
Vachaspati Mishra and Tattvavaisharadi
Chapter 2
योगासूत्रम् (साधनपादः)
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
तत्त्व-वैशारदी : ननु प्रथम-पादेनैव सोपायः सावान्तर-प्रभेदः सफलो योग उक्तस् तत् किम् अपरम् अवशिष्यते यद्-अर्थं द्वितीयः पादः प्रारभ्येतेत्य् अत आह-उद्धिष्टैति । अभ्यास-वैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ । न च तौ व्युत्थित-चित्तस्य द्राग् इत्य् एव सम्भवतैतिद्वितीय-पादोपदेश्यानुपायान् उपेक्षते सत्त्व-शुद्ध्य्-अर्थम् । ततो हि विशुद्ध-सत्त्वः कृत-रक्षा-संविधानोऽभ्यास-वैराग्ये प्रत्यहं भावयति । समाहिततत्वम् अविक्षिप्तत्वम् । कथं व्युत्थान-चितोऽप्युपदेक्ष्यमाणैर् उपायैर् युक्तः सन् योगी स्याद् इत्य् अर्थः । तत्रवक्ष्यमाणेषु नियमेष्व् आकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रिया-योगम् उपदिशति सूत्रकारः-तपः-स्वाध्यायैत्य्-आदि ।
क्रियैव योगः क्रिया-योगः योग-साधनत्वात् । अत एवविष्णु-पुराणे खाण्डिक्य-केशिध्वज-संवादे-योग-युक् प्रथमं योगो युञ्जमानोऽभिधीयते[वि.पु. ६.७.३३] इत्य् उपक्रम्य तपः-स्वाध्यायादयो दर्शिताः ।
व्यतिरेक-मुखेन तपस उपायत्वम् आह-नातपस्विनैति । तपसोऽवान्तर-व्यापारम् उपायतोपयोगिनं दर्शयति-अनादीति । अनादिभ्यां कर्म-क्लेश-वासनाभ्यां चित्रात एव प्रत्युपस्थितम् उपनत-विषय-जालं यस्यां वा तथोक्ता । अशुद्धी रजस्-तमः-समुद्रं को नान्तरेण तपः सम्भेदम् आपद्यते । सान्द्रस्य नितान्त-विरलता सम्भेदः ।
ननूपादीयमानम् अपि तपो धातु-वैषम्य-हेतुतया योग-प्रतिपक्षैतिकथं तद्-उपाय इत्य् अत आह—तच् चेति । तावन्-मात्रम् एव तपश् चरणीयं न यावता धातु-वैषम्यम् आपद्येतेत्य् अर्थः ।
प्रणवादयः पुरुष-सूक्त-रुद्र-मण्डल-ब्राह्मणादयो वैदिकाः, पौराणिकाश् च ब्रह्म-पारायणादयः । परम-गुरुर् भगवानीश्वरस् तस्मिन् । यत्रेदम् उक्तम्-
कामतोऽकामतो वापि यत् करोमि शुभाशुभम् ।
तत् सर्वं त्वयि संन्यस्तं त्वत्-प्रयुक्तः करोम्य् अहम् ॥
तत् फल-संन्यासो वा । फलानाम् अभिसन्धानेन कार्य-करणम् । यत्रेदम् उक्तम्-
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥[गीता २.४७] ॥१॥
समाधिभावनार्थः क्लेशतनू करणार्थश्च ॥२॥
तत्त्व-वैशारदी : तस्य प्रयोजनाभिधानाय सूत्रम् अवतारयति-स हीति । सूत्रम्-समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥
ननु क्रिया-योग एव चेत् क्लेशान् प्रतनूकरोति कृतं तर्हि प्रसाग्ख्यानेनेत्य् अत आह-प्रतनूकृतानिति । क्रिया-योगस्य प्रतनूकरण-मात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानाम् । प्रसङ्ख्यानस्य तु तद्-बन्ध्यत्वे । दग्ध-बीज-कल्पानिति बन्ध्यत्वेन दग्ध-कलम-बीज-सारूप्यम् उक्तम् । स्याद् एतत्-प्रसङ्ख्यानम् एव चेत् क्लेशान् अप्रसव-धर्मिणः करिष्यति, कृतम् एषां प्रतनूकरणेनेत्य् अत आह-तेषामिति । क्लेशानाम् अतानवे हि बलवद् विरोधि-ग्रस्ता सत्त्व-पुरुषान्यताख्यातिर् उदेतुम् एव नोत्सहते , प्राग् एव तद्-बन्ध्य-भावं कर्तुम् । प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु तद्-विरोधिन्य् अपि वैराग्याभ्यासाभ्याम् उपजाय़् । उपजाता च तैर् अपरामृष्टानाभिभूता नैव यावत् परामृश्यतैति । सत्त्व-पुरुषान्यता-मात्र-ख्यातिः सूक्ष्मा प्रज्ञा, अतीन्द्रियतया सूक्ष्मोऽस्य विषयैति सूक्ष्मा प्रज्ञा, प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः ? यतः समाप्ताधिकारा समाप्तोऽधिकारः कार्यारम्भणं गुणानां यथा हेतु-भूतया सा तथोक्तेति ॥२॥
अथ के ते क्लेशाः ?
अविद्याऽस्मितारागद्वेषाभिनिवेशा: क्लेशाः ॥३॥
तत्त्व-वैशारदी : पृच्छति-अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः ॥ व्याचष्टे-पञ्च विपर्ययाइति । अविद्या तावद् विपर्यय एव । अस्मितादयोऽप्य् अविद्योपादानास् तद्-अविनाभाव-वर्तिनैति विपर्ययाः । ततश् चाविद्यासङ्ग-च्छेदे तेषाम् अपि समुच्छेदो युक्तैति भावः । तेषाम् उच्छेत्तव्यता-हेतुं संसार-कारणत्वम् आह-तैति । स्यन्दमानाः समुदाचरन्तो गुणानाम् अधिकारं द्रढयन्ति बलवन्तं कुर्वन्ति, अत एव परिणामम् अवस्थापयन्ति, अव्यक्त-महद्-अहङ्कार-परम्परया हि कार्य-कारण-स्रोत उन्नमयन्त्य् उद्दावयन्ति । यद्-अर्थं सर्वम् एतत् कुर्वन्ति तद् दर्शयति-परस्परेति । कर्मणां विपाको जात्य्-आयुर्-भोग-लक्षणः पुरुषार्थस् तम् अमी क्लेशा अभिनिर्हरन्ति निष्पादयन्ति । किं प्रत्येकं निष्पादयन्ति ? नेत्य् आह-परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश् च कर्माणीति ॥३॥
विद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
तत्त्व-वैशारदी : हेयानां क्लेशानाम् अविद्या-मूलत्वं दर्शयति-अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥
तत्र का प्रसुप्तिः ? इति । स्वोचिताम् अर्थ-क्रियाम् अकुर्वता क्लेशानां तद्-भावे न प्रमाणम् अस्तीत्य् अप्य् अभिप्रायः पृच्छतः । उत्तरम् आह-चेतसिइति । मा नामार्थ-क्रियां कार्षुः क्लेशा विदेह-प्रकृति-लयानां, बीज-भावं प्राप्तास् तु ते शक्ति-मात्रेण सन्ति क्षीर इव दधि । न हि विवेक-ख्यातेर् अन्यद् अस्ति कारणं तद्-बन्ध्यतायाम् । अतो विदेह-प्रकृति-लया विवेक-ख्याति-विरहिणः प्रसुप्त-क्लेशा न यावत् तद्-अवधि-कालं प्राप्नुवन्ति । तत्-प्राप्तौ तु पुनर् आवृत्ताः सन्तः क्लेशास् तेषु तेषु विषयेषु संमुखीभवन्ति । शक्ति-मात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तद् अनेनोत्पत्ति-शक्तिर् उक्ता । बीज-भावोपगमैति च कार्य-शक्तिरिति ।
ननु विवेक-ख्यातिमतोऽपि क्लेशाः कस्मान् न प्रसुप्ताः ? इत्य् अत आह-प्रसङ्ख्यानवतैति । चरम-देहः, न तस्य देहान्तरम् उत्पत्स्यते यद्-अपेक्षयास्य देहः पूर्व इत्य् अर्थः । नान्यत्र विदेहादिष्व् इत्य् अर्थः ।
ननु सतो नात्यन्त-विनाश इत्य् अत आह-सतामिति । सन्तु क्लेशाः दग्ध-स्वेषां प्रसङ्ख्यानाग्निना बीज-भाव इत्य् अर्थः ।
क्लेश-प्रतिपक्षः क्रिया-योगस् तस्य भावनम् अनुष्ठानं तेनोपहतास् तनवः । अथ वा सम्यग्-ज्ञानम् अविद्यायाः प्रतिपक्षः, भेद-दर्शनम् अस्मितायाः, माध्यस्थ्यं राग-द्वेषयोर् अनुबन्ध-बुद्धि-निवृत्तिर् अभिन्वेशस्येति ।
विच्छित्तिम् आह-तथाइति । क्लेशानाम् अन्यतमेन समुदाचरताभिभवाद् वात्यन्तं विषय-सेवया वा विच्छिद्य विच्छिद्य तेन तेनात्मनापुनः पुनः समुदाचरन्ति आविर्भवन्ति वाजीकरणाद्य्-उपयोगेन वाभिभावक-दौर्बल्येन वेति । वीप्सया विच्छेद-समुदाचारयोः पौनः-पुन्यं दर्शयता यथोत्कात् प्रसुप्ताद् भेद उक्तः ।
रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सआर्रयीयेन वा विषयान्तर-वर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्य् आह-राग- इति । भविष्यद्-वृत्तेस् त्रयी गतिर् यथायोगं वेदितव्येत्य् आह–नहि इति । भविष्यद्-वृत्ति-क्लेश-मात्र-परामर्शि सर्वनाम न चैत्र-राग-परामर्शि, तस्य विच्छिन्नत्वाद् एवेति ।
उदारम् आह-कस् तर्हि ? इति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्था-भेदाद् विशेषैति परिहरति उच्यते-सत्यमिति । स्याद् एतत्, अविद्यातो भवन्तु क्लेशाः, तथाप्य् अविद्या-निवृत्तौ कस्मान् निवर्तन्ते ? न खलु पटः कुविन्द-निवृत्तौ निवर्तत इत्य् अत आह-सर्व एवैति । भेदा इव भेदाः । तद्-अविनिर्भाग-वर्तिनैति यावत् । पृच्छति–कस्मात् ?इति । उत्तरम् आह-सर्वेष्विति । तद् एव स्फुटयति–यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।
प्रसुप्तास् तत्त्व-लीनानां तन्व्-अवस्थाश् च योगिनाम् ।
विच्छिनोदार-रूपाश् च क्लेशा विषय-सङ्गिनाम् ॥िति सङ्ग्रहः ॥४॥
तत्राविद्या-स्वरूपम् उच्यते—
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
तत्त्व-वैशारदी : अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥ अनित्योपयोगि विशेषणं-कार्यैति ।केचित् किल भूतानि नित्यत्वेनाभिमन्यमानास् तद्-रूपम् अभीप्सवस् तान्य् एवोपासते । एवं धूमादि-मार्गान् उपासते चन्द्र-सूर्य-तारका-द्युलोकान् नित्यानभिमन्यमानास् तत्-प्राप्तये । एवं दिवौकसो देवान् अमृतान् अभिमन्यमानास् तद्-भावाय सोमं पिबन्ति । आम्नायते हि—अपाम सोमम् अमृता अभूमैति । सेयम् अनित्येषु नित्य-ख्यातिर् अविद्या ।
तथाशुचौ परम-बीभत्से काये । अर्धोक्त एव काय-बीभत्सतायां वैयासकीं गाथां पठति-स्थानादिति । मातुर् उदरं मूत्राद्य्-उपहतं स्थानम् । पित्रोर् लोहित-रेतसी बीजम् । अशित-पीताहार-रसादि-भाव उपष्ठम्बः, तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः । निधनं च श्रोत्रिय-शरीरम् अपवित्रीयते, तत्-स्पर्शे स्नान-विधानात् ।
तथा दुःखैति सुगमम् । तथा अनात्मनि सुगमम् ।
तथैतद् अत्रोक्तं पञ्चशिखेन । व्यक्तं चेतनं पुत्र-दार-पश्व्-आदि । अव्यक्तम् अचेतनं शय्यासनाशनादि । स सर्वोऽप्रतिबुद्धो मूढः ।
चत्वारि पदानि स्थानान्नस्याइति चतुष्पदा । नन्व् अन्वायि दिङ्-मोहालात-चक्रादि-विषयानन्त-पदाविद्या, तत् किम् उच्यते चतुष्पदेत्य् अत आह-मूलम् अस्येति । सन्तु नामान्या अप्य् अविद्याः, संसार-बीजं तु चतुष्पदैवेति ।
नन्व् अविद्येति नञ्-समासः पूर्व-पदार्थ-प्रधानो वा स्याद् यथाऽमक्षिकमिति । उत्तर-पदार्थ-प्रधानो वा यथाराज-पुरुषैति । अन्य-पदार्थ-प्रधानो वा यथामक्षिको देशैति ? तत्र पूर्व-पदार्थ-प्रधानत्वे विद्यायाः प्रसज्य-प्रतिषेधो गम्येत, न चास्याः क्लेशादि-कारणत्वम् । उत्तर-पदार्थ-प्रधानत्वे विद्यैव कस्य चिद् अभावेन विशिष्टा गम्यते । सा च क्लेशादि-परिपन्थिनी न तु तद्-बीजम् । न हि प्रधानोपघाती प्रधान-गुणो युक्तः । तद्-अनुपघाताय गुणे त्व् अन्याय्य-कल्पना । तस्माद् विद्या-स्वरूपानुपघाताय नञोऽन्यथा-करण-मध्याहारो वा निषेध्यस्येति । अन्य-पदार्थ-प्रधानत्वे त्व् अविद्यमान-विद्या बुद्धिर् वक्तव्या, न चासौ विद्याया अभाव-मात्रेण क्लेशादि-बीजं, विवेक-ख्याति-पूर्वक-निरोध-सम्पन्नाया अपि तथात-प्रसङ्गात् । तस्मात् सर्वथैवाविद्याया न क्लेशादि-मूलतेत्य् अत आह-तस्याश् चैति ।
वस्तुनो भावो वस्तु-स-तत्त्वं वस्तुत्वमिति यावत् । तद् अनेन न प्रसज्य-प्रतिषेधः, नापि विद्यैवाविद्या, न तद्-अभाव-विशिष्टा बुद्धिः, अपित् तु विद्या-विरुद्धं विपर्यय-ज्ञानम् अविद्येत्य् उक्तम् । लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः । लोके चोत्तर-पदार्थ-प्रधानस्यापि नञ उत्तर-पदाभिधेयोपमर्दकस्य तल्-लक्षित-तद्-विरुद्ध-परतया तत्र तत्रोपलब्धेर् इथापि तद्-विरुद्धे वृत्तिरिति भावः ।
दृष्टान्तं विभजते-यथा नामित्रैति । न मित्राभावः नापि मित्र-मात्रम् इत्य् अस्यानन्तरं किन्तु वस्त्व्-अन्तरं तद्-विरुद्धः सपत्नैति वक्तव्यम् । तथागोष्पदमिति न गोष्पदाभावो न गोष्पद-मात्रं, किन्तु देश एव विपुलो गोष्पद-विरुद्धस् ताभ्याम् अभाव-गोष्पदाभ्याम् अन्यद् वस्त्व्-अन्तरम् । दार्ष्टान्तिके योजयति-एवमिति ॥५॥
दृग्दर्शऩशक्त्योरेकात्मतेवास्मिता ॥६॥
तत्त्व-वैशारदी : अविद्याम् उक्त्वा तस्याः कार्यम् अस्मितां रागादि-वरिष्ठाम् आह-दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥ दृक् च दर्शनं च, ते एव शक्ती, तयोर् आत्मानात्मनोर् अनात्मन्य् आत्म-ज्ञान-लक्षणाविद्यापादिता यैकात्मतेव, न तु परमार्थत एकात्मता सास्मिता । दृग्-अदर्शनयोरिति वक्तव्ये तयोर् भोक्तृ-भोग्ययोर् योग्यता-लक्षणं सम्बन्धं दर्शयितुं शक्ति-ग्रहणम् ।
सूत्रं विवृणोति-पुरुषैति । नन्व् अनयोर् अभेद-प्रतीतेर् अभेद एव कस्मान् न भवति, कुतश् चैकत्वं क्लिश्नाति पुरुषम् ? इत्य् अत आह-भोक्तृ-भोग्य- इति । भोक्तृ-शक्तिः पुरुषो भोग्य-शक्तिर् बुद्धिः, तयोर् अत्यन्त-विभक्तयोः । कुतोऽत्यन्त-विभक्तत्वम् इत्य् अत आह-अत्यन्तासङ्कीर्णयोरिति । अपरिणामित्वादि-धर्मकः पुरुषः परिणामित्वादि-धर्मिका बुद्धिर् इत्य् असङ्कीर्णता । तद् अनेन प्रतीयमानोऽप्य् अभेदो न पारमार्थिक इत्य् उक्तम् । अविभाग- इति क्लेशत्वम् उक्तम् ।
अन्वयं दर्शयित्वा व्यतिरेकम् आह-स्वरूप- इति । प्रतिलम्भो विवेक-ख्यातिः । परस्याप्य् एतत्-संमतम् इत्य् आह–तथा चोक्तमिति पञ्चशिखेन–बुद्धितःिति । आकारः स्वरूपं सदा विशुद्धिः । शीलम् औदासीन्यम् । विद्या चैतन्यम् । बुद्धिर् अविशुद्धानुदासीना जडा चेति तत्रात्म-बुद्धिर् अविद्या । मोहः पूर्वाविद्या-जनितः संस्कारस् तमो वाविद्यायास् तामसत्वादिति ॥६॥
सुखानुशयी रागः ॥७॥
तत्त्व-वैशारदी : विवेक-दर्शने रागादीनां विनिवृत्तेर् अविद्यापादितास्मिता रागादीनां निदानम् इत्य् अस्मितानन्तरं रागादीन् लक्षयति-सुखानुशायी रागः ॥
