King Bhoja and Rajamartanda

Chapter 2

योगासूत्रम् (साधनपादः)

ते ते दुष्प्रापयोगद्धि-सिद्धयो येन दर्शिताः।
उपायाः स जगन्नाथस्त्र्यक्षोऽस्तु प्रार्थिताप्तये॥
तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगम् अभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्य ‘मुपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह-

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥

वृत्तिः- तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि, स्वाध्यायः प्रणवपूर्वाणां मंत्राणां जपः, ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन् परमगुरौ फलनिरपेक्षतया समर्पणम् । एतानि क्रियायोग इत्युच्यते ॥१॥

स किमर्थमित्याह-

समाधिभावनार्थः क्लेशतनू करणार्थश्च ॥२॥

वृत्तिः- क्लेशा वक्ष्यमाणाः, तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः, समाधिरुक्तलक्षणः (१।१९), तस्य भावना चेतसि पुनः पुननिवेशनं, सा अर्थः प्रयोजनं यस्य से तथोक्तः । एतदुक्तं भवति एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतान् अविद्यादीन् क्लेशान् शिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते; तस्मात् प्रथमं
क्रियायोगविधानपरेण योगिना भवितव्यमित्युपदिष्टम् ॥२॥

क्लेशतनूकरणार्थ इत्युक्तं, तत्र के क्लेशा इत्याह –

अविद्याऽस्मितारागद्वेषाभिनिवेशा: क्लेशाः ॥३॥

वृत्तिः- अविद्यादयो वक्ष्यमाणलक्षणाः पञ्च, ते बाघनालक्षणं परितापमुपः जनयन्तः क्लेशशब्दवाच्या भवन्ति; ते हि चेतसि प्रवत्तमानाः संस्कारलक्षणं’ गुणपरिणामं द्रढयन्ति ॥३॥

विद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥

वृत्तिः- अविद्या मोहः, अनात्मन्यात्माभिमान इति यावत्, सा क्षेत्रं प्रसवभूमिः उत्तरेषाम् अस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम्; अतो यत्राविद्या विपर्य्ययज्ञानरूपा शिथिली भवति, तत्र क्लेशानाम् अस्मितादीनां नोद्भवो दृश्यते, विपर्य्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात स्थितमेव मूलत्वमविद्यायाः । प्रसुप्त-तनु विच्छिन्नोदाराणामिति। तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकाय्र्य्यं नारभन्ते, ते प्रसुप्ता इत्युच्यन्ते । यथा बालावस्थायां बालस्य हि वासनारूपाः स्थिताः अपि क्लेशाः प्रबोधकसहकार्य्यभावे नाभिव्यज्यन्ते । तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृत कार्य्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्व्यमारब्धुमक्षमाः, यथाम्यासवतो योगिनः। ते विच्छिन्ना ये न केनचिद् बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति । यथा द्वेषावस्थायां रागः, रागावस्थायां वा द्वेषः, न ह्यनयोः परस्परविद्धयोयुगपत् सम्भवोऽस्ति । उदारा ये प्राप्तसहकारिसन्निधयः स्वं स्वं कार्य्यमभिनिर्वत्त यन्ति यथा सदैव योगपरिपन्थिनः। व्युत्थानदशायाम् एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्या अन्वयित्वेन प्रतीयते; न हि क्वचिदपि क्लेशानां विपर्य्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते; तस्मात्’ मिथ्याज्ञानरूपायाम् अविद्यायां सम्यग्ज्ञानेन निर्वात-तायां दग्धबीजकल्पानाम् एषां न क्वचित् प्ररोहोऽस्ति; अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चीयते; अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारित्वाद् योगिना प्रथममेव तदुच्छेदे यत्नः कार्य्य इति ॥४॥

अविद्यालक्षणमाह-

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥

वृत्तिः- अर्तास्मस्तत्प्रतिभासोऽविद्य त्यविद्यायाः सामान्यलक्षणम्; तस्या एव भेदप्रतिपादनम् अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येत्युच्यते । एवमशुचिषु कायादिषु शुचित्वाभिमानः, दुःखेषु विषयेषु सुखाभिमान: अनात्मशरीरे आत्माभिमानः । एतेनापुण्ये पुण्यभ्रमोऽनर्थेऽथंभ्रमो व्याख्यातः ॥५॥

