King Bhoja and Rajamartanda

Chapter 1

योगासूत्रम् (समाधिपादः)

अथ योगानुशासनम् ॥१॥

वृत्तिः- अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथ-शब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (घा० पा० ४।६७) । अनुशिष्यते व्याख्यायते लक्षंण भेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम्, तद् आ-शास्त्रपरिसमाप्त रधिकृतं बोद्धव्यमित्यर्थः ।

तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनञ्च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्य-प्रतिपादकभावलक्षणः सम्बन्धः। अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्य-साधनभावः । एतदुक्तं भवति-व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते, तत्साघनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥१॥

योगश्चित्तवृत्तिनिरोधः ॥२॥

वृत्तिः- चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपाः तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते । स च निरोधः सर्वासां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित् कस्याञ्चिद् भूमौ आविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तम् एकापं निरुद्ध मिति चित्तस्य भूमयः, चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखा दिविषयेषु विकल्पितेषु व्यवहितेषु’ वा रजसा प्रेरितम्, तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात् कृत्याकृत्यविभागमन्तरेण क्रोधादिभिः विरुद्ध-कृत्येष्वेव नियमितम्, तच्च सदैव रक्षः पिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्ट्येन परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम्, तच्च सदैव देवानाम् । एतदुक्तं भवति–रजसा प्रवृत्तिरूपम्, तमसा परापकारनियतम्,’ सत्त्वेन सुखमयं चित्तं भवति । एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः, एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद् यथोत्तरमवस्थितत्वात् समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्रायः द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानम्, यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिनं शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात् प्रदर्शनं यत्, तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति । अनयोर्द्वयोरेकाग्र-निरुद्धयोभूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः, स योग इत्युक्तं भवति । एकाग्रे बहिर्वृत्तिनिरोधः, निरुद्धे च सर्वासां वृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः ॥२॥

दा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

वृत्तिः- द्रष्टुः पुरुषस्य तस्मिन् काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति । अयमर्थः – उत्पन्नविवेकख्यातेः चित्सङ्क्रमाभावात् कर्तृत्वाभिमाननिवृत्तौप्रोच्छत्रपरिणामयबुद्धावात्मनः स्वरूपेणावस्थानं स्थितिर्भवति ॥३॥

वृत्तिसारूप्यमितरत्र ॥४॥

वृत्तिः- इतरत्र योगादन्यस्मिन् काले, वृत्तयो या वक्ष्यमाणलक्षणाः, ताभिः सारूप्यं तद्रूपत्वम् । अयमर्थः – यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति, तादृग्रुप एव संवेद्यते व्यवहत्तृभिः पुरुषः । तदेवं यस्मिन् एकाग्रतया परिणते चितिशक्तेः स्वस्मिन् रूपे प्रतिष्ठानं भवति, यस्मिंश्च इन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तद्रूपाकार इव परिभाव्यते, यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते, तच्चित्तम् ॥४॥

वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥५॥

वृत्तिः- वृत्तयश्चित्तपरिणामविशेषाः । वृत्तिसमुदायलक्षणस्य अवयविनो या अवयवभूता वृत्तयः, तदपेक्षया तय-प्रत्ययः (अष्टा० ५१२४२) । एतदुक्तं भवति–पञ्च वृत्तयः कोदृश्यः ? क्लिष्टाः, अक्लिष्टाः; क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः

क्लिष्टाः, तद्विपरीता अक्लिष्टाः ॥५॥

 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥

वृत्तिः- आसां क्रमेण लक्षण माह-॥६॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥

वृत्तिः- अत्रातिप्रसिद्धत्वात् प्रमाणानां शास्त्रकारेणेभेदनिरूपणेनैव गतत्वाल्लक्षणस्थ पृथक् लक्षणं न कृतम् । प्रमाणलक्षणन्तु – अविसंवादि ज्ञानं प्रमाण मिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । गृहीतसम्बन्धाल् लिङ्गात् लिङ्गिनि सामान्याघ्यवसायोऽनुमानम् । आप्तवचनम् आगमः  ॥७॥

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥

वृत्तिः- अतथाभूतेऽर्थे तथोत्पद्यमानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रूपप्रतिष्ठमिति तस्यार्थस्य यद्रूपं तस्मिन् रूपे न प्रतिष्ठति, तस्यार्थस्य यत् पारमार्थिकं रूपं न तत् प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठितत्वान्मिथ्याज्ञानं,’ यथा स्थाणुर्वा पुरुषो वेति ॥८॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥

