
Vachaspati Mishra and Tattvavaisharadi
Chapter 3
अथ विभूतिपादः
उक्तानि पञ्चबहिर्-अङ्गाणि साधनानि । धारणा वक्तव्या-
देशबन्धश्चित्तस्य धारणा ॥१॥
तत्त्व-वैशारदी : प्रथम-द्वितीय-पादाभ्यां समाधिस् तत्-साधनं चोक्तम् । तृतीय-पादे तत्-वृत्त्य्-अनुगुणाः श्रद्धोत्पाद-हेतवो विभूतयो वक्तव्याः । ताश् च संयम-साध्याः । संयमश् च धारणा-ध्यान-समाधि-समुदायैति विभूति-साधनतया विशेष-ज्ञापनार्थम् अत्र त्रयस्योपन्यासः । तत्रापि च धारणा-ध्यान-समाधीनां कार्य-कारण-भावेन नियत-पौर्वापर्यत्वात् तद्-अनुरोधेनोपन्यास-क्रमैतिप्रथमं धारणा लक्षणीयेत्य् आह-उक्तानीति । देश-बन्धश् चित्तस्य धारणा ॥ बन्धः सम्बन्धः ।
आध्यात्मिक-देशम् आह-नाभि-चक्रेइति । आदि-शब्देन ताल्व्-आदयो ग्राह्याः । बाह्य-देशम् आह–बाह्यैति । बाह्ये च न स्वरूपेण चित्तस्य सम्बन्धः सम्भवतीत्य् उक्तं वृत्ति-मात्रेण ज्ञान-मात्रेणेत्य् अर्थः । अत्रापि पुराणं–
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
वशीकृत्य ततः कुर्याच् चित्त-स्थानं शुभाश्रये ॥ [वि.पु. ६.७.४५]
शुभाश्रया बाह्या हिरण्यगर्भ-वासव-प्रजापति-प्रभृतयः । इदं च तत्रोक्तम्-
मूर्तं भगवतो रूपं सर्वोपाश्रय-निःस्पृहम् ।
एषा वै धारणा ज्ञेया यच् चित्तं तत्र वार्यते ॥७८॥
तच् च मूर्तं हरे रूपं यद् विचिन्त्यं नराधिप ।
तच् छ्रूयताम् अनाधारे धारणा नोपपद्यते ॥७९॥
प्रसन्न-वदनं चारु-पद्म-पत्र-निभेक्षणम् ।
सुकपोलं सुविस्तीर्ण-ललाट-फलकोज्ज्वलम् ॥८०॥
सम-कर्णान्त-विन्यस्त-चारु-कुण्डल-भूषणम् ।
कम्बु-ग्रीवं सुविस्तीर्ण-श्रीवत्साङ्कित-वक्षसम् ॥८१॥
बलि-त्रिभङ्गिना मग्न-नाभिना चोदरेण च ।
प्रलम्बाष्ट-भुजं विष्णुम् अथवापि चतुर्भुजम् ॥८२॥
सम-स्थितोरु-जङ्घं च स्वस्तिकाङ्घ्रि-कराम्बुजम् ।
चिन्तयेद् ब्रह्म-भूतं तं पीत-निर्मल-वाससम् ॥
किरीट-चारु-केयूर-कटकादि-विभूषितम् ।
शार्ङ्ग-चक्र-गदा-खड्ग-शङ्खाक्ष-वलयान्वितम् ॥
चिन्तयेत् तन्मयो योगो समाधायात्म-मानसम् ।
तावद् यावद् दृढीभूता तत्रैव नृप धारणा ।
एतद् आतिष्ठतोऽन्यद् वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा ॥ [वि.पु. ६.७.७८-८६] इति ।
धारणामभिधाय ध्यानमभिधातुमाह-
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
तत्त्व-वैशारदी : धारणा-साध्यं ध्यानं लक्षयति-तत्र प्रत्ययैक-तानता ध्यानम् ॥ एकतानतैकाग्रता । सुगमं भाष्यम् । अत्रापि पुराणम्–
तद्-रूप-प्रत्यया चैका सन्ततिश् चान्य-निःस्पृहा ।
तद्-ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप ॥ [वि.पु. ६.५.९१] इति ॥२॥
चरमयोगाङ्गं समाधिमाह-
तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
तत्त्व-वैशारदी : ध्यान-साध्यं समाधिं लक्षयति-तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥ व्याचष्टे–ध्यानम् एवेति । ध्येयाकार-निर्भासमिति । ध्येयाकारस्यैव निर्भासो न ध्यानाकारस्येति । अत एवाह–शून्यमिति ।
ननु शून्यं चेत् कथं ध्येयं प्रकाशेतेत्य् अत आह-इवेति । अत्रैव हेतुम् आह–ध्येय-स्वभावावेशादिति । अत्रापि पुराणं–
तस्यैव कल्पना-हीनं स्वरूप-ग्रहणं हि यत् ।
मनसा ध्यान-निष्पाद्यं समाधिः सोऽभिधीयते ॥ [वि.पु. ६.७.९२] इति ।
ध्येयाद् ध्यानस्य भेदः कल्पना, तद्-धीनम् इत्य् अर्थः । अष्टाङ्ग-योगम् उक्त्वा खाण्डिक्याय केशि-ध्वज उपसञ्जहार-
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्ति-कार्यं वै कृत-कृत्यो निवर्तते ॥ [वि.पु. ६.७.९४] इति ॥३॥
तद् एतद् धारणा-ध्यान-समाधि-त्रयम् एकत्र संयमः-
त्रयमेकत्र संयमः ॥४॥
तत्त्व-वैशारदी : धारणा ध्यानं समाधिर् इत्य् एतत् त्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्विक-संज्ञोच्चारणे गौरवं स्यादिति लाघवार्थं परिभाषा-सूत्रम् अवतारयति-त्रयम् एकत्र संयमःिति । व्याचष्टे–एक-विषयाणीति । वाचकत्व-शङ्काम् अपनयति–तद् अस्येति । तन्त्र्यते व्युत्पाद्यते योगो येनशास्त्रेण तत् तन्त्रम् । तद्-भवा तान्त्रिकी । संयम-प्रदेशाः परिणाम-त्रय-संयमात् इत्य् एवम् – आदयः ॥४॥
तस्य फलमाह-
तज्जयात् प्रज्ञालोकः ॥५॥
तत्त्व-वैशारदी : संयम-विजयस्याभ्यास-साधनस्य फलम् आह-तज्-जयात् प्रज्ञालोकः॥ प्रत्ययान्तरान् अभिभूतस्य निर्मल-प्रवाहेऽवस्थानम् आलोकः प्रज्ञायाः । सुगमं भाष्यम् ॥५॥
तस्योपयोगमाह-
तस्य भूमिषु विनियोगः ॥६॥
तत्त्व-वैशारदी : क्व पुनर् विनियुक्तस्य संयमस्य फलम् एतद् इत्य् अत आह-तस्य भूमिषु विनियोगः । भूमविशेषयति भाष्यकरः–तस्येति । जिताया भूमेर् यानन्तरा भूमिर् अवस्थाजिता तत्र विनियोगः । स्थूल-विषये स-वितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनियोगः । तस्मिन्न् अपि वशीकृते सविचारे विनियोगः । एवं निर्विचारे विनियोगः इत्य् अर्थः । अत एव स्थूल-विषय-समापत्ति-सिद्धौ सत्यां पुराणे तत्-तद्-आयुध-भूषणापनयेन सूक्ष्म-विषयः समाधिर् अवतारितः–
ततः शङ्ख-गदा-चक्र-शार्ङ्गादि-रहितं बुधः ।
चिन्तयेद् भगवद्-रूपं प्रशान्तं साक्ष-सूत्रकम् ॥८८॥
सा यदा धारणा तद्वद् अवस्थानवती ततः ।
किरीट-केयूर-मुखैर् भूषणै रहितं स्मरेत् ॥८९॥
तद्-एकावयवं देवं चेतसा हि पुनर् बुधः ।
कुर्यात् ततोऽवयविनि प्रणिधान-परो भवेत् ॥९०॥ [वि.पु. ६.७.८८-९०]
कस्मात् पुनर् अधरां भूमिं विजित्योत्तरां विजयते, विपर्ययः कस्मान् नभवति ? इत्य् अत आह-न ह्य् अजिताधर-भूमिरिति । न हि शिला-ह्रदाद् गङ्गां प्रति प्रस्थितोऽप्राप्य मेघ-वनं गङ्गां प्राप्नोति । ईश्वर-प्रसादाज् जितोत्तर-भूमिकस्यचेति। कस्मात् ? तद्-अर्थस्योत्तर-भूमि-विजितस्य प्रत्यासन्नस्यान्यत एवेश्वर-प्रणिधानाद् एवावगतत्वात् । निष्पादित-क्रिये कर्मण्य् अविशेषाधायिनः साधनस्यासाधन-नयायातिपातादिति ।
स्याद् एतत्-आगमतः सामान्यतोऽवगतानाम् अप्य् अवान्तर-भूमि-भेदानां कुतः पौर्वापर्यावगतिः ? इत्य् अत आह-भूमेर् अस्याइति । जितः पूर्वो योग उत्तरस्य योगस्य ज्ञान-प्रवृत्त्य्-अधिगम-हेतुः । अवस्थैवावस्थावान् इत्य् अभिप्रेत्यैतद् द्रष्टव्यम् ॥६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
तत्त्व-वैशारदी : कस्मात् पुनर् योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चानाम् इत्य् अत आह—त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ तद् इदं साधन-त्रयं साध्य-समान-विषयत्वेनान्तरङ्गम् । न त्व् एवं यमादयः । तस्मात् ते बहिरङ्गा इत्य् अर्थः ॥७॥
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
तत्त्व-वैशारदी : साधन-त्रयस्य सम्प्रज्ञात एवान्तरङ्गत्वं, न त्व् असम्प्रज्ञाते, तस्य निर्बीजतया तैः सह समान-विषयत्वाभावात् तेषु चिर-निरुद्धेषु सम्प्रज्ञात-परम-काष्ठा-पर-नाम-ज्ञान-प्रसाद-रूप-पर-वैराग्यानन्तरम् उत्पादाच् चेत्य् आह—तद् अपि बहिरङ्गं निर्बीजस्य ॥
समान-विषयत्वम् अन्तरङ्ग-प्रयोजकम् इह, न तु तद्-अनन्तर-भावस् तस्य बहिरङ्गेश्वर-प्रणिधान-वर्तितया स-व्यभिचारित्वादितिस्थिते स-व्यभिचारम् अप्य् अन्तरङ्ग-लक्षणं तद्-अनन्तर-भावित्वम् अस्यनास्ति । तस्माद् दूरापेतान्तरङ्गता संयमस्यासम्प्रज्ञातैति दर्शयित्वातद्-अभावे भावादित्य् उक्तम् ॥८॥
व्युत्थाननिरोधसंस्कारयोरभिभव प्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
तत्त्व-वैशारदी : परिणाम-त्रय-संयमाद् इत्य् अत्रोपयोक्ष्यमाण-परिणाम-त्रयं प्रतिपिपादयिषुर् निर्बीज-प्रसङ्गेन पृच्छति-अथैति । व्युत्थान-सम्प्रज्ञातयोश् चित्तस्य स्फुटतर-परिणाम-भेद-प्रचयानुभवान् न प्रश्नावतारः । निरोधे तु नानुभूयते परिणामः । न चाननुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेनगुणानां क्षणम् अप्य् अपरिणामस्यासम्भवाद् इत्य् अर्थः ।
प्रश्नोत्तरं सूत्रं-चित्तान्वयो निरोध-परिणामः ॥
असम्प्रज्ञातंसमाधिम् अपेक्ष्य सम्प्रज्ञातो व्युत्थानम् । निरुद्ध्यतेऽनेनेति निरोधो ज्ञान-प्रसादः परं वैराग्यम् । तयोर् व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ । तत्र व्युत्थान-संस्कारस्याभिभवो निरोध-संस्कारस्याविर्भावश् चित्तस्य धर्मिणो निरोध-क्षणस्य निरोधावसरस्य द्वयोर् अवस्थयोर् अन्वयः ।न हि चित्तं धर्मि सम्प्रज्ञातावस्थायाम् असम्प्रज्ञातावस्थायां च संस्काराभिभव-प्रादुर्भावयोः स्वरूपेण भिद्यतैति ।
ननु यथोत्तरे क्लेशा अविद्या-मूला अविद्या-निवृत्तौ निवर्तन्तैति न तन्-निवृत्तौ पृथक् प्रयत्नान्तरम् आस्थीयते । एवं व्युत्थान-प्रत्यय-मूलाः संस्कारा व्युत्थान-निवृत्ताव् एव निवर्तन्तैति तन्-निवृत्तौ न निरोध-संस्कारोऽपेक्षितव्य इत्य् अत आह-व्युत्थान-संस्काराइति ।
