King Bhoja and Rajamartanda
Chapter 3
अथ विभुतिपादः
यत्पादपद्मस्मरणादणिमादिविभूतयः । भवन्ति भविनामस्तु भूतनाथः स भूतये ।।
तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतु संयम संज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते । तत्र धारणायाः स्वरूपमाह –
देशबन्धश्चित्तस्य धारणा ॥१॥
वृत्तिः- देशे नाभिचक्र नासाग्रादौ चित्तस्य ‘बन्धो विषयान्तरपरिहारेण यत् स्थिरीकरणं, सा चित्तस्य धारणोच्यते । अयमर्थः – मैत्र्यादिचित्तपरिकर्मवासितान्तः करणेन यम-नियमवता जितासनेन परिहृतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधे प्रदेश ऋजुकायेन जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेर॑भ्यासाय चित्तस्य स्थिरीकरणं कर्त्तव्यमिति ॥१॥
धारणामभिधाय ध्यानमभिधातुमाह-
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
वृत्तिः- तत्र तस्मिन् प्रदेशे, यत्र चित्तं घृतं तत्र, प्रत्ययस्य ज्ञानस्य, या एकतानता विसदृशपरिणामपरिहारद्वारेण यदेव धारणायाम् अवलम्बनीकृतं, तदवलम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते ॥२॥
चरमयोगाङ्गं समाधिमाह-
तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
वृत्तिः- तदेवोक्तलक्षणं ध्यानं, ‘यत्रार्थमात्रनिर्भासम् अर्थाकारसमावेशादुद्भूतार्थरूपं, `न्यग्भूतज्ञानस्वरूपत्वेन स्वरूप शून्यतामिवापद्यते, स समाधिरित्युच्यते, सम्यक् आघीयत एकाग्रीक्रियते विक्षेपान् परिहृत्य मनो यत्र स समाधिः ॥३॥
उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह-
त्रयमेकत्र संयमः ॥४॥
वृत्तिः- एकस्मिन् विषये धारणा ध्यान-समाधित्रयं प्रवर्त्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते ॥४॥
तस्य फलमाह-
तज्जयात् प्रज्ञालोकः ॥५॥
वृत्तिः-तस्य संयमस्य जयादभ्यासेन सात्म्योत्पादनात्, प्रज्ञाया ‘विवेकख्यातेः, आलोकः प्रसवो भवति, प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः ॥५॥
तस्योपयोगमाह-
तस्य भूमिषु विनियोगः ॥६॥
वृत्तिः- तस्य संयमस्य, भूमिषु स्थूल सूक्ष्मावलम्वनभेदेन स्थितासु चित्तवृत्तिपु, विनियोगः कर्त्तव्यः, अधरामधरां चित्तभूमि जितां जितां ज्ञात्वोत्तरस्यांभूमौ संयमः कार्य्यः; न ह्यनात्मीकृताधरभूमि’ रुत्तरस्यां भूमौ संयमं कुर्वाणः फलभाग्भवति ॥६॥
साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्याशङ्क्याह-
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
वृत्तिः- पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पय्र्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्रयं सम्प्रज्ञातस्य समाधेरन्तरङ्गं समाधिस्वरूपनिष्पादनात् ॥७॥
तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह-
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
वृत्तिः- नित्रजस्य निरालम्बनस्य शून्यभावनाऽपरपर्य्यायस्य रामाधेरेतदपि योगाङ्गत्रयं बहिरङ्ग, पारम्पर्येणोपकारकत्वात् ॥८॥
इदानीं योगसिद्धीर्व्याख्यातुकामः संयमस्य विषयविशुद्धि कत्तं क्रमेण परिणामत्रयमाह–
व्युत्थाननिरोधसंस्कारयोरभिभव प्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
वृत्तिः- व्युत्थानं क्षिप्त- मूढ – विक्षिप्ताख्यं भूमित्रयं निरोधः प्रकृष्टसत्त्व स्य अङ्गितया चेतसः परिणामः, ताभ्यां व्युत्थान-निरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रमम् अभिभव प्रादुर्भावौ यदा भवतः; अभिभवो न्यग्भूततया काय्यंकरणासामर्थ्येनावस्थानं, प्रादुर्भावो वर्त्तमानेऽध्वनि अभिव्यक्तरूपतया आविर्भावः; तदा निरोधक्षणे चित्तस्योभयक्षणवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते ।
तस्यैव फलमाह –
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
वृत्तिः- तस्य चेतसः, निरुक्तान्नि रोघसंस्कारात् प्रशान्तवाहिता भवति; परिहृतविक्षेपतया सदृशप्रवाह – परिणामि चित्तं भवतीत्यर्थः ॥१०॥
निरोधपरिणामम् अभिघाय समाधिपरिणाममाह-
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