वृत्तिः- शब्दजनितं ज्ञानं शब्दज्ञानं, तदनुपतितुं शीलं यस्य सः शब्दज्ञानानुपाती; वस्तुनस्तथात्वमनपेक्षमाणोऽध्यवसायः स विकल्प इत्युच्यते; यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवदत्तस्य कम्बल इति शब्दजनिते ज्ञाने षष्ठया योऽध्यवसितो भेदः तमिहाविद्यमानमपि समारोप्य प्रवर्त्ततेऽव्यवसाय: । वस्तुतस्तु  चैतन्यमेव पुरुषः ॥९॥

अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१०॥

वृत्तिः- अभावप्रत्यय आलम्बनं यस्याः सा तथोक्ता । एतदुक्तं भवति – या सन्ततम् उद्रिक्तत्वात्तमसः समस्तविषयपरित्यागेन प्रवर्त्तते वृत्तिः सा निद्रा; तस्याश्च’सुखमहमस्वाप्सम्’ इति स्मृतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम् ॥१०॥

अनुभूत विषयासम्प्रमोषः स्मृतिः ॥११॥

वृत्तिः- प्रमाणेनानुभूतस्य विषयस्य योऽयमसम्प्रमोषः संस्कारद्वारेण बुद्धावारोहः’, सा स्मृतिः । तत्र प्रमाण-विपर्यय-विकल्पा जाग्रदवस्थास्त एव तदनुभवबलात् प्रक्षीयमाणा: स्वप्नः । निद्रा तु असंवेद्यमानविपया । स्मृतिश्च प्रमाणविपर्य्ययविकल्पनिद्रानिमित्ता ॥११॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

वृत्तिः- अभ्यास-वैराग्ये वक्ष्यमाणलक्षणे, ताभ्यां प्रकाश-प्रवृत्ति नियमरूपा या वृत्तयः, तासां निरोधो भवतीत्युक्तं भवति; तासां विनिवृत्तवाह्याभिनिवेशानाम् अन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण तद्व मुख्यमुत्पाद्यते, अभ्यासेन च सुखजनकं शान्तप्रवाह-
प्रदर्शनद्वारेण दृढस्थैर्यमुत्पद्यते, इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ॥१२॥

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

वृत्तिः- वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठ: परिणामः स्थितिः, तस्यां यत्न उत्साहः, पुनः पुन स्तथात्वेन चेतसि निवेशनमभ्यास इति उच्यते ॥१३॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥

वृत्तिः- बहुकालं नैरन्तर्येण आदरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति, दाढर्याय प्रभवतीत्यर्थः ॥१४॥

दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥

वृत्तिः- द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यमानः शब्दादिः, देवलोकादावानुश्रविकः, अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदः, तत आगत’ आनुश्रविकः । तयोद्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्द्धस्य या वशीकारसंज्ञा ‘ममते वश्या नाहमेतेषां वश्यः’ इति योऽयं विमर्श:, तद्व राग्यमुच्यते ॥१५॥

तत्परं पुरुषख्यातेर्गुण वैतृष्ण्यम् ॥१६॥

वृत्तिः- तद्वैराग्यं परं प्रकृष्टम्; प्रथमं वैराग्यं विषयविषयम्, द्वितीयं गुणविषयम् उत्पन्नगुणपुरुषविवेकख्यातेरेव भवति, निरोधसमाधेरत्यन्तानुकूलत्वात् ॥१६॥

वितर्कविचारानन्दाऽस्मितानुगमात्सम्प्रज्ञातः ॥१७॥

वृत्तिः- तत्र सम्प्रज्ञाते समाधौ चतस्रोऽवस्था: शक्तिरूपतयाऽवतिष्ठन्ते, तत्रैकंकस्यस्त्याग’ उत्तरोत्तरेति चतुरवस्थोऽयं सम्प्रज्ञातः समाधिः ॥१७॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

वृत्तिः- विरम्यतेऽनेनेति’ विरामो वितर्कादिचिन्तात्यागः; दिरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः; तस्याभ्यासः पौनः पुन्येन चेतसि निवेशनम् । तत्र या काचित् वृत्तिरुल्लसति, तस्या ‘नेति नेती’ ति नैरन्तर्येण पर्युदसनं विरामप्रत्यया-भ्यासः, तत्पूर्वः सम्प्रज्ञातसमाधिः । संस्कारशेषोऽन्यः तद्विलक्षणः, अयमसम्प्रज्ञात इत्यर्थः । न तत्र किञ्चिद्वद्यम् । असम्प्रज्ञातो निर्बीजः समाधिः ।