न कारण-मात्र-निवृत्तिः कार्य-निवृत्ति-हेतुः । मा भूत् कुविन्द-निवृत्ताव् अपि पटस्य निवृत्तिः । अपि तु यत् कारणात्मकं यत् कार्यं तत्-कारण-निवृत्तौ तत्-कार्य-निवृत्तिः । उत्तरे च क्लेशा अविद्यात्मान इत्य् उक्तम् । अतस् तन्-निवृत्तौ तेषां निवृत्तिर् उपपन्ना । न त्व् एवं प्रत्ययात्मानः संस्काराः, चिर-निरुद्धे प्रत्यये सम्प्रति स्मरण-दर्शनात् । तस्मात् प्रत्यय-निवृत्ताव् अपि तन्-निवृत्तौ निरोध-संस्कार-प्रचय एवोपासनीय इत्य् अर्थः । सुगमम् अन्यत् ॥९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
तत्त्व-वैशारदी : सर्वथा व्युत्थान-संस्काराभिभवे तु बलवता निरोध-संस्कारेण चित्तस्य कीदृशः परिणामः ? इत्य् अत आह-तस्य प्रशान्त-वाहिता संस्कारात् ॥ व्युत्थान-संस्कार-मल-रहित-निरोध-संस्कार-परम्परा-मात्र-वाहिता प्रशान्त-वाहिता । कस्मात् ? पुनः संस्कार-पाटवम् अपेक्षते, न तु संस्कार-मात्रम् इत्य् अत आह-तत्-संस्कार-मान्द्येइति । तदिति निरोधं परामृशति । ये तु नाभिभूयैति पठन्ति, ते तदा व्युत्थानं परामृशन्ति ॥१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
तत्त्व-वैशारदी : सम्प्रज्ञात-समाधि-परिणामावस्थां चित्तस्य दर्शयति-सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥विक्षिप्तता सर्वार्थता। सन्न विनश्यतीति क्षयस् तिरोभावः । नासद् उत्पद्यते इत्य् उदय आविर्भावः । आत्म-भूतयोः सर्वार्थतैकाग्रतयोर् धर्मयोर् याव् अपायोपजननौसर्वार्थताया अपाय एकाग्रताया उपजनस् तयोर् अनुगतं चित्तं समाधीयते, पूर्वापरीभूत-साध्यमान-समाधि-विशेषणंभवतीति ॥११॥
शान्तोदित तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
तत्त्व-वैशारदी : ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्य इकाग्रता-परिणामः ॥ततः पुनः समाधेः पूर्वापरीभूताया अवस्थायाःसमाधि-निष्पत्तौ सत्यां शान्तोदितावस्तीत-वर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्य-प्रत्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहित-चित्तस्यैतिसमाधि-निष्पत्तिर् दर्शिता । तथैवैकाग्रम् एव । अवधिम् आह-आ समाधि-भ्रेषादिति। भ्रंषाद् इति ॥१२॥
एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्थापरिणामाव्याख्याताः ॥१३॥
तत्त्व-वैशारदी :प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रिय-परिणामं विभजते-एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥
व्याचष्टे-एतेनैति । ननु चित्त-परिणति-मात्रम् उक्तम्, न तु तत्-प्रकारा धर्म-लक्षणावस्था-परिणामाः, तत् कथं तेषाम् अतिदेशः ? इत्य् अत आह-तत्र व्युत्थान-निरोधयोरिति । धर्म-लक्षणावस्था-शब्दाः परं नोच्चारिताः । न तु धर्म-लक्षणावस्था-परिणामा नोक्ताइति संक्षेपार्थः । तथा हि व्युत्थान-निरोध-संस्कारयोर् इत्य् अत्रैव सूत्रे धर्म-परिणाम उक्तः । इमं च धर्म-परिणामं दर्शयता तेनैव धर्माधिकरणो लक्षण-परिणामोऽपि सूचित एवेत्य् आह-लक्षण-परिणामैति । लक्ष्यतेऽनेनेति लक्षणं काल-भेदः । तेन हि लक्षितं वस्तु वस्त्व्-अन्तरेभ्यः कालान्तर-युक्तेभ्यो व्यवस्थितैति ।
अस्यैव व्याख्यानं त्रिभिर् अध्वभिर् युक्तः । अध्व-शब्दः काल-वचनः । स खल्व् अनागत-लक्षणम् अध्वानं प्रथमं हित्वा, तत् किम् अध्ववत् धर्मत्वम् अप्य् अतिपतति । नेत्य् आह-धर्मत्वम् अनतिक्रान्तो वर्तमानं लक्षणं प्रतिपन्नैति । य एव निरोधोऽनागत आसीत् स एव सम्प्रति वर्तमानो न तु निरोधोऽनिरोध इत्य् अर्थः । वर्तमानता-स्वरूप-व्याख्यानं-यत्रास्य स्वरूपेण स्वोचितार्थ-क्रिया-करण-स्वरूपेण अभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथमम् अनागतम् अध्वानम् अपेक्ष्य द्वितीयोऽध्वा । स्याद् एतत्, अनागतम् अध्वानं हित्वा चेद् वर्तमानताम् आपन्नस् तां च हित्वाऽतीतताम् आपत्स्यते ।
हन्त भोर् अध्वनाम् उत्पत्ति-विनाशौ स्यातां न चेष्येते न ह्य् असत उत्पादो नापि सतो विनाश इत्य् अत आह-न चैति । न चातीतानागताभ्यां सामान्यात्मनाऽवस्थिताभ्यां वियुक्त इत्य् अर्थः । अनागतस्य निरोधस्य वर्तमानता-लक्षणं दर्शयित्वा वर्तमान-व्युत्थानस्यातीततां तृतीयम् अध्वानम् आह-तथा व्युत्थानमिति । तत् किं निरोध एवानागतो न व्युत्थानम् ? नेत्य् आह-पुनर् व्युत्थानमिति। व्युत्थान-जात्य्-अपेक्षया पुनर् भावो न व्यक्त्य्-अपेक्षया । न ह्य् अतीतं प्नुर् भवतीति स्वरूपाभिव्यक्तिर् अर्थ-क्रिया-क्षमस्याविर्भावः । स चैवं लक्षण-परिणाम उक्तस् तज्-जातीयेषु पौनःपुण्येन वर्तत इत्य् आह-एवं पुनरिति ।
धर्म-परिणाम-सूचितम् एवावस्था-परिणामम् आह-तथावस्थाइति । धर्माणां वर्तमानाध्वनां बलवत्त्वेऽवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः ।
तत् किम् एष परिणामो गुणानां कादाचित्कः ? नेत्य् आह-एवमिति । कस्मात् पुनर् अयं परिणामः सनातनः ? इत्य् अत आह-चलं चैति । चो हेत्व्-अर्थे । वृत्तं प्रचारः । एतद् एव कुतः ? इत्य् अत आह-गुण-स्वाभाव्यमिति ।
उक्तम् अत्रैव पुरस्तात् सोऽयं त्रिविधोऽपि चित्त-परिणामो भूतेन्द्रियेषु सूत्र-कारेण निर्दिष्ट इत्य् आह-एतेनैति । एष त्रिविधः परिणामो धर्म-धर्मि-भेदात्धर्म-धर्मिणोर् भेदम् आलक्ष्य तत्र भूतानां पृथिव्य्-आदीणां धर्मिणां गवादिर् घटादिर् वा धर्म-परिणामः । धर्माणां चातीतानगत-वर्तमान-रूपता लक्षण-परिणामो वर्तमान-लक्षणापन्नस्य गवादेर् बाल-कौमार-यौवन-वार्धक्यम् अवस्था-परिणामः । घटादीनाम् अपि नव-पुरतनतावस्था-परिणामः । एवम् इन्द्रियाणाम् अपि धर्मिणां तत्-तन्-नीलाद्य्-अलोचनं धर्म-परिणामः । धर्मस्य वर्तमानतादिर् लक्षण-परिणामः ।लक्षणस्य रत्नाद्य्-आलोचनस्य स्फुटत्वादिर् अवस्था-परिणामः । सोऽयम् एवं-विधो भूतेन्द्रिय-परिणामो धर्मिणो धर्म-लक्षणावस्थानां भेदम् आश्रित्य वेदितव्यः । अभेदम् आश्रित्य-परमार्थतस् त्व् इति । तु-शब्दो भेद-पक्षाद् विशिनष्टि । पारमार्थिकत्वम् अस्य ज्ञास्यते न त्व् अन्यस्य परिणामस्य निषिद्ध्यते । कस्मात् ? धर्मि-स्वरूप-मात्रो हि इति ।
ननु यदि धर्मि-विक्रियैवधर्मः कथं तर्ह्य् असङ्कर-प्रत्ययो लोके परिणामेष्व् इत्य् अत आह-धर्म-द्वारा इति । धर्म-शब्देन धर्म-लक्षणावस्थाः परिगृह्यन्ते, तद्-द्वारेण धर्मिण एव विक्रियेत्य् एका चासङ्कीर्णा च तद्-द्वाराणाम् अभेदेऽपिधर्मिणः परस्परासङ्करात् ।
ननु धर्मिणो धर्मिणाम् अभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेनधर्मिणापीह धर्मिवद् भवितव्यम् इत्य् अत आह-तत्र धर्मस्यैति । तत्र भाव-संस्थान-भेदः सुवर्णादेर् यथा भाजनस्य रुचक-स्वस्तिक-व्यपदेश-भेदो भवति, तन्-मात्रम् अन्यथाभवति, न तु द्रव्यं सुवर्णम् असुवर्णताम् उप इति । अत्यन्त-भेदाभावादितिवक्ष्यमाणोऽभिसन्धिः ।
एकान्त-वादिनं बौद्धम् उत्थापयति—अपर आहैति । धर्मा एव हि रुचकादयस् तथोत्पन्नाः परमार्थ-सन्तो न पुनः सुवर्णं नाम किञ्चिद् एकम् अनेकेष्व् अनुगतं भवेत् ततो न चिति-शक्तिवत् परिणामेतापि तु कौटस्थ्येनैव विपरिवर्तेत। परिणामात्मक-रूपं परिहाय रूपान्तरेण कौटस्थ्येनैव परिवर्तनं परिवृत्तिर् यथाचिति-शक्तिर् अन्यथान्यथाभावं भजमानेष्व् अपि गुणेषु स्वरूप-पाद-प्रच्युता कूटस्थ-नित्यैवं सुवर्णाद्य् अपि स्याद् न चेष्यते तस्मान् न द्रव्यम् अतिरिक्तं धर्मेभ्यैति }
परिहरति-अयम् अदोषैति । कस्मात् ? एकान्ततानभ्युपगमात् । यदि चिति-शक्तिर् इव द्रव्यस्य इकान्तिकीं नित्यताम् अभ्युपगच्छेम, तत एवम् उपालभ्येमहि, न त्व् ऐकान्तिकीं नित्यताम् आतिष्ठामहे, किन्तु तद् एतत् त्रैलोक्यं, न तु द्रव्य-मात्रां व्यक्तेर् अर्थ-क्रिया-कारिणो रूपाद् अप इति। कस्मात् ? नित्य-प्रतिषेधात्प्रमाणेन । यदि हि घटो व्यक्तेर् नापेयात् कपाल-शर्करा-चूर्णादिष्व् अवस्थास्व् अपि व्यक्तो घटैतिपूर्ववद् उपलब्ध्य्-अर्थ-क्रिये कुर्यात्, तस्माद् अनित्यं त्रैलोक्यम् अस्तु तर्ह्य् अनित्यम् एवोपलब्ध्य्-अर्थ-क्रिया-रहितत्वेन गगनारविन्दवद् अतितुच्छत्वाद् इत्य् अत आह-अपेतम् अप्य् अस्ति इति । नात्यन्त-तुच्छता येनैकान्ततोऽनित्यं स्याद् इत्य् अर्थः । कस्मात् ? विनाश-प्रतिषेधात्प्रमानेन । तथा हि यत् तुच्छं न तत् कदाचिद् अप्य् उपलब्ध्य्-अर्थ-क्रिये करोति । यथा गगनारविन्दम् । त्रैलोक्यं कदाचिद् अप्य् उपलब्ध्य्-अर्थ-क्रियेइति । तथोत्पत्तिमद्-द्रव्यत्व-धर्म-लक्षणावस्थायोगित्वादयोऽपि अत्यन्त-तुच्छ-गगन-नलिन-नर-विषाणादि-व्यावृत्ताः सत्त्व-हेतव उदाहार्य, तथा च नात्यन्त-नित्यो येनचिति-शक्तिवत् कूटस्थ-नित्यः स्यात्, किन्तु कथञ्चिन् नित्यः । तथा च परिणाम् इति सिद्धम् । एतेन मृत्-पिण्डाद्य्-अवस्थासु कार्याणां घटादीनाम् अनागतानां सत्त्वं वेदितव्यम् । स्याद् एतत्, अपेतम् अप्य् अस्ति चेत् कार्ये कस्मात् पूर्ववन् नोपलभ्यत इत्य् अत आह-संसर्गादिति । संसर्गात् स्व-कारण-लयात् । सौक्ष्म्यं दर्शनानर्हम् । ततश् चानुपलब्धिरिति ।