सुखानभिज्ञस्य स्मृतेर् अभावात् सुखाभिज्ञस्येत्य् उक्तम् । स्मर्यमाणे सुखे रागः सुखानुस्मृति-पूर्वकः । अनुभूयमाने तु सुखे नानुस्मृतिम् अपेक्षते । तत्-साधने तु स्मर्यमाणे दृश्यमाने वा सुखानुस्मृति-पूर्व एव रागः । दृश्यमानम् अपि हि सुख-साधनं तज्-जातीयस्य सुख-हेतुतां स्मृत्वा तज्-जातीयतया वास्य सुख-हेतुत्वम् अनुमायेच्छति । अनुशयि-पदार्थम् आह-यैति ॥७॥
दुःखानुशयी द्वेषः ॥८॥
तत्त्व-वैशारदी : दुःखानुशयी द्वेषः ॥ दुःखाभिज्ञस्यैति पूर्ववद् व्याख्येयम् । अनुशयि-पदार्थम् आह-यः प्रतिघैति । प्रतिहन्तीति प्रतिघः । एतद् एव पर्यायैर् विवृणोति–मन्युरिति ॥८॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥
तत्त्व-वैशारदी : स्व-रस-वाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ अभिनिवेश-पदार्थं व्याचष्टे-सर्वस्य प्राणिनैति । इयम् आत्माशीर् आत्मनि प्रार्थना “मा न भूवं” माऽभावी भूवम् भूयासम् जीव्व्यासमिति । न चाननुभूत-मरण-धर्मकस्य अननुभूतो मरण-धर्मो येन जन्तुना न तस्य एषा भवत्य् आत्माशीः । अभिनिवेशोमरण-भयम् ।
प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं निराकरोति-एतया चैति । प्रत्युदितस्य शरीरस्य प्रियमाणत्वात् पूर्व-जन्मानुभवःप्रतीयते, निकाय-विशिष्टाभिर् अपूर्वाभिर् देहेन्द्रिय-बुद्धि-वेदनाभिर् अभिसम्बन्धो जन्म, तस्यानुभवः प्राप्तिः, सा प्रतीयते । कथम् ? इत्य् आह-स चायम् अभिनिवेशः । अर्धोक्ताव् एवास्य क्लेशत्वम् आह—क्लेशैति । अयम् अहित-कर्मादिना जन्तून् क्लिश्नाति दुःखाकरोतीति क्लेशः ।
वक्तुम् उपक्रान्तं परिसमापयति-स्व-रस-वाहीइति । स्वभावेन वासना-रूपेण वहन-शीलो न पुनर् आगन्तुकः । कृमेर् अपि जात-मात्रस्य दुःख-बहुलस्य निकृष्टतम-चैतन्यस्य । अनागन्तुकत्वे हेतुम् आह–प्रत्यक्ष- इति । प्रत्यक्षानुमानागमैः प्रत्युदिते जन्मन्य् असम्भावितोऽसम्पादितो मरण-त्रास उच्छेद-दृष्ट्य्-आत्मकः पूर्व-जन्मानुभूतं मरण-दुःखम् अनुमापयति ।
अयम् अभिसन्धिः-जात-मात्र एव हि बालको मारक-वस्तु-दर्शनाद् वेपमानः कम्पा-विशेषाद् अनुमित-मरण-प्रत्यासत्तिस् ततो बिभ्यद् उपलभ्यते । दुःखादुःख-हेतोश् च भयं दृष्टम् । न चास्मिन् जन्मन्य् अनेन मरणम् अनुभूतम् अनुमितं श्रुतं वा, प्राग् एवास्य दुःखत्वं तद्-धेतुत्वं वावगम्यते । तस्मात् तस्य तथा-भूतस्य स्मृतिः परिशिष्यते । न चेयं संस्काराद् ऋते । न चायं संस्कारोऽनुभवं विना । न चास्मिन् जन्मन्य् अनुभवैति प्राग्-भवीयः परिशिष्यत इत्य् आसीत् पूर्व-जन्म-सम्बन्धैति ।
तथा-पदं यथा-पदम् आकाङ्क्षत इत्य् अर्थ-प्राप्ते यथा-पदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति-यथा चायमिति । अत्यन्त-मूढेषु मन्दतम-चैतन्येषु । विद्वत्तां दर्शयति–विज्ञात-पूर्वापरान्तस्य । अन्तः कोटिः । पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यम् । सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः । सोऽयं मरण-त्रास आ-कृमेर् आ च विदुषो रूढः प्रसिद्धैति।
नन्व् अविदुषो भवतु मरण-त्रासो विदुषस् तु न सम्भवति, विद्ययोन्मूलितत्वात्, अनुन्मूलने वा मरण-त्रासस्य स्याद् अत्यन्त-सत्त्वम् इत्य् आशयवान् पृच्छति-कस्मातिति । न सप्रज्ञातवान् विद्वान् अपि तु श्रुतानुमित-विवेकैति भावः ॥९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
तत्त्व-वैशारदी : तद् एवं क्लेशा लक्षिताः । तेषां च हेयानां प्रसुप्त-तनु-विच्छिन्नोदार-रूपतया चतस्रोऽवस्था दर्शिताः । कस्मात् पुनः पञ्चमी क्लेशावस्था दग्ध-बीज-भावतया सूक्ष्मा न सूत्र-कारेण कथितेत्य् अत आह-ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥ यत् किल पुरुष-प्रयत्न-गोचरस् तद् उपदिश्यते । न च सूक्ष्मावस्था-हानं प्रयत्न-गोचरः । किं तु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मिता-लक्षण-कारण-भावापत्त्या हातव्येति । व्याचष्ट-तैति । सुगमम् ॥१०॥
स्थितानां तु बीज-भावोपगतानां-
ध्यानहेयास्तद्वृत्तयः ॥११॥
तत्त्व-वैशारदी : अथ क्रिया-योग-तनूकृतानां क्लेशानां क्ं-विषयात् पुरुष-प्रयत्नाद् धानम् इत्य् अत आह-स्थितानां तु बीज-भावोपगतानामिति । अनेन बन्ध्येभ्यो व्यवच्छिनत्ति । सूत्रं पठति–ध्यान-हेयास् तद्-वृत्तयः ॥
व्याचष्टे-क्लेशानामिति । क्रिया-योग-तनूकृता अपि हि प्रतिप्रसव-हेतु-भावेन कार्यतः स्वरूपतश् च शक्या उच्छेत्तुमिति स्थूला उक्ताः । पुरुष-प्रयत्नस्य प्रसङ्ख्यानागोचरस्यावधिम् आह–यावदिति । सूक्ष्मीकृताइति विवृणोति–दग्ध- इति । अत्रैव
दृष्टान्तम् आह-यथा च वस्त्राणामिति । यत्नेन क्षालनादिना । उपायेन क्षार-संयोगेनादिना । स्थूल-सूक्ष्मता-मात्रतया दृष्टान्त-दार्ष्टान्तिकयोः साम्यं, न पुनः प्रयत्नापनेयतया । प्रत्प्रसव-हेयेषु तद्-असम्भवात् । स्वल्पः प्रतिपक्ष उच्छेद-हेतुर् यासां तास् तथोक्ताः । महान् प्रतिपक्ष उच्छेद-हेतुर् यासां तास् तथोक्ताः । प्रतिप्रसवस्य चाधस्तात् क्लेशोच्छेद-साधकं स्यात्, प्रसङ्ख्यानम् इत्य् अवरतया स्वल्पत्वम् उक्तम् ॥११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
तत्त्व-वैशारदी : स्याद् एतत्, जात्य्-आयुर्-भोग-हेतवः पुरुषं क्लिश्नन्तः क्लेशाः । कर्माशयश् च तथा, न त्व् अविद्यादयः । तत् कथम् अविद्यादयः क्लेशा इत्य् अत आह-क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥ क्लेशा मूलं यस्योत्पादे च कार्य-करणे च स तथोक्तः । एतद् उक्तं भवति–अविद्यादि-मूलो हि कर्माशयो जात्य्-आयुर्-भोग-हेतुर् इत्य् अविद्यादयोऽपि तद्-धेतवोऽतः क्लेशाइति ।
व्याचष्टे-तत्रैति । आशेरते सांसारिकाः पुरुषा अस्मिन्न् इत्य् आशयः । कर्मणाम् आशयो धर्माधर्मौ । कामात् काम्य-कर्म-प्रवृत्तौ स्वर्गादि-हेतुर् धर्मो भवति । एवं लोभात् पर-द्रव्यापहारादाव् अधर्मः । मोहाद् अधर्मे हिंसादौ धर्म-बुद्धेः प्रवर्तमानस्याधर्म एव । न त्व् अस्ति मोहजो धर्मः । अस्ति क्रोधात् तज्-जिगीषयाहितत्वेन कर्माशयेन पुण्येनान्तरिक्ष-लोक-वासिनाम् उपरि स्थानम् । अधर्मस् तु क्रोधजो ब्रह्म-वधादि-जन्मा प्रसिद्ध एव भूतानाम् ।
अस्य द्वैविध्यम् आह-स दृष्ट-जन्म- इति । दृष्ट-जन्म-वेदनीयम् आह–तीव्र-संवेगेनैति । यथा-साङ्ख्यं दृष्टान्तव् आह–यथा नन्दीश्वरःिति । तत्र नारकाणामिति । येन कर्माशयेन कुम्भीपाकादयो नरक-भेदाः१२४ प्राप्यन्ते, तत्-कारिणो नारकाः । तेषां नास्ति दृष्ट-जन्म-वेदनीयः कर्माशयः । न हि मनुष्य-शरीरेण तत्-परिणाम-भेदेन वा सा तादृशी वत्सर-सहस्रादि-निरन्तरोपभोग्या वेदना सम्भवतीति । शेषं सुगमम् ॥१२॥
संति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥
तत्त्व-वैशारदी : स्याद् एतत् । अविद्या-मूलत्वे कर्माशयस्य विद्योत्पादे सत्य् अविद्या-विनाशान् मा कर्माशयान्तरं चैषीत्, प्राचां तु कर्माशयानाम् अन्दादि-भव-.परं ब्रह्म-सञ्चितानाम् असंख्यातानाम् अनियत-विपाक-कालानां भोगेन क्षपयितुम् अशक्यत्वाद् अशक्योच्छेदः संसारः स्याद् इत्य् अत आह-सति मूले तद्-विपाको जात्य्-आयुर्-भोगाइति ।
एतद् उक्तं भवति-सुख-दुःख-फलो हि कर्माशयस् तादर्थ्येन तन् नान्तरीयकतया जन्मायुषी अपि प्रसूते । सुख-दुःखे च राग-द्वेषानुषक्ते तद्-अविच्निर्भाग-वर्तिनी तद्-अभावे न भवतः । न चास्ति सम्भवो न च तत्र यस् तुष्यति वोद्विजते वा तच् च तस्य सुखं वा दुःखं वेति । तद् इयम् आत्म-भूमिः क्लेश-सलिलावसिक्ता कर्म-फल-प्रसव-क्षेरम् इत्य् अस्ति क्लेशानां फलोपल्जननेऽपि कर्माशय-सहकारितेति क्लेश-समुच्छेदे सहकारि-वैकल्पात् सन्न् अप्य् अनन्तोऽप्य् अनियत-विपाक-कालोऽपि प्रसङ्ख्यानदग्ध-बीज-भावो न फलाय कल्पतैति ।
उक्तम् अर्थं भाष्यम् एव द्योतयति-सत्सुइति । अत्रैव दर्शनम् आह–यथा तुषेति । ननु न क्लेशाः शक्या अपनेतुम् । न हि सताम् अपनय इत्य् अत आह–नप्रसङ्ख्यानदग्ध-बीज-भावैति । विपाकस्य त्रैविध्यम् आह–स चैति । विपच्यते साध्यते कर्मभिरिति विपाकः ।
कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्व-गोचरा प्रथमा विचारणा । द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वागोचरा । तद् एवं चत्वारो विकल्पाः ।
तत्र प्रथमं विकल्पम् अपाकरोति-न तावद् एकं कर्मैकस्य जन्मनः कारणमिति । पृच्छति–कस्मात् ?इति । उत्तरम् आह-अनादि-काल-एकैक-जन्म-चितस्यात् अत एव असङ्ख्येयस्य एक-जन्म-क्षपिताद् एकैकस्मात् कर्मणोऽवशिष्टस्य कर्मणः । साम्प्रतिकस्य चफल-क्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तःिति ।
एतद् उक्तं भवति-कर्म-क्षयस्य विरलत्वात् तद्-उत्पत्ति-बाहुल्याच् चान्योऽन्य-सम्पीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः स्व-विपाकं प्रतीति न फल-क्रमः शक्योऽवधारयितुं प्रेक्षावतेत्य् अनाश्वासः पुण्यानुष्त्ठानं प्रति प्रसक्तैति ।
द्वितीयं विकल्पं निराकरोति-न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति–कस्मात् ?इति । उत्तरम् आह-अनेकेषुइति । अनेकस्मिन् जन्मन्य् आहितम् एकैकम् एव कर्मानेकस्य जन्म-लक्षणस्य विपाकस्य निमित्तम् इत्य् अवशिष्टस्य विपाक-कालाभावः प्रसक्तः च चाप्य् अनिष्टः । कर्म-वैकल्प्येन तद्-अननुष्ठान-प्रसङ्गात् । यदैक-जन्म-समुच्छेद्यं कर्मण्य् एकस्मिन् फल-क्रमानियमाद् अनाश्वासस् तदा कैव कथा बहु-जन्म-समुच्छेद्ये कर्मण्य् एकस्मिन् । तत्र ह्य् अवसराभावाद् विपाक-कालाभाव एव साम्प्रतिकस्येति भावः ।
तृतीयं विकल्पं निराकरोति-न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुम् आह–तदिति । तद् अनेकं जन्म युगपन् न सम्भवति अयोगिनैतिक्रमेणैव वाच्यम् । यदि हि कर्म-सहस्रं युगपज् जन्म-सहस्रं प्रसुवीत, तत एव कर्म-सहस्र-प्रक्षयाद् अवशिष्टस्य विपाक-कालः फल-क्रम-नियमश् च स्याताम् । न त्व् अस्ति जन्मनां यौगपद्यम् । एवम् एअ प्रथम-पक्ष एवोक्तं दूषणम् इत्य् अर्थः ।
तद् एवं पक्ष-त्रये निराकृते पारिशेष्याद् अनेकं कर्मैकस्य जन्मनः कारणमिति पक्षो व्यवतिष्ठत इत्य् आह—तस्माज् जन्म- इति । जन्म च प्रायणं च जन्म-प्रायणे । तयोर् अन्तरं मध्यं तस्मिन् । विचित्र-सुख-दुःख-फलोपहारेण विचित्रः । यद् अत्यन्तम् उद्भूतम् अनन्तरम् एव फलं दास्यति तत्-प्रधानम् । यत् तु किञ्चिद् विलम्बेन तद् उपसर्जनम् । प्रायणं मरणम् । तेनाभिव्यक्तः स्व-कार्यारम्भणाभिमुखम् उपनीत एक-प्रघट्टकेन युगपत् सम्मूर्छितो जन्मादि-लक्षणे कार्ये कर्तव्य एक-लोली-भावम् आपन्न एकम् एव जन्म करोति, नानेकम् । तच् च जन्म मनुष्यादि-भावस् तेनैव कर्मणा लब्धायुष्कं काल-भेदान् नियत-जीवितं भवति । तस्मिन्न् आयुषि तेनैव कर्मणा भोगः सुख-दुःख-साक्षात्कारः स्व-संबन्धितया सम्पद्यतैति । तस्माद् असौ कर्माशयो जात्य्-आयुर्-भोग-हेतुत्वात् त्रिविपाकोऽभिधीयते ।
औत्सर्गिकम् उपसंहरति-अत एक-भविक कर्माशय उक्तैति । एक-भवोऽस्यास्तीति मत्व्-अर्थीयष् टन् । क्वचित् पाठ ऐकभविकैति । तत्रैकभव-शब्दाद् भवार्थे उक्-प्रत्ययः । एक-जन्मावच्छिन्नम् अस्य भवनम् इत्य् अर्थः ।
तद् एवम् औत्सर्गिकस्य इक-भविकस्य त्रिविपाकत्वम् उक्त्वा दृष्ट-जन्म-वेदनीयस्य इहिकस्य कर्मणस् त्रिविपाकत्वं व्यवच्छिनत्ति-दृष्ट- इति । नन्दीश्वरस्य खल्व् अष्ट-वर्षावच्छिनायुषो मनुष्य-जन्मनस् तीव्र-संवेगाधिमात्रोपाय-जन्या पुण्यम् एव आयुर्-भोग-हेतुत्वाद् द्वि-विपाकः । नहूषस्य तु पार्ष्णि-प्रहार-विरोधिनागस्त्यस्येन्द्र-पद-प्राप्ति-हेतुनैव कर्मणायुषो विहितत्वाद् अपुण्य-भेदो भोग-मात्र-हेतुः ।
ननु यथैक-भविकः कर्माशयस् तथा किं क्लेश-वासना भोगानुकूलाश् च कर्म-विपाकानुभव-वासनाः । तथा च मनुष्य-तिर्यग्-योनिम् आपन्नो न तज्-जातीयोचितं भुञ्जीतेत्य् अत आह-क्लेशेति । संमूर्छितम् एक-लोली-भावम् आपन्नम् ।
धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपम् आह-ये संस्काराःिति । तत्र प्रथमां विभजते–तत्र कृतस्यैति । संन्यासि-कर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्य् एव कर्माणि कृष्ण-कृष्णशुक्ल-शुक्लानि । तद् इह तपः-स्वाध्यायादि-साध्यः शुक्लः कर्माशय उदित एवादत्त-फलस्य कृष्णस्य नाशकोऽविशेषाश् च शवलस्यापि कृष्ण-भाग-योगादिति मन्तव्यम् ।
अत्रैव भगवान् आम्नायम् उदाहरति—यत्रेदम् उक्तमिति । द्वे द्वे ह वै कर्मणी कृष्ण-कृष्णशुक्ले अपहन्तिइति सम्बन्धः । वीप्सया भूयिष्ठता सूचिता । कस्य ? इत्य् अत आह-पापकस्यैति । पापकस्य पुंस इत्य् अर्थः । कोऽसाव् अपहन्ति ? इत्य् अत आह-एको राशिः पुण्य-कृतःिति । समूहस्य समूहि-साधत्वात् । तद् अनेन शुक्लः कर्माशयान् भूयसोऽप्य् अपहन्ति ।
एतद् उक्तं भवति-ईदृशो नामायं पर-पीडादि-रहित-साधन-साध्यः शुक्लः कर्माशयो यद् एकोऽपि सन् कृष्णान् कृष्ण-शुक्लांश् चात्यन्त-विरोधिनः कर्माशयान् भूयसोऽप्य् अपहन्ति । तत् तस्मात् इच्छस्वैति छान्दसत्वात् आत्मनेपदम् । शेषं सुगमम् ।