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥

वृत्तिः- विदेहाः प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे (१।१७) व्याख्याताः, तेषां समाधिर्भवप्रत्ययः; भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । अयमर्थः -आघिमात्रान्तभूता एव ते संसारे तथाविधसमाधिभाजो भवन्ति, तेषां परतत्त्वादर्शनात् योगाभासोऽयम्; अतः परतत्त्वज्ञाने तद्भावनायाञ्च मुक्तिकामेन महान् यत्नो विधेय इत्येतदर्थमुपदिष्टम् ॥१९॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

वृत्तिः- विदेह-प्रकृतिलयव्यतिरिक्तानां श्रद्धादिपूर्वकः, श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः, ते च श्रद्धादयः क्रमादुपायोपेयभावेन प्रवर्त्तमानाः सम्प्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रद्धा योगविषये चेतसः प्रसादः । वीर्यमुत्साहः । स्मृतिरनुभूतासम्प्रमोषः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्र श्रद्धावतो वीर्यं जायते, योगविषय उत्साहवान् भवति । सोत्साहस्य च पाश्चात्त्यासु भूमिषु’ स्मृतिरुत्पद्यते । तत्स्मरणाच्च चेतः समाधीयते । समाहितचित्तरच भाव्यं सम्यक् विवेकेन जानाति । त एते सम्प्रज्ञातस्य समाघेरुपायाः, तस्याभ्यासात् पराच्च वैराग्यात् भवत्यसम्प्रज्ञातः ॥२०॥

तीव्रसंवेगानामासन्नः ॥२१॥

वृत्तिः- समाधिलाभ इति शेषः । संवेगः क्रियाहेतुर्दृढतरः संस्कारः’, स तीव्रो येषामधिमात्रोपायानां तेषामासन्नः समाधिलाभः समाधिफलञ्चासन्नं भवति, शीघ्रमेव सम्पद्यत इत्यर्थः ॥२१॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

वृत्तिः- तेभ्य उपायेभ्यो . मृद्रादिभेदभिन्नेभ्य उपायवतां विशेषो भवति, मृदुर्मध्योऽघिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेग-मध्यसंवेग-तीव्रसंवेगभेदात्त्रिधा; तद्भेदेन च नव योगिनो भवन्ति, मृदूपायो मृदुसंवेगः मध्यसंवेगः तीव्रसंवेगश्च । मध्योपायो मृदुसंवेगः मध्यसंवेगः तीव्र संवेगश्च; अघिमात्रोपायो मृदुसंवेगोमध्यसंवेगस्तीव्रसंवेगश्च । अघिमात्रे उपाये तीव्रे च संवेगे च महान् यत्नः कर्त्तव्य इति भेदोपदेशः ॥२२॥

ईश्वरप्रणिधानाद्वा ॥२३॥

वृत्तिः- ईश्वरो वक्ष्यमाणलक्षणः, तत्र प्रणिधानं भक्तिविशेषः, विशिष्टमुपासनं, सर्वक्रियाणां तत्रार्पणम्, विषयसुखादिकं फलमनिच्छन् सर्वाः क्रियास्तस्मिन्परमगुरावर्पयति, तत्प्रणिधानं समाघेस्तत्फललाभस्य च प्रकृष्ट उपायः ॥२३॥