तद् एवं धर्म-परिणामंसमर्थ्य लक्षण-परिणामम् अपि लक्षणानांपरस्परानुगमनेन समर्थयते-लक्षण-परिणामैति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतम् इत्य् अर्थः ।
नन्व् एक-लक्षण-योगे लक्षणान्तरे नानुभूयेते । तत् कथं तद्-योगः ? इत्य् अत आह-यथा पुरुष इति । न ह्य् अनुभवाभावः प्रमाण-सिद्धम् अपलपति । तद् उत पाद एव तत्र तत् सद्-भावे प्रमाणम् असत उत्पादासम्भवान् नर-विषाणवदिति ।
परोक्तं दोषम् उत्थापयति-अत्र लक्षण-परिणामे इति । यदा धर्मो वर्तमानस् तदैव यद्य् अतीतोऽनागतश् च, तदा त्रयोऽप्य् अध्वानः सङ्कीर्येरन्न् अनुक्रमेण चाध्वनां भावेऽसद्-उत्पाद-प्रसङ्गैति भावः । परिहरति-तस्य परिहारैति । वर्तमानतैव हि धर्माणाम् अनुभव-सिद्धा । ततः प्राक् पश्चात्-काल-सम्बन्धम् अवगमयति, न खल्व् असद् उत्पद्यते, न च सद् विनश्यति । तद् इदम् आह-एवं हि न चित्तमिति । क्रोधोत्तर-कालं हि चित्तं राग-धर्मकम् अनिभूयते । यदा च रागः क्रोध-समयेऽनागतत्वेन नासीत् तत् कथम् असाव् उत्पद्येतानुत्पन्नश् च कथम् अनुभूयेतेति ? भवत्य् एवं तथापि कुतोऽध्वनाम् असङ्करैति पृच्छति-किं चैति । किं-कारणम् असङ्करे । च पुनर्-अर्थे ।
उत्तरम् आह-त्रयाणामिति । त्रयाणांलक्षणानांयुगपन् नास्ति सम्भवः । कस्मिन् ? एकस्यांचित्त-वृत्तौ क्रमेण तुलक्षणानाम् एकतमस्य स्व-व्यञ्जकाञ्जनस्य भावो भवेत् सम्भवेत् । लक्ष्याधीन-निरूपणतयालक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्य-सम्मतिम् आह-उक्तं चैति । एत प्राग् एव व्याख्यातम् ।
उपसंहरति-तस्मादिति । आविर्भाव-तिरोभाव-रूप-विरुद्ध-धर्म-संसर्गाद् असङ्करोऽध्वनामिति । दृष्टान्तम् आह-यथा रागस्यैव इति । पूर्वं क्रोधस्य राग-सम्बन्धावगमो दर्शितैति । इदानीं तु विषयान्तर-वर्तिनो रागस्य विषयान्तर-वर्तिना रागेण समबन्धावगमैति । दार्ष्टान्तिकम् आह-तथालक्षणस्यैति ।
ननु सत्य् अप्य् अनेकान्ताभ्युपगएम् भेदोऽस्तीति धर्म-लक्षणावस्थान्यत्वे तद्-अभिन्नस्य धर्मिणोऽप्य् अन्यत्व-प्रसङ्गः, स एव च नेष्यते । तद्-अनुगमानुभव-विरोधाद् इत्य् अत आह-न धर्मी त्र्यध्वा इति। यतस् तद्-भिन्ना धर्मास् त्र्य्-अध्वानः ।
धर्माणाम् अध्व-त्रय-योगम् एव स्फोरयति-ते इति । लक्षिताअभिव्यक्ता वर्तमानाइति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीताश् चेति यावत् । तत्र लक्षितांतां ताम् अवस्थां बलवत्त्व-दुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। अवस्था-शब्देन धर्म-लक्षणावस्था उच्यन्ते । एतद् उक्तं भवति-अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । न ह्य् ऐकान्तिकेऽभेदे धर्मादीनांधर्मिणो धर्मि-रूपवद् धर्मादित्वम् । नाप्य् ऐकान्तिके भेदे गवाश्ववद् धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वम् अवस्थापयन्न् अपि धर्मादिषूपजनापाय-धर्मकेष्व् अपि धर्मिणम् एकम् अनुगमयन् धर्माश् च परस्परतो व्यावर्तयन् प्रत्यात्मम् अनुभूयतैति तद्-अनुसारिणो वयं न तम् अतिवर्त्य स्वेच्छया धर्मानुभवान् व्यवस्थापयितुम् इष्महैति ।
अत्रैवं लौकिकं दृष्टान्तम् आह-यथैका रेखा इति । यथा तद् एव रेखा-स्वरूपं तत्-तत्-स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तद् एवधर्मि-रूपम् तत्-तद्-धर्म-लक्षणावस्था-भेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्य् अर्थः । दार्ष्टान्तिकार्थं दृष्टान्तान्तरम् आह-यथा चैकत्वेऽपि इति ।
अत्रान्तरे परोक्तं दोषम् उत्थापयति-अवस्था- इति ।वस्था-परिणामेधर्म-लक्षणावस्था-परिणामे कौटस्थ्य-दोष-प्रसङ्गौक्तोधर्मि-धर्म-लक्षणावस्थानाम् । पृच्छति-कथम् ? इति । उत्तरम् आह-अध्वनोव्यापारेण इति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद् धेतोः । यदा धर्मोदधि-लक्षणः स्व-व्यापारंदाधिकाद्य्-आरम्भं क्षीरे सन्न् अपि न करोति, तदानागतः, यदा करोति तदा वर्तमानो, यदा कृत्वा निवृत्तः सन्न् एव स्व-व्यापाराद् दाधिकाद्य्-आरम्भात् तदातीतैत्य् एवंत्रैकाल्येऽपि सत्त्वाद् धर्म-धर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोति। सर्वदासत्ता हि नित्यत्वं चतुर्णाम् अपि च सर्वदा सत्त्वऽसत्त्वे वा नोत्पादस् तावन्-मात्रं च लक्षणं कूटस्थ-नित्यतायाः । न हि चिति-शक्तेर् अपि कूटस्थ-नित्यायाः कश्चिद् अन्यो विशेषैति भावः ।
परिहरति-नासौ दोषःिति। कस्मात् ? गुणि-नित्यत्वेऽपि गुणानां विमर्दोऽन्योऽन्याभिभाव्याभि-भावकत्वं तस्य वैचित्र्यात् । एतद् उक्तंभवति-यद्यपि सर्वदा सत्त्वं चतुर्णाम् अपि गुणि-गुणानां, तथापिगुण-विमर्द-वैचित्र्येण तद्-आत्म-भूत-तद्-विकाराविर्भाव-तिरोभाव-भेदेन परिणाम-शालितया न कौटस्थ्यम् । चिति-शक्तेस् तु न स्वात्म-भूत-विकाराविर्भाव-तिरोभावैति कौटस्थ्यम् । यथाहुः-नित्यं तम् आहुर् विद्वांसो यत् स्वभावो न नश्यतिइति ।
विमर्द-वैचित्र्यम् एव विकार-वैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति-यथा इति । यथासंस्थानम्पृथिव्य्-आदि-परिणाम-लक्षणम् आदिमद्धर्म-मात्रं विनाशि तिरोभावि शब्दादीनां शब्द-स्पर्श-रूप-रस-गन्ध-तन्मात्राणां स्व-कार्यम् अपेक्ष्य अविनाशिनाम् अतिरोभाविनाम्। प्रकृतौ दर्शयति-एवं लिङ्गमिति । तस्मिन् विकार-संज्ञा, न त्व् एवं विकारवती चिति-शक्तिरिति भावः ।
तद् एवं परीक्षक-सिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृताव् एव लोक-सिद्धायांगुण-विमर्द-वैचित्र्यं धर्म-लक्षणावस्था-परिणाम-वैचित्र्य-हेतुम् उदाहरति-तत्रेदम् उदाहरणमिति । न चायं नियमो लक्षणानाम् एवावस्था-परिणामैतिसर्वेषाम् एव धर्म-लक्षणावस्था-भेदानाम् अवस्था-शब्द-वाच्यत्वाद् एक एवावस्था-परिणामः सर्व-साधारण इत्य् आह-धर्मिणोऽपिइति ।
व्यापकं परिणाम-लक्षणम् आह-अवस्थितस्य द्रव्यस्यैति । धर्म-शब्द आश्रितत्वेन धर्म-लक्षणावस्था-वाचकः ॥१३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
तत्त्व-वैशारदी : यस्यैष त्रिविधः परिणामस् तं धर्मिणं सूत्रेण लक्षयति-शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥ धर्मोऽस्यास्तीति धर्मीति । नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्मं दर्शयति-योग्यताइति । धर्मिणो द्रव्यस्य मृद्-आदेः शक्तिर् एव चूर्ण-पिण्ड-घटाद्य्-उत्पत्ति-शक्तिर् एव धर्मः । तेषां तत्राव्यक्तत्वेन भावैति यावत् ।
नन्व् एवम् अव्यक्ततया सन्तस् ते ततः प्रादुर्भवन्तु, उदकाहरणादयस् तु तैः स्व-कारणाद् अनासादिताः कुतः प्राप्ताः ? इत्य् अत उक्तम्—योग्यतावच्छिन्नाइति । यासौ घटादीनाम् उत्पत्ति-शक्तिः सोदकाहरणादि-योग्यतावच्छिन्ना । तेनोदकाहरणादयोऽपि घटादिभिः स्व-कारणाद् एव प्राप्ताइति नाकस्मिकाइति भावः ।
अथवा के धर्मिणः ? इत्य् अत्रोत्तरं-योग्यतावच्छिन्ना । धर्मिणैति । को धर्मः ? इत्य् अत्रोत्तरं-शक्तिर् एव धर्मः । तेषां योग्यतैव धर्म इत्य् अर्थः । अतस् तद्वान् धर्मीति सिद्धं भवति ।
तत्-सद्-भावे प्रमाणम् आह-स च फल-प्रसव-भेदानुमित- इति । एकस्य धर्मिणोऽन्यश् चान्यश् च चूर्ण-पिण्ड-घटादि-रूप इत्य् अर्थः । कार्य-भेद-दर्शनाच् च भिन्नैति यावत् । परिदृष्ट उपलब्धः ।
तत्रानुभव-रोहिणो वर्तमानस्य मृत्-पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्-चूर्ण-मृद्-घटाभ्यां भेदम् आह-तत्र वर्तमानःिति । यदि न भिद्यते पिण्डवत् तर्हि चूर्ण-घटयोर् अपि तद्वद् एव स्व-व्यापार-व्यप्ति-प्रसङ्गैति भावः ।
अव्यक्तस्य तु पिण्डस्य नोक्तं भेद-साधनं सम्भवतीत्य् आह-यदा तुइति । कोऽसौकेन साधनेन भिद्यते ?इति । तद् एवं धर्माणां भेद-साधनम् अभिधाय तं भेदं विभजते-तत्र त्रयः खलुइति । उदिताइति वर्तमाना इत्य् अर्थः ।
अध्वनां पौर्वापर्यं निगमयति-ते चैति । चोदयति-किम्-अर्थमिति । किं-निमित्तम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः ? इत्य् अर्थः । हेतुम् आह-पूर्व-पश्चिमताया अभावादिति । विशेषित्य् आह-विषयिणीम् अनुपलब्धिं सूचयति । अनुपलम्भम् एवोपलम्भ-वैधर्म्येण दर्शयति-यथानागत-वर्तमानयोःिति । उपसंहरति-तदिति । तत् तस्माद् अनागत एव समनन्तरः पूर्वत्वेन भवति, वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः । तस्माद् अध्वनां यविष्ठोऽतीतैति सिद्धम् ।
स्याद् एतत् । अनुभूयमानानुभूततयोदितातीतौ शक्याव् उन्नेतुम् । अव्यपदेश्यास् तु पुनर् धर्मा अव्यपदेश्यतयैव शक्या नोन्नेतुम् इत्य् आशयवान् पृच्छति-अथैति । अथाव्यपदेश्याः के, केषु समीक्षामहे ?
