतमेन सम्बन्धेन धर्माननुपतन्ति परमाणव इत्य् अत आहसर्व-धर्मात्मकेषु । कथंचिद् भेदः कथंचिद् अभेदो धर्माणां परमाणुभ्य इत्य् अर्थः । कस्मात् पुनर् इयं समापत्तिर् एतद्विषत्येयत आहएवं-स्वरूपं हीति । वस्तु-तत्त्व-ग्राहिणी नातयाए प्रवर्तत इत्य् अर्थः । विषयम् अभिधायास्याः स्वरूपम् आहप्रज्ञा चेति ।

सङ्कलय्य स्वरूप-भेदोपयोगि-विषयम् आह-तत्रेति । उपसंहरतिएवमिति उभयोर् आत्मनश् च निर्विचारायाश् चेति ॥४४॥

सूक्ष्मविषयत्वं चाऽऽलिङ्गपर्यवसानम् ॥४५॥

किं भूत-सूक्ष्म एव ग्राह्य-विषया सर्वमापत्तिः समाप्यते ? न, किन्तु सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥

पार्थिवस्य परमाणोः सम्बन्धिनी या गन्ध-तन्-मात्रता, सा समापत्तेः सूक्ष्मो विषयः । एवम् उत्तरत्रापि योज्यम् । लिङ्ग-मात्रं महत्-तयां, तद् धि लयं गच्छति प्रधानैति । अलिङ्गं प्रधानम् । तद् धि न क्वचिल् लयं गच्छतीत्य् अर्थः । अलिङ्ग-पर्यवसानम् आह-न चालिङ्गात् परमिति ।

चोदयति-ननुइति । पुरुषोऽपि सूक्ष्मो नालिङ्गम् एवेत्य् अर्थः । परिहरतिसत्यमिति । उपादानतया सौक्ष्म्यम् अलिङ्ग एव नान्यत्रेत्य् अर्थः । तथापुरुषार्थ-निमित्तत्वान् महद्-अहङ्कारादेः पुरुषोऽपिकारणम् अलिङ्गवदिति कुत एवं-लक्षणम् अलिङ्गस्यैव सौक्ष्म्यम् इत्य् आशयवान् पृच्छतिकिं त्विति । उत्तरम् आहलिङ्गस्यैति । सत्यं कारणं न तूपादानम् । यथा हि प्रधानं महद्-आदि-भावेन परिणमते न तथापुरुषस् तद्-धेतुर् अपीत्य् अर्थः । उपसंहरतिअतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥

ता एव सबोज: समाधिः ॥४६॥

चतसृणाम् अपि समापत्तीनां ग्राह्य-विषयाणांसम्प्रज्ञातत्वम् आह-ता एव स-बीजः समाधिः ॥ एव-कारोऽभिन्न-क्रमः सबीज इत्य् अस्यानन्तरं द्रष्टव्यः । ततश् चतस्रः समापत्तयो ग्राह्य-विषयाः सबीजतया नियम्यन्ते । सबीजता त्व् अनियता ग्रहीतृ-ग्रहण-गोचरायाम् अपि समापत्तौ विकल्पाविकल्प-भेदेनानिषिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः समापत्तयो ग्रहीतृ-ग्रहणयोश् च चतस्र इत्य् अष्टौ सिद्धा भवन्तीति । निगद-व्याख्यात भाष्यम् ॥४६॥

निविचारवंशार द्येऽध्यात्मप्रसादः ॥४७॥

चतसृष्व् अपि समापत्तिषु ग्राह्य-विषयासु निर्विचारायाः शोभनत्वम् आह-निर्विचार-वैशारद्येऽध्यात्म-प्रसादः ॥

वैशारद्य्-अपदार्थम् आह-अशुद्धीति । रजस्-तमसोर् उपचयोऽशुद्धिः, सैवावरण-लक्षणो मलस् तस्माद् अपेतस्य प्रकाशात्मनः प्रकाश-स्वभावस्य बुद्धि-सत्त्वस्य । अत एवानभिभूतैति । स्याद् एतत्, ग्र्हाह्य-विषया चेत् समापत्तिः कथम् आत्म-विषयः प्रसादः ? इत्य् अत आह-भूतार्थ-विषयैति । नात्म-विषयः किं तु तद्-आधार इत्य् अर्थः । क्रमान