वृत्तिः- सर्वार्थता चलत्वान्नानाविधार्थग्रहणं, चित्तस्य विक्षेपो धर्मः । एकस्मिन्नेवालम्बने सदृशपरिणामिता एकाग्रता, सापि चित्तस्य धर्मः । तयोर्यथा-क्रमं अयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽत्यन्ताभिभवः, एकाग्रतालक्षणस्य धर्मस्थ प्रादुर्भावोऽभिव्यक्तिः, चित्तस्योद्रिक्तसत्त्वस्यान्वयितयावस्थानं समाधिपरिणाम इत्युच्यते। पूर्वस्मात् परिणामादस्यायं विशेषः – तत्र संस्कारलक्षणयोः घर्मयोरभिभवप्रादुर्भावौ, पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः, उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम्; इह तु क्षयोदयाविति सर्वात्मतारूपस्य विक्षेप-
स्यात्यन्नतिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षयः, एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्त्तमानेऽध्वनि प्रकटत्वम् ॥ ११॥
तृतीयमेकाग्रतापरिणाममाह-
शान्तोदित तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
वृत्तिः- समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तः, अतीतमध्वानं प्रविष्टः । अपरस्तु उदितो वर्त्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययौ, उभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स एकाग्रता – परिणाम इत्युच्यते ॥१२॥
चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह-
एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्थापरिणामाव्याख्याताः ॥१३॥
वृत्तिः- एतेन त्रिविधेनोक्तेन चित्तपरिणामेन, भूतेषु स्थूल-सूक्ष्मेषु, इन्द्रियेषु बुद्धिकर्मान्तःकरणभेदेनावस्थितेषु, धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः। अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिः धर्मपरिणामः; यथा – मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथा–तस्यैव घटस्यानागताध्वपरित्यागेन वर्त्तमाना व्त्रस्वीकारः। तत्परित्यागेनातीताध्वपरिग्रहः । अवस्थापरिणामो यथा तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयो रन्वयित्वेन, यतश्च गुणवृत्तिर्न अपरिण- म्यमाना क्षणमप्यस्ति ॥१३॥
ननु कोऽयं धर्मीत्याशङ्कय धर्मणो लक्षणमाह-
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
वृत्तिः- शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः; उदिता य अनागतमध्वानं परित्यज्य वर्त्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति; अव्यपदेश्या ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते, तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियतकार्य्यकारणरूपयोग्यतयावच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्मं योऽनुपतति अनुवर्त्तते, अन्वयित्वेन स्वीकरोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मीति उच्यते; यथा- सुवणं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्त्तमानं तेषु धर्मेषु कथञ्चिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनाव भासते ॥१४॥
एकस्य धर्मिणः कथमनेके परिणामा’ इत्याशङ्कामपनेतुमाह-
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
वृत्तिः- धर्माणाम् उक्तलक्षणानां यः क्रमस्तस्य यत् प्रतिक्षणमन्यत्वं परिदृश्यमानं, परिणामस्योक्तलक्षणस्यान्यत्वे, नानाविधत्वे, हेतुलिङ्गं ज्ञापकं भवति । अयमर्थः – योऽयं नियतः क्रमः मृच्चूर्णाद् मृत्पिण्डः, ततः कपालानि, तेभ्यश्च घट इत्येवं क्रमरूपः परिदृश्यमानः परिणामस्य अन्यत्वमावेदयति । तस्मिन्नेव धर्मिणि चो लक्षणपरिणामस्य अवस्थापरिणामस्य च क्रमः, सोऽपि अनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणम्यमानाः परिदृश्यन्ते; अतः सिद्धं क्रमान्यत्वात् परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममा ‘नानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते, यथा-सुखादयः संस्थानादयश्च । केचिदेकान्तेनानुमानगम्याः, यथा-धर्मसंस्कार शक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगमः ॥१५॥
इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह-
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