क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥२४॥

वृत्तिः– विलश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः; विहितनिषिद्धव्यामिश्ररूपाणि कर्माणि; विपच्यन्ते इति विपाकाः कर्मफलानि जात्यायुर्भागा; आ-फलवि-पाकाच्चित्तभूमौ शेरत इत्याशयो वासनाख्यसंस्कारः, तैरपरामृष्टः त्रिष्वपि कालेषु न संस्पृष्टः; पुरुषविशेषः, अन्येभ्यः पुरुषेभ्यो विशिष्यते इति विशेषः, ईश्वर ईशनशीलः, इच्छामात्रेण सकलजगदुद्धरणक्षमः । यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति, तथापि चित्तगतास्तेषामु-दिश्यन्ते; यथा योद्धृगतो जय-पराजयौ स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति, अतः सविलक्षण एव भगवानीश्वरः । तस्य च तथाविघमैश्वर्यमनादेः सत्त्वोत्कर्षात् तस्य सत्त्वोत्कर्षस्य प्रकृष्टाज् ज्ञानादेव; न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वं परस्परानपेक्षत्वात् । ते द्वळे ज्ञानँश्वर्य्ये ईश्वरसत्त्वे वर्त्तमाने अनादिभूते, तेन तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः; प्रकृति-पुरुषसंयोग-वियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः यथेतरेषां प्राणिनां सुख-दुःख-मोहात्मकतया परिणतं चित्त निर्मले सात्त्विके धर्मानुप्रख्यै प्रतिसङ्क्रान्तं चिच्छायाङ कान्ते संवेद्यं भवति, नैवमीश्वरस्य; तस्य केवल एव सात्त्विकः परिणाम उत्कर्षवान् अनादिसम्बन्धेन भोग्यतया व्यवस्थितः, अतः पुरुषान्तरविलक्षणतया स एव ईश्वरः । मुक्तात्मनान्तु पुनः पुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तरुपायनिवत्तितः; अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वं, न चेश्वराणामनेकत्वं, तेषां तुल्यत्वे भिन्नाभिप्रायत्वात् कार्यस्यैवानुपपत्त: उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः, स एवेश्वरः, तत्रैव काष्ठा प्राप्तत्वादश्वर्य्यस्य ॥२४॥

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

वृत्तिः- तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजम् अतीतानागतादिग्र हणस्याल्पत्वं महत्त्वञ्च मूलत्वाद् बीजमिव बीजम्, तत् तत्र निरतिशयं काष्ठां प्राप्तम्; दृष्टा ह्यल्पत्वमहत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः; यथा परमाणावल्पत्वस्य, आकाशे परममहत्त्वस्य; एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति; यत्र चैते निरतिशयाः, स ईश्वरः । यद्यपि सामान्यमात्रेऽनुमानस्य’ पर्य्यवसितत्वात् न विशेषावगतिः सम्भवति, तथापि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोग-वियोगी आपादयतीति नाशङ्कनीयम्, तस्य कारुणि कत्वाद् भूतानुग्रह एव प्रयोजनम्, कल्पप्रलय-महाप्रलयेषु निःशेषान् संसारिण उद्धरिष्यामीति तस्याव्यवसायः; यत् यस्येष्टं तत्तस्य प्रयोजनंमिति ॥२५॥

पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥

वृत्तिः- आद्यानां स्रष्टृणां ब्रह्मादीनामपि स गुरुरुपदेष्टा, यतः स कालेन नावच्छिद्यते, अनादित्वात् । तेषां ब्रह्मादीनां पुनरादिमत्त्वादस्ति कालेनावच्छेदः ॥२६॥

तस्य वाचकः प्रणवः ॥२७॥

वृत्तिः- इत्यमुक्तस्वरूपस्यैश्वरस्य वाचकोऽभिधायकः, प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणव ओङ्कारः, तयोश्च वाच्य-वाचकलक्षणः सम्बन्धो नित्यः सङ्केतेन प्रकाश्यते, न तु केनचित् क्रियते; यथा पितापुत्रयोविद्यमान एव सम्बन्धोऽस्यायं पिता, अस्यायं पुत्र इति केनचित् प्रकाश्यते ॥२७॥

तज्जपस्तदर्थभावनम् ॥२८॥

वृत्तिः- तस्य सार्द्धत्रिमात्रिकस्य’ प्रणवस्य, जपो यथावदुच्चारणम्, तद्वाच्यस्य चेश्वरस्य भावनं पुनः पुनश्चेतसि निवेशनमेकाग्रताया उपायः; अतः समाधिसिद्धये योगिना प्रणवो जप्य; तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति ॥२८॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥

वृत्तिः- तस्माज्जपात्तदर्थभावनायाश्च योगिनः प्रत्यक् चेतनाऽधिगमो भवति, विषयप्रातिकूल्येन स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्शक्तिः सा प्रत्यक्चेतना, तदधिगमो ज्ञानं भवतीत्यर्थः । अन्तराया वक्ष्यमाणाः, तेषामभावः शक्तिप्रतिबन्धोऽपि भवति ॥२९॥

व्याधिस्त्यान संशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्धभूमि-कत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥

वृत्तिः- नवैते रजस्तमोबलातु प्रवर्त्तमानाश्चित्तस्य विक्षेपा भवन्ति, तँरेकाग्रताविरोघिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । स्त्यानमकर्मण्यता चित्तस्य । उभयकोट्यालम्बनं ज्ञानं संशयः, योगः साध्यो न वेति । प्रमादोऽनवधानता, समाधिसाधनेष्वौदासीन्यम् । आलस्यं काय-चित्तयोर्गुरुत्वं, योगविषये प्रवृत्त्यभावहेतुः । अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्द्धः । भ्रान्तिदर्शनं शुक्तिकायां रजतव॑द्विपर्यय॒ज्ञानम् । अलब्धभूमिकत्वं कुतश्चिन्निमित्तात् समाघिभूमेरलाभोऽसम्प्राप्तिः । अनवस्थितत्वं लब्धायामपि भूमौ चित्तस्य तत्राप्रतिष्ठा । ते एते समाघेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इत्युच्यन्ते ॥३०॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥

वृत्तिः- कुतश्चिन्निमित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्त्तन्ते । तत्र दुःखं चित्तस्य रजसः परिणामो बाघनालक्षणः, यद्बाघात् प्राणिनः तदुपघाताय प्रवर्त्तन्ते । दौर्मनस्यं बाह्याभ्यन्तरैः कारणैर्मनसो दौःस्थ्यम् । अङ्गमेजयत्वं सर्वाङ्गीणो वेफ्थुः, आसनमनःस्थैर्य्यस्य बाधकः । प्राणो यद् वाह्यं वायुमाचामति स श्वासः, यत् कोष्ठ्यं वायुं निःश्वसिति स प्रश्वासः । एते विक्षेपैः सह प्रवर्त्तमाना यथोदिताभ्यास-वैराग्याभ्यां निरोद्धव्या इत्येषामुपदेशः ॥३१॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

वृत्तिः- तेषां विक्षेपाणां प्रतिषेधार्थ मेकस्मिन् कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्वेतसः पुनः पुननिवेशनं कार्यः, यद्बलात् प्रत्युदितायामेकाग्रतायां ते विक्षेपाः प्रणाशमुपयान्ति ॥३२॥

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥

वृत्तिः- मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षा औदासीन्यम् । एता यथाक्रमं सुखितेषु दुःखितेषु पुण्यवत्सु अपुण्यवत्सु च विभावयेत् । तथा हि – सुखितेषु साधुषु एषां सुखित्वमिति मैत्रीं कुर्यात्, न तु ईर्ष्याम् । दुःखितेषु कथं तु नामैषां दुःखनिवृत्तिः स्यात् इति कृपामेव कुर्य्यात्, न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यात्, न तु किमेते पुण्यवन्त इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेत्, नानुमोदनं न वा द्वेषम् । सूत्रे सुख-दुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मंत्र्यादिपरिकर्मणा चित्ते प्रसीदति सुखेन समाघेराविर्भावो भवति । परिकर्म चैतत् बाह्यं कर्म, यथा गणितं मिश्र ‘कादिव्यवहारो गणितनिष्पत्तये सङ्कलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति, एवं द्वेष-रागादिप्रतिपक्षभूतमंत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं सम्पद्यतै । राग-द्वेषावेव मुख्यतया विक्षेपमुत्पादयतः, तो चेत् समूलमुन्मूलितो स्यातां, तदा प्रसन्नत्वात् मनसो भवत्येकाग्रता ॥३३॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

वृत्तिः- प्रच्छदनं कोष्ठस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेनं बहिर्निःसारणम् । मात्राप्रमाणेनैव प्राणस्य वायोबहिर्गतिविच्छेदो विधारणा’, सा च द्वाभ्यां प्रकाराभ्यां, बाह्यस्याभ्यन्तरापूरण पूरितस्य वा तत्रैव निरोधेन । तदेवं रेचक-पूरक-कुम्भकस्त्रिविषः प्राणायामः चित्तस्य स्थिति मेकाग्रतायां निबध्नाति, सर्वासामिन्द्रियवृत्तीनां प्राणवृनिपूर्वकत्वात् मनः प्राणयोश्च स्वव्यापारपरस्परमेक-योगक्षेमत्वात्, जीयमाणः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति । समस्तदोषक्षयकारित्वञ्चास्याग श्रूयते; दोषकृताश्च सर्वा विक्षेपवृत्तयः; अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ॥३४॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥३५॥