अस्मितां लक्षयितुमाह-

दृग्दर्शऩशक्त्योरेकात्मतेवास्मिता ॥६॥

वृत्तिः- दृक्शक्तिः पुरुषः, दर्शनशक्तिः रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्तःकरणरूपः, अनयोर्भोक्तृ-भोग्यत्वेन अजड-जडत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मितेत्युच्यते । यथा प्रकृतिर्वस्तुतः कर्त्तृत्वभोक त्वरहितापिक’ हमित्यभिमन्यते, सोऽयमस्मिताख्यो विपर्य्यासः क्लेशः ॥६॥

रागस्य लक्षणमाह-

सुखानुशयी रागः ॥७॥

वृत्तिः- सुखमनुशेत इति सुखानुशयी, सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्थ्यो रागसंज्ञकः क्लेशः ॥७॥

द्वेषलक्षणमाह-

दुःखानुशयी द्वेषः ॥८॥

वृत्तिः – दुःखमुक्तलक्षणं, तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिल-‘तो’ योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षणः क्लेशः ॥८॥

अभिनिवेशस्य लक्षणमाह-

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥

वृत्तिः- पूर्वजन्मानुभूतमरणदुःखानुभवबासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिर्मम वियोगो मा भूदिति अन्वहमनुबन्धरूपः सर्वस्यैव आब्रह्मपर्य्यन्तं निमित्तमन्तरेण प्रवत्त मानोऽभिनिवेशाख्यः क्लेशः ॥९॥

तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताऽभ्यासकामेन प्रथमं क्लेशाः परिहर्त्तव्याः; न चाज्ञातानां तेषां परिहारः कर्त्तु शक्य इति तज्ज्ञानाय तेषाम् उद्देशं लक्षणं क्षेत्रं विभागञ्चाभिघाय स्थूल सूक्ष्मभेदभिन्नानां तेषां प्रहाणोपाय

विभागमाह –

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥

वृत्तिः- ते सूक्ष्माः क्लेशाः, ये वासनारूपेणैव स्थिताः स्ववृत्तिरूपं परिणाममारभन्ते, ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः; स्वकारणेऽस्मितायां कृतार्थं सवासनं चित्तं यदा प्रविष्टं भवति, तदा कुतस्तेषां निर्मूलानां सम्भवः ? ॥१०॥

स्थूलानां हानोपायमाह-

ध्यानहेयास्तद्वृत्तयः ॥११॥

वृत्तिः- तेषां क्लेशानामारब्धकार्य्याणां याः सुख-दुःख-मोहात्मिका वृत्तयः, ता घ्यानहेयाः, घ्यानेनैव चित्तं काग्रतालक्षणेन पातव्या इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्वात्तासां निवृत्तिर्भवति; यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्त्तते, ‘यस्तत्र सूक्ष्मांशः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्त्तयितुं शक्यते ॥११॥

एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्य तदभिधातुमाह-

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥ 

वृत्तिः- कर्माशय इत्यनेन स्वरूपं तस्याभिहितम्; अतो वासनारूपाण्येव कर्माणि । क्लेलमूल इत्यनेन कारणमभिहितं यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः ; जन्मान्तरानुभवनीयोऽदृष्टजन्म वेदनीयः । तथा हि कानिचित् पुण्यानि देवताराधनादीनि तीव्र संवेगेन कृतानि इहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति । यथा – नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्येषां विश्वामित्रादीनां’ तपःप्रभावाज् जात्यायुषी । केषाञ्चिज्जातिरेव; तथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः; उर्वश्याश्च कार्त्तिकेयवने लतारूपतया ; एवं व्यस्तसमस्तत्वेन यथायोग्यं योज्यमिति ॥१२॥

इदानीं कर्माशयस्य स्वभेदभिन्नं फलमाह-

संति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥

वृत्तिः- मूलमुक्तलक्षणः क्लेशाः, तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यादिः, आयुश्चिरकालम् एकशरीरसम्बन्धः, भोगा विषया इन्द्रियाणि सुखसंविद् दुःखसविच्च सुखदुःखादोनि कर्मकरणभाववोधनव्युत्पत्त्या मोगशब्दस्य । इदमत्र तात्पर्य्यम् चित्तभूमौ अनादिकालसञ्चिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकाय्र्य्यमारभन्ते ॥१३॥

उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारिणां कार्य्यकर्तृत्वमाह-

ते ह्लाद-परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥

वृत्तिः- ह्लादः सुखं, परितापो दुःखं, तो फलं येषां ते तथोक्ताः, पुण्यं कुशलं कर्म, तद्विपरीतमपुण्यं, ते कर्मणी कारणं येषां भावस्तस्मात् । एतदुक्तं’भवति – पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफलाः, अपुण्यकर्मारब्धास्तु परितापफलाः एतच्च प्राणिमापेक्षया द्वे विध्यम् ॥१४॥