अत्र च शुक्ल-कर्मोदयस्यैव स कोऽपि महिमा यत इतरेषाम् अभावो न तु स्वाध्यायादि-जन्मनो दुःखात् । न हि दुःख-मात्र-विरोध्य्-अधर्मोऽपि तु स्व-कार्य-दुःख-विरोधी । न च स्वाध्यायादि-जन्यं दुःखं तस्य कार्यं, तत्-कार्यत्वे स्वाध्यायादि-विधानानर्थक्यात् तद्-बलाद् एव तद्-उत्पत्तेः । अनुत्पत्तौ वा कुम्भीपादाद्य् अपि विधीयते । अविधाने च तद्-अनुत्पत्तेरिति सर्वं चतुरस्रम् ।
द्वितीयां गतिं विभजते-प्रधाने कर्मणि ज्योतिष्टोमादिके तद्-अङ्गस्य पशु-हिंसादेर् आवापगमनम् । द्वे खलु हिंसादेः कार्ये, प्रधानाङ्गत्वेन विधानात् तद्-उपकारः, न हिंस्यात् सर्वा भूतानिइति हिंसायाः प्रतिषिद्धत्वाद् अनर्थश् च । तत्र प्रधानाङ्गत्वेनानुष्ठानाद् अप्रधानतैवेत्य् अतो न द्राग् इत्य् एव प्रधान-निरपेक्षा सती स्व-फलम् अनर्थं प्रसोतुम् अर्हति । किं त्व् आरब्ध-विपाके प्रधाने साहायकम् आचरन्ती यवतिष्ठते । प्रधान-साहायकम् आचरन्त्याश् च स्व-कार्ये बीज-मात्रतयावस्थानं प्रधाने कर्मण्य् आवापगमनम् ।
यत्रेदम् उक्तम् पञ्चशिखेन-स्वल्पः सङ्करो ज्योतिष्टोमादि-जन्मनः प्रधान-पूर्वस्य पशु-हिंसादि-जन्मनानर्थ-हेतुनापूर्वेण, स-परिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तम् अपि नाचरितं प्रधान-कर्म-विपाक-समये स विपच्येत, तथापि यावन्तम् असाव् अनर्थं प्रसूते तावान् स-प्रत्यवमर्षः । मृष्यन्ते हि पुण्य-सम्भारोपनीत-सुख-सुधा-महा-ह्रदावगाहिनः कुशलाःपाप-मात्रोपपादितां दुःख-वह्नि-कणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः ।
पृच्छति-कस्मात्?इति । उत्तरं-कुशलंहि मे पुण्यवतो बह्व् अन्यद् अस्ति, प्रधान-कर्म-विपाकतया व्यवस्थितं दीक्षणीयादि-दक्षिणान्तम् । यत्रायम् सङ्करः स्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्ण-पुण्य-लब्ध-जन्मनः स्वर्गात् सर्वथा दुःखेनापरामृष्टाद् अपकर्षम् अल्प-दुःख-सम्भेदं करिष्यतिइति ।
तृतीयां गतिं विभजते-नियत- इति । बलीयस् त्व् अनेनेह प्राधान्यम् अभिमतं न त्व् अङ्गितया । बलीयस्त्वं च नियत-विपाकत्वेन अनल्पदानवकाशत्वात् । अनियत-विपाकस्य तु दुर्बलत्वम् अन्यदा सावकाशत्वात् । चिरम् अवस्थानम् बीज-भाव-मात्रेण न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् ।
ननु प्रायणे नैकदैव कर्माशयोऽभिव्यज्यत इत्य् उक्तम् । इदानीं च चिरावस्थानम् उच्यते । तत् कथम् परं पूर्वेण न विरुध्यत इत्य् आशयवान् पृच्छति-कथमिति ? उत्तरं-अदृष्ट- इति । जात्य्-अभिप्रायम् एक-वचनम् । तद् इतरस्य गतिम् उक्ताम् अवधारयति–यत् त्व् अदृष्ट- इति । शेषं सुगमम् ॥१३॥
ते ह्लाद-परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
तत्त्व-वैशारदी : उक्तं क्लेश-मूलत्वं कर्मणाम् । कर्म-मूलत्वं च विपाकानाम् । अथ विपाकाः कस्य मूलं येनामी त्यक्तव्या इत्य् अत आह-ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥िति ।
सूत्रं व्याचष्टे-ते जन्मायुर्-भोगाःिति । यद्यपि जन्मायुयोर् एव ह्लाद-परिताप-पूर्व-परिभावित्तया तत्-फलत्वं न तु भोगस्य ह्लाद-परितापोदयान्तर-भाविनस् तद्-अनुभवात्मनः, तथाप्य् अनुभाव्यतया भोग्यतया भोग-कर्मता-मात्रेण भोग-फलत्वमिति मन्तव्यम् ।
नन्व् अपुण्य-हेतुका जात्य्-आयुर्-भोगाः परिताप-फला भवन्तु हेयाः, प्रतिकूल-वेदनीयत्वात् । कस्मात् पुनः पुण्य-हेतवस् त्यज्यन्ते सुख-फला अनुकूल-वेदनीयत्वात् ? न चैषां प्रत्यात्म-वेदनीयानुकूलता शक्या सहस्रेणाप्य् अनुमानागमैर् अपाकर्तुम् । न च ह्लाद-परितापौ परस्पराविना-भूतौ यतो ह्लाद उपादीय-माले परितापोऽप्य् अवर्जनीयतयापतेत्, तयोर् भिन्न-हेतुकत्वाद् भिन्न-रूपत्वाच् चेत्य् अत आह-यथा चेदमिति ॥१४॥
दुःखमेव सर्वं विवेकिनः ॥१५॥
तत्त्व-वैशारदी : यद्यपिन पृथग्-जनैः प्रतिकूलात्मतया विषय-सुख-काले संवेद्यते दुःखं, तथापि तत् संवेद्यते योगिभिरिति प्रश्न-पूर्वकं तद्-उपपादनाय सूत्रम् अवतारयति-कथं तद् उपपद्यते ?इति । परिणाम-इत्य् आदि सूत्रम् ।
परिणाम-दुःखतया विषय-सुखस्य दुःखताम् आह-सर्वस्यायमिति । न खलु सुखं रागानुवेधम् अन्तरेण सम्भवति । न ह्य् अस्ति सम्भवो न तत्र तुष्यति, तच् च तस्य सुखमिति । रागस्य च प्रवृत्ति-हेतुत्वात् प्रवृत्तेश् च पुण्यापुण्योपचय-कारित्वात् तत्रास्ति रागजः कर्माशयः, असतोऽनुपजननात् । तथा च सुखं भुञ्जानस् तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःख-साधनानि । तानि परिहर्तुम् अशक्तो मुह्यति चैति द्वेष-मोह-कृतोऽप्य् अस्ति कर्माशयः । द्वेषवन् मोहस्यापि विपर्ययापर-नाम्नः कर्माशय-हेतुत्वम् अविरुद्धम् ।
ननु कथं रक्ता द्वेष्टि मुह्यति वा, राग-समये द्वेष-मोहयोर् अदर्शनात् ? इत्य् अत आह-तथा चोक्तमिति । विच्छिन्नावस्थान् क्लेशान् उपपादयद्भिर् अस्माभिः । तद् अनेन वाङ्-मनस-प्रवृत्ति-जन्मनी पुण्यापुण्ये दर्शिते । रागादि-जन्मनः कर्तव्यम् इदमिति मानसस्य सङ्कल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्य् अविशेषात् । यथाहुः–साभिलाषश् च सङ्कल्पो वाच्यार्थान् नातिरिच्यते [?] इति ।
शारीरम् अपि कर्माशयं दर्शयति-नानुपहत्यैति । अत एव धर्म-शास्त्र-काराः पञ्चसूना गृहस्थस्य [मनु ३.६८] इत्य् आहुः । स्याद् एतत्, न प्रत्यात्म-वेदनीयस्य विषय-सुखस्य प्रयाख्यानम् उचितं योगिनाम् अनुभव-विरोधाद् इत्य् अत आह-विषय-सुखंचाविद्येत्य् उक्तम् । चतुर्विध-विपर्यास-लक्षणाम् अविद्यां दर्शयद्भिरिति । नापात-मात्रम् आद्रियन्ते वृद्धाः । अस्ति खल्व् आपाततो मधु-विश-सम्पृक्तान्नोपभोगेऽपि सुखानुभवः प्रत्यात्म-वेदनीयः । किं त्व् आयत्याम् असुखम् । इयं च दर्शिता भगवतैव–
विषयेन्द्रिय-संयोगाद् यत् तद्-अग्रेऽमृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥ [गीता १८.३८] इति ।
चोदयति-या भोगेष्विति । न वयं विषय-ह्लादं सुखम् आतिष्ठामहे, किं त्व् अतृप्यतां पुंसां तत्-तद्-विषय-प्रार्थना-परिक्लिष्ट-चेतसां तृष्णैव महद् दुःखम् । न चेयम् उपभोगम् अन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्य्-अनुविद्धैति नास्य परिणाम-दुःखतेति भावः । तृप्तेस् तृष्णा-क्ष्याद् धेतोर् इन्द्रियाणाम् उपशान्तिर् अप्रवर्तनं विषयेष्व् इत्य् अर्थः । एतद् एव व्यतिरेक-मुखेन स्पष्टयति-या लौल्यादिति ।
परिहरति-न चेन्द्रियाणामिति । हेताव् अनोः प्रयोगः । सत्यं तृष्णा-क्षयः सुखम् अनवद्यम् । तस्य तु न भोगाभ्यासो हेतुः, अपि तु तृष्ण्॑या एव तद्-विरोधिन्याः । यथाहुः-
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्ण-वर्त्म् एव भूय एवाभिवर्धते ॥ [वि.पु. ४.१०.२३] इति ।
शेषम् अतिरोहितम् ।
ताप-दुःखतां पृच्छति-अथ काइति । उत्तरं–सर्वस्यैति । सर्व-जन-प्रसिद्धत्वेन तत्-स्वरूप-प्रपञ्चम् अकृत्वा ताप-दुःखतापि परिणाम-दुःखता-समतया प्रपञ्चितेति ।
संस्कार-दुःखतां पृच्छति—काइति । उत्तरं-सुखेति । सुखानुभवो हि संस्कारम् आधत्ते, स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्ये, ततो विपाकानुभवः, ततो वासना इत्य् एवम् अनादितेति । अत्र च सुख-दुःख-संस्कारातिशयात् तत्-स्मरणं, तस्माच् च राग-द्वेषौ, ताभ्यां कर्माणि, कर्मभ्यो विपाकैति योजना ।
तद् एवम् दुःख-स्रोतः प्रसूतं योगिनम् एव क्लिश्नाति नेतरं पृथग्-जनम् इत्य् आह-एवम् इदम् अनादि- इति । इतरं तु… त्रि-पर्वाणस् तापा अनुप्लवन्तैति सम्बन्धः । आधिभौतिकाधिदैविकयोस् तापयोर् बाह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिर् अस्या इत्य्
अविद्या चित्त-वृत्तिस् तया हातव्य एव बुद्धीन्द्रिय-शरीरादौ दारापत्यादौ चाहङ्कार-ममकारानुपातिनमिति । तद् अत्र न सम्यग्-दर्शनाद् अन्यत् परित्राणम् अस्तीत्य् आह-तद् एवमिति ।
तद् एवम् औपाधिकं विषय-सुखस्य परिणामतः संस्कारस् ताप-संयोगाच् च दुःखत्वम् अभिधाय स्वाभाविकम् आदर्शयति-गुण-वृत्त्य्-अविरोधाच् चैति । व्याचष्टे–प्रख्या- इति । प्रख्या-प्रवृत्ति-स्थिति-रूपाबुद्धि-रूपेण परिणता गुणाः सत्त्व-रजस्-तमांसि परस्परानुग्रह-तन्त्राःशान्तं सुखात्मकं घोरं दुःखात्मकं, मूढं विषादात्मकम् एव प्रत्ययं सुखओपभोग-रूपम् अपि त्रिगुणम् आरम्भन्ते । न च सोऽपि तादृश-प्रत्यय-रूपोऽस्य परिणामः स्थिर इत्य् आह-चलं च गुण-वृत्तमिति क्षिप्र-परिणामि चित्तम् उक्तमिति ।
नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-शान्त-घोर-मूढत्वान्य् एकदा प्रतिपद्यते ? इत्य् अत आह-रूपातिशया वृत्त्य्-अतिशयाश् च परस्परेण विरुध्यन्तेइति । रूपाण्य् अष्टौ भावा धर्मादयः, वृत्तयः सुखाद्याः । तद् इह धर्मेण विपच्यमानेनाधर्मस् तादृशो विरुध्यन्ते । सामान्यानि त्व् असमुदाचरद्-रूपाण्य् अतिशयैः समुदाचरद्भिः सह अविरोधात् प्रवर्तन्तेइति ।
ननु गृह्णीम एतत् । उपादानाभेदाद् उपादानात्मकत्वाच् चोपादेयस्याप्य् अभेद इत्य् अर्थः । तत् किम् इदानीम् आत्यन्तिकम् एव तादात्म्यम् । तथा च बुद्धि-व्यपदेश-भेदौ न कल्प्येते इत्य् अत आह-गुण-प्रधान- इति । सामान्यात्मना गुण-भावोऽतिशयात्मना च प्राधान्यम् । तस्माद् उपाधितः स्वभावतश् च दुःखम् एव सर्व-विवेकिनैति ।
दुःखं च हेयं प्रज्ञावताम् । न च तन्-निदान-हानम् अन्तरेण तद् धेयं भवितुम् अर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूल-निदानम् अस्य दर्शयति-तद् अस्यैति । दुःख-समुदायस्य प्रभव उत्पत्तिर् यतस् तद् बीजम् इत्य् अर्थः । तद्-उच्छेद-हेतुं दर्शयति–तस्याश् चैति ।
इदानीम् अस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्-विधेनैव शास्त्रेण सादृश्यं दर्शयति-यथाइति । चत्वारो व्यूहाः सङ्क्षिप्तावयव-रचना यस्य तत् तथोक्तम् ।
ननु दुःखं हेयम् उक्त्वा संसारं हेयम् अभिदधतः कुतो न विरोध इत्य् अत आह-तत्र दुःख-बहुलः । यत् कृत्वाऽविद्या संसारं करोति तद् अस्या अवान्तर-व्यापारं संसार-हेतुम् आह–प्रधान-पुरुषयोरिति । मोक्ष-स्वरूपम् आह–संयोगस्यैति । मोक्षोपायम् आह–हानोपायैति । केचित् पश्यन्ति हातुः स्वरूपोच्छेअ एव मोक्षः । यथाह–प्रदीपस्यैव निर्वाणं विमोक्षस् तस्य चेतसः [?] इति ।
अन्ये तु स-वासन-क्लेशम् उच्छेदाद् विशुद्ध-विज्ञानोत्पाद एव मोक्ष इत्य् आचक्षते । तान् प्रत्य् आह-तत्रैति । तत्र हानं तावद् दूषयति–हाने तस्यैति । न हि प्रेक्षावान् कश्चिद् आत्मोच्छेदाय यतते । ननु दृश्यन्ते तीव्र-मदोन्मीलित-सकल-सुखा दुःखमयीम्
इव मूर्तिम् उद्वहन्तः स्वोच्छेदाय यतमानाः ? सत्यम्, केचिद् एव ते । न त्व् एवं संसारिणो विविध-विचित्र-देवाद्य्-आनन्द-भोग्-भागिनः । तेऽपि च मोक्षमाणा दृश्यन्ते । तस्माद् अपुरुषार्थ-प्रसक्तेर् न हातुह् स्वरूपोच्छेदो मोक्षोऽभुपेयः । अस्तु तर्हि हातुः स्वरूपम् उपादेयम् इत्य् अत आह-उपादानेच हेतु-वादःिति । उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वाद् एव च्यवेत् । अमृतत्वं हि मोक्षः । नापि विशुद्धो विज्ञान-सन्तानो भवत्य् अमृतः, सन्तानिभ्यो व्यतिरिक्तस्य सन्तानस्य वस्तु-सतोऽभावात् । सन्तानिनां चानित्यत्वात् । तस्मात् तथा यतितव्यं यथा शाश्वत-वादो भवति । तथा च पुरुषार्थतापवर्गस्येत्य् आह-उभय-प्रत्याख्यानेइति । तस्मात् स्वरूपावस्थानम् एवात्मनो मोक्ष इत्य् एतद् एव सम्यग्-दर्शनम् ॥१५॥
तद् एतच् छास्त्रं चतुर्-व्यूहम् इत्य् अभिधीयते –
हेयं दुःखमनागतम् ॥१६॥
तत्त्व-वैशारदी : तद् एतच् छास्त्रं चतुर्व्यूहम् इत्य् अभिधीयते-हेयं दुःखम् अनागतम् ॥ अनागतम् इत्य् अतीत-वर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिम् आह–दुःखम् अतीतमिति । ननु वर्तमानम् उपभुज्यमानं न भोगेनातिवाहितमिति कस्मान् न हेयम् इत्य् अत आह-वर्तमानं चेति । सुगमम् ॥१६॥
तस्माद् यद् एव हेयम् इत्य् उच्यते, तस्यैवकारणं प्रतिनिर्दिश्यते-
द्रष्टृ-दृश्ययोः संयोगो हेयहेतुः ॥१७॥
तत्त्व-वैशारदी : हेयम् उक्तम् । तस्य निदानम् उच्यते, द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥
द्रष्टुः स्वरूपम् आह-द्रष्टाइति । चिति-च्छायापत्तिर् एव बुद्धेर् बुद्धि-प्रतिसंवेदित्वम् उदासीनस्यापि पुंसह् । नन्व् एतावतापि बुद्धिर् एवानेन दृश्येत, न दृश्येर् अञ्-छब्दादयोऽत्यन्त-व्यवहिता इत्य् अत आह-दृश्या बुद्धि-सत्त्व-इति । इन्द्रिय-प्रणालिकया बुद्धौ शब्दाद्य्-आकारेण परिणतायां दृश्यानां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्य् अर्थः ।
ननु तद्-आकारापत्त्या बुद्धिः शब्दाद्य्-आकारा भवतु । पुंसस् तु बुद्धि-सम्बन्धेऽभ्युप-गम्यमाने परिणामित्वम् । असम्बन्धे वा कथं तेषां बुद्धि-सत्त्वोपारूढानाम् अपि शब्दादीनां दृश्यत्वम् ? न हि दृशिनासंस्पृष्टं दृश्यं दृष्टम् इत्य् अत आह-तद् एतद् दृश्यम् इति ।