वृत्तिः- धर्म-लक्षणावस्थाभेदेन यत् परिणामत्रयमुक्तं, तत्र संयमात् तस्मिन्विषये पूर्वोक्तसंयमस्य करणात्, अतीतानागतज्ञानं योगिनः समाधिर्भवति’ । इदमत्र तात्पर्य्यम् अस्मिन् धर्मिणि अयं धर्मः, इदं लक्षणम्, इयमवस्था च अनागतादध्वनः समेत्य वर्त्तमाने अध्वनि स्वव्यापारं विधायातीतम् अध्वानं प्रविमतीत्येव परिहृतविक्षेपतया यदा संयमं करोति, तदा यत् किञ्चिदनुत्पन्नमनित्र्यन्तं वा तत् सर्वं योगी जानति, यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात् संवर्धित्रणसामर्थ्यमविद्यादिभिर्विक्षेपैरपक्रियते’ । यदा तु तैस्तैरुपायैर्विक्षेपाः परिचियन्ते तदा निवृत्तमलस्येत्र आदर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्नताबलादा विर्भवति ॥१६॥
सिद्ध्यन्तरमाह-
शब्दार्थ-प्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
वृत्तिः- शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः, यदि वा, क्रमरहितस्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः’, उभययाऽपिपदरूपोवाक्यरूपश्च, तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थो जाति-गुण-क्रियादिः, ऋत्ययो ज्ञानं, विषयाकारा बुद्धिवृत्तिः, एषां शब्दार्थज्ञानानां व्यवहारे इतरेतराघ्यासाद्भिन्नानामपि बुद्ध्येकरूपतासम्पादनात् सङ्कीर्णत्वम् । तथा हिगामानयेत्युक्ते कश्चिद् गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत् पिण्डरूपं शब्दञ्च तद्वाचकं ज्ञानञ्च तत्ग्राहकमभेदेनैवाध्यवस्यति, न त्वस्य गोशब्दो वाचकः, अयं गोशब्दस्य वाच्यः, तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । कोऽयमर्थः, तथा हि – कोऽयं शब्दः, किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति । स यद्येकरूपतां न प्रतिपद्यते, कथमेकरूपमुत्तरं प्रयच्छति ? एवं तस्मिन् अवस्थिते योऽयं प्रविभागः, – इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदमर्थस्य यद्वाच्यत्वम्, इदं ज्ञानस्य, यत् प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृग-पक्षि- सरीसृपादीनां यद् रुतं यः शब्दस्तत्र ज्ञानमुत्पद्यते, अनेनैवाभिप्रायेण तेन प्राणिनायं शब्दः समुच्चारित इति सर्वं जानाति ॥१७॥
सिद्ध्यन्तरमाह-
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
वृत्तिः- द्विविधाश्चित्तस्य वासनारूपाः संस्काराः; केचित् स्मृतिमात्रोत्पादनफलाः, केचिज् जात्यायुर्भोगलक्षणा विपाकहेतवः; यथा – धर्माधर्माख्याः, तेषु संस्कारेषु यदा संयमं करोति, एवं मया सोऽर्थोऽनुभूतः, एवं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसन्दधानो भावयन्नेव ‘ प्रबोधकमन्तरेण उद्बुद्धसंस्कारः सर्वमतीतं स्मरति; क्रमेण साक्षात्कृतेषूद्बुद्धेषु संस्कारेषु पूर्वजन्मान्तरानुभूतानपि जात्यादीन् प्रत्यक्षेण पश्यति ॥१८॥
सिद्ध्यन्तरमाह-
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
वृत्तिः- प्रत्ययस्य परचित्तस्य केनचिद् मुखरागादिना लिङ्गेन गृहीतस्य,यतः मंगमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते, सरागम् अस्य चित्तं वीतरागं वेति परचित्तगतान् सर्वानपि धर्माञ् जानातीत्यर्थः ॥१९॥
अस्यैव परचित्तज्ञानस्य विशेषज्ञानमाह-
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
वृत्तिः- तस्य परस्य यच्चित्तं तत् सालम्बनं स्वकीयेनालम्बनेन सहितं न शक्यते ज्ञातुम्, आलम्बनस्य केनचिल्लिङ्गेनाविषयीकृ तत्वात् । लिङ्गाद्धि चित्तमात्रं परस्यावगतं न तु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्त्तुमशक्यत्वान् न भवति परचित्तस्य यो विषयस्तत्र ज्ञानं, तस्मात् परकीयचित्तं नालम्वनसहितं गृह्यते, तस्यालम्बनस्यागृहीतत्वात्; चित्तधर्माः पुनर्गृह्यन्त एव । यदा तु किमनेनालम्बितमिति प्रणिधानं करोति, तदा तत्संयमात्तद्विषयमपि ज्ञानम् उत्पद्यत एव ॥२०॥
सिद्ध्यन्तरमाह-
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्द्धानम् ॥२१॥