योगिनस्तत् सर्वं दुःखमित्याहपरिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च-

दुःखमेव सर्वं विवेकिनः ॥१५॥

वृत्तिः- विवेकिनः परिज्ञात क्लेशादिविवेकस्य दृश्यमात्रं सकलमेव भोगसाघनं मविषं स्वाद्वन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः ; यस्मादत्यन्ताभिजातो योगी दुःखलेशेनाप्युद्विजते; यथा-अक्षिपात्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति, नेतरदङ्गं, तथा विवेकी स्वल्पदुःखानुबन्धेनापि उद्विजते । कथमित्याह – परिणाम-ताप-संस्कारदुःखैविषयाणामुपभुज्यमानानां यथायथं गर्द्धाभिवृद्धेस्तदप्राप्तिकृतस्य सुख-दुःखस्य अपरिहार्य्यतया दुःखान्तरसाधनत्वाद् नास्त्येव सुखरूपतेति परिणामदुःखत्वम् । उपगृह्यमाणेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखन्तु स्वाभिमतानभिमतविषयसन्निघाने सुखसंविद् दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते, संस्काराच्च पुनस्तथाविघसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण ‘सर्वस्यैव दुःखानुवेधाद् दुःखत्वम् । एवमुक्तं भवतिक्लेशकर्माशयविपाकसंस्कारानुच्छेदात् सर्वस्यैव दुःखत्वम् गुणवृत्तिविरोघाच्चेति-गुणानां सत्त्वरजस्तमसां या वृत्तयः सुख-दुःख-मोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते, तासां सर्वत्रैव दुःखानुवेधाद् दुःखत्वम्, एतदुक्तं भवति — ऐकान्तिकीमात्यन्तिकीञ्च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयाः सर्वे विषया दुःखरूपतया प्रतिभान्ति; तस्माच्च सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति ॥१५॥

तदेवमुक्तस्य क्लेशकर्माशयविपाकराशे रविद्याप्रभवत्वाद् अविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानोच्छेद्यत्वात् सम्यग्ज्ञानस्य च ससाधनहेयोपादेयावधारणरूपत्वात् तदभिधानमाह-

हेयं दुःखमनागतम् ॥१६॥

वृत्तिः- भूतस्यातिक्रान्तत्वात्, अनुभूयमानस्य त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति ॥१६॥

हेयहेतुमाह-

द्रष्टृ-दृश्ययोः संयोगो हेयहेतुः ॥१७॥

वृत्तिः- द्रष्टा चिद्रूपः पुरुषः, दृश्यं बुद्धिसत्त्वं, तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोक्तृ-भोग्यत्वेन सन्निधानम्, हेयस्य दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः कारणम्, तन्निवृत्त्या संसारनिवृत्तिर्भवतीत्यर्थः ॥१७॥

प्रकाश-क्रिया-स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥

वृत्तिः- प्रकाशः सत्त्वस्य धर्मः, क्रिया प्रवृत्तिरूपा रजसः, स्थितिर्नियमरूपा तमसः, ताः प्रकाश-क्रिया स्थितयः शीलं स्वाभाविकं रूपं यस्य तत्तथाविधमिति स्वरूपमस्य निर्दिष्टम् । भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च, इन्द्रियाणि बुद्धीन्द्रिय-कर्मेन्द्रियान्तः करणभेदेन त्रिविधानि उभयमेतद् ग्राह्य-ग्रहणरूपम्, आत्मा स्वरूपाभिन्नः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्य्यमुक्तम् । भोगः कथितलक्षणः, अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः, तौ भोगापवर्गों अर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः ॥१८॥

तस्य दृश्यस्य नानावस्थारूपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात् तदवस्थाः कथयितुमाह-

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥

वृत्तिः- गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि, अविशेषास्तन्मात्रान्तःकरणानि, लिङ्गमात्रं बुद्धिः, अलिङ्गमव्यक्तत्युक्तम्; सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यत्वेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि ॥१९॥

एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यत्वात् तदवस्थासहितं व्याख्याय उपादेयं द्रष्टारं व्याख्यातुमाह-