प्रपञ्चितम् इदम् अस्माभिः प्रथम-पाद एव, यथा चित्यासं पृक्तम् अपि बुद्धि-सत्त्वम् अत्यन्त-स्वच्छतया चिति-बिम्बोद्ग्राहितया समापन्न-चैतन्यम् इव शब्दाद्य् अनुभवतीति । अत एव च शब्दाद्य्-आकार-परिणत-बुद्धि-सत्त्वोपनीतान् सुखादीन् भुञ्जानः स्वामी भवति द्रष्टा, तादृशं चास्य बुद्धि-सत्त्वं स्वं भवति । तद् एतद् बुद्धि-सत्त्वं शब्दाद्य्-आकारवद् दृश्यम् अयस्कान्त-मणि-कल्पं पुरुषस्य स्वं भवति दृशि-रूपस्य स्वामिनः । कस्मात् ? अनुभव-कर्म-विषयताम् आपन्नम् यतः । अनुभवो भोगः, पुरुषस्य कर्म क्रिया, तद्-विषयतां भुज्यमानताम् आपन्नं यस्माद् अतः स्वं भवति ।
ननु स्वयं-प्रकाशं बुद्धि-सत्त्वं कथम् अनुभव-विषयः ? इत्य् अत आह-अन्य-स्वरूपेणैति । यदि हि चैतन्य-रूपं तेन प्रतिलब्धात्मकम् तस्मात् तद्-अनुभव-विषयः ।
ननु यस्य हि यत्र किञ्चिद् आयतते तत् तद्-अधीनम् । न च बुद्धि-सत्त्वस्य पुरुषम् उदासीनं प्रति किञ्चिद् आयततैति कथं तत् तन्त्रम् । तथा च न तस्य कर्मेत्य् अत आह-स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम् पुरुष-तन्त्रम् ।
नन्व् अयं दृग्-दर्शन-शक्त्योः सम्बन्धः स्वाभाविको वा स्यान् नैमित्तिको वा ? स्वाभाविकत्वे सम्बन्धिनोर् नित्यत्वाद् अशक्योच्छेदः सम्बन्धः । तथा च संसार-नित्यत्वम् । नैमित्तिकत्वे तु क्लेश-कर्म-तद्-वासनानाम् अन्तः-करण-वृत्तितया सत्य् अन्तः-करणं भावाद् अन्तः-करणस्य च तन्-निमित्तत्वे परस्पराश्रय-प्रसङ्गद् अनादित्वस्य च सर्गादाव् असम्भवाद् अनुत्पाद एव संसारस्य स्यात् । यथोक्तम्-
पुमान् अकर्ता येषां तु तेषाम् अपि गुणैः क्रिया ।
कथम् आदौ भवेत् तत्र कर्म तावन् न विद्यते ॥
मिथ्या-ज्ञानं न तत्रास्ति राग-द्वेषादयोऽपि वा ।
मनो-वृत्तिर् हि सर्वेषां न चोत्पन्नं मनस् तदा ॥
इति शङ्काम् अपनयति-तयोर् दृग्-दर्शन-शक्त्योर् अनादिर् अर्थ-कृतः संयोगो हेय-हेतुरिति । सत्यम् । न स्वाभाविकः सम्बन्धो, नैमित्तिकस् तु । न चैवम् आदिमान् । अनादि-निमित्त-प्रभवतया तस्याप्य् अनादित्वात् । क्लेश-कर्म-तद्-वासना-सन्तानश् चायम् अनादिः प्रतिसर्गावस्थायां च सहान्तः-करणेन प्रधान-साम्यम् उपगतोऽपि सर्गादौ पुनस् तादृग् एव प्रादुर्भवति, वर्षापाय इवोद्भिज्ज-भेदो मृद्-भावम् उपगतोऽपि पुनर् वर्षासु पूर्व-रूप इत्य् असकृद् आवेदितं प्राक् [१.१९] । भाविततया संयोगस्याविद्या कारणम्, स्थिति-हेतुतया पुरुषार्थः कारणम् । तद्-वशेन तस्य स्थितेः । तद् इदम् उक्तम् अर्थ-कृतैति ।
तथा चोक्तमिति पञ्च-शिखेन । तत्-संयोगो बुद्धि-संयोगः । स एव हेतुर् दुःखस्य । तस्य विवर्जनात्स्याद् अयम् आत्यन्तिको दुःख-प्रतीकारः । अर्थात् तद्-अपरिवर्जने दुःखम् इत्य् उक्तं भवति ।
तत्रैवात्यन्त-प्रसिद्धं निदर्शनम् आह-तद् यथाइति । पाद-त्राणम् उपानत् ।
स्याद् एतत् । गुण-संयोगस् ताप-हेतुर् इत्य् उच्यमाने गुणानां तापकत्वम् अभ्युपेयम् । न च तपि-क्रियाया अस्त्य् आदेर् इव कर्तृ-स्थो१३४ भावो येन तप्यम् अन्यन् नापेक्षेत । न चास्यास् तप्यतया पुरुषः कर्म । तस्यापरिणामितया क्रिया-जनित-फल-शालित्वायोगात् । तस्मात् तपेस् तप्य-व्याप्तस्य तन्-निवृत्तौ निवृत्तिम् अवगच्छामो ज्वलन-विरहेणेव धूमाभावम् इत्य् अत आह-तत्रापि तापकस्यैति । गुणानाम् एव तप्य-तापक-भावः । तत्र मृदुत्वात् पादतलवत् सत्त्वं तप्यम् । रजस् तु तीव्रतया तापकमिति भावः ।
पृच्छति-कस्मादिति । सत्त्वम् एव तप्यम्, न तु पुरुषः । उत्तरं-तपि-क्रियायाःिति । तत् किम् इदानीं पुरुषो न तप्यते ? तथा चाचेतनस्यास् तु सत्त्वस्य तापः, किं नश् छिन्नम् इत्य् अत आह—दर्शित-विषयत्वात् सत्त्वे तु तप्यमाने तद्-आकारानुरोधी पुरुषोऽनुतप्यतैति । दर्शित-विषयत्वम् अनुताप-हेतुः । तच् च प्राग् व्याख्यातम् ॥१७॥
दृश्य-स्वरूपम् उच्यते-
प्रकाश-क्रिया-स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
तत्त्व-वैशारदी : व्याचष्टे-प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस् तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते । एवं राजसादिष्व् अपि द्रष्टव्यम् । तद् इदम् उक्तम्–परस्परोपरक्त-प्रविभागाःिति । पुरुषेण सह संयोग-विभाग-धर्माणः । यथाम्नायते–
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे.उ. ४.५]
इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्य्-आदि-रूपा यैस् ते तथोक्ताः । स्याद् एतत्-सत्त्वेन शान्त-प्रत्यये जनयितव्ये रजस्-तमसोर् अपि सत्त्वाङ्गत्वेन तत्र हेतु-भावाद् अस्ति सामर्थ्यमिति। यदापि च रजस्-तमसोर् अङ्गित्वं तदापि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्व-प्रधान इवेत्य् आह–परस्पराङ्गाङ्गित्वेऽप्य् असम्भिन्न-शक्ति-प्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्-तमसोर् अङ्ग-भावः । तथापि नैषां शक्तयः सङ्कीर्यन्ते । कार्यासङ्करोन्नेयो हि शक्तीनाम् असङ्करः । असङ्कीर्णेन च समुदाचरता रूपेण शान्त-घोर-मूढ-रूपाणि कार्याणि दृश्यन्तैति सिद्धं शक्तीनांसम्भेदैति ।
स्याद् एतत्, असम्भेदश् चेच् छक्तीनां न सम्भूय-कारित्वं गुणानाम् । न जातु भिन्न-शक्तीनां सम्भूयकारित्वं दृष्टम् । न हि तन्तु-मृत्-पिण्ड-वीरणादीनि घटादीन् सम्भूअ कुर्वन्ति इत्य् अत आह-तुल्य-जातीयातुल्य-जातीय-शक्ति-भेदानुपातिनः । यद्यपि तुल्य-जातीय उपादान-शक्तिर् नान्यत्र, सहकारि-शक्तिस् त्व् अतुल्य-जातीये, घटे तु जनयितव्ये न वीरणानाम् अस्ति सहकारि-शक्तिर् अपीति न तैस् तन्तूनां सम्भूयकारितेति भावः । तुल्य-जातीयातुल्य-जातीयेषु शक्येषु ये शक्ति-भेआस् तान् अनुपतितुं शीलं येषां ते तथोक्ताः ।
प्रधान-वेलायामिति । दिव्य-शरीरे जनयितव्ये सत्त्वं गुणः प्रधानम् । अङ्गे रजस्-तमसी । एवं तिर्यक्-शरीरे जनयितव्ये तमः प्रधानम् अङ्गे सत्त्व-रजसी । तेनैते गुणाः प्रधानत्व-वेलायाम् उपदर्शित-सन्निधानाः कार्योपजननं प्रत्युद्भूत-वृत्तय इत्य् अर्थः । प्रधान-शब्दश् च भाव-प्रधानः । यथा द्व्य्-एकयोर् द्वि-वचनैक-वचने [पा. १.४.२२] इत्य् अत्र द्वित्वैकत्वयोरिति । अन्यथा द्व्य्-एकेष्विति स्यात्१३८ ।
ननु तदा प्रधानम् उद्भूततया शक्यम् अस्तीति वक्तुम् । अनुद्भूतानां तु तद्-अङ्गानां सद्-भावे किं प्रमाणम् इत्य् अत आह-गुणत्वेऽपि चैति । यद्यपि नोद्भूतास् तथापि गुणानाम् अविवेकित्वात् सम्भूय-कारित्वाच् च व्यापार-मात्रेण सहकारितया प्रधानेऽन्तर्णीतं सद्-अनुमितम् अस्तित्वं येषां ते तथोक्ताः ।
ननु सन्तु गुणाः सम्भूय-कारिणः समर्थाः । कस्मात् तत् पुनः कुर्वन्ति ? न हि समर्थम् इत्य् एव कार्यं जनयति, मा भूद् अस्य कार्योपजननं प्रति विराम इत्य् अत आह-पुरुषार्थ-कर्तव्यतयाइति । ततो निर्वर्तित-निखिल-पुरुषार्थानां गुणानाम् उपरमः कार्यानारम्भणम् इत्य् उक्तं भवति ।
ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्य् अत आह-सन्निधि-मात्र-इति ।
ननु धर्माधर्म-लक्षणम् एव निमित्तं प्रयोजकं गुणानां, तत् किम् उच्यते पुरुषार्थ-प्रयुक्ता इत्य् अत आह-प्रत्ययम् अन्तरेणैति । एकतमस्य सत्त्वस्य रजस्-तमसो वा प्रधानस्य स्व-कार्ये प्रवृत्तस्य वृत्तिम् इतरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति–निमित्त-प्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् [४.३]इति । एते गुणाः प्रधान-शब्द-वाच्या भवन्तीति सम्बन्धः । प्रधीयत आधीयते विश्वं कार्यम् एभिरिति व्युत्पत्तैतद् दृश्यम् उच्यते ।
तद् एवं गुणानां शीलम् अभिधाय तस्य कार्यम् आह-तद् एतदिति । सत्कार्य-वाद-सिद्धौ यद्-यद्-आत्मकं तत् तेन रूपेण परिणमतैति भूतेन्द्रियात्मकत्वं दीपयति–भूत-भावेन इत्य् आदिना । भोगापवर्त्गार्थमिति सूत्रावयवम् अवतारयति–तत् तु नाप्रयोजनम्, अपि तु प्रयोजनम् उररीकृत्य प्रवर्ततैति ।
भोगं विवृणोति-तत्रैति । सुख-दुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास् तथात्वेन परिणामात् । तथापि गुण-गततयावधारणे न भोग इत्य् अत आह–अविभागापन्नमिति । एतच् चासकृद् विवेचितम् । अपवर्गं विवृणोति-भोक्तुःिति । अपवृज्यतेऽनेनेत्य् अपवर्गः । प्रयोजनान्तरस्याभावम् आह–द्वयोरिति ।
तथा चोक्तं पञ्चशिखेन-अयं तु खलुइति ।
ननु वस्तुतो भोगापवर्गौ बुद्धि-कृतौ बुद्धि-वर्तिनौ च कथं तद्-अकारणे तद्-अनधिकरणे च पुरुषे व्यपदिश्येते इत्य् अत आह-ताव् एताविति । भोक्तृत्वं च पुरुषस्योपपादितं, अग्रे च वक्ष्यते । परमार्थतस् तु बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धैति । एतेन भोगापवर्गयोः पुरुष-सम्बन्धित्व-कथन-मार्गेण ग्रहणादयोऽपि पुरुष-सम्बन्धिनो वेदितव्याः । तत्र स्वरूप-मात्रेणार्थ-ज्ञानं ग्रहणम् । तत्र स्मृतिर् धारणम् । तद्-गतानां विशेषाणाम् ऊहनम् ऊहः । समारोपितानां च युक्त्यापनयोऽपोहः । ताभ्याम् एवोहापोहाभ्यां तद्-अवधारणं तत्त्व-ज्ञानम् । तत्त्वावधारण-पूर्वं हानोपादान-ज्ञानाभिनिवेशः ॥१८॥
दृश्यानां तु गुणानांस्वरूप-भेदावधारणार्थम् इदम् आरभ्यते-
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
तत्त्व-वैशारदी : दृश्यानां गुणानां स्वरूप-भेदावधारणार्थम् इदम् आरभ्यते-विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि ॥येषां अविशेषाणां शान्त-घोर-मूढ-लक्षण-विशेष-रहितानां ये विशेषा विकार एव, न तु तत्त्वान्तर-प्रकृतयस् तेषां तान् आह-तत्राकाश- इति । उत्पाद-क्रमानुरूप एवोपन्यास-क्रमः । अस्मिता-लक्षणस्याविशेषस्य सत्त्व-प्रधानस्य बुद्धीन्द्रियानि विशेषाः । रजः-प्रधानस्य कर्मेन्द्रियाणि । मनस् तूभयात्मकम् उभय-प्रधानस्येति मन्तव्यम् ।
अत्र च पञ्च तन्मात्राणि बुद्धि-कारणकान्य् अविशेषत्वाद् अस्मितावदिति । विकार-हेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशेष-शरीरम् । संकलय्य विशेषान् परिगणयति-गुणानां एषैति ।
अविशेषान् गणयति-षडिति । सङ्कलय्योदाहरति–तद् यथाइति । विशेष्शरीरं ह्य् अपूर्वात्म परेणेति गन्ध आत्मना पञ्च-लक्षणो, रस आत्मना चतुर्-लक्षणो, रूपम् आत्मना त्रि-लक्षणं, स्पर्शं आत्मना द्वि-लक्षणः, शब्दः शब्द-लक्षण एवेति ।
कस्य पुनर् अमी षड् अविशेषाः कार्यम् इत्य् अत आह-एते सत्ता-मात्रस्यात्मनैति । पुरुषार्थ्-कृत्रूपाक्षमं सत् । तस्य भावः सत्ता । तन्मात्रं तन् महत्-तत्त्वम् । यावती काचित् पुरुषार्थ-कृत्रूपा शब्दादि-भोग-लक्षणा सत्त्व-पुरुषान्यता-ख्याति-लक्षणा
वास्ति, सा सर्वा महति बुद्धौ समाप्यत इत्य् अर्थः । आत्मनैति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेर् अयम् आद्यः परिणामो वास्तवो न तु तद्-विवर्तैति यावत् ।
यत् तत्-परं विप्रकृष्ट-कालम् अविशेषेभ्यस् तद् अपेक्षया संनिकृष्टा-कालेभ्यो लिङ्ग-मात्रं महत्-तत्त्वं तस्मिन् ईती षड् अविशेषाः सत्ता-मात्रेमहत्य् आत्मन्य् अवस्थाय सत्-कार्य-सिद्धेर् विवृद्धि-काष्ठाम् अनुभवन्ति प्राप्नुवन्ति ।ये पुनर् अविशेषाणां विशेष-परिणामास् तेषां च धर्म-लक्षणावस्थाः परिणामाइति । सेयम् एषां विवृद्धि-काष्ठा परिणाम-काष्ठेति ।
तद् एवम् उत्पत्ति-क्रमम् अभिधाय प्रलय-क्रमम् आह-प्रतिसंमृज्यमानाइति । प्रतिसंमृज्यमानाः प्रलीयमानाः स्वात्मनि लीन-विशेषा अविशेषास् तस्मिन्न् एव सत्ता-मात्रे महत्य् आत्मन्य् अवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तम् अन्यत्र लयं न गच्छतीत्य् अलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्ता-सत्तंिति । सत्ता पुरुषार्थ-कृत्रूपा-क्षमत्वम् । असत्ता तुच्छता । निष्क्रान्तं सत्ताया असत्तायाश् च यत् तत् तथोक्तम् । एतद् उक्तं भवति–सत्त्व-रजस्-तमसां साम्यावस्था न क्वचित् पुरुषार्थ उपयुज्यतैति न सती । नापि गगन-कमलिनीव तुच्छ-स्वभावा । तेन नासत्य् अपीति ।
स्याद् एतत् । अव्यक्तावस्थायां अप्य् अस्ति महद्-आदि तद्-आत्मना, न हि सतो विनाशो, विनाशो वा न पुनर् उत्पादो न ह्य् असत उत्पादैति महद्-आदि-सद्-भावात् पुरुषार्थ-कृत्रूपा प्रवर्तते । तत् कथं निःसत्त्वम् अव्यक्तम् ? इत्य् अत आह-निःसदसदिति । निष्क्रान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सद् एव शक्त्य्-आत्मना कार्यं, तथापि स्वोचिताम् अर्थ-कृत्रूपाम् अकुर्वद् असद् इत्य् उक्तम् ।
न चैतत् कारणं शश-विषाणायमान-कार्यम् इत्य् आह-निरसदिति । निष्क्रान्तम् असतस् तुच्छ-रूपात् कार्यात् । तथा हि सति व्योमारविन्दम् इवास्मान् न कार्यम् उत्पद्येतेति भावः ।
प्रतिसर्गम् उक्तम् उपसंहरति-एष तेषांिति । एष इत्य् अननतरोक्तात् पूर्वस्य परामर्शः । लिङ्ग-मात्रावस्थाः पुरुषार्थ-कृतत्वाद् अनित्याः, अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वान् नित्येत्य् अत्र हेतुम् आह-अलिङ्गावस्थायांिति । कस्मात् पुनर् न पुरुषार्थो हेतुर् ? इत्य् अत आह-नालिङ्गावस्थायामिति । भवतिना विषयेण विषयि-ज्ञानम् उपलक्षयति । एतद् उक्तं भवति–एवं हि पुरुषार्थता कारणं अलिङ्गावस्थायां ज्ञायेत यद्य् अलिङ्गावस्थाशब्दाद्य्-उपभोगं वा सत्त्व-पुरुषान्यता-ख्यातिं वा पुरुषार्थं निर्वर्तयेत् तन् निर्वर्तते हि न साम्यावस्था स्यात् । तस्मात् पुरुषार्थ-कारणत्वम् अस्यां न ज्ञायतैति नास्याः पुरुषार्था हेतुः ।