वृत्तिः- मनस इति वाक्यशेष: ‘। विषयाः गन्ध-रस-रूप-स्पर्श-शब्दाः, ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैय्यं करोति । तथा हि, नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृशस्येव जिह्वाग्रे रससंवित्, ताल्व रूपसंवित्, जिह्वामध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रिय-द्वारेण तस्मिंस्तस्मिन् विषये दिव्ये जायमाना संवित् चित्तस्यैकाग्रताया हेतुर्भवति, अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् ॥३५॥

विशोका वा ज्योतिष्मती ॥३६॥

वृत्तिः- प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्यशेषः । ज्योति:शब्देन सात्त्विकः प्रकाश उच्यते, स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्याः साज्योतिष्मती प्रवृत्तिः। विशोका विगतः सुखमयसत्त्वाभ्यासवशाच्छोको रजः-परिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्विनी । अयमर्थः-हृत्पद्म-सम्पुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तस्य सत्त्वं भावयतः प्रज्ञालोकात् सर्ववृत्तिक्षये चेतसः स्थैर्य्यमुत्पद्यते ॥३६॥

वीतरागविषयं वा चित्तम् ॥३७॥

वृत्तिः- मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयाभिलाषः, तस्य यच् चित्तं परिहृतक्लेशं तद् आलम्बनीकृतं चेतसः स्थितिहेतुभवति ॥३७॥

स्वप्न निद्राज्ञानालम्बनं वा ॥३८॥

वृत्तिः- प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र भोवतृत्वमात्मनः स स्वप्नः, निद्रा पूर्वोक्तलक्षणा, तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थिति करोति ॥३८॥

यथांभिमतध्यानाद्वा ॥३९॥

वृत्तिः- यथाऽभिप्रेते वस्तुनि बाह्ये चन्द्रादावभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतः स्थिरीभवति ॥३९॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

वृत्तिः- एभिरुपायश्चित्तस्य स्थैय्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते, न क्वचित् परमाणुपर्यन्तेसूक्ष्मे विषयेऽस्य मनः प्रतिहन्यते इत्यर्थः । एवं स्थूलमाकाशादिपरममहत्त्वपर्य्यन्तं भावयतो न क्वचिञ्चेतसः प्रतिघात उत्पद्यते, सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः ॥४०॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥

वृत्तिः- क्षीणा वृत्तयो यस्य स क्षीणवृत्तिः तस्य ग्रहीत-ग्रहण-ग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्य-तदञ्जनता समापत्तिर्भवति । तत्स्थत्वं तत्र एकाग्रता, तदञ्जनता तन्मयत्वं, क्षीणभूते चित्तं विषयस्य भाव्यमानस्यैवोत्कर्षः, तथाविधा समापत्तिः तद्रूपः परिणामो भवतीत्यर्थ: । दृष्टान्तमाह, अभिजातस्येव मणे:- यथा अभिजातस्य निर्मलस्फटिकमणेस्तत्तदुपाघिवशात् तत्तद्रूपापत्तिः, एवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः ।

यद्यपि ग्रहीत – ग्रहण-ग्राह्येषु इत्युक्तं, तथापि भूमिकाक्रमवशात् ग्राह्य-ग्रहण-ग्रहीतृषु इति बोध्यम्; यतः प्रथमं

ग्राह्यनिष्ठ एव समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मिता’ मात्ररूपो ग्रहोतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासम्भवात् । ततश्च स्थूल-सूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति, एवं ग्रहणे ग्रहीतरि च समापन्नं बोद्धव्यम् ॥४१॥

तत्र शब्दार्थज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥४२॥

वृत्तिः- श्रोत्रे न्द्रियग्राह्यः स्फोटरूपो वा शब्दः, अर्थो जात्यादिः, ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्प उक्तलक्षणः, तैः सङ्कीर्णा; यस्याम् एते शब्दादयस्त्रयः परस्पराध्यासेन’ विकल्परूपेण प्रतिभासन्ते गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम् इत्यनेनाकारेण सा सवितर्का समापत्तिरुच्यते ॥४२॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निवितर्का ॥४३॥

वृत्तिः- शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासि’तयान्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः ॥४३॥