अत्रोत्तरम् आह-सर्वं सर्वात्मकमिति । यथोक्तं तद् एवोपपादयति-जल-भूम्योःिति । जलस्य हि स्वरूप-स्पर्श-शब्दवतो भूमेश् च गन्ध-रस-रूप-स्पर्श-शब्दवत्याः पारिणामिकं वनस्पति-लता-गुल्मादिषु मूल-फल-प्रसव-पल्लवादि-गत-रसादि-वैश्वरूप्यं दृष्टम् । सोऽयम् अनेकात्मिकाया भूमेर् अनीदृशस्य वा जलस्य न परिणामो भवितुम् अर्हति । उपपादितं हि नासद् उत्पद्यतैति । तथा तथा स्थावराणां जङ्गमेषु मनुष्य-पशु-मृगादिषु रसादि-वैचित्र्यं दृष्टम् । उपभुञ्जाना हि ते फलादीनि रूपादि-भेद-सम्पदम् आसादयन्ति । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकात् किल दाडिमी-फलानि ताल-फल-मात्राणि भवन्ति । उपसंहरति-एवमिति । एवं सर्वं जल-भूम्य्-आदिकं सर्व-रसाद्य्-आत्मकम् । तत्र हेतुम् आह-जात्य्-अनुच्छेदेनैति ।जलत्व-भूमित्वादि-जातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदात् ।
ननु सर्वं चेत् सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा सन्निधानात् समान-कालं भावानां व्यक्तिः प्रसज्येत ! न खलु सन्निहिताविकल-कारणं कार्यं विलम्बितुम् अर्हतीत्य् अत आह-देश-काल- इति । यद्यपि कारणं सर्वं सर्वात्मकं, तथापि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य कश्मीरस् तेषां सत्तेऽपि पञ्चालादिषु न समुदाचारैति न कुङ्कुमस्य पञ्चालादिष्व् अभिव्यक्तिः । एवं निदाघे न प्रावृषः समुदाचारैति न तदा शालीनाम् । एवं न मृगी मनुष्यं प्रसूते, न तस्यां मनुष्याकार-समुदाचारैति । एवं नापुण्यवान् सुख-रूपं भुङ्क्ते, न तस्मिन् पुण्य-निमित्तस्य समुदाचारैति । तस्माद् देश-कालाकार-निमित्तानाम् अपबन्धाद् अपगमान् न समान-कालम् आत्मनाम् भावानाम् अभिव्यक्तिरिति ।
तद् एवम् अनुभव-सिद्धम् अनुगतं धर्मिणं दर्शयित्वा तम् अनिच्छतो वैनाशिकस्य क्षणिकं विज्ञान-मात्रं चित्तम् इच्छतोऽनिष्ट-प्रसङ्गम् उक्तं स्मारयति-यस्य तुइति । वस्तु-प्रत्यभिज्ञानाच् चैति । न हि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति । तस्माद् य एवानुभविता स एव प्रत्यभिज्ञातेति ॥१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
तत्त्व-वैशारदी : क्रमान्यत्वं परिणामान्यत्वे हेतुः॥ किम् एकस्य धर्मिण एक एव धर्म-लक्षणावस्था-लक्षणः परिणाम उत बहवो धर्म-लक्षणावस्था-लक्षणाः परिणामाः ? तत्र किं प्राप्तम् ? एकत्वाद् धर्मिण एक एव परिणामः, न ह्य् एक-रूपात् कारणात् कार्य-भेदो भवितुम् अर्हति । तस्याकस्मिकत्व-प्रसङ्गाद् इत्य् एवं प्राप्तः। उच्यते-क्रमान्यत्वात् परिणामान्यत्वम् । एकस्या मृदश् चूर्ण-पिण्ड-घट-कपाल-कणाकारा परिणति-परम्परा क्रमवती लौकिक-परीक्षकैर् अध्यक्षं समीक्ष्यते । अन्यच् चेदं चूर्ण-पिण्डयोर् आनन्तर्यम् अन्यच् च पिण्ड-घटयोर् अन्यच् च घट-कपालयोर् अन्यच् च कपाल-कणयोः । एकत्र परस्यान्यत्र पूर्वत्वात् । सोऽयं क्रम-भेदः परिणाम एकस्मिन्न् अनवकल्पमानः परिणाम-भेदम् आपादयति । एकोऽपि च मृद्-धर्मी क्रमोपनिपतित-तत्-तत्-सहकारि-समवधान-क्रमेण क्रमवतीं परिणाम-परम्पराम् उद्वहन् नैनाम् आकस्मिकयतीति भावः । धर्म-परिणामान्यत्ववल् लक्षण-परिणामान्यत्वेऽवस्था-परिणामान्यत्वे च समानं क्रमान्यत्वं हेतुरिति ।
तद् एतद् भाष्येणावद्योत्यते-एकस्य धर्मिणैति। क्रम-क्रमवतोरभेदमास्थाय स तस्य क्रम इत्य् उक्तं । तथाऽवस्था-परिणाम-क्रमैति। तथा हि कीनाशेन कोष्ठागारे प्रयत्न-संरक्षिता अपि हि व्रीहयो हायनैर् अतिबहुभिः पाणि-स्पर्श-मात्र-विशीर्यमाणावयव-संस्थानाः परमाणु-भावम् अनुभवन्तो दृश्यन्ते । न चायम् अभिनवानाम् अकस्माद् एव प्रादुर्भवितुम् अर्हति । तस्मात् क्षण-परम्परा-क्रमेण स-सूक्ष्मतम-सूक्ष्मतर-सूक्ष्म-बृहद्-बृहत्तर-बृहत्तमादि-क्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यतैति ।
तद् इदं क्रमान्यत्वं धर्म-धर्मि-भेदम् अपेक्षत एवेत्य् आह-त एवैति। आविकारेभ्य आ च लिङ्गाद आपेक्षिको धर्म-धर्मि-भावो-मृद्-आदेरपि तन्मात्रापेक्षया धर्मत्वादित्य् आह-धर्मोऽपिइति ।
यदा परमार्थ-धर्मिण्यलिङ्गेऽभेदोपचार-प्रयोगः, तद्-द्वारेणसामानाधिकरण्य-द्वारेण धर्म्येव धर्ममिति यावत्, तदैव एव परिणामो धर्मि-परिणाम एवेत्यर्थः । धर्म-लक्षणावस्थानां धर्मि-स्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थ-नित्यत्वमित्य् उक्त-प्रायम् ।
धर्म-परिणामं प्रतिपादयन् प्रसङ्गेन चित्त-धर्माणां प्रकार-भेदम् आह-चित्तस्यैति । परिदृष्टाःप्रत्यक्षाः, अपरिदृष्टा परोक्षाः । तत्र प्रत्ययात्मकाः प्रमाणादय्ः, रागादयास् तु वस्तु-मात्रा इत्यप्रकाश-रूपताम् आह-स्यादेतत्, अपरिदृष्टाश्चेन् न सन्त्येवेत्यत आह-अनुमानेति । अनुमानेन प्रापितो वस्तु-मात्रेण सद्-भावो येषां ते तथोक्ताः । पश्चान्मानसाधर्म्यादागमोऽप्य् अनुमानम् ।
सप्तापरिदृष्टान् कारिकया संगृह्णाति-निरोधैति । निरोधो वृत्तीनामसम्प्रज्ञातावस्था चित्तस्यागमतःसंस्कार-शेष-भावोऽनुमानतश् च समाधिगम्यते । धर्म-ग्रहणेन पुण्यापुण्ये उपलक्षति । क्वचित्कर्मेति पाठः । तत्रापि तज्-जनिते पुण्यापुण्ये एव गृह्येते, ते चागमतः सुख-दुःखोपभोग-दर्शनाद्वानुमानतो गम्येते । संस्कार-वस्तु स्मृतेरनुमीयते । एवं त्रिगुणत्वाच् चित्तस्य चलं च गुण-वृत्तमिति। प्रतिक्षणं परिणामोऽनुमीयते । एवं जीवनंप्राण-धारणं प्रयत्न-भेदोऽसंविदितश्चित्तस्य धर्मःश्वास-प्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया तथा तैस्तैरिन्द्रियैः शरीर-प्रदेशैर्वा सम्प्रयुज्यते । साऽपि तत्-संयोगादेवानुमीयते । एवं शक्तिरप्युद्भूतानां कार्याणां सूक्ष्मावस्था चेतसो धर्मः स्थूल-कार्यानुभवादेवानुमीयतैति ॥१५॥
अतो योगेन उपात्त-सर्व-साधनस्य बुभुत्सितार्थ-प्रतिपत्तये संयमस्य विषय उपक्षिप्यते-
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
तत्त्व-वैशारदी : अतः परम् आपाद-परिसमाप्तेः संयम-विषयस् तद्-वशीकार-सूचनी विभूतिश् च वक्तव्या । तत्रोक्त-प्रकारं परिणाम-त्रयम् एव तावत् प्रथमम् उपात्त-सकल-योगाङ्गस्य योगिनः संयम-विषयतयोपक्षिपति-परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ।
ननु यत्र संयमस् तत्रैव साक्षात्-करणं तत् कथं परिणाम-त्रय-संयमोऽतीतानागते साक्षात्-कारयेत् ? इत्य् अत आह-तेनैति। तेन परिणाम-त्रयं साक्षात्-क्रियमाणं तेषु परिणामेष्व् अनुगते ये अतीतानागते तद्-विषयं ज्ञानं सम्पादयति । परिणाम-त्रय-साक्षात्-करणम् एव तद्-अन्तर्-भृतातीतानागत-साक्षात्-करणात्मकमिति न विषय-भेदः संयम-सक्षात्कारयोर् इत्य् अर्थः ॥१६॥
शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरः,-
शब्दार्थ-प्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
तत्त्व-वैशारदी : अयम् अपरः संयमस्य विषय उपक्षिप्यते-शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संस्करः, तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥१७॥
अत्र वाचकं शब्दमाचिख्यासु प्रथमं तावद् वाग्-व्यापार-विषयम् आह-तत्र इति ।वाग्वाग्-इन्द्रियं वर्ण-व्यञ्जकम् अष्ट-स्थानकं, यथाह-
अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरस्तथा।
जिह्वा-मूलं च दन्ताश् च नासिकोष्ठौ च तालु च ॥इति ।
सा वाग् वर्णेष्व् एव यथा-लोक-प्रतीति-सिद्धेष्वर्थवती, न च वाचक इत्यर्थः । श्रोत्र-व्यापार-विषयं निरूपयति-श्रोत्रमिति । श्रोत्रं पुनर्ध्वनेर् उदानस्य वाग्-इन्द्रियाभिघातिनो यः परिणति-भेदो वर्णात्मा, तेनाकारेण परिणत-तन्-मात्र-विषयं, न तु वाचक-विषयमित्यर्थः । यथा-लोक-प्रतीति-सिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति-पदमिति ।पदं पुनर्वाचकं नादानुसंहार-बुद्धि-निर्ग्राह्यं, यथा-प्रतीति-सिद्धान् नादान् वर्णान् प्रत्येकं गृहीत्वानु पश्चाद् या संहरत्य् एकत्वम् आपादयति,”गौर्” इत्य् एतद् एकं पदमिति । तथा पदं गृह्यते ।
२यद्यपि प्राच्योऽ पि बुद्धयो वर्णाकारं पदम् एव प्रत्येकं गोचरयन्ति, तथापि न विषदं प्रथते । चरमे तु विज्ञाने तद् अतिविषदमिति नादानुसंहार-बुद्धि-निर्ग्राह्यम् उक्तम् । यस् तु वैयात्याद् एक-पदानुभवम् अविज्ञाय वर्णान् एव वाचकान् आतिष्ठते तं प्रत्य् आह-वर्णाइति । ते खल्व् अमी वर्णाः प्रत्येकं वाच्य-विषयां धियम् आदधीरन्, नाग-दन्तका इव शिक्यावलम्बनं, संहता वा, ग्रावाण इव पिठर-धारणम् ।