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥

वृत्तिः- द्रष्टा पुरुषः, दृशिमात्रश्चेतनामानं मात्रग्रहणं धर्मधर्मिनिरासाथम् । केचिद्धि’ चेतनामात्मनो धर्ममिच्छन्ति । स वृद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानृपश्यः प्रत्यया विषयोपरक्तानि विज्ञानानि तानि अनुअव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति । एतदुक्तं भवति – जातविषयोपरा – गायामेव बद्धौ सन्निधिमात्र णैव पुरुषस्य द्रष्टृत्वमिति ॥२०॥

स एव भोक्तेत्याह-

तदर्थं एव दृश्यस्यात्मा ॥२१॥

वृत्तिः- दृश्यस्य प्रागुक्तलक्षणस्य य आत्मा यत्’ स्वरूपं तदर्थ एव; तस्य पुरुषार्थभोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेण प्रयोजनम् न हि प्रधानं प्रवर्त्तमानम् आत्मनः किञ्चित् प्रयोजनमपेक्ष्य प्रवर्त्तते, किन्तु पुरुषस्य भोक्तृत्वं सम्पादयितुमिति ॥२१॥

यद्येवं पुरुपस्य भोगसम्पादनमेव प्रयोजनं तदा सम्पादिते तस्मिन् तद् निष्प्रयोजनं विरतव्यापारं स्यात्, तस्मिश्च परिणामशून्ये शुद्धत्वात् सर्वे द्रष्टारो बन्धरहिताः स्युः, ततश्च संसारोच्छेद इत्याशङ्कयाह-

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥

वृत्तिः- यद्यपि विवेकख्यातिपर्य्यन्ताद् भोगसम्पादनात् कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापारं, तथापि सर्वपुरुषासाधारणत्वाद् अन्यान् प्रति अनष्टव्यापारमवतिष्ठते, अतः प्रधानस्य सकलभोक्तृसाधारणत्वाद् न कदाचिदपि विनाशः । एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति ॥२२॥

दृश्य-द्रष्टारौ व्याख्याय संयोगं व्याख्यातुमाह-

स्व-स्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥

वृत्तिः- कार्यद्वारेणास्य लक्षणं करोति । स्वशक्तिदृश्यस्य स्वभावः, स्वामिगक्तिद्रष्टुः स्वरूपं, तयोद्वयोरपि संवेद्य-संवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः, स संयोगः ; स च सहजो भोग्यभोक्तृभावस्वरूपानन्यः, न हि तयोर्नित्ययोर्व्यापकयोः स्वरूपादतिरिक्तः कश्चित् संयोगः, यदेव भोग्यस्य
भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धम् स एव संयोगः ॥२३॥

तस्यापि कारणमाह-

तस्य हेतुरविद्या ॥२४॥

वृत्तिः- या पूर्वं विपर्य्यासात्मिका मोहरूपाऽविद्या व्याख्याता (२।४–५), सा तस्य विवेकख्यातिरूपस्य मंयोगस्य कारणम् ॥२४॥

हेयं’ हानिक्रिया-कर्मोच्यते; किं पुनस्तद्धानम् इत्याह-

तदभावे संयोगभावो हानं तद् दृशेः कैवल्यम् ॥२५॥

वृत्तिः- अविद्यायाः स्वरूपविरुद्ध न सम्यग्ज्ञानेन उन्मूलिताया योऽयमभाव स्तस्मिन् सति तत्कार्य्यस्य संयोगस्याप्यभावः, तत् हानमित्युच्यते । अयमर्थः-नैतस्य’ अमूर्त वस्तुनः विभागो युज्यते, किन्तु जातायां विवेकख्यातौ अविवेकनिमित्तः संयोगः स्वयमेव निवर्त्तत इति तस्य हानं, यदेव च संयोगस्य हानं तदेव नित्यं केवलस्यापि पुरुषस्य कैवल्यं व्यपदिश्यते । तदेवं दृश्यसंयोगस्य स्वरूपं कारणं कार्य्यञ्चाभिहितम् ॥२५॥

अथ हानोपायकथनद्वारेण उपादेयकारणमाह-

विवेकख्यातिरविप्लवा हानोपायः ॥२६॥

वृत्तिः- अन्ये गुणाः, अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्यातिः साऽस्य हानस्य दृश्यदुःखपरित्यागस्योपायः कारणं, कीदृशी ? अविप्लवा – न विद्यते विप्लवो विच्छेदोऽन्तराऽभ्युत्थानरूपो यस्याः स अविप्लवा । इदमत्र तात्पर्य्यम्प्रतिपक्षभावनांबलादविद्याप्रलये निवृत्तकत्तृत्व-भोक्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखा या चिच्छायासङ, क्रान्तिः सा विवेकख्यातिरुच्यते ; तस्यां च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्येव कैवल्यम् ॥२६॥