उपसंहरति-नासौइति । ितिस् तस्माद्-अर्थे । अनित्याम् अवस्थाम् आह-त्रयाणांिति । त्रयाणांलिङ्ग-मात्राविशेष-विशेषाणामित्य् अर्थः ।
पर्व-स्वरूपं दर्शयित्वा गुण-स्वरूपम् आह-गुणास् तुइति । निदर्शनम् आह–यथा देवदत्तैति । यत्रात्यन्त-भिन्नानां गवाम् उपचयापचयौ देवदत्तोपचयापचय-हेतू, तत्र कैव कृतथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनां उपजयापाययोर् इत्य् अर्थः ।
ननु सर्ग-क्रमः क्म् अनियतः ? नेत्य् आह-लिङ्ग-मात्रमिति । न खलु न्यग्रोधधाना अह्नायैव न्यग्रोध-शाखिनं सान्द्रं शाद्वल-दल-जटिलं शाखा-काण्ड-निपीत-मार्तण्ड-चण्डातप-मण्डलम् आरभन्ते, किं तु क्ष् इति-सलिल-तेजः-सम्पर्कात् परम्परोपजायमानाङ्कुर-पत्र-काण्ड-तालादि-क्रमेण । एवम् इहापि युक्त्य्-आगम-सिद्धः क्रमश् चास्थेयैति ।
कथं भूतेन्द्रियाण्य् अविशेष-संसृष्टानीत्य् अत आह-तथा चोक्तं पुरस्तातिति । इदम् एव सूत्रं १मं व्याचक्षाणैः । अथ विशेषाणां कस्मान् न तत्त्वान्तर-परिणाम उक्त इत्य् अत आह–न विशेषेभ्यःिति । तत् किम् इदानीं अपरिणामित एव विशेषाः, तथा च नित्याः प्रसज्येरन्न् इत्य् अत आह-तेषां तुइति॥१९॥
व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते-
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
तत्त्व-वैशारदी : व्याख्यातं दृश्यम् । द्रष्टुः स्वरूपावधारणार्थम् आरभ्यते-द्रष्टा दृशि-मात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥
व्याचष्टे-दृशि-मात्रैति। विशेषानि धर्मास् तैर् अपरामृष्टा । तद् अनेन मात्र-ग्रहणस्य तात्पर्यं दर्शितम् । स्याद् एतत् । यदि सर्व-विशेषण-रहिता दृक्-शक्तिर् न तर्हि शब्दादयो दृश्येरन्, न हि दृशिनासंस्पृष्टं दृश्यं भवतीत्य् अत आह-स पुरुषैति । बुद्धि-दर्पणे पुरुष-प्रतिबिम्ब-संक्रान्तिर् एव बुद्धि-प्रतिसंविदित्वं पुंसः । तथा च दृशि-च्छायापन्नया बुद्ध्या संसृष्टाः शब्दादयो भवन्ति दृश्या इत्य् अर्थः।
स्याद् एतत् । पारमार्थिकम् एव बुद्धि-चैतन्ययोः कस्माद् ऐक्यं नोपेयते, किम् अनया तच्-छायापत्त्यत आह-स बुद्धेर् न सरूपैति । तदासरूपस्य तच्-छायापत्तिर् अपि दुर्घटेत्य् अत आह–नात्यन्तं विरूपैति ।
तत्र सारूप्यं निषेधति-न तावतिति । हेतुं पृच्छति–कस्मात् ?इति । सहेतुकं वैरूप्ये हेतुम् आह-ज्ञाताज्ञात- इति । परिणामिनी बुद्धिर् यस्मात् तस्माद् विरूपा । यदा खल्व् इयं शब्दाद्य्-आकारा भवति, तदा ज्ञातोऽस्याः शब्दादि-लक्षणो भवति विषयः । तद्-अनाकारत्वे त्व् अज्ञातः । तथा च कदाचिद् एव तद्-आकारतां दधती परिणामिनीति । प्रयोगश् च भवति-बुद्धिः परिणामिनी, ज्ञाताज्ञात-विषयत्वाच् छ्रोत्रादिवदिति ।
तद् वैधर्म्यं पुरुषस्य तद्-विपरीताद् धेतोः सिध्यतीत्य् आह-सदा-ज्ञात- इति । स्याद् एतत्–सदा ज्ञात-विषयश् चेत् पुरुषो न तर्हि केवली स्याद् इत्य् आशयवान् पृच्छति–कस्मात्? इति । उत्तरम्-न हि बुद्धिश् चनामैति । बुद्ध्य्-अग्रहणयोर् अस्ति सह सम्भवो निरोधावस्थायाम् अत उक्तं विरोध-सूचनाय–पुरुष-विषयश् चैति । तेनाद्यश् च-कारो बुद्धिं विषयत्वेन समुच्चिनोति । परिशिष्टौ तु विरोध-द्योतकौ च-काराविति ।
प्रयोगस् तु पुरुष्ऽपरिणामी, सदा सम्प्रज्ञात-व्युत्थानावस्थयोर् ज्ञात-विषयत्वात् । यस् तु परिणामी नासौ सदा ज्ञात-विषयो भवति, यथा श्रोत्रादिरिति व्यतिरेकी हेतुः ।
अपरम् अपि वैधर्म्यम् आह-किं च परार्थाइति । बुद्धिः खलु क्लेश-कर्म-वासनादिभिर् विषयेन्द्रियादिभिश् च संहत्य पुरुषार्थम् अभिनिर्वर्तयन्ती परार्था । प्रयोगश् च परार्था बुद्धिः संहत्य-कारित्वाच् छयनासनाभ्यङ्गवदिति । पुरुषस् तु न तथेत्य् आह–स्वार्थः पुरुषैति । सर्वं पुरुषाय कल्पते । पुरुषस् तु न कस्मैचिद् इत्य् अर्थः।
वैधर्म्यान्तरम् आह-तथा सर्वार्थेति । सर्वानर्थाच् छान्त-घोर-मूढांस् तद्-आकार-परिणता बुद्धिर् अध्यवस्यति, सत्त्व-रजस्-तमसां चैते परिणामाइति सिद्धा त्रिगुणाबुद्धिरिति । न चैवं पुरुष इत्य् आह-गुणानां तूपद्रष्टा पुरुषैति । तत्-प्रतिबिम्बितः पश्यति, न तु तद्-आकार-परिणत इत्य् अर्थः । उपसंहरति-अतैति ।
अस्तु तर्हि विरूपैति । नात्यन्तं विरूपः । कस्मात् ? यतः शुद्धोऽपि प्रत्ययानुपश्यः । यथा चैतत् तथोक्तं वृत्ति-सारूप्यम् इतरत्र इत्य् अत्र । तथा चोक्तं पञ्चशिखेन-अपरिणामिनी हि भोक्तृ-शक्तिर् आत्मा । अत एव बुद्धाव् अप्रतिसङ्क्रमा च, परिणामिनि बुद्धि-रूपेऽर्थेसङ्क्रान्तेव तद्-वृत्तिम् बुद्धि-वृत्तिम् अनुपतति ।
नन्व् असंक्रान्ता कथं संक्रान्तेव कथं वा वृत्तिं विनानुपततीत्य् अत आह-तस्याश् चैति । प्राप्तश् चैतन्योपग्रह उपरागो येन रूपेण तत् तथा प्राप्त-चैतन्योपग्रहं रूपं यस्याः सा तथोक्ता । एतद् उक्तम् भवति–यथा निर्मले जलेऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्त-प्रतिबिम्बतया संक्रान्त इव, एवम् अत्राप्य् असंक्रान्तापि संक्रान्त-प्रतिबिम्बा चिति-शक्तिः संक्रान्तेव, तेन बुद्ध्य्-आत्मत्वम् आपन्ना बुद्धि-वृत्तिम् अनुपततीति । तद् अनेनानुपश्यैति व्याख्यातम्, ताम् अनुकारेण पश्यतीत्य् अनुपश्यैति ॥२०॥
स एव भोक्तेत्याह-
तदर्थं एव दृश्यस्यात्मा ॥२१॥
तत्त्व-वैशारदी : द्रष्टृ-दृश्ययोः स्वरूपम् उक्त्वा स्व-स्वामि-लक्षण-सम्बन्धाङ्गं दृश्यस्य द्रष्ट्र्-अर्थत्वम् आह-तद्-अर्थ एव दृश्यस्यात्मेति । व्याचष्टे–दृशि-रूपस्य पुरुषस्य भोत्कुः कर्म-रूपतां भोग्यताम् आपन्नं दृश्यमिति । तस्मात् तद्-अर्थ एव द्रष्ट्र्-अर्थ एव दृश्यस्यात्माभवति, न तु दृश्यार्थः ।
ननु नात्मात्मार्थम् ? इत्य् अत आह-स्वरूपंभवतीति । एतद् उक्तंभवति–सुख-दुःखात्मकंदृश्यं भोग्यम्। सुख-दुःखे चानुकूलयितृ-प्रतिकूलयितृणी तत्त्वेन तद्-अर्थ एव व्यवतिष्ठेते । विषया अपि हि शब्दादयस् तादात्म्याद् एव चानुकूलयितारः प्रतिकूलयितारश् च । न चात्मैवैषाम् अनुकूलनीयः प्रतिकूलनीयश् च, स्वात्मनि वृत्ति-विरोधात् । अतः पारिशेष्याच् चिति-शक्तिर् एवानुकूलनीया च प्रतिकूलनीया च । तस्मात् तद्-अर्थम् एव दृश्यं न तु दृश्यार्थम् ।
अतश् च तद्-अर्थ एव दृश्यस्यात्मा न दृश्यार्थः । यत् स्वरूपम् अस्य यावत् पुरुषार्थम् अनुवर्तते, निर्वर्तिते च पुरुषार्थे निवर्तते इत्य् आह-तत्-स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पर-रूपेणात्म-रूपेण चैतन्येन प्रतिलब्धात्मकम् अनुभूत-स्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्य्-आकारः शब्दाद्य्-अनुभवः । अपवर्गः सत्त्व-पुरुषान्यतानुभवः । तच् चैतद् उभयम् अप्य् अजानतो जडाया बुद्धेः पुरुष-च्छायापत्त्येति पुरुषस्यैव । तथा च पुरुष-भोगापवर्गयोः कृतयोर् दृश्यस्य भोगापवर्गार्थता समाप्यतैति भोगापवर्गार्थतायां कृतायाम् इत्य् उक्तम् । अत्रान्तरे चोदयति–स्वरूप-हानादिति । परिहरति–न तु विनश्यतीति ॥२१॥
कस्मात् ?
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥
तत्त्व-वैशारदी : नन्व् अत्यन्तानुपलभ्यं कथं न विनश्यतीत्य् आशयवान् पृच्छति-कस्मादिति । सूत्रेणोत्तरम् आह–कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद् अन्य-साधारणत्वात् ॥ कृतार्थोऽर्थो यस्य पुरुषस्य स तथा । नष्टम् अप्य् अनष्टं तद् दृश्यम् । कुतः ? सर्वान् पुरुषान् कुशलान् अकुशलान् प्रति साधारणत्वात् ।
व्याचष्टे-कृतार्थम् एकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यम् । अन्य-पुरुष-साधारणत्वात् । तस्माद् दृश्यात् परस्यात्मनश् चैतन्यं रूपं, तेन । तद् इह श्रुति-स्मृतीतिहास-पुराण-प्रसिद्धम् अव्यक्तम् अनवयवम् एकम् अनाश्रयं व्यापि नित्यं विश्व-कार्य-शक्तिमत् यद्यपि कुशलेन तं प्रति कृत-कार्यं न दृश्यते, तथाप्य् अकुशलेन दृश्यमानं न नास्ति । न हि रूपम् अन्धेन न दृश्यतैति चक्षुष्मतापि दृश्यमानम् अभाव-प्राप्तम् भवति । न च प्रधानवद् एक एव पुरुषः, तन् नानात्वस्य जन्म-मरण-सुख-दुःखोपभोग-मुक्ति-संसार-व्यवस्थया सिद्धेः । एकत्व-श्रुतीनां च प्रमाणान्तर-विरोधात् कथञ्चिद् देश-काल-विभागाभावेन भक्त्याप्य् उपपत्तेः । प्रकृत्य्-एकत्व-पुरुष-नानात्वयोश् च श्रुत्यैव साक्षात्-प्रतिपादनात् ।
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥[श्वे.उ. ४.५] इति श्रुतिः ।
अस्या एव श्रुतेश् चानेन सूत्रेणार्थोऽनूदितैति । यतो दृश्यं नष्टम् अप्य् अनष्टं पुरुषान्तरं प्रत्यस्ति । अतो दृग्-दर्शन-शक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यातः । अत्रैवागमिनाम् अनुमतिम् आह-तथा चोक्तमिति । धर्मिणं गुणानाम् आत्ममभिर् अनादि-संयोगाद् धर्म-मात्राणां महद्-आदीनाम् अप्य् अनादिः संयोगैति । एकैकस्य महद्-आदेः संयोगोऽनादिर् अप्य् अनित्य एव यद्यपि तथापि सर्वेषां महद्-आदीनां नित्यः, पुरुषान्तराणां साधारणत्वात् । अत उक्तम्-धर्म-मात्राणामिति । मात्र-ग्रहणेन व्याप्तिं गमयति । अत एतद् भवति–यद्यप्य् एकस्य महतः संयोगोऽतीतताम् आपन्नस् तथापि महद्-अन्तरस्य पुरुषाणां संयोगो नातीतैति नित्य उक्तः ॥२२॥
संयोग-स्वरूपाभिधित्सयेदं सूत्रं प्रववृते-
स्व-स्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
तत्त्व-वैशारदी : तद् एवं तादर्थ्यं संयोग-कारणे उक्ते प्रासङ्गिके प्रधान-नित्यत्वे संयोग-सामान्य-नित्यत्वे हेतौ चोक्ते संयोगस्य यत् स्वरूपम् असाधारणो विशेषैति यावत् तद्-अभिधित्सयेदं सूत्रं प्रववृते-स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः ॥िति । यतो दृश्यं तद्-अर्थम् अतस् तज्-जनितम् उपकारं भजमानः पुरुषस् तस्य स्वामी भवति । भवति च तद् दृश्यम् अस्य स्वम् । स चानयोः संयोगः शक्ति-मात्रेण व्यवस्थितस् तत्-स्वरूपोपलब्धि-हेतुः । तद् एतद् भाष्यम् अवद्योतयति–पुरुषैति । पुरुषः स्वामी योग्यता-मात्रेण दृश्येनस्वेन योग्यतयैव दर्शनार्थं संयुक्तः । शेषं सुगमम् ।
स्याद् एतत् । द्रष्टुः स्वरूपोपलब्धिर् अपवृज्यतेऽनेनेत्य् अपवर्ग उक्तः । न च मोक्षः साधनवान्, तथा सत्य् अयं मोक्षत्वाद् एव च्यवेतेत्य् अत आह-दर्शन-कार्यावसानैति । दर्शन-कार्यावसानोबुद्धि-विशेषेण सह पुरुष-विशेषस्य संयोगैति दर्शनंवियोग-कारणम् उक्तम् । कथं पुनर् दर्शन-कार्यावसानत्वंसंयोगस्येत्य् अत आह–दर्शनमिति । ततः किम् ? इत्य् अत आह-अदर्शनमिति । अदर्शनम् अविद्या संयोग-निमित्तम् इत्य् उक्तम् । उक्तम् अर्थं स्पष्टयति–नात्रैति ।
ननु दर्शनम् अदर्शनं विरोधि विनिवर्तयतु, बन्धस्य तु कुतो निवृत्तिः ? इत्य् अत आह-दर्शनस्यैति । बुद्ध्य्-आदि-विविक्तस्यात्मनः सर्वावस्थानं मोक्ष उक्तः । न तस्य साधनं दर्शनम् अपि त्व् अदर्शन-निवृत्तिर् .हेतु ।
असाधारणं संयोग-हेतुम् अदर्शन-विशेषं ग्रहीतुम् अदर्शन-मात्रं विकल्पयति-किं चेदमिति । पर्युदासं गृहीत्वाह–किं गुणानाम् अधिकारः ?इति । अधिकारः कार्यारम्भण-सामर्थ्यम् । ततो हि संयोगः संसार-हेतुर् उपजायते ।
प्रसज्य-प्रतिषेधं गृहीत्वा द्वितीयं विकल्पम् आह-आहो स्विदिति । दर्शितो विषयः शब्दादिः सत्त्व-पुरुषान्यता च येन चित्तेन तस्य तद्-विषयस्यानुत्पादः । एतद् एव स्फोरयति–स्वस्मिन्निति । स्वस्मिन् दृश्ये शब्दादौ सत्त्व-पुरुषान्यतायां चेति । तावद् एव प्रधानं विचेष्टते न यावद् द्विविधं दर्शनम् अभिनिर्वर्तयति । निष्पादितोभय-दर्शनं तु विनिवर्ततैति ।
पर्युदास एव चतुर्थं विकल्पम् आह-अथाविद्याइति । प्रतिसर्ग-काले स्व-चित्तेन सह निरुद्धा प्रधान-साम्यम् आगता वासना-रूपेण स्व-चित्तोत्पत्ति-बीजम्,तेनदर्शनाद् अन्याविद्या-वासनैवादर्शनम् उक्ता ।
पर्युदास एव पञ्चमं विकल्पम् आह-किं स्थिति- इति । किं स्थिति-संस्कारस्य प्रधान-वर्तिनः साम्य-परिणाम-परम्परा-वाहिनः क्षयेगतिर् महद्-आदि-विकारारम्भस् तद्-धेतुः संस्कारः प्रधानस्य गति-संस्कारस् तस्याभिव्यक्तिः कार्योन्मुखत्वम् । तद्-उभय-संस्कार-सद्-भावे मतान्तरानुमतिम् आह–यत्रेदम् उक्तमिति । ऐकान्तिकत्वं व्यासेधद्भिः । प्रधीयते जन्यते विकार-जातम् अनेनेति प्रधानम् । तच् चेत् स्थित्यैव वर्तते न कदाचिद् गत्व्या ततो विकाराकरणान् न प्रधीयते तेन किञ्चिद् इत्य् अप्रधानं स्यात् । अथ गत्यैव वर्तेत न कदाचिद् अपि स्थित्या, तत्राह-तथा गत्यैवैति । क्वचित् पाठः स्थित्यै गत्यैइति । तादर्थ्ये चतुर्थी, एव-कारश् च द्रष्टव्यः ।
स्थित्यै चेन् न वर्तेत न क्वचिद् विकारो विनश्येत् । तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिर् अपीति विकारत्वाद् एव च्यवेत । एवं च प्रधीयतेऽत्र किञ्चिद् इत्य् अप्रधानं स्यात् । तद् उभयथा स्थित्या गत्या चास्य प्रवृत्तिःप्रधान-व्यवहारं लभते नान्यथा एकान्ताभ्युपगमे । न केवलं प्रधाने, कारणान्तरेष्व् अपि पर-ब्रह्म-तन्माया-परमाण्व्-आदिषु कल्पितेषु समानश् चर्चो विचारः । तान्य् अपि हि स्थित्यैव वर्तमानानि विकाराकरणाद् अकारणानि स्युः । गत्यैव वर्तमानानि विकार-नित्यत्वाद् अकारणानि स्युरिति च ।