नुरोधी युगपद् इत्य् अर्थः । अत्रैव पारमर्षी गावान् उदाहरति-तथा चैति । ज्ञानालोक-प्रकर्षेणात्मानंसर्वेषाम् उपरि पश्यन् दुःख-त्रय-परीतान् शोचतो जनान् जानाति ॥४७॥

 ऋतम्भरा तत्र प्रज्ञा ॥४८॥

अत्रैव योगी-जन-प्रसिद्धान्वर्थ-संज्ञा-कथनेन योग-संमतिम् आह-ऋतंभरा तत्र प्रज्ञा ॥ सुगमं भाष्यम् । आगमेनेति वेद-विहितं चरणारविन्दम् उक्तम् । अनुमानेनेति मननम् । ध्यानं चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन् रस आदरः । तद् अनेन निदिध्यासनम् उक्तम् ॥४८॥

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

स्याद् एतत् । आगमानुमान-गृहीतार्थ-विषय-भावना-प्रकर्ष-लब्ध-जन्मा निर्विचारागमानुमान-विषयम् एव गोचरयेत् । न खल्व् अन्य-विषयानुभव-जन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुं, अतिप्रसङ्गात् । तस्मान् निर्विचारा चेद् ऋतम्भरा, आगमानुमानयोर् अपि तत्-प्रसङ्ग इत्य् अत आह-श्रुतानुमान-इत्य् आदि ।

बुद्धि-सत्त्वं हि प्रकाश-स्वभावंसर्वार्थ-दर्शन-समर्थम् अपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्व् अभ्यास-वैराग्याभ्याम् अपास्त-रजस्-तमो-मलम् अनवद्य-वैशारद्यम् उद्द्योतते तदास्यातिपतित-समस्त-मान-मेय-सीम्नः प्रकाशानन्त्ये सति किं नाम यन् न गोचरैति भावः ।

व्याचष्टे-श्रुतम् आगम-विज्ञानं तत्-सामान्य-विषयम् इति। कस्मात् ? न ह्य् आगमेन शक्यो विशेषोऽभिधातुम्। कुतः ? यस्माद् आनन्त्याद् व्यभिचाराच् च न विशेषेण कृत-सङ्केतः शब्दः । यस्माद् अस्य विशेषेण सह न वाच्य-वाचक-सम्बन्धः प्रतीयते । न च वाक्यथार्थेऽपीदृशो विशेषः सम्भवति ।

अनुमानेऽपि लिङ्ग-लिङ्ग-सम्बन्ध-ग्रहणाधीजन्मनि गतिर् एषैवेत्य् आह-तथानुमानमिति । यत्र प्राप्तिर् इत्य् अत्र यत्र-तत्र-शब्दयोः स्थान-परिवर्तनेन व्याप्य-व्यापक-भावोऽवगमयितव्यः। अतोऽत्रानुमानेन सामान्येनोपसंहारः ।

उपसंहरति-तस्मादिति ।

अस्तु तर्हि सम्बन्ध-ग्रहानपेक्षं लोक-प्रत्यक्षं न तत्-सामान्य-विषयम् इत्य् अत आह-न चास्य इत्य् आदि । मा भूत् सम्बन्ध-ग्रहाधीनं लोक-प्रत्यक्षं, इन्द्रियाधीनं तु भवत्य् एव । न चेन्द्रियाणाम् अस्मिन्न् अस्ति योग्यतेत्य् अर्थः ।

ननु च यद्य् आगमानुमान-प्रत्यक्ष-गोचरो विशेषः, तर्हि नास्ति, प्रमाण-विरहाद् इत्य् अत आह-न चैति । न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य , येन तन्-निवृत्तौ निवर्तेत । नो खलु कलावतश् चन्द्रस्य पर-भाग-वर्ति-हरिण-सद्-भावं प्रति न संदिहते प्रामाणिका इत्य् अर्थः इति तस्मात् ।