वृत्तिः- कायः शरीरं, तस्य रूपं चक्षुर्ग्राह्यो गुणः, तस्मिन्नस्त्यस्मिन्’ कायेरूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिः तस्याः स्तम्भे भावनावशात्प्रतिबन्धे, चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मः, तस्य असंयोगे तद्ग्रहणव्यापाराभावे योगिनोऽन्तर्द्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः । एतेनैव रूपान्तर्द्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्रह्याणामन्तर्द्धानमुक्तं वेदितव्यम् ॥२१॥
सिद्ध्यन्तरमाह-
सोपक्रमं निरुपक्रमञ्च कर्मतत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥२२॥
वृत्तिः- आयुर्विपाकं यत् पूर्वकृतं कर्म तत् द्विप्रकारं, सोपक्रमं निरुपक्रमञ्च; तत्र सोपक्रमं यत् फलजननाय सहोपक्रमेण’ कार्य्यंकरणाभिमुख्येन वर्त्तते; यथा-उष्णप्रदेशे प्रसारिताद्र’ वासः शीघ्रमेव शुष्यति । उक्तविपरीतं निरुपक्रमम्, यथा-तदेवाद्र’वासः संवर्तितम् अनुष्ण प्रदेशे चिरेण शुष्यति । तस्मिन् द्विविधे कर्मणि यः संयमं करोति – कि मम कर्म शीघ्रविपाकम्,चिरविपाकं वा, एवं घ्यानदार्थ्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगः, तस्मिन् ज्ञानम् अमुष्मिन् काले अमुष्मिन् देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा – अरिष्टानि त्रिविधानि, आध्यात्मिकाधिभौतिकाधिदैविकानि । तत्राध्यात्मिकानि – पिहितकरणः कोष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि । अधिभौतिकानि – अकस्माद् विकृतपुरुषदर्शनादीनि । आधिदैविकानि – अकाण्डे एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते, तथापि तेषां सामान्याकारेण तत् संशयरूपं योगिनां पुनर्नियतदेशकालतया प्रत्यक्षवदव्यमिचारि ॥२२॥
परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह-
मैत्र्यादिषु बलानि ॥२३॥
वृत्तिः- मंत्री करुणा मुदितोपेक्षासु यो विहित संयमस्तद्बलानि तासां मैत्र्यादीनां सम्बन्धीनि प्रादुर्भवन्ति; मंत्री – करुणा-मुदितोपेक्षास्तथास्य प्रकर्षंगच्छन्ति यथा सर्वस्य मित्रत्वादिकम् अयं प्रतिपद्यते ॥२३॥
सिद्ध्यन्तरमाह-
बलेषु हस्तिबलादीनि ॥२४॥
वृत्तिः- हस्तादिसम्बन्धिषु बलेषु कृतसंयमस्य तद्वलानि हस्त्यादिबलाविर्भवन्ति । तदयमर्थः-यस्मिन् हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेन अयं संयमं करोति ‘तत्तत्सामर्थ्ययुक्तं सत्त्वमस्य प्रादुर्भवतीत्यर्थः ॥२४॥
सिद्ध्यन्तरमाह-
प्रवृत्त्यालोकन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टज्ञानम् ॥२५॥
वृत्तिः- प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता (१।३५-३६) तस्या य आलोकः सात्त्विकप्रकाशः तस्य निखिलेषु विषयेषु न्यासात् तद्वासितानां विषयाणां भावनात अन्तःकरणेषु इन्द्रियेषु च प्रकृष्टशक्तिमापन्नेषु सुसूक्ष्मस्य परमाण्वादेः व्यवहितस्य भूम्यन्तर्गतस्य निधानादेः, विप्रकृष्टस्य मेर्वपरपार्श्ववत्तिनो ‘रसायनादेर्ज्ञानमुत्पद्यते ॥२५॥
एतत्समानवृत्तान्तसिद्ध्यन्तरमाह-
भुवनज्ञानं सूर्य्ये संयमात् ॥२६॥
वृत्तिः- सूर्ये प्रकाशमये रे यः संयमः करोति तस्य सप्तभूभुवःस्वःप्रभृतिषु लोकेषु यानि भुवनानि तत्तत्सन्निवेशमानि पुराशि, तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन् सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्तः, इह तु भौतिक इति विशेषः ॥२६॥
भौतिकप्रकाशान्तरालम्बनद्वारेण सिद्ध्यन्तरमाह-
चन्द्रे ताराव्यूहज्ञानम् ॥२७॥
वृत्तिः- चाराणां ज्योतिषां यो व्यूहो विशिष्टः सन्निवेशस्तस्य चन्द्रे कृतसंयमस्य ज्ञानमुत्पद्यते । सूर्य्यप्रकाशेन हततेजस्कत्वात्ताराणां सूय्यंसंयमात्तज्ज्ञानं न शक्यं भवितुमर्हतीति पृथगुपायोऽभिहितः ॥२७॥
सिद्ध्यन्तरमाह-
ध्रुवे तद्गतिज्ञानम् ॥२८॥
वृत्तिः- ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च, तस्या ज्ञानमुत्पद्यते, इयं तारा, अयं ग्रहः इयता कालेनामुळे राशिम् इदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानस्य फलमुक्तं भवति ॥२८॥
बाह्याः सिद्धीः प्रतिपाद्य अन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते-
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