पर्युदास एव षष्ठं विकल्पम् आह-दर्शन-शक्तिर् एवैति । यथा प्रजापति-व्रते नेक्षेतोद्यन्तम् आदित्यम् इत्य् अनीक्षण-प्रत्यासन्नः सङ्कल्पो गृह्यत एवम् इहापि दर्शन-निषेधे तत्-प्रत्यासन्ना तन्-मूला शक्तिर् उच्यते । सा च दर्शनं भोगादि-लक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति । अत्रैव श्रुतिम् आह–प्रधानस्यैति ।
स्याद् एतत् । आत्म-ख्यापनार्थं प्रधानं प्रवर्ततैति श्रुतिर् आह, न त्व् आत्म-दर्शन-शक्तिः प्रवर्तत इत्य् अत आह-सर्व-बोध्य-बोध-समर्थःिति । प्राक् प्रवृत्तेः प्रधानस्य नात्म-ख्यापन-मात्रं प्रवृत्तौ प्रयोजकं, असामर्थ्ये तद्-अयोगात् । तस्मात् सामर्थ्यं प्रवृत्तेः प्रयोजकमिति श्रुत्यार्थाद् उक्तम् इत्य् अर्थः । दर्शन-शक्तिः प्रधानाश्रयेत्य् अङ्गीकृत्य षष्ठः कल्पः ।
इमाम् एवोभयाश्रयाम् आस्थाय सप्तमं विकल्पम् आह-उभयस्याप्य् अदर्शनमिति । उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शन-शक्तिर् धर्म इत्य् एके ।
स्याद् एतत् । मृष्यामहे दृश्यस्येति । तस्य सर्व-शक्त्याश्रयत्वात् । न द्रष्टुरिति पुनर् मृष्यामः, न हि तद्-आधारा ज्ञान-शक्तिः, तत्र ज्ञानस्यासमवायात् । अन्यथा परिणामापत्तिर् इत्य् अत आह-तत्रेदमिति । भवतु दृश्यात्मकं, तथापि तस्य जडत्वेन तद्-गत-शक्ति-कार्यं दर्शनम् अपि जडमिति न शक्यं तद्-धर्मत्वेन विज्ञातुं, जडस्य स्वयम् अप्रकाशत्वात् ।
अतो दृशेर् आत्मनः प्रत्ययं चैतन्य-च्छायापत्तिम् अपेक्ष्य दर्शनं तद्-धर्मत्वेन भवति विज्ञायते, विशेषित्य् आह-विषयिण उपलक्षणात् ।
नन्व् एतावतापि दृश्य-धर्मत्वम् अस्य ज्ञानस्य भवति, न तु पुरुष-धर्मत्वम् अपीत्य् अत आह-तथा पुरुषस्यैति । सत्य पुरुषस्यानात्म-भूतम् एव, तथापि दृश्य-बुद्धि-सत्त्वस्य यः प्रत्ययश् चैतन्य-च्छायापत्तिस् तम् अपेक्ष्य पुरुष-धर्मत्वेनैव, न तु पुरुष-धर्मत्वेन । एतद् उक्तम् भवति-चैतन्य-बिम्बोद्ग्राहितया बुद्धि-चैतन्ययोर् अभेदाद् बुद्धि-धर्माश् चैतन्य-धर्मा इव चकासतीति ।
अष्टमं विकल्पम् आह-दर्शन-ज्ञानमिति । ज्ञानम् एव शब्दादीनाम् अदर्शनं न तु सत्त्व-पुरुषान्यतायाइति केचित् । यथा चक्षू रूपे प्रमाणम् अपि रसादाव् अप्रमाणम् उच्यते । एतद् उक्तम् भवति–सुखाद्य्-आकार-शब्दादि-ज्ञानानि स्व-सिद्ध्य्-अनुगुणतया द्रष्टृ-दृश्य-संयोगम् आक्षिपन्तीति ।
तद् एवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुम् इतरेषां विकल्पानां साङ्ख्य-शास्त्र-गतानां सर्व-पुरुष-साधारण्येन भोग-वैचित्र्याभाव-प्रसङ्गेन दूषयति-इत्य् एते शास्त्र-गताइति ॥२३॥
यस् तु प्रत्यक्-चेतनस्य स्व-बुद्धि-संयोगः-
तस्य हेतुरविद्या ॥२४॥
तत्त्व-वैशारदी : चतुर्थं विकल्पं निर्धारयितुं सूत्रम् अवतारयति-यस् तु प्रत्यक्-चेतनस्य स्व-बुद्धि-संयोगःिति । प्रतीपम् अञ्चति प्राप्नोति प्रत्यक् असाधारणस् तु संयोग एकैकस्यपुरुषस्यैकैकया बुद्ध्या वैचित्र्य-हेतुः । सूत्रं पठति–तस्येति ।
नन्व् अविद्या विपर्यय-ज्ञानं, तस्य भोगापवर्गयोर् इव स्व-बुद्धि-संयोगो हेतुः । असंयुक्तायां बुद्धौ तद्-अनुत्पत्तेः । तत् कथम् अविद्या संयोग-भेदस्य हेतुर् इत्य् अत आह-विपर्यय-ज्ञान-वासनाइति । सर्गान्तरीयाया अविद्यायाः स्व-चित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना । तद्-वासना-वासितं च प्रधानं तत्-तत्-पुरुष-संयोगिनीं तादृशीम् एव बुद्धिं सृजति ।
एवं पूर्व-पूर्व-सर्गेष्व् इत्य् अनादित्वाद् अदोषः । अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्य् आह-विपर्यय-ज्ञान- इति । यदा पुरुष-ख्यातिं कार्य-निष्ठां प्राप्ता तदा विपर्यय-ज्ञान-वासनाया बन्ध-कारणस्याभावान् न पुनर् आवर्तत इत्य् आह–सात्विति ।
अत्र कश्चिन् नास्तिकः कैवल्यं षण्डकोपाख्यानेनोपहसति । षण्डाकोपाख्यानम् आह-मुग्धयाइति । किम्-अर्थंित्य् अर्थ-शब्दो निमित्तम् उपलक्षयति, प्रयोजनस्यापि निमित्तत्वात् । षण्डाकोपाख्यानेन साम्यम् आपादयति-तथेदमिति । इदं विद्यमानं गुण-पुरुषान्यताख्याति-ज्ञानंचित्त-निवृत्तिंन करोति, पर-वैराग्येण ज्ञान-प्रसाद-मात्रेण स-संस्कारं निरुद्धं विनष्टं करिष्यतीतिका प्रत्याशा ? यस्मिन् सत्य् एव यद् भवति तत् तस्य कार्यं, न तु यस्मिन्न् असतीति भावः ।
अत्रैक-देशि-मतेन परिहारम् आह-तत्राचार्य-देशीयैति । आचार्यस् तु वायु-प्रोक्ते कृत-लक्षणः–
आचिनोति च शास्त्रार्थम् आचारे स्थापयत्य् अपि ।
स्वयम् आचरते यस्माद् आचार्यस् तेन चोच्यते ॥ [वायु.पु. ५९.३०] इति ।
भोग-विवेक-ख्याति-रूप-परिणत-बुद्धि-निवृत्तिर् एव एव मोक्षः । न तु बुद्धि-स्वरूप-निवृत्तिः । सा च धर्ममेघान-विवेक-ख्याति-प्रतिष्ठाया अनन्तरम् एव भवति सत्य् अपि बुद्धि-स्वरूप-मात्रावस्थान इत्य् अर्थः । एतद् एव स्फोरयति-अदर्शन- इति । अदर्शनस्य बन्ध-कारणस्याभावाद् बुद्धि-निवृत्तिः । तच् चादर्शनं बन्ध-कारणं दर्शनान् निवर्तते । दर्शन-निवृत्तिस् तु पर-वैराग्य-साध्या, सत्य् अपि बुद्धि-स्वरूपावस्थाने मोक्षैति भावः ।
एक-देशि-मतम् उपन्यस्य स्व-मतम् आह-तत्र चित्त-निवृत्तिर् एव मोक्षःिति। ननूक्तं दर्शने निवृत्तेऽचिराच् चित्त-स्वरूप-निवृत्तिर् भवतीति कथं दर्शन-कार्येत्य् अत आह–किम्-अर्थम् अस्थान एवास्य मति-विभ्रमः ?इति । अयम् अभिसन्धिः-यदि दर्शनस्य साक्षाच् चित्त-निवृत्तौ कारण-भावम् अङ्गीकुर्वीमहि, तत एवम् उपालभ्येमहि, किं तु विवेक-दर्शनं प्रकर्ष-काष्ठां प्राप्तं निरोध-समाधि-भावना-प्रकर्ष-क्रमेण चित्त-निवृत्तिमत् पुरुष-स्वरूपावस्थानोपयोगीत्य् आतिष्ठामहे, तत् कथम् उपालभ्येमहीति ॥२४॥
हेयं दुःखम् । हेय-कारणं च संयोगाख्यं स-निमित्तम् उक्तम् । अतः परं हानं वक्तव्यम्-
तदभावे संयोगभावो हानं तद् दृशेः कैवल्यम् ॥२५॥
तत्त्व-वैशारदी : तद् एवं व्यूह-द्वयम् उक्त्वा तृतीय-व्यूहाभिधानाय सूत्रम् अवतारयति-हेयं दुःखम् उक्तमिति । तद्-अभावात् संयोगाभावो हानम्, तद्-दृशेः कैवल्यम् ॥िति । सूत्रं व्याचष्टे-तस्यैति । अस्ति हि महा-प्रलयेऽपि संयोगाभावोऽत उक्तम् आत्यन्तिकैति । दुःखोपरमो हानमिति पुरुषार्थता दर्शिता । शेषम् अतिरोहितम् ॥२५॥
अथ हानस्य कः प्राप्त्य्-उपायः? इति-
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
तत्त्व-वैशारदी : हानोपाय-लक्षणं चतुर्थं व्यूहं आख्यातुं सूत्रं अवतारयति-अथैति ।
विवेक-ख्यातिर् अविप्लवा हानोपायः ॥ आगमानुमानाभ्याम् अपि विवेक-ख्यातिर् अस्ति । न चासौ व्युत्थानं तत्-संस्कारं वा निवर्तयति, तद्वतोऽपि तद्-अनुवृत्तेरिति तन्-निवृत्त्य्-अर्थम् अविप्लवेति । विप्लवो मिथ्या-ज्ञानं, तद्-रहिता । एतद् उक्तं भवति-श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा, युक्तिमयेन च व्यवस्थाप्य, दीर्घ-काल-नैरन्तर्य-सत्कारासेविताया भावनायाः प्रकर्ष-पर्यन्तं समधिगता साक्षात्-कारवती विवेक-ख्यातिर् निवर्तित-सवासन-मिथ्या-ज्ञाना निर्विप्लवा हानोपाय इति । शेषं भाष्यं सुगमम्॥२६॥
तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२७॥
तत्त्व-वैशारदी : विवेक-ख्याति-निष्ठायाः स्वरूपम् आह सूत्रेण-तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥ इत्य् अनेन । व्याचष्टे–तस्येति। प्रत्युदित-ख्यातेःवर्तमान-ख्यातेर् योगिनः प्रत्याम्नायःपरामर्शः । अशुद्धिर् एवाववरणं चित्त-सत्त्वस्य, तद् एव मलं तस्यापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादेतामस-राजस-व्युत्थान-प्रत्ययानुत्पादे निर्विप्लव-विवेक-ख्याति-निष्ठाम् आपन्नस्य सप्त-प्रकारैव प्रज्ञा विवेकिनो भवति । विषय-भेदात् प्रज्ञा-भेदः । प्रकृष्टोऽन्तो यासां भूमीनाम् अवस्थानां तास् तथोक्ताः । यतः परं नास्ति स प्रकर्षः । प्रान्ता भूमयो यस्याः प्रज्ञाया विवेक-ख्यातेः सा तथोक्ता ।
ता एव सप्त-प्रकाराः प्रज्ञा-भूमीर् उदाहरति-तद् यथाइति ।
तत्र पुरुष-प्रयत्न-निष्पाद्यासु चतसृषु भूमिषु प्रथमाम् उदाहरति-परिज्ञातंहेयंिति । यावत् किल प्राधानिकं तत् सर्वं परिणाम-ताप-संस्कारैर् गुण-वृत्ति-विरोधाद् दुःखम् एवेति हेयम् । तत् परिज्ञातम् । प्रान्ततां दर्शयति–नास्य पुनःकिञ्चिद् अपरिज्ञेयम् अस्ति । इति ।
द्वितीयाम् आह-क्षीणाइति । प्रान्तताम् आह–न पुनरिति ।
तृतीयाम् आह-साक्षात्कृतंिति । प्रत्यक्षणे निश्चितं मया सम्प्रज्ञातावस्थायाम् एव निरोध-समाधि-साध्यं हानम् । न पुनर् अस्मात् परं निश्चेतव्यम् अस्तीति शेषः ।
चतुर्थीम् आह-भावितैति । भावितो निष्पादितोविवेक-ख्याति-रूपोहानोपायः, नास्याः परं भावनीयम् अस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः । कार्यतया प्रयत्न-व्याप्यतादर्शिता । क्वचित् पाठः कार्य-विमुक्तिरिति । कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्य् अर्थः ।
प्रयत्न-निष्पाद्यानुनिष्पादनीयाम् अप्रयत्न-साध्यां चित्त-विमुक्तिम् आह-चित्त-विमुक्तिस् तु त्रयीइति । प्रथमाम् आह–चरिताधिकारा बुद्धिःिति। कृत-भोगापवर्ग-कार्येत्य् अर्थः । द्वितीयाम् आह–गुणाइति । प्रान्तताम् आह–न चैषांिति ।
तृतीयाम् आह-एतस्याम् अवस्थायांिति । एतस्याम् अवस्थायां जीवन्न् एव पुरुषः कुशलो मुक्त इत्य् उच्यते, चरम-देहत्वाद् इत्य् आह-एतामिति । अनौपचारिकं मुक्तम् आह–प्रतिप्रसवैति । प्रधान-लयेऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति, गुणातीतत्वादिति ॥२७॥
सिद्धा भवति विवेक-ख्यातिर् हानोपायैति । न च सिद्धिर् अन्तरेण साधनम् इत्य् एतद् आरभ्यते-
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
तत्त्व-वैशारदी : तद् एवं चतुरो व्यूहानुक्त्वा तन्-मध्य-पतितस्य हानोपायस्य विवेक-ख्यातेर् गोदोहनादिवत् प्राग्-असिद्धेर् असिद्धस्य चोपायत्वाभावात् सिद्ध्य्-उपायान् वक्तुम् आरभत इत्य् आह-सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेक-ख्यात्य्-उपायत्वं तद् दर्शयति सूत्रेण–योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आ विवेक-ख्यातेः ॥योगाङ्गानि हि यथा-योगं दृष्टादृष्ट-द्वारेणाशुद्धिं क्षिण्वन्ति ।
पञ्च-पर्वणो विपर्ययस्येत्य् उपलक्षणं पुण्यापुण्ययोर् अपिप् जात्यायुर्-भोग-हेतुवेनाशुद्धि-रूपत्वादिति । शेषं सुगमम् ।
नाना-विधस्य कारण-भावस्य दर्शनाद् योगाङ्गानुष्ठानस्य कीदृशं कारणत्वम् इत्य् अत आह-योगाङ्गानुष्ठानमिति । अशुद्ध्या वियोजयति बुद्धि-सत्त्वम् इत्य् अशुद्धेर् वियोग-कारणम् । दृष्टान्तम् आह–यथा परशुरिति । परशुश् छेद्यं वृक्षं मूलेन वियोजयति । अशुद्ध्या वियोजयद् बुद्धि-सत्त्वं विवेक-ख्यातिं प्रापयति । यथा धर्मः सुखम् । तथा योगाङ्गानुष्ठानं विवेक-ख्यातेः प्राप्ति-कारणं,नान्येन प्रकारेणेत्य् आह-विवेक-ख्यातेःिति ।
नान्यथेति प्रतिषेध-श्रवणात् पृच्छति-कति चैतानिइति । उत्तरं–नवैवेति ।तानि दर्शयति कारिकया–तद् यथा–उत्पत्तीति । अत्रोदाहरणान्य् आह–तत्रोत्पत्ति-कारणंिति । मनोहि विज्ञानम् अव्यपदेश्यावस्थातोऽपनीय वर्तमानावस्थाम् आपादयद् उत्पत्ति-कारणं विज्ञानस्य ।
स्थिति-कारणं मनसः पुरुषार्थता, अस्मिताया उत्पन्नं मनस् तावद् अवतिष्ठते न यावद् द्विविधं पुरुषार्थम् अभिनिवर्तयति । अथ निर्वर्तित-पुरुषार्थ-द्वयं स्थितेर् अप इति, तस्मात् स्व-कारणाद् उत्पन्नस्य मनसोऽनागत-पुरुषार्थता स्थिति-कारणम् । दृष्टान्तम् आह-शरीरस्येवाहारैति ।
प्रत्यक्ष-ज्ञानं निमित्तम् इन्द्रिय-द्वारा वा स्वतो वा विषयस्य संस्क्रियाभिव्यक्तिस् तस्याः कारणं यथारूपस्यालोकः ।
विकार-कारणं मनसो विषयान्तरम्, यथा हि मृकण्डोः समाहित-मनसो वल्लकी-विपञ्च्यमान-पञ्चम-स्वर-श्रवण-समनन्तरम् उन्मीलिताक्षस्य स्वरूप-लावण्य-यौवन-सम्पन्नाम् अप्सरसं प्रम्लोचाम् ईक्षमानस्य समाधिम् अपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनम् आह-यथाग्निरिति। यथाग्निः पाकस्यतण्डुलादेः कठिनावयव-सन्निवेशस्य प्रशिथिलावयव-संयोग-लक्षणस्य विकारस्य कारणम् ।
सत एव विषयस्य प्रत्यय-कारणंग्नि-ज्ञानस्य। ज्ञायतैति ज्ञानम् । अग्निश् चासौ ज्ञानं चेत्य् अग्नि-ज्ञानं तस्य । एतद् उक्तं भवति-वर्तमानस्यैवाग्नेर् ज्ञेयस्य प्रत्यय-कारणतया कारणमिति ।
प्राप्ति-कारणंौत्सर्गिकी निरपेक्षाणां कारणानां कार्य-क्रिया प्राप्तिः । तस्याः कुतश्चिद् अपवादोऽप्राप्तिः । यथा निम्नोपसर्पण-स्वभावानाम् अपां प्रतिबन्धः सेतुना, तथेहापि बुद्धि-सत्त्वस्य सुख-प्रकाश-शीलस्य स्वाभाविकी सुख-विवेक-ख्याति-जनकता प्राप्तिः । सा कुतश्चिद् अधर्मात् तमसो वा तज्-जनकतया तद् आप्नोति । यथा वक्ष्यति-निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवद् [४.३] इति ।