समाधि-प्रज्ञा-निर्ग्राह्य एवैति । अत्र च विवादाध्यासिताः परमाणव आत्मानश् च प्रातिस्विक-विशेष-शालिनः, द्रव्यत्वे सति परस्परं व्यावर्तमानत्वात्, ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रतिस्विक-विशेष-शालिनः, यथा खण्ड-मुण्डादय इत्य् अनुमानेनागमेन च ऋतम्भर-प्रज्ञोपदेश-परेणयद्यपि विशेषो निरूप्यते, यद् अनिरूपणे संशयः स्यान्, न्याय-प्राप्तत्वात् तथाप्य् अदूर-विप्रकर्षेण तत् सत्त्वं कथंचिद् गोचरयतः श्रुतानुमाने, न तु साक्षाच् चार्थम् इव समुच्चयादि-पदानि लिङ्ग-सङ्ख्या-योगितया । तस्मात् सिद्धं श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषयेति ॥४९॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥

स्याद् एतत्-भवतु परमार्थ-विषयः सम्प्रज्ञातो यथोक्तोपायाभ्यासात् । अनादिना तु व्युत्थान-संस्कारेण निरूढ-निबद्धतयाप्रतिबन्धनीया सिद्धान्त्-प्रज्ञा सा वात्यावर्तम् अव्यवर्तिप्रदीप-परमाणुर् इवेति शङ्काम् अपनेतुं सूत्रम् अवतारयतिसमाधि-प्रज्ञा- इति ।

सूत्रं पठति-तज्-जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी ॥ तदिति निर्विचारां समापत्तिं परामृशति । अन्येति व्युत्थानम् आह । भूतार्थ-पक्षपातो हि धियां स्वभावः । तावद् एवेयम् अनवस्थिता भ्राम्यति न यावत् तयां प्रतिलभते । तत्-प्रतिलम्भे तत्रस्थित-पदा सती संस्कार-बुद्धिः संस्कार-बुद्धि-चक्र-क्रमेणावर्तमानानादिम् अप्य् एतत् तया-संस्कार-बुद्धि-क्रमं बाधत एवेति । तथा च बाह्या [कुमारिल-भट्टाः] अप्य् आहुः—

निरुपद्रव-भूतार्थ-स्वभावस्य विपर्ययैः ।

न बाधोऽनादिमत्त्वेऽपिबुद्धेस् तत्-पक्षपाततः ॥[प्र.वा. ३.२२२] इति ।

स्याद् एतत्-सिद्धान्ति-प्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः । सिद्धान्तिजस् तु संस्कारातिशयः सिद्धान्ति-प्रज्ञा-प्रसव-हेतुर् अस्त्य् अविकलैति तद्-अवस्थैव चित्तस्य साधिकारतेति चोदयतिकथम् असाविति ।

परिहरति-न ते इति । चित्तस्य हि कार्य-द्वयं शब्दाद्य्-उपभोगो विवेक-ख्यातिश् चेति । तत्र क्लेश-कर्माशय-सहितं शब्दाद्य्-उपभोगे प्रवर्तते । प्रज्ञा-प्रभव-संस्कारोन्मूलित-निखिल-क्लेश-कर्माशयस्य तु चेतसोऽवसित-प्रायाधिकार-भावस्य विवेक-ख्याति-मात्रम् अवशिष्यतेकार्यम् । तस्मात् सिद्धान्ति-संस्काराश् चित्तस्य न भोगाधिकार-हेतवः, प्रत्युत तत्-परिपन्थ्नैति ।

स्व-कार्याद् भोग-लक्षणाद् अवसादयन्ति असमर्थं कुरन्तीत्य् अर्थः । कस्मात् ? ख्याति-पर्यवसानंहि चित्त-चेष्टितम् । तावद् धि भोगाय चित्तं चेष्टते न यावद् विवेख-ख्यातिम् अनुभवति । सञ्जात-विवेक-ख्यातिस् तु क्लेश-निवृत्तौ न भोगाधिकार इत्य् अर्थः ॥५०॥

तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ॥५१॥

तद् अत्र भोगाधिकार-प्रशान्तिः प्रयोजनं प्रज्ञा-संस्कारणाम् इत्य् उक्तम् । पृच्छति-किं चेति । किं चास्य भवति प्रज्ञा-संस्कारवच् चित्त प्रज्ञा-प्रवाहजनकतया तथैव साधिकारापनुत्तयेऽन्यद् अपि किञ्चिद् अपेक्षणीयम् अस्तीत्य् अर्थः । सूत्रणोत्तरम् आह—तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥

व्याचष्टे-स निर्बीजः समाधिः समाधि-प्रज्ञा-विरोधिनः परस्माद् वैराग्याद् उपजायमानः स्व-कारण-द्वारेण न केवलं समाधि-प्रज्ञा-विरोधी प्रज्ञा-कृतानाम् अप्य् असौ संस्काराणां परिपन्थी भवति । ननु वैराग्यस्य विज्ञानं सद्-विज्ञानं प्रज्ञा-मात्रं बाधताम् । संस्कारं त्व् अविज्ञान-रूपं कथं बाधते ? दृष्टा हि जाग्रतोऽपि स्वप्न-दृष्टार्थे स्मृतिर् इत्य् आशयवान् पृच्छति-कस्मादिति । उत्तरंनिरोधजैति । निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्काराद् एव दीर्घ-काल-नैरन्तर्य-संस्कारासेवित-पर-वैराग्य-जन्मनः प्रज्ञा-संस्कार-वाचो न तु विज्ञानाद् इत्य् अर्थः ।

स्याद् एतत्-निरोधज-संस्कार-सद्-भावे किं प्रमाणम् ? स हि प्रत्यक्षेण वानुभूयेत, स्मृत्या वा कार्येणानुमीयते ? न च सर्व-वृत्ति-निरोधे प्रत्यक्षम् अस्ति योगिनः । नापि स्मृतिः, अस्य वृत्ति-मात्र-निरोधतया स्मृति-जनकत्वासम्भवात् । इत्य् अत आह-निरोधेति । निरोध-स्थितिश् चित्तस्य निरुद्धावस्थेत्य् अर्थः । तस्याः काल-क्रमो मुहूर्तार्ध-याम-यामाहोरात्रादिस् तद्-अनुभवेन । एतद् उक्तं भवतिवैराग्याभ्यास-प्रकर्षानुरोधी निरोध-प्रकर्षो मुहूर्तार्ध-यामादि-व्यापितयानुभूयते योगिना । न च पर-वैराग्य-क्षणाः क्रम-नियततया परस्परम् असम्भवन्तस् तत्-तत्-काल-व्यापितया सातिशयं निरोधं कर्तुम् ईशतैति तत्-तद्-वैराग्य-क्षण-प्रचय-जन्यः स्थायी संस्कार-प्रचय एषितव्यैति भावः ।

ननूच्छिद्यन्तां प्रज्ञा-संस्काराः, निरोध-संस्कारस् तु कुतः समुच्छिद्यते ? अनुच्छेदे वा साधिकारत्वम् एवेत्य् अत आह-व्युत्थानेति । व्युत्थानं च तस्य निरोध-समाधिश् च सम्प्रज्ञातस्त-प्रभवाः संस्काराः कैवल्य-भागीया निरोधजाः संस्काराः इत्य् अर्थः । व्युत्थान-प्रज्ञा-संस्काराश् चित्ते प्रलीनाइति भवति । चित्तं व्युत्थान-प्रज्ञा-संस्कारवत् । निरोध-संस्कारस् तु प्रत्युदित एवास्ते चित्ते । निरोध-संस्कारे सत्य् अपि चित्तम् अनधिकारवत् । पुरुषार्थ-जनकं हि चित्तं साधिकारं शब्दाद्य्-उपभोग-विवेक-ख्याती च तथा पुरुषार्थौ । संस्कार-शेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुषैति नासौ पुरुषार्थः । विदेह-प्रकृति-लयायां न निरोध-भागितया साधिकारं चित्तं, अपि तु क्लेश-वासिततयेत्य् आशयवान् आह-यस्मादिति । शेषं सुगमम् ॥५१॥

योगस्योद्देश-निर्देशौ तद्-अर्थं वृत्ति-लक्षणम् ।

योगोपायाः प्रभेदाश् च पादेऽस्मिन्न् उपवर्णिताः ॥
  

इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायां तत्त्व-वैशरद्यां प्रथमः समाधि-पादः ॥१॥

error: Content is protected !!

Share This

Share this post with your friends!