उत्पन्नविवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति तां कथयन् विवेकख्यातेरेव स्वरूपमाह-

तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२७॥

वृत्तिः- तस्योत्पन्नविवेकज्ञानस्य,ज्ञातव्य-विवेकरूपा प्रज्ञा प्रान्तभूमौ सकल ‘सालम्बनसमाधिपर्य्यन्ते सप्तप्रकारा भवन्तीत्यर्थः । तंत्र कार्य्यविमुक्तिरूपाश्चतुः प्रकाराः,- ज्ञातं मया ज्ञेयं ज्ञातव्यं किञ्चिदस्ति, क्षीणा मे क्लेशा न किञ्चित् क्षेतव्यमस्ति, अधिगतं मया ज्ञानं प्राप्ता मया विवेकख्यातिरिति प्रत्ययान्तरपरिहारेण तस्यामवस्थायाम् ईदृश्येव प्रज्ञा जायते । ईदृशी प्रज्ञा कार्य्यविषयं निर्मलं ज्ञानं, कार्य्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा – चरितार्था मे बुद्धिः, गुणा हृताधिकारा गिरिशिखरनिपतिता इव ग्रावाणी न पुनः स्थितिं यास्यन्ति स्वकारणे, प्रविलयाभिमुखानां गुणानां मोहाभिधानमूलकारणाभावाद् निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत् ? `स्वस्थीभूतश्च मे समाधिः, तस्मिन् सति स्वरूपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधभूमिप्रज्ञायामुपजातायां पुरुषः केवल इत्युच्यते ॥२७॥

विवेकख्यातिः संयोगाभावहेतुरित्युक्तं, तस्यास्तु उत्पत्तौ कि निमित्तम् इत्याह-

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥

वृत्तिः- योगाङ्गानि वक्ष्यमाणानि तेषामनुष्ठानाज् ज्ञानपूर्वकाभ्यासाद् आविवेकख्यातेरशुद्धिक्षये चित्तसत्त्वस्य प्रकाशावरण ‘रूपक्लेशात्मकाशुद्धिक्षये या ज्ञानदीप्तिः, तारतम्येन सात्त्विकः परिणामो विवेकख्यातिपर्य्यन्तस्तस्याः ख्यातेर्हेतुरित्यर्थः ॥२८॥

योगाङ्गानामनुष्ठानादशुद्धिक्षय इत्युक्तं, कानि पुनस्तानि योगाङ्गानीति तेषामुद्देशमाह–

यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ॥२९॥

वृत्तिः- इह कानिचित् समाधेः साक्षादुपकारकाणि, यथा धारणादीनि; कानिचित् प्रतिपक्षभूतहिंसादिवित कन्मूलनद्वारेण समाधिमुपकुर्वन्ति, यथा यमादयः; तत्र आसनादीनामुत्तरोत्तरमुपकारकत्वं तद् यथा – सत्यासनजये प्राणायामस्थैर्यम्; एवमुत्तरत्रापि योज्यम् ॥ २९ ॥

क्रमेणैषां स्वरूपमाह-

अहिंसा-सत्यास्तेय-ब्रह्मचर्य्यापरिग्रहा यमाः ॥३०॥

वृत्तिः- तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा, सा च सर्वानर्थहेतुः, तदभावोऽहिंसा । हिंसायाः सर्वप्रकारेणैव परिहार्य्यत्वात् प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं वाङ्मनसोर्यथार्थत्वम् । स्तेयं परस्वापहरणं, तदभावोऽस्तेयम्, ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनानामनङ्गीकारः । ते एतेऽहिंसादायः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ॥३०॥

एषां विशेषमाह-

जाति-देश-काल-समयानवच्छिन्नाः सार्वभौभा महाव्रतम् ॥३१॥

वृत्तिः- जातिर्ब्राह्मणत्वादिः, देशस्तीर्थादिः, कालश्चतुर्दश्यादिः, समयो ब्राह्मणप्रयोजनादिः, एतैश्चतुभिरनवच्छिनाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते; तद् यथा— ब्राह्मणं न हनिष्यामि,
तीर्थे न कञ्चन] हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामि इत्येवं चतुर्विधावच्छेदव्यतिरेकेण किञ्चित् क्वचित् कदचित्कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्नाः । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते, न पुनः ‘परकीयपरिच्छिन्नावधारणम् ॥३१॥