न तावत् प्रथमः कल्पः, एकस्माद् अर्थ-प्रतीतेर् अनुत्पत्तेः, उत्पात्तौ वा द्वितीयादीनाम् अनुच्चारण-प्रसङ्गः, निष्पादित-क्रिये कर्मणि विशेषानाधायिनः साधनस्य साधन-न्यायातिपातात्॑ तस्माद् द्वितीयः परिशिष्यते, सम्भवति हि ग्राव्णां संहतानां पिठर-धारणम् एक-समय-भावित्वाद्, वर्णानां तु यौगपद्यासम्भवः । अतः परस्परम् अनुग्राह्यनुग्राहकत्वायोगात् सम्भुयापि नार्थ-धियम् आदधत्ते । ते पद-रूपम् एकम् असंस्पृशतस् तादात्म्येनात एवानुपस्थापयन्त आविर्भूतास् तिरोभूता, अयः-शलाका-कल्पाः प्रत्येकम् अपद-स्वरूपा उच्यन्ते ।
३यदि पुनः पदम् एकं तादात्मयेन संस्पृशेयुर् वर्णास् ततो नोक्त-दोष-प्रसङ्ग इत्य् आह-वर्णैति । वर्णः पुनर् एकैकः पदात्मा सर्वाभिधान-शक्ति-प्रचितः, सर्वाभिर् अभिधान-शक्तिभिर् निचितः-गो-गण-गौर-नगेत्य्-आदिषु हि ग-कारो गोत्वाद्य्-अर्थाभिधायिषु दृष्ट इति तत्-तद्-अभिधान-शक्तिः । एवं सोम-शोचिर् इत्यादिष्व् ईश्वराद्य्-अर्थाभिधायिषु पदेष्व् ओ-वर्णो दृष्टैति ।सोऽपि तत्-तद्-अभिधान-शक्तिः । एवं सर्वत्रोहनीयम् । स चैकैको वर्णो ग-कारादिः सहकारि यद् वर्णान्तरम् ओ-कारादि, तद् एव प्रतियोगि प्रतिसम्बन्धि यस्य स तथोक्तः, तस्य भाव-सत्त्वं, तस्माद् वैश्वरूप्यं नानात्वम् इवापन्नो, न तु नानात्वम् आपन्नः । तस्य तत्त्वाद् एव, पूर्वो वर्णः ग-कार उत्तरेणऔ-कारेण गणादि-पदेभ्यो व्यावर्त्य, उत्तरश् चौ-कारो ग-कारेण शोचिर्-आदि-पदेभ्यो व्यावर्त्य विशेषे गोत्व-वाचके गो-पद-स्फोटेऽवस्थापितोऽनुसंहार-बुद्धौ ।
अयम् अभिसन्धिः-अर्थ-प्रत्ययो हि वर्णैर् नियत-क्रमतया परस्परम् असम्भवद्भिर् अशक्यः कर्तुम्, न च संस्कार-द्वारेणाग्नेयादीनाम् इव परमापूर्वे वा स्वर्गे वा जनयितव्ये ऽनियत-क्रमाणाम् अपि साहित्यम् अर्थ-बुद्ध्य्-उपजनने वर्णानामिति साम्प्रतम्, विकल्पासहत्वात् ।
स खल्व् अयं वर्णानुभव-जन्यः संस्कारः स्मृति-प्रसव-हेतुः, अन्यो वाऽऽग्नेयादि-जन्य इवापूर्वाभिधानः, न तावद् अनन्तरः, कल्पना-गौरवापत्तेः । स एव तावद् अदृष्ट-पूर्वः कल्पनीयः । तस्य च क्रमवद्भिर् वर्णानुभवैर् एकस्य जन्यत्वं न सम्भवतीति,[न सम्भवतीत-] तज्-जातीयानेकावान्तर-संस्कार-कल्पनेति गौरवम् । न चैष ज्ञापक-हेत्व्-अङ्गम् अज्ञातस् तद्-अङ्गताम् अनुभवतीति । न खलु संबन्धोऽर्थ-प्रत्यायनाङ्गम् अज्ञातोऽङ्गताम् उप इति ।
स्मृति-फल-प्रसवानुमितस् तु संस्कारः स्व-कारणानुभव-विषय-नियतो न विषयान्तरे प्रत्ययम् आधातुम् उत्सहते, अन्यथा यत् किञ्चिद् एवैकैकम् अनुभूय सर्वः सर्वं जानीयादिति ।
न च प्रत्येक-वर्णानुभव-जनित-संस्कार-पिण्ड-लब्ध-जन्म-स्मृति-दर्पण-समारोहिणो वर्णाः समधिगत-सहभावा वाचकाइति साम्प्रतं, क्रमाक्रम-विपरीत-क्रमानुभूतानां तत्राविशेषेणार्थ-धी-जनन-प्रसङ्गाद् । न चैतत्-स्मरण-ज्ञानं पूर्वानुभव-वर्तिनीं परम्परतां गोचरयितुम् अर्हेति । तस्माद् वर्णेभ्योऽसम्भवन्न् अर्थ-प्रत्यय एक-पदानुभवम् एव स्व-निमित्तम् उपकल्पयति ।
न चैष पदेऽपि प्रसङ्गः । तद् धि प्रत्येकम् एव प्रयत्न-भेद-भिन्नाः ध्वनयो व्यञ्जयन्तः परस्पर-विसदृश-तत्-तत्-पद-व्यञ्जक-ध्वनिभिस् तुल्य-स्थान-करण-निष्पन्नाः सदृशाः सन्तोऽन्योन्य-विसदृशैः पदैः पदम् एकं सदृशम् आपादयन्तः प्रतियोगि-भेदेन तत्-तत्-सादृश्यानां भेदात् तद्-उपधानाद् एकम् अप्य् अनवयवम् अपि सावयवम् इवानेकात्मकम् इवावभासयन्ति ।
यथा नियत-वर्ण-परिमाण-संस्थानं मुखम् एकम् अपि मणि-कृपाण-दर्पणादयो विभिन्न-वर्ण-परिमाण-संस्थानम् अनेकम् आदर्शयन्ति, न परमार्थतः ।
सादृश्योपधान-भेद-कल्पिता भागा एव निर्भागस्य पदस्य वर्णाः, तेन तद्-बुद्धिर्वर्णात्मना पद-भेदे स्फोटमभेदम् एवनिर्भागम् एवस-भेदम् इव स-भागमिवालम्बते । अतो गो-पद-स्फोट-भेदस्य इकस्य ग-कारो भागो गौरादि-पद-स्फोट-सादृश्येन न निर्धारयति, स्वभागिनमित्यो-कारेणविशिष्टो निर्धारयति। एवम् ओ-कारोऽपि भागः शोचिर्-आदि-पद-सदृशतया न शक्तोनिर्धारयितुं स्व-भागिनं गो-पद-स्फोटम् इति ग-कारेण विशिष्टो निर्धारयति, असह-भाविनाम् अपि च संस्कार-द्वारेणास्ति सहभाव इतिविशेष्य-विशेषण-भावोपपत्तिः ।
न च भिन्न-विषयत्वं संस्कारयोः, भाग-द्वय-विषययोरनुभवयोस्तज्-जन्मनोश् च संस्कारयोर् एक-पद-विषयत्वात् । केवल-भागानुभवेन पदम् अव्यक्तम् अनुभूयते । अनुसंहार-धिया तु भागानुभव-योनि-संस्कार-लब्ध-जन्मना व्यक्तम् इति ।
अव्यक्तानुभवाश् चप्राञ्चः संस्काराधान-क्रमेण व्यक्तमनुभवमादधाना दृष्टा,
यथा दूराद्वनस्पतौ हस्ति-प्रत्यया अव्याक्ता व्यक्त-वनस्पति-प्रत्यय-हेतवः ।
न चेयं-विधा वर्णानामर्थ-प्रत्यायने सम्भविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थ-प्रत्ययमादधत्यन्ते व्यक्तम् इति शक्यं वक्तुम् । प्रत्यक्ष-ज्ञान एव नियमाद् व्यक्ताव्यक्तत्वस्य । वर्णाधेयस्त्वर्थ-प्रत्ययो न प्रत्यक्षः । तदेष वर्णेभ्यो जायमानः स्फुट एव जयेत, न वा जायेत, न त्वस्फुटः । स्फोटस्य तु ध्वनि-व्यङ्ग्यस्य प्रत्यक्षस्य सतः स्फुटत्वास्फुटत्वे कल्प्येते इत्यसमानम् ।
एवं प्रत्येक-वर्णानुभव-जनित-संस्कार-सहित-श्रोत्र-लब्ध-जन्मन्यनुसंहार-बुद्धौ संहता वर्णा एक-पद-स्फोट-भावमापन्नाः प्रयत्न-विशेष-व्यङ्ग्यतह्या प्रयत्न-विशेषस्थ च नियत-क्रमापेक्षतया क्रमान्यत्वे तद्-अभिव्यञ्जक-प्रयत्न-विशेषाभावेन तद्-अभिव्यक्त्य्-अभाव-प्रसङ्गात् क्रमानुरोधिनोऽर्थ-सङ्केतेनावच्छिन्नाः सङ्केतावच्छेदम् एव लौकिकं सभाग-पद-विषयं दर्शयन्ति, इयन्तोद्वित्राः, त्रिचतुरः, पञ्च-षाद् एते सर्वाभिधान-शक्ति-परिवृत्ता ग-कारौ-कार-विसर्जनीयाः सास्नाऽऽदिमन्तमर्थमवद्योतयन्तीति ।
४तत्किम् इदानीं संकेतानुसारेण वर्णानाम् एववाचकत्वम् । तथा चन पदं नामकिञ्चिदेकमित्य् अतआह-तद् एतेषामिति । ध्वनि-निमित्तः क्रमो ध्वनि-क्रमः । उपसंहृतो ध्वनि-क्रमो येषु ते तथोक्ताः । बुद्ध्या निर्भास्यते प्रकाश्यत इतिबुद्धि-निर्भासः । सङ्केतावच्छिन्नाः स्थूल-दर्शि-लोकाशयानुरोधेन ग-कारौ-कार-विसर्जनीया इत्य् उक्तम्, ग-कारदीनाम् अपितद्-भागतया तादात्म्येन वाचकत्वात्, प्रतीत्य्-अनुसारतस्त्वेकम् एव-पदं वाचकम् इत्य् अर्थः । एतद् एव स्पष्टयति-तदेकमिति । तद् एकं लोक-बुद्ध्या प्रतीयते इति संबन्धः कस्माद् अकामत्य् अत आह-एक बुद्धि-विषयैति ।
गौर् इत्य् एकं पदम् इत्य् एकाकाराया बुद्धेर् विषयो यतस् तस्माद् एकम् । तस्य व्यञ्जकम् आह-एक-प्रयत्नाक्षिप्तमिति ।”रसैति पद-व्यञ्जकात्प्रयत्नाद्विलक्षणः । “सरैति पद-व्यञ्जकः प्रयत्नः, स चोपक्रमतः सर इति पदादि-व्यक्ति-लक्षण-फलावच्छिन्नः पूर्वापरीभूत एकस्तदाऽऽक्षिप्तम् ।भागानां सादृश्योपधान-भेद-कल्पितानां परमार्थ-सतामभावाद् अभागम् । अतएव पूर्वापरीभूत-भागाभावादक्रमम् ।
ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं च ? इत्य् अत आह-
अवर्णमिति । न ह्य् अस्य वर्णा भागाः, किन्तु सादृश्योपधान-भेदात्पदम् एव । तेन तद्-आकारेणापरमार्थ-सता प्रथते, न हि मणि-कृपा-दर्पणादि-वर्तीनि मुखानि मुख्य-परमार्थंसतोऽवयवा इति ।
बौद्धम् अनुसंहार-बुद्धि-विदितम् अन्त्य-वर्ण-प्रत्ययस्य व्यापारः संस्कारः पूर्व-वर्णानुभव-जनित-संस्कार-सहितः,तेन उपस्थापितं विषयीकृतम् । वर्णानुभव-तत्-संस्कारणां च पद-विषयत्वमुपपादितमधस्तात् ।
स्यादेतत् । अभागमक्रममवर्णं चेत् पद-तत्त्वं कस्माद् एवं-विधं कदाचिन् न प्रथते, न हि लाक्षा-रसावसेकोपधानापादितारूण-भावः स्फटिक-मणिस् तद्-अपगमे स्वच्छो धवलो नानुभूयते । तस्मात् पारमार्थिका एव वर्णाः ? इत्य् अत आह-परत्रैति । प्रतिपिपादयिषयावर्णैरेवाभिधीयमानैर् उच्चार्यमाणैः श्रूयमाणैश् च श्रोतृभिर् अनादिर् योऽयं वाग्-व्यवहारो विभक्त-वर्ण-पद-निबन्धनस् तज्-जनिता वासना, साऽप्यनादिर् एव तद्-अनुविद्धया तद्-वासितया लोक-बुद्ध्या विभक्त-वर्ण-रचित-पदावगाहिन्या सिद्धवत् परमार्थवत् सम्प्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते ।
एतदुक्तं भवति-अस्ति कश्चिदुपाधिर्य उपाधेयेन संयुज्यते वियुज्यते च, यथा लाक्षादिः । तत्र तद्-वियोगे स्फाटिकः स्वाभाविकेन स्वच्छ-धवलेन रूपेण प्रकाशत इति युज्यते । पद-प्रत्ययस्य तु प्रयत्न-भेदोपनीत-ध्वनि-भेदादन्यतोऽनुत्पादात् तस्य च सदा सादृश्य-दोष-दूषिततया वर्णात्मनैव प्रत्यय-जनकत्वम् इति कुतो निरुपाधिनः पदस्य प्रथा?