वृत्तिः- शरीरमव्यवत्ति नाभिसंज्ञकं यत् षोड़शारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो ब्यूहो विशिष्टरस-मल-धातु-नाड्यादीनामवस्थानं, तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति-नाभिचक्रं शरोरमघ्यवति सर्वतः प्रसृतानां नाड्यादीनांमूलभूतम्, अतस्तत्र कृतावधानस्य समग्रसन्निवेशो यथावद् आभाति ॥२९॥
सिद्ध्यन्मरमाह-
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥
वृत्तिः- कण्ठे गले कूपः कण्ठकूपः, जिह्वामूले जिह्वातन्तोरघस्तात्’ कूप इव कूपो गर्त्ताकारप्रदेशः, प्राणादेयंत्सम्पर्कात् क्षुत्पिपासादयः प्रादुर्भवन्ति, तस्मिन् कृतसंयमस्त योगिनः क्षुत्पिपासादयो निवर्त्तन्ते, घण्टिकाघस्तात् स्रोतसा धार्य्यमाणे तस्मिन् भाविते भवत्येवंविधा सिद्धिः॥३०॥
सिद्ध्यन्तरमाह-
कूर्मनाढ्यां स्थैर्य्यम् ॥३१॥
वृत्तिः- कण्ठकूपस्याधस्ताद् या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्य्यमुत्पद्यते, तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः, यदि वा – कायस्य’ स्थैर्य्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः ॥३१॥
सिद्ध्यन्तरमाह-
मूर्द्धज्योतिषि सिद्धदर्शनम् ॥३२॥
वृत्तिः- शिरः कपाले ब्रह्मरन्ध्राख्ये छिद्रे प्रकाशाधारत्वाज् ज्योतिषि, यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव’ सर्वप्रदेशे सङ्घटते, तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसृतस्तत्र सम्पिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषाः तेषामितरप्राणिभिरदृश्यानां, तस्य दर्शनं भवति, तान् पश्यति तैश्च स सम्भाषत’ इत्यर्थः ॥३२॥
सर्वज्ञत्व उपायमाह-
प्रातिभाद्वा सर्वम् ॥३३॥
वृत्तिः- निमित्तानपेक्षं मनोमात्रजन्यम् अविसंवादकं द्रागुत्पद्यमानं’ ज्ञानं प्रतिभा, तस्यां संयमे क्रियमाणे प्रातिमं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति, यथा उदेष्यतः सवितुः पूर्वं प्रभा प्रादुर्भवति, तद्वद् विवेकख्यातेः पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते, तस्मिन् सति संयमान्तरानपेक्षः सवं जानातीत्यर्थः ॥३३॥
सिद्ध्यन्तरमाह-
हृदये चित्तसंवित् ॥३४॥
वृत्तिः- हृदयं शरीरस्य प्रदेशविशेषः, तस्मिन्नघोमुखस्वल्पपुण्डरीकाम्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं, तत्र कृतसंयमस्य स्व- परचित्तज्ञानमुत्पद्यते, स्वचित्तगताः सर्वा वासनाः, परचित्तगतांश्च रागादीन् जानातीत्यर्थः ॥३४॥
सिद्ध्यन्तरमाह-
सत्त्व-पुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
वृत्तिः- सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः, पुरुषो भोक्ता अधिष्ठातृरूपः,तयोरत्यन्तासङ्कीर्णयोर्भोग्य-भोक्तृरूपत्वाद् अचेतनचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात् सत्त्वस्येव कर्त्तृ ताप्रत्ययेन या सुखदुःखसंवित् स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तः, तस्माद् अन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहङ्कारसत्त्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते, तत्र तदेवं रूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठं’पुरुषो जानातोत्यर्थः । न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वापत्तेः, ज्ञातृ-ज्ञेयत्वयोरत्यन्तविरोधात् ॥ ३५॥
अस्यैव संयमस्य फलमाह –
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥३६॥
वृत्तिः- ततः पुरुषसंयमादभ्यस्यमानाद् व्युत्थितस्यापि ज्ञानानि जायन्ते । तत्र प्रातिभं पूर्वोक्तं ज्ञानं, तस्याविर्भवनात् सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं, तस्माच्च प्रकृष्टं दिव्यं शब्दं जानाति । वेदना’ स्पर्शेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा तान्त्रिक्या संज्ञया व्यवह्रियते; तस्माद् दिव्यस्पर्शविषयं ज्ञानं समुपजायते । आदर्शश्चक्षुरिन्द्रियजं ज्ञानम्, आ समन्तात् दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा ; तस्य प्रकर्षाद्दिव्यं रूपज्ञानमुत्पद्यते । आस्वादो रसनेन्द्रियजं ज्ञानम्, आस्वाद्यतेऽनेनेति कृत्वा ; तस्मिन् प्रकृष्टे दिव्ये रसे संविदुपजायते । वार्त्ता गन्धसंवित्, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्त्तते गन्धविषये इति वृत्तेर्घाणेन्द्रियाज् जाता वार्त्ता गन्धसंवित्, तस्यां प्रकृष्यमाणायां दिव्यगन्धोऽनुभूयते ॥३६॥