नियमानाह-

शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥

वृत्तिः- शौचं द्विविधं-बाह्यमाभ्यन्तरञ्च; बाह्यं मृज्जलादिभिः कायादि-प्रक्षालनम्, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम् । सन्तोषस्तुष्टिः । शेषाः प्रागेव (२।१) कृतव्याख्यानाः । एते शौचादयो नियमशब्दवाच्याः ॥३२॥

कथमेषां योगाङ्गत्वमित्याह-

वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥

वृत्तिः- वितर्क्यन्ते इति वितर्का योगपरिपन्थिनो हिंसादयः, तेषां प्रतिपक्षभावने सति यदा वाधा भवति, तदा योगः सुकरो भवतीति भवत्येव यम-नियमयोर्योगाङ्गत्वम् ॥३३॥

इदानीं वितर्काणां स्वरूपं भेदप्रकारं फलञ्च क्रमेणाह-

वितर्का हिसादयः कृत-कारितानुमोदिता लोभ-क्रोधनोह-पूर्वका मृदु-मव्याधिमात्रा दुःखाः नानन्तफला इति प्रतिपक्षनावनम् ॥३४॥

वृत्तिः- एते पूर्वोक्ता हिसादयः प्रथमं त्रिधा मिद्यन्ते, कृत-कारितानुमोदन-भेदेन ; तत्र स्वयं निष्पादिताः कृताः; ‘कुरु कुरु’ इति प्रयोजकव्यापारण समुत्पादिताः कारिताः; अन्येन क्रियमाणाः साध्वङ्गीकृता अनुमोदिताः । एतच्च त्रैविध्यंपरस्परं व्यामोहनिराकरणावधारणायोच्यते, अन्यथा मन्दमतिरेवं मन्येत मयात्वियं न कृतेति नास्ति मे दोषः। एतेषां कारणप्रतिपादनाय लोभ-क्रोध-मोहपूर्वका इति । यद्यपि लोभः प्रथमं निर्दिष्टः १ तथाऽपि सर्वक्लेशानां मोहस्य अनात्मनि आत्माभिमानलक्षणस्य निदानत्वात्, तस्मिन् सति स्व-परविभागपूर्वकत्वेन लोभ क्रोधादीनामुद्भवाद् मूलत्वमवसेयं, मोहपूर्विका दोषजातिरित्यर्थः । लोभस्तृष्णा, क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि हिंसादयो मोहादिकारणत्वेन त्रिवा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह, मृदु-मध्याधिमात्राः । मृदवो मन्दाः, न तीव्रा नापि मन्दा मध्याः, अधिमात्रास्तौव्राः । पाश्चात्त्या नवभेदाः, इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृद्वादीनामपि प्रत्येकं मृदु-मध्याधिमात्रभेदात् त्रैविघ्यं सम्भवति, तद् यथायोगं योज्यम् । तद् यथा-मृदुमृदुः मृदुमध्यः, मृदुतीव्र इति । एषां फलमाह दुःखाज्ञानानन्तफलाः, दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशय विपर्य्ययरूपम्; ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रति-पक्षभावनया योगिना परिहारः कर्त्तव्य इत्युपदिष्टं भवति ॥३४॥

एषाम् अभ्यासवशात् प्रकर्षमागच्छताम् अनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह-

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥

वृत्तिः- तस्य अहिंसां भावयतः, सन्निधौ सहजविरोधिनामप्यहिनकुला-दीनां वैरत्यागो निर्मत्सरतयावस्थानं भवति, हिस्रस्वभावा अपि हिंसां त्यजन्तीत्यर्थः ॥३५॥

सत्याभ्यासवतः किं भवतीत्याह-सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥

वृत्तिः- क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति’ । तस्य तु सत्याभ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते, यथा क्रियायामकृतायामपि योगी फलमप्नोति; तद्वचनाद् यस्य कस्यचित् क्रियामकुर्वतोऽपि क्रिया फलं भवतीत्यर्थः ॥३६॥

अस्तेयाभ्यासवतः फलमाह-

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥

वृत्तिः- अस्तेयं यदाम्यस्यति, तदास्य तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नानि उपतिष्ठन्ते ॥३७॥

ब्रह्मचर्य्याभ्यासस्य फलमाह-

ब्रह्मचर्य्य प्रतिष्ठायां वीर्य्यलाभः ॥३८॥

वृत्तिः- यः किल ब्रह्मचर्य्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्य्य सामर्थ्यमाविर्भवति; वीर्य्यनिरोधे हि ब्रह्मचर्य्यस्य प्रकर्षाच्छरीरेन्द्रियमनःसु वीर्य्यं प्रकर्षमागच्छति ॥३८॥