 एतयैव सविचारा निविचारा च सूक्ष्मविषया व्याख्याता ॥४४॥

वृत्तिः- एतयैव सवितर्कया निर्वितर्कया च समापत्त्या सबिचारा निर्विचारा च व्याख्याता; कीदृशी ? सूक्ष्मविषया- सूक्ष्मः तन्मात्रेन्द्रियादिविषयो यस्याः सा तथोक्ता एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियालम्बना’, शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां मा सविचारा । देशकालधर्मादिरहितो धर्ममावतया सूक्ष्मार्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निविचारा ॥४४॥

सूक्ष्मविषयत्वं चाऽऽलिङ्गपर्यवसानम् ॥४५॥

वृत्तिः- सविचार-निविचारयोः समापत्त्योयत् सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्य्यवसानं न क्वचिल्लीयते न वा किञ्चित् लिङ्गति गमयतीत्यलिङ्गं प्रधानं, तत्पर्य्यन्तं सूक्ष्मविषयत्वम् । तथा हि – गुणानां परिणामे चत्वारि पर्वाणि-विशिष्टलिङ्गम्, अविशिष्टलिङ्गं, लिङ्गमात्रम्, अलिङ्ग चेति । विशिष्टलिङ्ग भूतेन्द्रियाणि’, अविशिष्टलिङ्गं तन्मात्रान्तःकरणानि, लिङ्गमात्र बुद्धिः, अलिङ्ग प्रधानमिति नातः परं सूक्ष्ममस्तीत्युक्तं भवति ॥४५॥

ता एव सबोज: समाधिः ॥४६॥

वृत्तिः- ता एव उक्तलक्षणाः समापत्तयः, सबीजः सह बीजेनालम्बनेन वर्त्तत इति सबीजः सम्प्रज्ञातः समाधिरित्युच्यते, सर्वासां सालम्बनत्वात् ॥४६॥

निविचारवंशार द्येऽध्यात्मप्रसादः ॥४७॥

वृत्तिः- निविचारत्वं व्याख्यातं (१९४४), वैशारद्य नैर्मल्यं, सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यं, ततोऽपि सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निविचारायाः, तस्यास्तु निर्विकल्परूपायाः प्रकृष्टाभ्यासवशा शारद्य नैर्मव्ये सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाहयोग्यं भवति । एतदेव चित्तस्य वैशारद्य यत् स्थितौ दार्म्यम् ॥४७॥

 ऋतम्भरा तत्र प्रज्ञा ॥४८॥

वृत्तिः- ऋतं सत्यं बिभत्ति कदाचिदपि न विपर्ययेणाच्छाद्यते सा ऋतम्भरा प्रज्ञा तस्मिन् भवतीत्यर्थः । तस्माच्च प्रज्ञालोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोति ॥४८॥

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

वृत्तिः- श्रुतमागमज्ञानम्, अनुमान॑मुक्तलक्षणं (११७); ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम्, इयं पुननिविचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा, विशेषविषयत्वात्; अस्यां हि प्रज्ञायां सूक्ष्म-व्यवहित-विप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते;
अतस्तस्यामेव योगिना परः प्रयत्नः कर्त्तव्य इत्युपदिष्टं भवति ॥४९॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥

वृत्तिः- तथा प्रज्ञया जनितो यः संस्कारः सोऽन्यान् संस्कारान् व्युत्थानजान्समाधि-जाँश्च संस्कारान् प्रतिबघ्नाति स्वकार्य्यकरणाक्षमान् करोतीत्यर्थः; यतस्तत्त्वरूपतयाऽनया जनिताः संस्कारा बल्लवत्त्वादतत्त्व रूपप्रज्ञाजनितान् संस्कारान्वाधितुं शक्नुवन्ति; अतस्तामेव प्रज्ञामभ्यसेदियुक्त भवति ॥५०॥

तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ॥५१॥

वृत्तिः- तस्यापि सम्प्रज्ञातस्य निरोधे विलये सति सर्वासां चित्तवृत्तीनां कारणे प्रविलयाद् या या संस्कारमात्राद्वृत्तिरुदेति, तस्यां ‘नेति नेति’ केवलं पर्युदसनान्निर्बीजः समाधिर्भवति यस्मिन् सति पुरुष: स्वरूपनिष्ठः शुद्धोभवति ॥५१॥

इति धारेश्वर’-भोजदेवविरचितायां राजमात्तर्डाभिधायां पातञ्जलवृत्तौ समाधिपादः ॥१॥

error: Content is protected !!

Share This

Share this post with your friends!