तद् एवं विवेक-ख्याति-लक्षण-कार्यापेक्षया प्राप्ति-कारणम् उक्तम् । अवान्तर-कार्यापेक्षया तु तद् एव वियोग-कारणम् इत्य् आह-वियोग-कारणंिति ।
अन्यत्व कारणम् आह-अन्यत्व-कारणं, यथा सुवर्णस्य सुवर्ण-कारैति। कटक-कुण्डल-केयूरादिभ्यो भिन्नाभिन्नस्य भेद-विवक्षया कटकादिभिन्नस्याभेद-विवक्षया कटकाद्य्-अभिन्नस्य सुवर्णस्य कुण्डलाद् अन्यत्वम् । तथा च कटक-कारी सुवर्ण-कारः कुण्डलाद् अभिन्नात् सुवर्णाद् अन्यत् कुर्वन्न् अन्यत्व-कारणम् ।
अग्निर् अपि पाक्यस्यान्यत्व-कारणं यद्यपि, तथापि धर्मिणो धर्मयोः पुलाकत्व-तण्डुलत्वयोर् भेदाविवक्षया धर्मयोर् उपजनापायेऽपि धर्म्य् अनुवर्ततेइति न तस्यान्यत्वं शक्यं वक्तुमिति विकार-मात्र-कारणत्वम् उक्तैति न सङ्करः । न च संस्थान-भेदो धर्मिणोऽन्यत्व-कारणमिति व्याख्येयम् । सुवर्ण-कार इत्य् अस्यासङ्गतेः ।
बाह्यम् अन्यत्व-कारणम् उपन्यस्याध्यात्मिकम् उदाहरति-एवम् एकस्यैति । अविद्या कमनीयेयं कन्यकेत्य्-आदि ज्ञानम् । सम्मोह-योगात् स एव स्त्री-प्रत्ययो मूढो विषण्णो भवति चैत्रस्य,, मैत्रस्य पुण्यवतो बत कलत्र-रत्नम् एतन् न तु मम भाग्य-हीनस्येति । एवं सपत्नी-जनस्य तस्यां द्वेषः स्त्री-प्रत्ययस्य दुःखत्वे । एवं मैत्रस्य तस्या भर्तुः रागस् तस्यैव स्त्री-प्रत्ययस्य सुखत्वे । तत्त्व-ज्ञानं त्वङ्-मांस-भेदोऽस्थि-मज्जा-समूहः स्त्री-कायः स्थान-बीजादिभिर् अशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति ।
एवं मांसादि-कायाङ्गानाम् अपि परस्परं विधार्य-विधारकत्वम् । एवं महा-भूतानि पृथिव्य्-आदीनि मनुष्य-वरुण-सूर्य-गन्धवह-शशि-लोक-निवासिनां शरीरिणाम् । तानि च परस्परम् । पृथिव्यां हि गन्ध-रस-रूप-स्पर्श-शब्द-गुणानां पञ्च महा-भूतानि परस्परं विधार्य-विधारक-भावेनावस्थितान्य् अप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्यौन-मानुष-दैवतादीनि च विधार्य-विधारक-भावेनावस्थितानि ।
नन्व् आधाराधेय-भाव-रहितानां कुतस् तत्त्वम् इत्य् अत आह-परस्परार्थत्वादिति । मनुष्य-शरीरं हि पशु-पक्षि-मृग-सरीसृप-स्थावर-शरीरोपयोगेन ध्रियते । एवं व्याघ्रादि-शरीरम् अपि मनुष्य-पशु-मृगादि-शरीरोपयोगेन । एवं पशु-पक्षि-मृगादि-शरीरम् अपि स्थावराद्य्-उपयोगेन । एवं दैव-शरीरम् अपि मौष्योपहृत-च्छाग-मृग-कपिञ्जल-मांसाज्य-पुरोडाश-सहकार-शाखा-प्रस्तरादिभिर् अज्यमानं तद् उपयोगेन । एवं देवतापि वर-दान-वृष्ट्य्-आदिभिर् मनुष्यादीनि धारयतीत्य् अस्ति परस्परार्थत्वम् इत्य् अर्थः । शेषं सुगमम् ॥२८॥
अथ योगाङ्गान्य् अवधार्यन्ते-
यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ॥२९॥
तत्त्व-वैशारदी : सम्प्रति न्यूनाधिक-सङ्ख्या-व्यवच्छेदार्थं योगाङ्गान्य् अवधारयति-तत्र योगाङ्गान्य् अवधार्यन्तैति। यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाव् अङ्गानि ॥ अभ्यास-वैराग्य-श्रद्धा-वीर्यादयोऽपियथा-योगम् एतेष्व् एव स्वरूपतो नान्तरीयकतयान्तर्भावयितव्याः ॥२९॥
तत्र-
अहिंसा-सत्यास्तेय-ब्रह्मचर्य्यापरिग्रहा यमाः ॥३०॥
तत्त्व-वैशारदी : यम-नियमाद्य्-अङ्गानि उद्दिश्य यम-निर्देशकं सूत्रम् अवतारयति-तत्रेति । अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥ योगाङ्गम् अहिंसाम् आह–सर्वथाइति । ईदृशाम् अहिंसां स्तौति–उत्तरेचैति । तन्-मूलाइति । अहिंसाम् अपरिपाल्य कृता अप्य् अकृत-कल्पा, निष्फलत्वाद् इत्य् अर्थः । तत्-सिद्धि-परतयैवअनुष्ठानम् । हिंसा चेन् मूलम् उत्तरेषां कथं तेऽहिंसा-सिद्धि-परा ? इत्य् अत आह-तत्-प्रतिपादनायैति । सिद्धिर् ज्ञानोत्पत्तिर् इत्य् अर्थः ।
स्याद् एतत् । अहिंसा ज्ञानार्था यद्य् उत्तरे, कृतं तैर् अन्यत एव तद्-अवगमाद् इत्य् अत आह-तद् अवदात- इति । यद्य् उत्तरे नानुष्ठीयेरन्न् अहिंसा मलिना स्याद् असत्यादिभिर् इत्य् अर्थः । अत्रैवागमिकानां संमतिम् आह–तथा चेति । सुगमम् ।
सत्य-लक्षणम् आह-यथार्थे वाङ्-मनसेइति । यथा-शब्दं साकाङ्क्षं पूरयति–यथा दृष्टंिति । प्रतिसम्बन्धितं तथा शब्दं प्रतिक्षिपति–तथा वाङ् मनश् चैति। विवक्षायां कर्तव्यायामिति । अन्यथा तु न सत्यम् । एतत् सोपपत्तिकम् आह–परत्रैति । परत्र पुरुषे स्व-बोध-संक्रान्तये स्व-बोध-सदृश-बोध-जननाय वाग् उक्ता उच्चारिता । अतः सा यदि न वञ्चितावञ्चिका, यथा द्रोणाचार्येण स्व-तनयाश्वत्थाम-मरणम् । आयुष्मन् सत्य-धन अश्वत्थामा हतःिति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनम् अभिसन्धाय सत्यं हतोऽश्वत्थामेति । तद् इदं उक्तस्योत्तरं न युधिष्ठिरस्य स्व-बोधं संक्रामयति । स्व-बोधो ह्य् अस्य हस्ति-हनन-विषय इन्द्रिय-जन्मा । न चासौ संक्रान्तः किं त्व् अन्य एव तस्य तनय-वध-बोधो जातैति ।
भ्रान्ता वा भ्रान्तिजा । भ्रान्तिश् च विवक्षा-समये वा ज्ञेयार्थावधारण-समये वा । प्रतिपत्त्या बन्ध्या प्रतिपत्ति-बन्ध्या । यथार्थान् प्रति म्लेच्छ-भाषा प्रतिपत्ति-बन्ध्या, निष्प्रयोजना वा स्यादिति यथानपेक्षिताभिधाना वाक् । तत्र हिस् परत्र स्व-बोधस्य संक्रान्तिर् अप्य् असंक्रान्तिर् एव निष्प्रयोजनत्वादिति । एवं-लक्षणम् अपि सत्यं परापकार-फलं सत्याभासं न तु सत्यम् इत्य् आह-एषाइति । तद् यथा सत्य-तपसस् तस्करैः सार्थ-गमनं पृष्टस्य सार्थ-गमनाभिधानमिति । अभिधीयमाना उच्चार्यमाणा । शेषं सुगमम् ।
अभावस्य भावाधीन-निरूपणतया स्तेय-लक्षणम् आह-स्तेयम् अशास्त्र-पूर्वकमिति । विशेषेण सामान्यं लक्ष्यत इत्य् अर्थः । मानस-व्यापार-पूर्वकत्वाद् वाचनिक-कायिक-व्यापारयोः प्राधान्यान् मनो-व्यापार उक्तोऽस्पृहा-रूपमिति ।
ब्रह्मचर्य-स्वरूपम् आह-गुप्तेति । संयतोपस्थोऽपि हि स्त्री-प्रेक्षण-तद्-आलाप-कन्दर्पायतन-तद्-अङ्ग-स्पर्शन-सक्तो न ब्रह्मचर्यवानिति तन्-निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्य् अपि तत्र लोलुपानि रक्षणीयानीति ।
अपरिग्रह-स्वरूपं आह-विषयाणामिति । तत्र सङ्ग-दोष उक्तो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति । हिंसा-लक्षणश् च दोषो नानुपहत्य भूतान्य् उपभोगः सम्भवतीति । अशास्त्रीयाणाम् अयत्नोपनतानाम् अपि विषयाणां निन्दित-प्रतिग्रहादि-रूपार्जन-दोष-दर्शनाच् छास्त्रीयाणं अप्य् उपार्जितानां च रक्षणादि-दोष-दर्शनाद् अस्वीकरणम् अपरिग्रहः ॥३०॥
ते तु-
जाति-देश-काल-समयानवच्छिन्नाः सार्वभौभा महाव्रतम् ॥३१॥
तत्त्व-वैशारदी : सामान्यत उक्ताः । यादृशाः पुनर् योगिनाम् उपादेयास् तादृशान् वक्तुं सूत्रम् अवतारयति-ते त्विति । जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् । सर्वासु जात्य्-आदि-लक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादयैति । अन्यत्राप्य् अवच्छेदे ऊहनीयः । सुगमं भाष्यम् ॥३१॥
शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
तत्त्व-वैशारदी : शौचादि-नियमान् आचष्टे-शौच-सन्तोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥
व्याचष्टे-शौचमिति । आदि-शब्देन गोमयादयो गृह्यन्ते । गोमूत्र-यावकादि मेध्यम्, तस्याभ्यवहरणादि । आदि-शब्दाद् ग्रास-परिमाण-सङ्ख्या-नियमादयो ग्राह्याः । मेध्याभ्यवहरणादि-जनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेत्य् उक्तं, कार्ये कारणोपचारात् । चित्त-मला मद-मानासूयादयः । तद्-अपनयो मनः-शौचम् । प्राण-यात्रा-मात्र-हेतोर् अभ्यधिकस्यानुपादित्सा सन्तोषः । प्राग् एव स्वीकरण-परित्यागादिति विशेषः । काष्ठ-मौनम् इङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । अवचन-मात्रम् आकार-मौनम् ।
परिक्षीण-वितर्क-जालैति । वितर्के वक्ष्यमानः संशय-विपर्ययौ चेति । एतावता शुद्धोऽभिसन्धिर् उक्तः । एते च यम-नियमा विष्णु-पुराणे उक्ताः-
ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्व-मनो नयन् ॥
स्वाध्याय-शौच-सन्तोष-तपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः ।
विशिष्ट-फलदाः काम्या निष्कामाणां विमुक्तिदाः ॥ [वि.पु. ६.७.३६-३८] इति ॥३२॥
एतेषां यम-नियमानां-
वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥
तत्त्व-वैशारदी : श्रेयांसि बहु-विघ्नानीत्य् एषाम् अपवाद-सम्भवे तत्-प्रतीकारोपदेश-परं सूत्रम् अवतारयति-एतेषां यम-नियमानामिति । सूत्रं वितर्केति । भाष्ये नास्ति तिरोहितम् इव किं चन ॥३३॥
वितर्का हिसादयः कृत-कारितानुमोदिता लोभ-क्रोधनोह-पूर्वका मृदु-मव्याधिमात्रा दुःखाः नानन्तफला इति प्रतिपक्षनावनम् ॥३४॥
तत्त्व-वैशारदी : तत्र वितर्काणांस्वरूप-प्रकार-कारण-धर्म-फल-भेदान् प्रतिपक्ष-भावना-विषयान् प्रतिपक्ष-भावना-स्वरूपाभिधित्सया सूत्रेणाह-वितर्केति । व्याचष्टे–तत्र हिंसेति । प्राण-भृद्-भेदस्यापरिसङ्ख्येयत्वान् नियम-विकल्प-समुच्चयाः सम्भव्निओ हिंसादिषु । तत्राधर्मतस् तमः-समुद्रेके सति चतुर्विध-विपर्यय-लक्षणस्याज्ञानस्याप्य् उदय इत्य् अज्ञान-फलत्वम् अप्य् एतेषामिति ।
दुःखाज्ञानानन्त-फलत्वम् एव हि प्रतिपक्ष-भावनं तद्-वशाद् एभ्यो निवृत्तेरितितद् एव प्रतिपक्ष-भावनं स्फोरयति-वध्य् अस्य । पश्चाद् एवार्थं प्रयत्नं काय-व्यापार-हेतुं प्रथमम् आक्षिपति यूपनियोजनेन । तेन हि पशोर् अप्रागल्भ्यं भवति । शेषम् अतिस्फुटम् ॥३४॥
प्रतिपक्ष-भावना-हेतोर् हेया वितर्का यदास्य स्युर् अप्रसव-धर्माणः, तदा तत्-कृतम् ऐश्वर्यं योगिनः सिद्धि-सूचकं भवति । तद् यथा-
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥
तत्त्व-वैशारदी : उक्ता यम-नियमाः । तद् अपवादकानां च वितर्काणां प्रतिपक्ष-भावनातो हानिर् उक्ता । सम्प्रत्य् अप्रत्यूहं यम-नियमाभ्यासात् तत्-तत्-सिद्धि-परिज्ञान-सूचकानि चिह्नान्य् उपन्यस्यति यत् परिज्ञानाद् योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्य् आह-यदेति । अहिंसा-प्रतिष्ठायां तत्-संनिधौ वैर-त्यागः । शाश्वतिक-विरोधा अप्य् अश्वमहिष-मूषक-मार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्ठिताहिंसस्य संनिधानात् तच्-चित्तानुकारिणो वैरं परित्यजन्तीति ॥३५॥
सत्याभ्यासवतः किं भवतीत्याह-सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥
तत्त्व-वैशारदी : सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥क्रिया-साध्यौ धर्माधर्मौ क्रिया । तत्-फलं च स्वर्ग-नरकादिः । ते एवाश्रयतीत्याश्रयः । तस्य भावस् तत्त्वम् । तद् अस्य भगवतो वाचा भवतीति । क्रियाश्रयत्वम् आह-धार्मिकैति । फलाश्रयत्वम् आह–स्वर्गमिति । अमोघा अप्रतिहता ॥३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
तत्त्व-वैशारदी : सुबोधम् ॥३७॥
ब्रह्मचर्य्य प्रतिष्ठायां वीर्य्यलाभः ॥३८॥
तत्त्व-वैशारदी : वीर्यं सामर्थ्यं यस्य लाभाद् अप्रतिघात-प्रतीघातान् गुणान् अन्णिमादीन् उत्कर्षयत्य् उपचिनोति । सिद्धश् च तारादिभिर् अष्टाभिः सिद्धिभिर् ऊहाद्य्-अपर-नामभिर् उपेतो विनेयेषु शिष्येषु ज्ञानं योग-तद्-अङ्ग-विषयम् आधातुं समर्थो भवतीति ॥३८॥
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः॥३९॥
तत्त्व-वैशारदी : अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥ निकाय-विशिष्टैर् देहेन्द्रियादिभिः सम्बन्धो जन्म । तस्य कथन्ता किं-प्रकारता । तस्याः सम्बन्धः साक्षात्कारः । स-प्रकारातीन्द्रय-शान्तोदिताव्यपदेश्य-जन्म-परिज्ञानमिति यावत् ।
अतीतं जिज्ञासते-कोऽहम् आसमिति । तस्यैव प्रकार-भेदम् उत्पादे स्थितौ च जिज्ञासते–कथम् अहम् आसमिति । वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते–किं स्विदिति । शरीरं भौतिकं किं-भूतानां समूह-मात्र-मोहोस्वित्तेभ्योऽन्यदिति । अत्रापि कथं स्विद् इत्य् अनुषञ्जनीयम् । क्वचित् तु पठ्यत एव । अनागतं जिज्ञासते–के वा भविष्यामैति । अत्रापि कथं स्विद् इत्य् अनुषङ्गः
। एवम् अस्येति । पूर्वान्तोऽतीतः कालः परान्तो भविष्यन्-मध्यो वर्तमानस् तेष्व् आत्मनो भावः शरीरादि-सम्बन्धस् तस्मिन् जिज्ञासा, ततश् च ज्ञानम् । यो हि यद् इच्छति स तत् करोतीति न्यायात् ॥३९॥
नियमेषु वक्ष्यामः-
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
तत्त्व-वैशारदी : अनेन बाह्य-शौच-सिद्धि-सूचकं कथितम् ॥४०॥
किं च,
सत्त्वशुद्धि-सौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥
तत्त्व-वैशारदी : अन्तर-शौच-सिद्धि-सूचकम् आह-किं चेति । सत्त्व-शुद्धि-सौमनस्य इकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानि च ॥ चित्त-मलानाम् आक्षालनं चित्त-सत्त्वम् अमलं प्रादुर्भवति । वैमल्यात् सौमनस्य स्वच्छता । स्वच्छं तद्-ऐकाग्र्यम् । ततो मनस्-तन्त्राणाम् इन्द्रियाणां तज्-जयाज् जयः । तत आत्म-दर्शन-योग्यत्वं बुद्धि-सत्त्वस्य भवतीति ॥४१॥
सन्तोषादनुत्तमः सुखलाभः ॥४२॥