अपरिग्रहस्य फलमाह-

अपरिग्रहस्थेय्यें जन्मकथन्तासम्बोधः ॥३९॥

वृत्तिः- कथमित्यस्य’ भावः कथन्ता, जन्मनः कथन्ता जन्मकथन्ता, तस्याः सम्बोध. सम्यग्ज्ञानं, जन्मान्तरे कोऽहमासन् कीदृशः किंकार्य्यकारीति जिज्ञासायां सर्वमेव सम्यग् जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः, यावदात्मनः शरीरपरिग्रहोऽपि परिग्रहः, भोगसाधनत्वाच्छरीरस्य; तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते, तदा मध्यस्थस्य रागादित्यागात् सम्यग्’ ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोघः ॥३९॥

उक्ता यमानां सिद्धयः; अथ नियमानामाह-

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥

वृत्तिः- यः शौचं भावयति, तस्य स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण जुगुप्सा घृणा समुपजायते; अशुचिरयं कायो नात्राग्रहः कार्य्य इतिः अमुनैव हेतुना परैरन्यैश्च कायवद्धिरसंसर्गः सम्पर्काभावः, संसर्गपरिवर्जन मित्यर्थः । यः किल क्षेत्र कार्य जुगुप्सते तत्तदवद्यदर्शनात् स कथं परकीयैस्तथाभूतैश्च कार्यः संसर्गमनुभवति ? ॥४०॥

शौचफलान्तरमाह-

सत्त्वशुद्धि-सौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥

वृत्तिः- भवन्तीति वाक्यशेषः । सत्त्वं प्रकाश-सुखाद्यात्मकं, तस्य बुद्धी रजस्तमोभ्यामनभिभवः । मौमनस्यं खेदाननुभवेन मानसी प्रीतिः । एकाग्रता नियतविषये चेतसः स्थैर्यम् । इन्द्रियजयो विष्यपराङ्मुखाणामिन्द्रियाणाम् आत्मन्यवस्थानम् । आत्मदर्शन विवेकख्यातिरूपे, चित्तस्य योग्यत्वं समर्थत्वम् । चीचान्यासवत एत्र एते नत्त्वशुद्ध्यादयः क्रमेण प्रादुर्भवन्ति तथा हि- सत्त्वशुद्धेः नीमनस्वं, सौमनस्यादेकाग्रता, एकाग्रताया इन्द्रियजयः तस्मादात्मदर्शनयोस्यतेति ॥४१॥

सन्तोषाम्यासस्य’ फलमाह-

सन्तोषादनुत्तमः सुखलाभः ॥४२॥

वृत्तिः- सन्तोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति, यस्य व विषयसुखं शतांशेनापि न समम् ॥४२॥

तपसः फलमाह-

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥

वृत्तिः- तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां मिद्धिप्रकर्षमादघाति । अयमर्थः – चान्द्रायणादिना चित्तक्लेशक्षयः, तत्क्षयादिन्द्रियादीनांसूक्ष्म-व्यवहित-विप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति, कायस्य यथेच्छमणुत्व-महत्त्वादीनि ॥४३॥

स्वाध्यायस्य फलमाह-

स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥४४॥

वृत्तिः- अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टया अभिप्रेतया’ देवतया सम्प्रयोगो भवति, सा देवता प्रत्यक्षा भवतीत्यर्थः ॥४४॥

ईश्वरप्रणिधानस्य फलमाह-

समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥

वृत्तिः- ईश्वरे यत् प्रणिधानं भक्तिविशेषस्तस्मात् समाधेरुक्तलक्षणस्याविर्भावो भवति, यस्मात् स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपाम् क्लेशान्परिहृत्य समाधि सम्बोधयति ॥४५॥

यमनियमानुक्त्वा आसनमाह-

स्थिरसुखमासनम् ॥४६॥

वृत्तिः- आस्यतेऽनेनेत्यासनं पद्मासन- दण्डासन – स्वस्तिकादि; तद् यदा स्थिरं निष्कम्पं, सुखमनुद्रेजनीयञ्च भवति तदा योगाङ्गतां भजते ॥४६॥