यथाहुः-
ध्वनयः सदृशात्मातो विपर्यासस्य हेतवः ।
उपलम्भकमेतेषां विपर्यासस्य कारणम् ॥
उपायत्वाच्च नियतः पद-दर्शित-दर्शिनाम् ।
ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लवः ॥इति ।
यतः पदात्मा विभक्त-वर्ण-रूषितः प्रकाशतेऽतः स्थूल-दर्शी लोको वर्णानेव पदम् अभिमन्यमानस्तानेव प्रकार-भेद-भाजोऽर्थ-भेदे सङ्केतयतीत्याह-तस्य इति । तस्य पदस्याजानत एक स्यापि सङ्केत-बुद्धितः स्थूल-दर्शि-लोक-हिताय वर्णात्मना विभागः, विभागमाह-एतावतामिति । एतावतां न न्यूनानामधिकानां वा, एवं-जातीयको नैरन्तर्येक्रम-विशेषः, अनुसंहारएक-बुद्ध्य्-अपग्रहः, एकस्यार्थस्य गोत्वादेर्वाचक इति ।
ननु यद्येकस्यार्थस्यायं शब्दो वाचकैति संकेतो, हन्त भोः शब्दार्थयोर्नेतरेतराध्यासस् तर्हि ? इत्यत आह-संकेतस्तुइति । स्मृतावात्म-स्वरूपं यस्य स तथोक्त न हि कृत इत्य् एव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः ।
एतदुक्तं भवति-अभिन्नाकार एव सङ्केते कथञ्चिद् भेदं विकल्प्य षष्ठी प्रयुक्तेति, यएषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित्सर्व-भूतरुतज्ञ इति ।
तद् एवं विकल्पित-वर्ण-भागमेकमनवयवं पदं व्युत्पाद्य कल्पित-पद-विभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह-सर्व-पदेषु चास्ति वाक्य-शक्तिः इति। अयमभिसन्धिः-पर-प्रत्यायनाय शब्दः प्रयुज्यते, तद् एव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितम् ।तद् एव च तैः प्रतिपित्सितं यदुपादानादि-गोचरः । न पदार्थ-मात्रं तद्-गोचरः,किन्तु वाक्यार्थ इति वाक्यार्थ-परा एव सर्वे शब्दाः । तेन स एव तेषामर्थः॑ अतो यत्र् अपि केवलस्य पदस्य प्रयोगस्तत्र् अपि पदान्तरेण सहैकीकृत्य तोऽर्थो गम्यते न तु केवलात्, कस्मात् तन्मात्रस्यासाम् अर्थ्यात् तथा च वाक्यम् एवतत्र तत्र वाचकं न तु पदानि॑ तद्भागतया तु तेषाम् अप्यास्ति वाक्यार्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम्॑ तेन यथा वर्ण एकैकः सर्व-पदार्थभिधान-शक्ति-प्रचित एवं पदम् अप्येकैकं सर्व-वाक्यार्थाभिधान-शक्ति-प्रचितम्, तद् इदम् उक्तं-सर्व-पदेषु चास्ति वाक्य-शक्तिः ।
वृक्ष इत्युक्तेऽस्तीति गम्यतैति ।ध्याहृतास्ति-पद-सहितं वृक्ष-पदं तत्र वर्ततैति तद्-भागत्वाद् वृक्ष-पदं तत्र वर्तत इत्य् अर्थः । कस्मात् पुनर् अस्तीति गम्यत इत्य् अत आह-न सत्तां पदार्थो व्यभिचरतीति । लोक एव हि पदानाम् अर्थावधारणोपायः । स च केवलं पदार्थम् अस्त्य् अर्थे नाभिसमस्य सर्वत्र वाक्यार्थीकरोति । सोऽयम् अव्यभिचारः सत्तयापदार्थस्य । अत एवशब्द-वृत्ति-विदां व्यवहारोऽयं-यत्रान्यत् क्रिया-पदं नास्ति, तत्रास्तिर् भवन्ती-परः प्रयोक्तव्य इति ।
क्रिया-भेदाव्यभिचारि-प्रातिपदिकम् उक्त्वा क्रिया-भेदं कारकाव्यभिचारिणं दर्शयति-तथा चपचतीत्य् उक्तेइति । पचतीत्य् उक्ते हि कारक-मात्रस्य तद्-अन्वय-योग्यस्यावगमाद् अन्य-व्यावृत्ति-परस् तद्-भेदानाम् अनुवादः । तद् एवं भेद एव वाक्यार्थ इति ।
तथानपेक्षम् अपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतराम् अस्ति वाक्य-शक्तिः पदानाम् इत्य् आह-दृष्टं चैति । न चतिआवतापि श्रोत्रियादि-पदस्य स्वतन्त्रस्यैवं-विधार्थ-प्रत्यायनं न यावद् अस्त्य् आदिभिर् अभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात् कल्पितत्वम् एवेति भावः ।
स्याद् एतत् । पदानाम् एव चेद् वाक्य-शक्तिः,कृतंतर्हि वाक्येन, तेभ्य एव तद्-अर्थावसायाद् इत्य् अत आह-तत्र वाक्ये इति । उक्तम् एतन् न केवलात् पदात् पदार्थः प्रतिपित्सितः प्रतीयते न यावद् एतत् पदान्तरेणाभिसमस्यत इति । तथा च वाक्यात् पदान्य् अपोद्धृत्य कल्पितानि वाक्यार्थाच् अपोद्धृत्य तद्-एक-देशं कारकं क्रियां वा तत् पदं प्रकृत्य्-आदि-विभाग-कल्पनया व्याकरणीयम् अन्वाख्येयम् । किम्-अर्थं पुनर् एतावता क्लेशेनान्वाख्यायत ? इत्य् अत आह-अन्यथाइति । घटो भवति, भवति भिक्षां देहि, भवति तिष्ठतीति नामाख्यातयोश् च साम्यात् । एवम् अश्वस् तम् आश्वो यातीति । एवम् अजापयः पिब, अजापयः शत्रून् इति । नामाख्यात-सारूप्याद् अनिर्ज्ञातंनामत्वेनाख्यातत्वेन वान्वाख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत ? तस्माद् वाक्यात् पदान्य् अपोद्धृत्य व्याख्यातव्यानि, न त्व् अन्वाख्यानाद् एव पारमार्थिको विभागः पदानाम् इति।
७तद् एवं शब्द-रूपं व्युत्पाद्य शब्दार्थ-प्रत्ययानां सङ्केतापादित-सङ्कराणाम् असङ्करम् आख्यातुम् उपक्रमते-तेषां शब्दार्थ-प्रत्ययानां प्रविभागः इति। तद् यथा श्वेतते प्रासाद इति क्रियार्थःशब्दः । स्फुटतरो ह्य् अत्र पूर्वापरीभूतायाःक्रियायाः साध्य-रूपत्वम् । तत्राप्य् अर्थाद् अस्ति शब्दस्य भेद इत्य् आह-श्वेतः प्रासाद इति कारकार्थः शब्दः इति। अभिहितत्वाच् च कारक-विभक्तेर् अभावः ।
अर्थं विभजते-क्रिया-कारकात्मा तद्-अर्थः इति । तयोः शब्दयोर् अर्थः क्रियात्मा कारकात्मा च । प्रत्ययं विभजते-प्रत्ययश् चैति। च-शब्देन तद्-अर्थ इत्य् एतत्-पदम् अत्रानुकृष्यते । तद् अत्रान्य-पदार्थ-प्रधानं सम्बध्यते । स एव क्रिया-कारणात्मार्थो यस्य स तथोक्तः ।
नन्व् अभेदेन प्रतीतेः शब्दार्थ-प्रत्ययानां सङ्करात् कुतः प्रविभाग इत्य् आशयवान् पृच्छति-कस्मात् ?इति । उत्तरम् आह-सोऽयम् इत्य् अभिसम्बन्धाद् इति । सङ्केतोपाधिर् एवैकाकार-प्रत्ययो न तु तात्त्विक इत्य् अर्थः । सङ्केतस्य निमित्तता दर्शिता सङ्केत इतिसप्तम्या ।
परमार्थम् आह-यस् तु श्वेतोऽर्थ इति । अवस्था नव-पुराणत्वादयः । सह-गतः सङ्कीर्णः । एवं च प्रविभाग-संयमाद् योगिनः सर्वेषां भूतानांयानि रुतानि तत्राप्य् अव्यक्तं पदं तद्-अर्थः तत्-प्रत्ययश् च इति ।तदिह मनुष्य-वचन-वाच्य-प्रत्ययेषु कृतः संयमः समान-जातीयतया तेष्यापि कृत एवेति तेषां रूतं तद्-अर्थ-भेदं तत्-प्रत्ययं च योगी जानातीति सिद्धम्॥१७॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
तत्त्व-वैशारदी : संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ञानम् ॥ज्ञानजा हि संस्कारः स्मृतेर् हेतवः । अविद्यादि-संस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाक-हेतवो विपाकोजात्य्-आयुर्-भोग-रूपः । तस्य हेतवो धर्माधर्म-रूपाः पूर्वेषु भवेष्वभिसंस्कृतानिष्पादिताः स्व-कारणैः यथा « संस्कृतं व्यञ्जनं », कृतम् इति गम्यते । परिणाम-चेष्टा-निरोध-शक्ति-जीवनान्येव धर्माश्चित्तस्य, तद्वदपरिदृष्टाश् चित्त-धर्माः । तेषु श्रुतेष्वनुमितेषु स-परिकरेषु संयमः संस्काराणां द्वयेषां साक्षात्क्रियायै समर्थः ।
अस्तु तत्र संयमात्तत्-साक्षात्कारः पूर्व-जाति-साक्षात्-कारस्तु? इत्यत आह-न च देश इति । निमित्तम्पूर्व-शरीरम् इन्द्रियादि च, सानुबन्ध-संस्कार-साक्षात्कार एव नान्तरीयक तया जात्य्-आदि-साक्षात्कारमाक्षिपतीत्य् अर्थः ।स्व-संसकार-संयमं परकीयेष्वतिदिशति-परत्राप्येवमिति । अत्र श्रद्धोत्पादे हेतुम् अनुभवत आवट्यस्य जैगीषव्येण संवादमुपन्यस्यति—अत्रेदमाख्यानं श्रूयते इति ।महा-कल्पःमहा-सर्गः ।तनुधरैति निर्माण-काय-सम्पदुक्ता, भव्यः शोभनो, विगलित-रजस्-तमो-मल इत्य् अर्थः, प्रधान-वशित्वमैश्वर्यं, तेन हि प्रधानं विक्षोभ्य यस्मै यादृशीं कायेन्द्रिय-सम्पदं दित्सति तस्मै तादृशीं दत्ते, स्वकीयानि च कायेन्द्रियाणि सहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति सन्तोषो हि तृष्णा-क्षयो बुद्धि-सत्त्वस्य प्रशान्तता धर्मः ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
तत्त्व-वैशारदी : प्रत्ययस्य पर-चित्त-ज्ञानम् ॥ पर-प्रत्ययस्य चित्त-मात्रस्य साक्षात्-करणादिति ॥१९॥
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
तत्त्व-वैशारदी : यथा संस्कार-साक्षात्कारस्तद्-अनुबन्ध-पूर्व-जन्म-साक्षात्कारमाक्षिपत्येवं पर-चित्त-साक्षात्कारोऽपि तद्-आलम्बना-साक्षात्कारमाक्षिपेद् इति प्रापत आह-न च तत्सालम्बनं, तस्याविषयीभूतत्वात् ॥ सानुबन्ध-संस्कार-विषयोऽसौ संयमः । अयं तु पर-चित्त-मात्र-विषय इत्यभिप्रायः॥२०॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्द्धानम् ॥२१॥