एतेषां फलविशेषाणां विषयविभागमाह-
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३७॥
वृत्तिः- प्राक् प्रतिपादिताः फलविशेषाः, समाघेः ‘प्रकर्षे गच्छत उपसर्गा उपद्रवा विघ्नाः, तत्र हर्षस्मयादिकरणेन समाधिः शिथिलीभवति । व्युत्थाने तु पुनर्व्यवहारदशायां विशिष्टफलदायकत्वात् सिद्धयो भवन्ति ॥३७॥
सिद्ध्यन्तरमाह-
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्यपरशरीरावेशः ॥३८॥
वृत्तिः- व्यापकत्वादात्म-चित्तयोनियतकर्मवशादेव शरीरान्तर्गतयोरेव भोवतृभोग्यभावेन यत् संवेदनमुपजायते स एव शरीरबन्ध इत्युच्यते, तद् यदा समाधिवशाद् बन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते । चित्तस्य च योऽसौ प्रचारः हृदयप्रवेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरः तस्य संवेदनं ज्ञानम्-इयं चित्तवहा नाड़ी, अनया चित्तं वहति, इयं च प्राणादिवहाम्यो नाडीभ्यो विलक्षणेति– स्व-परशरीरयोर्यदा सञ्चारं जानाति तदा परकीयं मृतं जीवच्छरीरं वा चित्तसञ्चारद्वारेण प्रविशति; चित्तञ्च परशरीरे प्रविशदिन्द्रियाण्यपि अनुवर्त्तन्ते मधुकरराजमिव मक्षिकाः । अर्थ परशरीरप्रविष्टो योगी स्वशरीरवत् तेन सर्व व्यवहरति; यतो व्यापकयोश्चित्तपुरुषयोर्भोगसङ्कोचे कारण कर्म, तच् चेत् समाधिना क्षिप्तं, तदा स्वातन्त्र्यात् सर्वत्रैव भोगनिष्पत्तिः ॥३८॥
सिद्ध्यन्तरमाह-
उदानजयाज्जल-पङ्क-कण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥
वृत्तिः- समस्तानामिन्द्रियाणां तुषज्वालावद् या युगपदुत्थिता वृत्तिः सां जीवनशब्दवाच्या; तस्याः क्रियाभेदात् प्राणापानादिसंज्ञाभिर्व्यपदेशः । तत्र हृदयान्मुखनासिकाद्वारेण वायोः प्रायणात् प्राण इत्युच्यते । नाभिदेशात् पादाङ्गुष्ठपर्य्यन्तमपनयनादपानः । नाभिदेशं परिवेष्ट्य समन्ताद् नयनात् समानः । कृकाटिकादेशादाशिरोवृत्त रुन्नयनादुदानः । व्याप्य नयनात् सर्वशरीरव्यापीव्यानः । तत्र उदानस्य संयमद्वारेण जयादितरेषां वायूनां रोधा ‘दूर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न मज्जति इति, लघुत्वात्तलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ॥३९॥
सिद्ध्यन्तरमाह-
समानजयात् प्रज्वलनम् ॥४०॥
वृत्तिः- अग्निमावेष्ट्य व्यवस्थितस्य समानाख्यस्य वायोर्जयात् संयमेन वशीकाराद् निरावरणस्याग्नेरुद्भूत्तत्त्वात्तळे जसा प्रज्वलन्निव योगी प्रतिभाति ॥४०॥
सिद्ध्यन्तरमाह-
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥
वृत्तिः- श्रोत्रं शब्दग्राहकमाहङ्कारिकमिन्द्रियम्, आकाशं व्योम, शब्द-तन्मात्र काय्यं, तयोः सम्बन्धो देश’देशिभावलक्षणः, तस्मिन् कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्त्तते, युगपत् सूक्ष्म व्यवहित विप्रकृष्टशब्दग्रहण समर्थं भवतीत्यर्थः ॥४१॥
सिद्ध्यन्तरमाह्-
कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥
वृत्तिः- कायः पाञ्चभौतिकं शरीरं, तस्याकाशेनाकाशदायकेन’ यः सम्वन्धस्तत्र संयमं विधाय लघुनि तुलादौ समापत्ति तन्मयीभावलक्षणां विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले सञ्चरणक्रमेणोर्णनामतन्तुजालेन सञ्चरमाण आदित्य रश्मिभिश्च विहरन् यथेष्टमाकाशेन गच्छति ॥४२॥
सिद्ध्यन्तरमाह-
बहिरकल्पिता वृत्तिर्महाविदेहा, ततः प्रकाशावरणक्षयः ॥४३॥
वृत्तिः- शरीराद् बहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः, सा महाविदेहानाम विगताहङ्कारकार्य्यंवेगा उच्यते । ततस्तस्यां कृतात् संयमात्,प्रकाशा- वरणक्षयः, सात्त्विकस्य चित्तस्य यः प्रकाशः, तस्य यदावरणं क्लेशकर्मादि, तस्य क्षयः प्रविलयो भवति । अयमर्थः – शरीराहङ्कारे सति या मनसो बहिर्वृत्तिः सा कल्पिता इत्तुच्यते । यदा पुनः शरीरादहङ्कारभावं परित्यज्य स्वातन्त्र्येण मनसोवृत्तिः सा अकल्पिता, तस्यां संयमाद् योगिनः सर्वे चित्तमलाः क्षीयन्ते ॥४३॥