तस्यैव स्थिर-सुखप्राप्त्यर्थमुपायमाह-

प्रयत्नशैथिल्यानन्त्य’समापत्तिभ्याम् ॥४७॥

वृत्तिः- तदासनं प्रयत्नशैथिल्येन आनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति सम्बन्धः । यदा-यदा ‘आसनं वघ्नामीति’ इच्छां करोति, प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदासनं सम्पद्यते, यदा चाकाशादिगते आनन्त्ये चेतसः समापत्तिः क्रियतेऽवधानेन तादात्म्यमापद्यते, तदा देहाहङ्काराभावान्नासनं दुःखजनकं भवति । अस्मिंश्चासनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः ॥४७॥

तस्यैवानुनिष्पादि’ फलमाह-

ततो द्वन्द्वानभिघातः ॥४८॥

वृत्तिः- तस्मिन्नासनजये सति द्वन्द्वै: शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः ॥४८॥

आसनजयादनन्तरं प्राणायाममाह-

तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥

वृत्तिः- आसनस्थैर्य्यै सति तन्निमित्तकप्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृश: ? श्वास-प्रश्वासयोर्गतिविच्छेदलक्षणः; श्वास-प्रश्वासौ निरुक्तौ (१।३१), तयोस्त्रिघा रेचन – स्तम्भन’ पूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गते प्रवाहस्य विच्छेदो धारणं, प्राणायाम उच्यते ॥४९॥

तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति-

स तु बाह्याभ्यन्तरस्तम्भवृत्ति देशकालसङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥५०॥

वृत्तिः- बाह्यवृत्तिः श्वासो रेचकः, अन्तर्वृत्तिः प्रश्वासः पूरकः, आन्तर-स्तभवृत्तिः’ कुम्भकः, तस्मिन् जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्ते इति कुम्भकः । त्रिविधोऽयं प्राणायामः देशेन कालेन सङ्ख्यया चोपलक्षितो दीर्घ-सूक्ष्मसंज्ञो भवति । देशोपलक्षितो यथा नासाद्वादशान्तादि । कालोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । सङ्ख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वास-प्रश्वासैः प्रथम उद्घातो भवतीति एतज्-ज्ञानाय सङ्ख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात् प्रेरितस्य वायोः शिरस्यभिहननम् ॥५०॥

त्रीन् प्राणायामानभिधाय चतुर्थमभिधातुमाह-

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥

वृत्तिः- प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः ‘ आभ्यन्तरो विषयो हृदयनाभिचक्रादिः, तौ द्वौ विषयी आक्षिप्य पर्यालोच्य यः स्तम्भरूपी गतिविच्छेदः स चतुर्थः प्राणायामः । तृतीयस्मात् कुम्भकाद् अयमस्य विशेषः – स वाह्याभ्यन्तरविपयौ अपर्य्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्नम्भवृत्त्या निष्पाद्यते; अस्य तु विषयद्र्याक्षेपको निरोधः । अयमपि पूर्ववद् देशकालसङ्ख्याभिरुपलक्षितो द्रष्टव्यः ॥५१॥

चतुविधस्यास्य फलमाह-

ततः क्षीयते प्रकाशावरणम् ॥५२॥

वृत्तिः- ततः तस्मात् प्राणायामात् प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं
क्लेशरूपं तत् क्षीयते विनश्यतीत्यर्थः ॥५२॥

फलान्तरमाह-

धारणासु च योग्यता मनसः ॥५३॥

वृत्तिः- धारणा वक्ष्यमाणलक्षणा, तासु प्राणायामः क्षीणदोषं मनो यत्र धार्य्यते तत्र तत् स्थिरीभवति न विक्षेपं भजते ॥५३॥

प्रत्याहारस्य लक्षणमाह-

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥

वृत्तिः- ‘इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्’ इति प्रत्याहारः, स च कथं निष्पद्यत इत्याह-चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिः, तेन सम्प्रयोगः तदाभिमुख्येन वर्त्तनं, तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमाऽवस्थानं तस्मिन् सति चित्तमात्रानुकारिणीन्द्रियाणि भवन्ति, यतश्चित्तमनुवर्तमानानि मधुकरराजमिव ‘मक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्ते, अतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति, तेषां तत्स्वरूपानुकारः प्रत्याहार उक्तः॥५४॥

प्रत्याहारफलमाह-

ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥

वृत्तिः- अभ्यस्यमाने हि प्रत्याहारे तथा वश्यानि आयत्तानीन्द्रियाणि सम्पद्यन्ते, यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्ति इत्यर्थः ॥ ५५ ॥

 

इति धारेश्वर’ भोजविरचितायां राजमार्त्तण्डाभिघायां पातञ्जलवृत्तौ साधनपादः॥२॥
इति साधनपादः

error: Content is protected !!

Share This

Share this post with your friends!