तत्त्व-वैशारदी : काय-रूप-संयमात् इत्यादि ॥ पञ्चात्मकः कायः । स च रूपवत्तया चाक्षुषो भवति । रूपेण हि कायश् च तद्-रूपं च चक्षुर्-ग्रहण-कर्म-शक्तिमनुभवति । तत्रयदा रूपे संयम-विशेषे योगिना क्रियते, तदा रूपस्य ग्राह्य-शक्तिः रूपवत्-काय-प्रत्यक्षता-हेतुः स्तभ्यते। तस्माद् ग्राह्य-शक्ति-स्तम्भे सत्य् अन्तर्धानं योगिनः । ततः परकीय-चक्षुर्-जनितेन प्रकाशेनज्ञानेनासम्प्रयोगः, चक्षुर्-ज्ञानाविषयत्वं योगिनः कायस्येति यावत् । तस्मिन् कर्तव्येऽन्तर्-धानं कारणम् इत्य् अर्थः । एतेनैति । काय-शब्द-स्पर्श-रस-गन्ध-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे श्रोत्र-त्वग्-रसना-घ्राण-प्रकाशासम्प्रयोगे तद्-अन्तर्धानम् इति सूत्रमूहनीयम्॥२१॥
तव्यम् ॥२१॥
सोपक्रमं निरुपक्रमञ्च कर्मतत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥२२॥
तत्त्व-वैशारदी : सोपक्रमं इत्यादि । आयुर्-विपाकं च कर्मद्विविधं-सोपक्रमं निरुपक्रमं च । यत् खल्व् एक-भविकं कर्म जात्य्-आयुर्-भोग-हेतुस्तद्-आयुर्-विपाकं । तच् च किञ्चित्-कालानपेक्षम् एवभोग-दानाय प्रस्थितं दत्त-बहु-भोगमल्पावशिष्ट-फलं प्रवृत्त-व्यापारं केवलं तत्-फलस्य सहसा भोक्तुम् एकेन शरीरेणाशक्यत्वाद्विलम्बते, तदिदं सोपक्रमम् । उपक्रमःव्यापारस्तत्-सहितम् इत्य् अर्थः । तद् एव तु दत्त-स्तोक-फलं तत्-कालम् अपेक्ष्य फल-दानाय व्याप्रियमाणं कादाचित्क-मन्द-व्यापारं निरुपक्रमम् । एतद् एव निदर्शनाभ्यां विशदयति-तत्र यथेति । अत्रैवातिवैशद्याय निदर्शनान्तरं दर्शयति–यथा वाऽग्निरिति ।
परान्तं महा-प्रलयमपेक्ष्यापरान्तो मरणम् । तस्मिन् कर्मणि धर्माधर्मयोः संयमादपरान्त-ज्ञानम्, ततश् च योगी सोपक्रममात्मनः कर्म विज्ञाय बहून् कायान् निर्माय सहस्रा फलं भुक्त्वा स्वेच्छया म्रियतयेय ।
प्रासङ्गिकम् आह-अरिष्टेभ्यो वाइति । अरिवत् त्रासयन्तीत्य् अरिष्टानि त्रिविधानि मरण-चिह्नानि । विपरीतं वा सर्वंमाहेन्द्रजालादि-व्यतिरेकेण ग्राम-नगरादि स्वर्ग अभिमन्यते, मनुष्य-लोकम् एवदेव-लोकमिति॥२२॥
मैत्र्यादिषु बलानि ॥२३॥
तत्त्व-वैशारदी : मैत्र्य्-आदिषु बलानि। मैत्र्य्-आदिषु संयमान् मैत्र्य्-आदि-बलान्यस्य भवन्ति । तत्र मैत्री-भावनातो बलं येन जीव-लोकं सुखाकरोति, ततः सर्व-हितो भवति । एवं करुणा-बलात्प्राणिनो दुःखाद् दुःख-हेतोर्वा समुद्धरति । एवं मुदिता-बलाज् जीव-लोकस्य माध्यस्थ्यमाधत्ते ।
वक्ष्यमाणौपयिकं भावना-कारणत्वं समाधेराह-भावनातः समाधिर्यः, स संयमः इति । यद्यपि धारणा-ध्यान-समाधि-त्रयम् एवसंयमो न समाधि-मात्रं, तथापि समाध्य्-अनन्तरं कार्योत्पादात्समाधेः प्राधान्यात् तत्र संयम उपचरितः ।क्वचिद् “भावना-समाधिर्” इति पाठः । तत्र भावना-समाधी समूहस्य संयमस्यावयवौ हेतू भवतः ।वीर्यं प्रयत्नः । तेन मैत्र्य्-आदि-बलवतः पुंसः सुखित्वादिषु परेषां कर्तव्येषु प्रयत्नोऽबन्ध्यो भवतीति । उपेक्षौदासीन्यम् । न तत्र भावना नापि सुखितादिवद् भाव्यं किञ्चिद् अस्तीति ॥२३॥
बलेषु हस्तिबलादीनि ॥२४॥
तत्त्व-वैशारदी : बलेषु हस्ति-बलादीनि ॥ यस्य बले संयमस् तस्य बलं लभतैति ॥२४॥
प्रवृत्त्यालोकन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टज्ञानम् ॥२५॥
तत्त्व-वैशारदी : प्रवृत्त्य्-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥सूक्ष्मे व्यवहिते विप्रकृष्टेवार्थे संयमनं विन्यस्य तम् अधिगच्छति ॥२५॥
भुवनज्ञानं सूर्य्ये संयमात् ॥२६॥
तत्त्व-वैशारदी : भुवन-ज्ञानं सूर्ये संयमात् ॥ाध्रुवादितो मेरु-पृष्ठात् ।
तद् एवम् अनेन संग्रह-श्लोकान्तेन संक्षेपतः सप्त-लोकानुपन्यस्य विस्तरेणाह-तत्रावीचेरिति । घन-शब्देन पृथिव्युच्यते । भूमिः स्थानम् इत्य् अर्थः । एते महा-नरका अनेकोपनरक-परिवारा बोद्धव्याः । एतान् एव नामान्तरेणोपसंहरति–माहकाल इति । तस्य सूर्य-प्रचाराद् रात्रिं-दिवं लग्नमिव विवर्तते । यम् एवास्य भागं सूर्यस्त्यजति, तत्र रात्रिः । यम् एवभागमलङ्कारोति, तत्र दिनम् इत्य् अर्थः ।
सकल-जम्बूद्वीप-परिमाणम् आह—तदेतद्योजन-शत-सहस्रमिति । किम्-भुतं योजनानां शत-सहस्रम् ? इत्य् आह-सुमेरोर्दिशि दिशि तद्-अर्धेन व्यूढम् इति । तद्-अर्धेन पञ्चाशद्-योजन-सहस्रेण, व्यूढं सङ्क्षिप्तम् ।
यतोऽस्य मध्यस्थः सुमेरुःसप्त-समुद्राश् च । सर्षप-राशि-कल्पाद्विगुणा द्विगुणा इति सम्बन्धः । यथा सर्षप-राशिर्न व्रीहि-राशिरिवोच्छ्रितो नापि भूमि-समस्तथा समुद्रा अपीत्य् अर्थः । विचित्रैः शैलैरवतंसैरिव सह वर्तन्तैतिस-विचित्र-शैलावतंसा द्वीपाः । तदेतत्सर्वे स-द्वीप-विपिन-नग-नगर-नीरधि-माला-वलयंलोकालोक-परिवृतं विश्वम्भरा-मण्डलं ब्रह्माण्ड-मध्ये व्यूढं सङ्क्षिप्तं, सुप्रतिष्ठितं संस्थानं सन्निवेशो यस्य तत्तथोक्तम् ।
ये यत्र प्रतिवसन्ति तत्र तान् दर्शयति-तत्र पातालैति ।
सुमेरोः सन्निवेशम् आह-सुमेरुःिति ।
तद् एवं भूर्-लोकं स-प्रकारमुक्त्वा स-प्रकारम् एवान्तरिक्ष-लोकम् आह-ग्रहेति । विक्षेपो व्यापारः ।स्वर्-लोकमादर्शयति–माहेन्द्र-निवासिनैति । देव-निकायाः देव-जातयः । षण्णाम् अपिदेव-निकायानां रूपोत्कर्षम् आह–सर्वे सङ्कल्प-सिद्धा इति । सङ्कल्प-मात्राद् एवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः ।काम-भोगिनो मैथुन-प्रियाः ।ौपपादिक-देहाः पित्रोः संयोगमन्तरेणाकस्माद् एव दिव्य-शरीरमेषां धर्म-विशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति ।
महर्-लोकम् आह-महतिइति । महा-भूत-वशिनः–यद् यदेव तेभ्यो रोचते, तत्तद् एव महा-भूतानि प्रयच्छन्ति । तद्-इच्छातश् च महा-भूतानि तेन तेन संस्थाने नावतिष्ठन्ते ।ध्यानाहारः-ध्यान-मात्र-तृप्ताः पुष्टा भवन्ति ।
जन-लोकम् आह-प्रथम इत्य् उक्त-क्रमेण, भूतेन्द्रिय-वशिनैति। भूतानि पृथिव्य्-आदीनि, इन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुम् इच्छन्ति, तथैव नियुज्यन्ते ।
उक्त-क्रमापेक्षया द्वितीयं ब्रह्मणस् तपो-लोकम् आह-द्वितीयैति । भूतेन्द्रिय-प्रकृति-वशिनैति । प्रकृतिः पञ्च-तन्मात्राणि, तद्-वशिनः, तद्-इच्छातो हि तन्मात्राण्येव कायाकरेण परिणमन्त इत्यागमिकाः ।द्विगुणैति । आभास्वरेभ्यो द्विगुणायुषो महा-भास्वरः । तेभ्योऽपि द्विगुणायुषः सत्य-महा-भास्वरा इत्य् अर्थः ।ूर्ध्वमिति । ऊर्ध्वं सत्य-लोके अप्रतिहत-ज्ञानाः, अवीचेस् तु प्रभृति आ तपो-लोकं सूक्ष्म-व्यवहितादि सर्वं विजानन्तीत्य् अर्थः ।
तृतीयं ब्रह्मणो लोकम् आह-तृतीयैति । अकृतो भवनस्य गृहस्य न्यासो यैस्ते तथोक्ताः, आधाराभावाद् एव स्व-प्रतिष्ठाः, स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः ।प्रधान-वशिनः तद्-इच्छातः सत्त्व-रजस्-तमांसि प्रवर्तन्ते, यावत्-सर्गायुषः । तथा च श्रूयते-ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥इति ।
तद् एवं चतुर्णां देव-निकायानां साधारण-धर्मान् उक्त्वा नाम-विशेष-ग्रहणेन धर्म-विशेषानाह-तत्र इति । अच्युता नाम देवाः स्थूल-विषय-ध्यान-सुखाः, तेन ते तृप्यान्ति । शुद्ध-निवासानाम देवाः सूक्ष्म-विषय-ध्यान-सुखाः, तेन ते तृप्यान्ति । सत्याभा नाम देवा इन्द्रिय-विषय-ध्यान-सुखाः, तेन तेतृप्यान्ति । संज्ञा-संज्ञिनो नाम देवा अस्मिता-मात्र-ध्यान-सुखाः, तेन ते तृप्यान्ति । त एते सर्वे सम्प्रज्ञात-समाधिमुपासते ।
अथासम्प्रज्ञात-समाधि-निष्ठा विदेह-प्रकृति-लयाः कस्मान्न लोक-मध्ये न्यस्यन्त इत्यत आह-विदेह-प्रकृति-लयास्त्व् इति । बुद्धि-वृत्तिमन्तोहि दर्शित-विषया लोक-यात्रां वहन्तो लोकेषु वर्तन्ते, न चैवं विदेह-प्रकृति-लयाः सत्य् अपि साधिकारत्व इत्य् अर्थः ।
तद् एतद् आ सत्य-लोकम् आ चावीचेर्योगिना साक्षात्करणीयं, सूर्य-द्वारे सुषुम्नायां नाड्याम्, न चैतावताऽपि तत्-साक्षात्कारो भवतीत्यत आह-एवं तावद् अन्यत्रापिइति । सुषुम्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु–यावद् इदं सर्वेजगद् दृष्टम् इति । बुद्धि-सत्त्वं हि स्वभावत एव विश्व-प्रकाशन-समर्थं तमो-मलावृतं यत्रैव रजसोद्धाय्यते, तद् एव प्रकाशयति । सूर्य-द्वार-संयमोद्घाटितं तु भुवनं प्रकाशयति । न चैवम् अन्यत्रापि प्रसङ्गः, तत्-संयमस्य तावन्-मात्रोद्घाटन-सामर्थ्याद् इति सर्वम् अवदातम्॥२६॥
चन्द्रे ताराव्यूहज्ञानम् ॥२७॥
तत्त्व-वैशारदी : चन्द्रे तारा-व्यूह-ज्ञानम् ॥ध्रुवे तद्-गति-ज्ञानम् ॥[३.२८] नाभि-चक्रे काय-व्यूह-ज्ञानम् ॥[३.२९] कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥[३.३०] कूर्म-नाड्यां स्थैर्यम् ॥[३.३१] तत्र तत्र जिज्ञासायां योगिनस्तत्र तत्र संयमः । एवं क्षुत्-पिपासा-निवृत्ति-हेतुः संयमः, स्थैर्य-हेतुश् च संयमः सूत्र-पदैरुपदिष्टो भाष्येण च निगद-व्याख्यातेनव्याख्यात इति न व्याख्यातः॥२७-३१॥
ध्रुवे तद्गतिज्ञानम् ॥२८॥
३.२७ द्रष्टव्यम्.