तदेवं पूर्वान्तविषया’ परान्तविषया मध्यभावाश्च सिद्धीः प्रतिपाद्य अनन्तरं भुवनज्ञानादिरूपा बाह्याः,कायव्यूहादिरूपा आभ्यन्तराः परिकर्मनिष्पन्नभूताश्च ‘मैत्र्यादिषु बलानी’ त्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरण-बहिः करणलक्षणेन्द्रियभवाः, प्राणादिवायुभवाश्च सिद्धीश्चित्तदार्याय समाधेश्चाश्वासोत्पत्तये विविधोपायप्रतिपाद्य इदानीं स्वदर्शनोपयोगि सबीजनिर्बीज समाधिसिद्धये प्रदर्शनायाह-
स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥४४॥
वृत्तिः- पञ्चानां पृथिव्यादीनां भूतानां ये पज्च अवस्थाविशेषरूपा धर्माः स्थूलत्वादयः, तत्र कृतसंयमस्य भूतजयो भवति, भूतान्यस्य वश्यानि भवन्तीत्यर्थः । तथा हि-भूतानां परिदृश्यमानं विशिष्टाकारवत् स्थूलरूपम्; स्वरूपञ्चषां यथाक्रमं कार्य्यं गन्ध-स्नेहोष्णता-प्रेरणावकाशदानलक्षणम्; सूक्ष्मञ्च यथाक्रमं भूतानां’ कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि, अन्वयिनो गुणाः प्रकाशप्रवृत्ति-स्थितिरूपतया सर्वत्रैव अन्वयित्वेन समुपलभ्यन्ते; अर्थवत्त्वं तेषु एव गुणेषु भोगापवर्गसम्पादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसु उक्त धर्मलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन् योगी भूतजयी भवति । तद्यथा – प्रथमं स्थूलरूपे संयमं विधाय तदनु स्वरूपे, इत्येवं-क्रमेण तस्य कृतसंयमस्य सङ्कल्पानुविधायिन्यो वत्सानुसारिण्य इव गाव भूतप्रकृतयो भवन्तीत्यर्थः ॥४४॥
तस्यैव भूतजयस्य फलमाह-
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥४५॥
वृत्तिः- अणिमा परमाणुरूपतापत्तिः, महिमा महत्त्वं, लबिमा लघुत्वं,तूलपिण्डवल्लघुत्वप्राप्तिः, गरिमा गुरुत्वप्राप्तिः, अङ्गुल्यग्रेण चन्द्रादिस्पर्शन-शक्तिः, प्राकाम्यम् इच्छानभिघातः, शरीरान्तःकरणेश्वरत्वम् ईशित्वं, सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्येव भूतानि अनुगामित्वात्तदुक्तं नातिक्रामति । यत्रकामावसायो यस्मिन् विषयेऽस्य कामः स्वेच्छा भवति, तस्मिन् विषये योगिनः अध्यवसायो’ भवति तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्य्यन्तं नयतीत्यर्थः; ते एते अणिमाद्याः समाध्युपयोगिनो भूतजयाद् योगिनः प्रादुर्भवन्ति; यथा-परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति; एवं सर्वत्र योज्यम् । एतेऽणिमाद-योऽष्टौ गुणा महासिद्धय उच्यन्ते । ये कायसम्पद् वक्ष्यमाणा, तां प्राप्नोति । तद्धर्मानभिघातश्च तस्य कायस्थ, धर्मा रूपादयः, तेषामनभिघातो नाशो न कुतश्चित् भवति, नास्य रूपमग्निर्वहति, न वायुः शोषयतीत्यादि योज्यम् ॥४५॥
कायसम्पदमाह–
रूप-लावण्य-बल-वज्रसंहननत्वानि कायसम्पत् ॥४६॥
वृत्तिः- रूप- लावण्य – वलानि प्रसिद्धानि, वज्रसंहननत्वं वज्रवत् कठिना संहतिरस्य शरीरे भवतीत्यर्थः, इति कायस्य आविभूतगुणसम्पत् ॥४६॥
ग्रहण-स्वरूपा स्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥४७॥
वृत्तिः- ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः, स्वरूपं सामान्येन प्रकाशकत्वम्, अस्मिता अहङ्कारानुगमः, अन्वयार्थवत्त्वे पूर्ववत् ( ३।४४); एतेषाम् इन्द्रियाणामवस्थापञ्चके पूर्ववत् संयमं कृत्वा इन्द्रियजयी भवति ॥४७॥
तस्य फलमाह –
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
वृत्तिः- शरीरस्य मनोवदनुत्तम-गतिलाभो मनोजवित्वम् ; कायनिरपेक्षाणाम् इन्द्रियाणां वृत्तिलाभो विकरणभावः ; सर्ववशित्वं प्रधानजयः ; एताः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति ; ताश्चास्मिञ् शास्त्रे ‘मधुप्रतीका’ इत्युच्यन्ते ; यथा मधून एकदेशोऽपि स्वदते, एवं प्रत्येकमेता सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥४८॥
इन्द्रियजयमभिधाय अन्तःकरणजयमाह-
सत्त्व-पुरुषान्यताख्यातिमात्रस्य सर्वभावाधिस्ठातृत्वंसर्वज्ञातृत्वञ्च ॥४९॥
वृत्तिः- तस्मिन् बुद्धे: सात्त्विके परिणामे कृतसंथमस्य या सत्त्व-पुरुष-योरुत्पद्यते विवेकख्यातिः गुणानां कर्त्त त्वाभिमान-शिथिलीभावरूपा तन्मा-हात्म्यात् तत्रैव स्थितस्य योगिनः सर्वाधिष्ठातृत्वं सर्वकर्त्त त्वं समाधेर्भवति । सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वाधिष्ठातृत्वम् ; तेषामेव च शान्तोदिताव्यपदेश्यर्घार्मित्वेनावस्थितानां यथावद् विवेकज्ञानं सर्वज्ञातत्वमेव । एषाञ्चास्मिन् शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते ॥४९॥