तत्त्व-वैशारदी : सन्तोषाद् अनुत्तमः सुख-लाभः ॥ न विद्यतेऽस्माद् उत्तम इत्य् अनुत्तमः । यथा चोक्तं यतातिना पुरौ यौवनम् अर्पयता-
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यताम् ।
ता तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ॥िति ।
तद् एतद् दर्शयति-यच् च काम-सुखम् लोक इत्य्-आदिना ॥४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥
तत्त्व-वैशारदी : तपः-सिद्धि-सूचकम् आह-कायेन्द्रिय-सिद्धिर् अशुद्ध-क्षयात् तपसः॥ अशुद्ध्-लक्षणम् आवरणं तामसम् अधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश् च । सुगमम् ॥४३॥
स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥४४॥
तत्त्व-वैशारदी : स्वाध्याय-सिद्धि-सूचकम् आह-स्वाध्यायाद् इष्ट-देवता-संप्रयोगः॥ सुगमम् ॥४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥
तत्त्व-वैशारदी : समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥ न च वाच्यम् ईश्वर-प्रणिधानाद् एव चेत् सम्प्रज्ञातस्य समाधेर् अङ्गिनः सिद्धिः कृतं सप्तभिर् अङ्गैरिति । ईश्वर -प्रणिधान-सिद्धौ दृष्टादृष्टावान्तर-व्यापारेण तेषाम् उपयोगात् । सम्प्रज्ञात-सिद्धौ च सम्प्रयोग-पृथक्त्वेन दद्न इव क्रत्व्-अर्थता पुरुषार्थता च । न चैवम् अनन्तरङ्गता, धारणा-ध्यान-समाधीनां सम्प्रज्ञात-सिद्धौ, सम्प्रज्ञात-समान-गोचरतयाङ्गान्तरेभ्योऽतद्-गोचरेभ्योऽस्थान्तरङ्गत्व-प्रतीतेः । ईश्वर-प्रणिधानम् अपि हीश्वर-गोचरं न सम्प्रज्ञेय-गोचरमिति बहिरङ्गमितिसर्वम् अवदातम् । प्रजानातीति प्रज्ञा-पद-व्युत्पत्तिर् दर्शिता ॥४५॥
उत्काः सह सिद्धिभिर् यम-नियमाः । आसनादीनि वक्ष्यामः । तत्र-
स्थिरसुखमासनम् ॥४६॥
तत्त्व-वैशारदी :ुत्तर-सूत्रम् अवतारयति-उक्ताः सह सिद्धिभिर् यम-नियमाः । आसनादीनि वक्ष्यामः ।िति । तत्रस्थिर-सुखम् आसनम् । स्थिरं निश्चलं यत् सुखं सुखावहं तद् आसनमिति सूत्रार्थः । आस्यतेऽत्र आस्ते वानेनेत्य् आसनम् ।
तस्य प्रभेदान् आह-तद् यथेति । पद्मासनं प्रसिद्धम् । स्थितस्य इकतराः पादो भू-न्यस्त एकतरश् चाकुञ्चित-जानोर् उपरि न्यस्त इत्य् एतद् वीरासनम् । पाद-तले वृषण-समीपे सम्पुटीकृत्य तस्योपरि पाणि-कच्छपिकां कुर्यात् तद् भद्रासनम् । सव्यम् आकुञ्चितं चरणं दक्षिण-जङ्घोर् वन्तरे निक्षिपेत्, दक्षिणं चाकुञ्चितं चरणं वाम-जङ्घोर् वन्तरे निक्षिपेत्, एतत् स्वस्तिकम् । उपविश्य श्लिष्टाङ्गुलिकौ श्लिष्ट-गुल्फौ भूमि-श्लिष्ट-जङ्घोरु-पादौ प्रसार्य दण्डासनम् अभ्यसेत्। योग-पट्टक-योगात् सोपाश्रयम् । जानु-प्रसारित-बाहोः शयनं पर्यङ्कः । क्रौञ्च-निषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थान-दर्शनात् प्रत्येतव्यानि । पार्ष्णि-
पादाग्राभ्यां द्वयोर् आकुञ्चितयोर् अन्योन्य-सम्पीडनं सम-संस्थानम् । येन संस्थानेनावस्थितस्य स्थैर्यं सुखं च सिध्यति तद् आसनं स्थिर-सुखम् । तद् एतत् तव भगवतः सूत्रकारस्य संमतम् । तस्य विवरणं-यथा-सुखं चेति ॥४६॥
प्रयत्नशैथिल्यानन्त्य’समापत्तिभ्याम् ॥४७॥
तत्त्व-वैशारदी : आसन-स्वरूपम् उक्त्वा तत्-साधनम् आह-प्रयत्न-शैथिल्यानन्त-समापत्तिभ्याम् ॥ स सांसिद्धिको हि प्रयत्नः शरीर-धारको न योगाङ्गस्योपदेष्टाव्यासनस्य कारणम् । तस्य तत्-कारणत्व उपदेश-वैयर्थ्यात् स्वरसत एव तत्-सिद्धेः । तस्माद् उपदेष्टव्यस्यासनस्यायम् असाधको विरोधी च स्वाभाविकः प्रयत्नः । तस्य च यादृच्छिकासन-हेतुतयासन-नियमोपहन्तृत्वात् । तस्माद् उपदिष्ट-नियमासनम् अभ्य् अस्य ता स्वाभाविक-प्रयत्न-शैथिल्यात्मा प्रयत्न आस्थेयो नान्यथोपदिष्टम् आसनं सिध्यतीति स्वाभाविक-प्रयत्न-शैथिल्यम् आसन-सिद्धि-हेतुः । अनन्ते वा नाग-नायके स्थिरतर-फणासहस्र-विधृत-विश्वंभरामण्डले समापन्नं चित्तम् आसनं निर्वर्तयतीति ॥४७॥
ततो द्वन्द्वानभिघातः ॥४८॥
तत्त्व-वैशारदी : आसन-विजय-सूचकम् आह-ततो द्वन्द्वानभिघातः । निगद-व्याख्यातं भाष्यम् । आसनम् अप्य् उक्ते विष्णु-पुराणे–एवं भद्रासनादीनां समास्थाय गुणैर् युतं [वि.पु. ६.७.३९] इति ॥४८॥
तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥
तत्त्व-वैशारदी : आसनानन्तरं तत्-पूर्वकता प्राणायामस्य दर्शयंस् तल्-लक्षणम् आह-तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः । रेचक-पूरक-कुम्भकेष्व् अस्ति श्वास-प्रश्वासयोर् गति-विच्छेदैति प्राणायाम-सामान्य-लक्षणम् एतदिति । तथा हि–यत्र बाह्यो वायुर् आचम्यान्तर् धार्यते पूरके तन् नास्ति श्वास-प्रश्वासयोर् गति-विच्छेदः । यत्रापि कौष्ठ्यो वायुर् विरेच्य बहिर् धार्यते रेचके तत्रास्ति श्वास-प्रश्वासयोर् गति-विच्छेदः । एवं कुम्भकेऽपीति । तद् एतद् भास्ञेणोच्यते–सत्य् आसन-जयैति ॥४९॥
स तु-
स तु बाह्याभ्यन्तरस्तम्भवृत्ति देशकालसङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥५०॥
तत्त्व-वैशारदी : प्राणायाम-विशेष-त्रय-लक्षण-परं सूत्रम् अवतारयति-स त्विति । बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् देश-काल-सङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः । वृत्ति-शब्दः प्रत्येकं सम्बध्यते ।
रेचकम् आह-यत्र प्रश्वासेति । पूरकम् आह–यत्र श्वासेति । कुम्भकम् आह–तृतीयैति । तद् एव स्फुटयति–यत्रोभयोः श्वास-प्रश्वासयोः सकृद् एव विधारात् प्रयत्नाद् अभावो भवति, न पुनः पूर्ववद् आपूरण-प्रयत्नौघ-विधारक-प्रयत्नो नापि रेचक-प्रयत्नौघ-विधारक-प्रयत्नोऽपेक्ष्यते, किं तु यथा तत उपले निहितंजलं परिशुष्यत् सर्वतः सङ्कोचम् आपद्यत एवम् अयम् अपि मारुतो वहन-शीलो बलवद् विधारक-प्रयत्न-निरुद्ध-क्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते, न तु पूरयति येन पूरकः । न तु रेचयति येन रेचकैति ।
इयान् अस्य देशो विषयः प्रादेश-वितस्ति-हस्तादि-परिमितो निवात-प्रदेश ईषीका-तूलादि-क्रियानुमितो बाह्यः । एवम् आन्तरोऽप्य् आ-पाद-तलम् आ-मस्तकं पिपीलिका-स्पर्श-सदृशेनानुमितः स्पर्शेन । निमेष-क्रियावच् छिन्नस्य कालस्य चतुर्थो भागः क्षणः । तेषाम् इयत्तावधारणेनावच्छिन्नः । स्व-जानु-मण्डलं पाणिना त्रिः परामृश्यच्-छोटिकावच्छिन्नः कालो मात्रा । ताभिः षट्-त्रिंशन्-मात्राभिः परिमितः प्रथम उद्भातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यः । स एव त्रिगुणीकृतस् तृतीयस् तीव्रः ।
तम् इमं सङ्ख्या-परिदृष्टं प्राणायामम् आह-सङ्ख्याभिरिति । स्वस्थस्य हि पुंसः श्वास-प्रश्वास-क्रियावच्छिन्नेन कालेन यथोक्त-च्छोटिका-कालः समानः प्रथमाद्धात-कर्मतां नीत उद्धातो विजितो वशीकृतो निगृहीतः । क्षणानाम् इयत्ता-कालो विवक्षितः, श्वास-प्रश्वास-प्रचयोपपन्ना तु सङ्ख्येति कथञ्चिद् भेदः । स खल्व् अयं प्रत्यहम् अभ्यस्तो दिवस-पक्षम् आसादि-क्रमेण देश-काल-प्रचय-व्यापितया दीर्घः । परम-नैपुण्य-समधिगमनीयतया च सूक्ष्मो, न तु मन्दतया ॥५०॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥
तत्त्व-वैशारदी : एवं त्रयो विशेषा लक्षिताः । चतुर्थं लक्षयति-बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥व्याचष्टे–देश-काल-सङ्ख्याभिरिति । आक्षिप्तोऽभ्यास-वशीकृताद् रूपाद् अवरोपितः । सोऽपि दीर्घ-सूक्ष्मः । एवं तत्-पूर्वकोबाह्याभ्यन्तर-विषय-प्राणायामो देश-काल-सङ्ख्या-दर्शन-पूर्वकः । न चासौ चतुर्थस् तृतीय इव सकृत् प्रयत्नाद् अह्नाय जायते, किं त्व् अभ्यस्यमानस् तां ताम् अवस्थाम् आपन्नस् तत्-तद्-अवस्था-विजयानुक्रमेण भवतीत्य् आह-भूमि-जयादिति ।
ननु उभयोर् गत्य्-अभावः स्तम्भ-वृत्ताव् अप्य् अस्तीति कोऽस्माद् अस्य विशेष इत्य् अत आह-तृतीयैति । अनालोचन-पूर्वः सकृत् प्रयत्न-निर्वर्तितस् तृतीयः । चतुर्थस् त्व् आलोचन-पूर्वो बहु-प्रयत्न-निर्वर्तनीयैति विशेषः । तयोः पूरक-रेचकयोर् विषयोऽनालोचितोऽयं तु देश-काल-सङ्ख्याभिर् आलोचित इत्य् अर्थः ॥५१॥
ततः क्षीयते प्रकाशावरणम् ॥५२॥
तत्त्व-वैशारदी : प्राणायामस्यावान्तर-प्रयोजनम् आह-ततः क्षीयते प्रकाशावरणम् ॥ आव्रियतेऽनेन बुद्धि-सत्त्व-प्रकाश इत्य् आवरणं क्लेशः पाप्मा च । व्याचष्टे–प्राणायामानिति ।ज्ञायतेऽनेनेति ज्ञानं बुद्धि-सत्त्व-प्रकाशः । विवेकस्य ज्ञानं विवेक-ज्ञानम् । स हि विवेक-ज्ञानम् आवृणोतीति विवेक-ज्ञानावरणीयम् । भव्य-गेय-प्रवचनीयादीनां कर्तरि निपातनस्य प्रदर्शनार्थत्वात् कोपनीय-रञ्जनीयवद् अत्रापि कर्तरि कृत्य-प्रत्ययः । कर्म-शब्देन तज्-जन्यम् अपुण्यं तत्-कारणं च क्लेशं लक्षयति ।
अत्रैवागमिनाम् अनुमतिम् आह-यत् तद् आचक्षतैति । महा-मोहो रागः । तद् अविनिर्भाग-वर्तिन्य् अविद्यापि तद्-ग्रहणेन गृह्यते । अकार्यम् अधर्मः ।
ननु प्राणायाम एव चेत् पाप्मानं क्षिणोति कृतं तर्हि तपसेत्य् अत आह-दुर्बलं भवतिइति । न तु सर्वथा क्षीयते । अतस् तत्-प्रक्षयाय तपोऽपेक्ष्यतैति । अत्राप्य् आगमिनाम् अनुमतिम् आह–तथा चोक्तमिति । मनुर् अप्य् आह–प्राणायामैर् दहेद् दोषानिति । प्राणायामस्य योगाङ्गता विष्णु-पुराणे उक्ता–
प्राणाख्यमनिलंवश्यमभ्यासात्कुरुतेतुयत्।
प्राणायामःसविज्ञेयःसबीजोऽबीजएवच॥
परस्परेणाभिभवंप्राणापानौयथानिलौ।
कुरुतः सद्-विधानेन तृतीयः संयमात् तयोः ॥ [वि.पु. ६.७.४०-४१] ॥५२॥
धारणासु च योग्यता मनसः ॥५३॥
तत्त्व-वैशारदी : किं च, धारणासु च योग्यता मनसः ॥ प्राणायामो मनः स्थिरीकुर्वन् धारणासु योग्यं करोति ॥५३॥
स्व-स्व-विषयासंप्रयोगे चित्तस्य –
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥
तत्त्व-वैशारदी :तद् एवं यमादिभिः संस्कृतः संयमाय प्रत्याहारम् आरभते । तस्य लक्षण-सूत्रम् अवतारयितुं पृच्छति-अथेति । स्व-स्व-विषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ चित्तम् अपि हि मोहनीय-रञ्जनीय-कोपनीयैः शब्दादिभिर् विषयैर् न सम्प्रयुज्यते, तद् असम्प्रयोगाच् चक्षुर्-आदीन्य् अपि न सम्प्रयुज्यन्तैति सोऽयं इन्द्रियाणां चित्त-स्वरूपानुकारः । यत् पुनस् तत्त्वं चित्तम् अभिनिविशते न तद् इन्द्रियाणां बाह्य-विषयानां अनुकारोऽपि । अत उक्तम् अनुकार इवेति ।
स्व-विषय-संप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकार-निमित्तत्वं सप्तम्या दर्शयति-स्वेति । अनुकारं विवृणोति–चित्त-निरोधेइति । द्वयोर् निरोध-हेतुश् च प्रयत्न-तुल्यैति सादृश्यम् । अत्रैव दृष्टान्तम् आह–यथा मधुकर-राजंिति । दार्ष्टान्तिके योजयति–तथेति । अत्रापि विष्णु-पुराण-वाक्यम्–
शब्दादिष्वनुरक्तानिनिगृह्याक्षाणियोगवित्।
कुर्याच् चित्तानुकारीणि प्रत्याहार-परायणः ॥ [वि.पु. ६.७.४३]
तस्यप्रयोजनंतत्रैवदर्शितम्-
वश्यतापरमातेनजायतेऽतिचलात्मनाम्।
इन्द्रियाणामवश्यैस्तैर्नयोगीयोग-साधकः॥ [वि.पु. ६.७.४४] इति ॥५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥
तत्त्व-वैशारदी : अस्यानुवादकं सूत्रं-ततः परमा वश्यतेन्द्रियाणाम् ॥
ननु सन्ति किम् अन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयम् उच्यते ? अद्धा । तां दर्शयति-शब्दादिष्विति । एतद् एव विवृणोति–सक्तिरिति । सक्ती रागो व्यसनम् । कया व्युत्पत्त्या ? व्यस्यतिइति ।व्यस्यति क्षिपति निरस्यत्य् एनं श्रेयसैति। तद्-अभावोऽव्यसनं वश्यता ।
अपराम् अपि वश्यताम् आह-अविरुद्धाइति । श्रुत्य्-आद्य्-अविरुद्ध-शब्दादि-सेवनं तद्-विरुद्धेष्व् अप्रवृत्तिः । सैव न्याय्या, न्यायाद् अनपेता यतः ।
अपराम् अपि वश्यताम् आह-शब्दादि-सम्प्रयोगैति । शब्दादिषु इन्द्रियाणां सम्प्रयोगः स्वेच्छया, भोग्येषु खल्व् अयं स्वतन्त्रो न भोग्य-तन्त्र इत्य् अर्थः ।
अपराम् अपि वश्यताम् आह-राग-द्वेषाभावेइति । राग-द्वेषाभावे सुख-दुःख-शून्यंमाध्यस्थ्येन शब्दादि-ज्ञानम् इत्य् एके ।
सूत्रकाराभिमतां वश्यतां परमर्षि-संमताम् आह-चित्तैकाग्र्य चित्तस्यैकाग्र्यात् सहेन्द्रियैर् अप्रवृत्तिर् एव शब्दादिषितिजैगीषव्यः । अस्याः परमताम् आह–परमा त्विति । तु-शब्दो वश्यतान्तरेभ्यो विशिनष्टि ।
वश्यतान्तराणि हि विषयाशीर्-विष-सम्प्रयोग-शालितया क्लेश-विष-सम्पर्क-शङ्कां नापक्रामन्ति । न हि विष-विद्यावित् प्रकृष्टोऽपि वशीकृत-भुजङ्गमो भुजङ्गमम् अङ्के निधाय स्वप् इति विश्रब्धः । इयं तु वश्यता विदूरीकृत-निखिल-विषय-व्यतिषङ्गा निराशङ्गतया परमेत्य् उच्यते । नेतरेन्द्रिय-जयवतिति । यथा यतमान-संज्ञायाम् एकेन्द्रिय-जयेऽपीन्द्रियान्तर-जयाय प्रयत्नान्तरम् अपेक्ष्यते, न चैवं चित्त-निरोधे बाह्येन्द्रिय-निरोधाय प्रयत्नान्तरापेक्षेत्य् अर्थः ॥५५॥
क्रिया-योगं जगौ क्लेशान् विपाकान् कर्मणाम् इह ।
तद् दुःखत्वं तथा व्यूहान् पादे योगस्य पञ्चकम् ॥िति ।
इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायांतत्त्व-वैशारद्यां द्वितीयः साधन-पादः ॥२॥

Share This
Share this post with your friends!