क्रमेण भूमिकान्तरमाह-
तद्वराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
वृत्तिः- तस्यामपि विशोकायां सिद्धी यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयः, तस्य क्षये निर्मूलने, कैवल्यनात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तौ प्रतिष्ठत्वम्’ ॥५०॥
स्वाम्युपनिमन्त्रणे सङ्ग – स्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
वृत्तिः- चत्वारो योगिनो भवन्ति ; तत्राभ्यासवान् प्रवृत्तमात्रज्योतिः प्रथमः। ऋतंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीय: । अतिक्रान्तभावनीयश्चतुर्थः । तस्य चतुर्थस्य समाधेः प्राप्तसप्तविधभूमिप्रत्ययस्यान्त्यां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति, दिव्यस्त्री रसायनादिकमुपढौकयन्तीति तस्मिन्नुपनिमन्त्रणे न अनेन सङ्गः कर्त्तव्यः, नापि स्मयः । सङ्गतिकरणे पुनर्विषयभोगे पतति, स्मयकरणे कृतकृत्यमात्मानं मन्यानो न समाव उत्साहः, अतः सङ्ग-स्मययोस्तेन वर्जनं कर्त्तव्यम् ॥५१॥
अस्यामेव फलभूतायां विवेकख्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह-
क्षण तत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
वृत्तिः- क्षणः सर्वान्तकालावयवः, यस्य कला, प्रभवितुं न शक्यन्ते, तथा विधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामः, तत्रः संयमात् प्रागुक्तं विवेकजं ज्ञान’ मुत्पद्यते । अयमर्थः – अयं कालक्षणोऽमुष्मात् कालक्षणादुत्तरः, अयमस्मात् पूर्वः, इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारः, तदा अन्यदपि सूक्ष्मं महदादिसाक्षात्करोतीति विवेकज्ञानोत्पत्तिः ॥५२॥
अस्यैव संयमस्य विषयविवेकोपक्षेपणायाहः –
जाति-लक्षण-देशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
वृत्तिः- पदार्थानां भेदहेतवो जाति-लक्षण- देशा भवन्ति । क्वचिद्भ दहेतुर्जातिः, यथा—गौस्यिं, महिषोऽयमिति । जात्या तुल्ययोर्लक्षणं भेदहेतुः, इयं कर्बुळ रा. इयम् अरुणेति । जात्या लक्षणेनाभिन्नयोर्भेदहेतुर्देशो द्रष्टव्यः ; यथा-तुल्यप्रमाणयोरामलकयोभिन्न देशस्थितयोर्यत्र पुनर्भेदोऽवधारयितुं न शक्यते, यथा-एकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोः तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते ; तदा तदभ्यासात् सूक्ष्माण्यपि तत्त्वानि’ भेदेन प्रतिपद्यते । एतदुक्तं भवति – यंत्र केनचिदुपायेन भेदो नावधारयितुं शक्यः, तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः ॥५३॥
सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञा विषयस्वाभाव्यं व्याख्यातुमाह-
तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥५४॥
वृत्तिः- उक्तसंयमबलादेव अन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारकमिति, तारयति अगाधात् संसारसागराद् योगिनम् इत्यन्वथिक्या संज्ञया तारकमित्युच्यते । अस्य विषयमाह सर्वविषयमिति । सर्वाणि तत्त्वानि महदादीनि विषयोऽस्येति सर्वविषयम् । स्वभावश्च अस्य सर्वथाविषयत्वं सर्वाभिरवस्याभिः स्थूलसूक्ष्मादिभेदेन तस्तैः परिणामः सर्वेण प्रकारेण अवस्थितानि तत्त्वानि विषयोऽन्येति सर्वथाविषयम् । स्वभावान्तरमाह अक्रमञ्चेति । निःशेषनानावस्थापरिणतत्यात्मकभावग्रहणेनास्य’ क्रमो विद्यत इति अक्रमं सर्व करतलामलकवद् युगपत् पश्यतीत्यर्थः ॥५४॥
अस्माच्च विवेकजात तारकाख्याज् ज्ञानात् किं भवतीत्याह-
सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥
वृत्तिः- सत्त्व-पुरुषावुक्तलक्षणौ, (२।६, २।१८, २।२०) तयोः शुद्धिसाम्यं सत्त्वस्य सर्वकत्र्त्तृत्वाभिमाननिवृत्त्या स्वकारणानुप्रवेशः शुद्धिः, पुरुषस्य शद्धिरुपचरितभोगाभाव:, इति द्वयोः समानायां शुद्धी पुरुषस्य कैवल्यमुत्पद्यते, मोक्षो भवतीत्यर्थः ॥५५॥
Share This
Share this post with your friends!