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
३.२७ द्रष्टव्यम्.
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥
३.२७ द्रष्टव्यम्.
कूर्मनाढ्यां स्थैर्य्यम् ॥३१॥
३.२७ द्रष्टव्यम्.
मूर्द्धज्योतिषि सिद्धदर्शनम् ॥३२॥
तत्त्व-वैशारदी : मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥ मूर्ध-शब्देन सुषम्ना-नामा नाडी लक्ष्यते, तत्र संयमैति ॥३२॥
प्रातिभाद्वा सर्वम् ॥३३॥
तत्त्व-वैशारदी : प्रातिभाद्वा सर्वं ॥प्रतिभोहः, तद्-भवं प्रातिभं, प्रसङ्ख्यान-हेतु-संयमवतो हि तत्-प्रकर्षे प्रसङ्ख्यानोदय-पूर्व-लिङ्गं यदूहजं ज्ञानं, तेन सर्वं विजानाति योगी । तत्र प्रसङ्ख्यान-सन्निधापनेन संसारात्तारयतीति तारकम्॥३३॥
हृदये चित्तसंवित् ॥३४॥
तत्त्व-वैशारदी : हृदये चित्त-संविद्॥ हृदय-पदं व्याचष्टे-यदिदमस्मिन् ब्रह्म-पुरे [छा.उ. ८.१.१] इति। बृहत्त्वादात्मा ब्रह्म,तस्य पुरं निलयः । तद्धि तत्र विजानाति स्वम् इति।दहरं गर्तं । तद् एव पुण्डरीकमधो-मुखं वेश्म मानसः । चित्त-संवेदनत्वे हेतुमाह-तत्र विज्ञानमिति । तत्र संयमाच् चित्तं विजानाति स्व-वृत्ति-विशिष्टम्॥३४॥
सत्त्व-पुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
तत्त्व-वैशारदी : सत्त्व-पुरुषयोरित्य्-आदि । यत्र प्रकाश-रूपस्यातिस्वच्छस्य नितान्ताभिभूत-रजस्-तमस्तया विवेक-ख्याति-रूपेण परिणतस्य बुद्धि-सत्त्वस्यात्यन्तिकश्चैतन्यादसङ्करः,तत्र कैव कथा रजस्-तमसोर्जड-स्वभावयोरित्याशयवान् सूत्र-कारः सत्त्व-पुरूषयोरित्युवाच ।
इमम् एवाभिप्रायं गृहीत्वा भाष्य-कारोऽप्याह-बुद्धि-सत्त्वं प्रख्या-शीलमिति । न प्रख्या-शील-मात्रम्, अपितु विवेक-ख्याति-रूपेण परिणतम् । अतो नितान्त-शुद्ध-प्रकाशतयाऽत्यन्त-सारूप्यं चैतन्येनेति सङ्कर इत्य् आह-समानैति ।
तत्त्वेनोपनिबन्धनमविनाभावःसम्बन्धः ।समानं सत्त्वोपनिबन्धनं ययो रजस्-तमसोस्ते तथोक्ते । वशीकारोऽभिभवः । असङ्करम् आह-तस्माच् चैति । च-कारोऽप्य्-आर्थकः,केवलं रजस्-तमोभ्याम् इत्य् अर्थः । परिणामिनैतिवैधर्म्य-परिणामिनः पुरुषादुक्तम् ।प्रत्ययाविशेषःशान्त-घोर-मूढ-रूपाया बुद्धेश्चैतन्य-बिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्य्-आकाराध्यारोपः चन्द्रमस इव स्वच्छ-सलिल-प्रतिबिम्बितस्य तत्-कम्पनात् कम्पनारोपः ।भोग-हेतुम् आह-दर्शित-विषयत्वाद् इत्यसकृद् व्याख्यातम् ।
ननु बुद्धि-सत्त्वम् अस्तु पुरुष-भिन्नं । भोगस् तु पुंसः कुतो भिद्यते ? इत्यत आह-सैति ।स भोग-प्रत्ययःभोग-रूप-प्रत्ययः सत्त्वस्य । अतः परार्थत्वाद् दृश्यो भोगः। सत्त्वं हि परार्थं, संहतत्वात् । तद्-धर्मश् च भोगैति सोऽपि परार्थः, यस्मै च परस्मा असौ तस्य भोक्तुर्भोगः ।
अथवाऽनुकूल-प्रतिकूल-वेदनीयो हि सुख-दुःखानुभवो भोगः । न चायमात्मानम् एवानुकूलयति प्रतिकूलयति वा, स्वात्मनि वृद्धि-विरोधात् । अतोऽनुकूलनीय-प्रतिकूलनीयार्थो भोगः । स भोक्ता आत्मा, तस्य दृश्यो भोगैति ।यस् तु तस्मात्परार्थाद्विशिष्टैति। परार्थादितिपञ्चम्य्-अन्य-पदाध्याहारेण व्याख्याता ।
स्यादेतत्-पुरुषैति ।पुरुष-विषया चेत् प्रज्ञा हन्त भोः पुरुषः प्रज्ञायाः प्रज्ञेयैति प्रज्ञान्तरम् एव तत्र तत्रेत्य् अनवस्थापात इत्य् अत आह–न च पुरुष-प्रत्ययेनेति । अयम् अभिसन्धिः–चित्या जडः प्रकाश्यते, न जडेन चितिः । पुरुष-प्रत्ययस् त्व् अचिद् आत्मा कथं चिद्-आत्मानं प्रकाशयेत् ? चिद्-आत्मा त्वपराधीन-प्रकाशो जडं प्रकाशयतीति युक्तम् ।
बुद्धि-सत्त्वात्मनेति । अचिद्-रूप-तादात्म्येन जडत्वम् आह-बुद्धि-सत्त्व-गत-पुरुष-
प्रतिबिम्बालम्बनात्पुरुषालम्बनं[दर्पणवन्मुखालम्बनं], न तु पुरुष-प्रकाशनात्पुरुषालम्बनम् । बुद्धि-सत्त्वम् एवतु तेन प्रत्ययेन संक्रान्त-पुरुष-प्रतिबिम्बं पुरुष-च्छायापन्नं चैतन्यमालम्बतैति पुरुषार्थः । अत्रैव श्रुतिमुदाहरति-तथा ह्युक्तमिति । ईश्वरेण विज्ञातारंिति । न केनचिद् इत्य् अर्थः ॥३५॥
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥३६॥
तत्त्व-वैशारदी : स च स्वार्थ-संयमो न यावत् प्रधानं स्व-कार्य पुरुष-ज्ञानम् अभिनिर्वर्तयति । तावत् तस्य पुरस्ताद् या विभूतीर् आधत्ते ताः सर्वा दर्शयति-ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥
तद् अनेन योगज-धर्मानुगृहीतानां मनः-श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानां यथा-संख्यं प्रातिभ-ज्ञान-दिव्य-शब्दाद्य्-अपरोक्ष-हेतु-भाव उक्तः, श्रोत्रदीनां पञ्चानां दिव्य-शब्दाद्य्-उपलम्भकानां तान्त्रिक्यः सञ्ज्ञाः श्रावणाद्याः । सुगमं भाष्यम्॥३६॥
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३७॥
तत्त्व-वैशारदी : कदाचिदात्म-विषय-संयम-प्रवृत्तस्तत्-प्रभावादमूरर्थान्तर-सिद्धीरधिगम्य कृतार्थम्-मन्यः संयमाद्विरमेदत आह-ते सामाधावुपसर्गा व्युत्थाने सिद्धयः । व्युत्थित-चित्तो हि ताः सिद्धीरभिमन्यते, जन्म-दुर्गत इव द्रविण-कणिकाम् अपिद्रविण-सम्भारम्, योगिना तु समाहित-चित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम्, अभिसंहित-ताप-त्रयात्यन्तिकोपशम-रूप-परम-पुरुषार्थःस खल्व् अयं कथं तत्-प्रत्यनीकासु सिद्धिषु रज्येतेति सूत्र-भाष्ययोरर्थः ॥३७॥
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्यपरशरीरावेशः ॥३८॥
तत्त्व-वैशारदी : तद् एवं ज्ञान-रूपमैश्वर्यं पुरुष-दर्शनान्तं संयम-फलमुक्त्वा क्रिया-रूपम् ऐश्वर्यं संयम-फलम् आह-बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य पर-शरीरावेशः ॥ समाधि-बलादिति । बन्ध-कारण-विषय-संयम-बलात्, प्राधान्यात्समाधि-ग्रहणम् प्रचरत्यनेनास्मिन्निति प्रचारः । चित्तस्य गमागमाध्वानो नाड्यः । तस्मिन् प्रचारे संयमात्तद्-वेदनं । तस्माच् च बन्ध-कारण-शैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धम् अप्युन्मार्गेण गच्छन्न स्व-शरीरादप्रत्यूहं निष्क्रामति, न च पर-शरीरमाविशति, तस्मात्तत्-प्रचारोऽपि ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारीणि पर-शरीरे यथाऽधिष्ठानं निविशन्तैति ॥३८॥
उदानजयाज्जल-पङ्क-कण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥
तत्त्व-वैशारदी :ुदान-जयाज् जल-पङ्क-कण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥समस्तेन्द्रिय-वृत्तिर्जीवनं प्राणादि-लक्षणा, प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याऽऽभ्यन्तरी च । बाह्या रूपाद्य्-आलोचन-लक्षणा, आभ्यन्तरी तु जीवनम् । स हि प्रयत्न-भेदः शरीरोपगृहीत-मारुत-क्रिया-भेद-हेतुः सर्व-करण-साधारणः । यथाहुः-सामान्य-करण-वृत्तिः प्राणाद्या वायवः पञ्च[सा.का. २९] इति । तैर् अस्य लक्षणीयत्वात्, तस्य प्रयत्नस्यक्रियाकार्यं पञ्चतयी । प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशित-पीताहार-परिणति-भेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन् समानः । आ हृदयादा च नाभेरस्य स्थानम् । मूत्र-पुरीष-गर्भादीनामपनयन-हेतुरपानः । आ नाभेरा च पाद-तलादस्य वृत्तिः । उन्नयनादूर्ध्व-नयनाद् रसादीनामुदानः । आ नासिकाग्रादा च शिरसो वृत्तिरस्य । व्यापी व्यानः । एषामुक्तानां प्रधानं प्राणः । तद्-उत्क्रमे सर्वोत्क्रम-श्रुतेः-प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रामन्ति[बृ.आ.उ. ४.४.२] इति ।
तद् एवं प्राणादीनां क्रिया-स्थान-भेदेन भेदं प्रतिपाद्य सूत्रार्थमवतारयति-उदान-जयाद् इति । उदाने कृत-संयमस्तज्-जयाज्जलादिभिर्न प्रतिहन्यते, उत्क्रान्तिश्चार्चिर्-आदि-मार्गेण भवति प्रयाण-काले । तस्मात्तमुत्क्रान्तिं वशित्वेन प्रतिपद्यते, प्राणदि-संयमात्तद्-विजये विभूतय एताः क्रिया-स्थान-विजयादि-भेदात् प्रतिपत्तव्याः ॥३९॥
समानजयात् प्रज्वलनम् ॥४०॥
तत्त्व-वैशारदी :समान-जया प्रज्वलनम् ॥तेजसः शारीरस्योपध्मानम् उत्तेजनम्॥४०॥
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥
तत्त्व-वैशारदी : स्वार्थ-संयमादन्वाचय-शिष्टं श्रावणाद्युक्तम्, सम्प्रति श्रावणाद्यर्थाद् एव संयमाच्छावणादि भवतीत्याह-श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥
संयम-विषयं श्रोत्राकाशयोः संबन्धमाधाराधेय-भावम् आह-सर्व- इति । सर्व-श्रोत्राणाम् आहङ्कारिकाणाम् अप्याकाशं कर्ण-शष्कुली-विवरं प्रतिष्ठा तद्-आयतनं श्रोत्रम् । तद्-उपकारापकाराभ्यां श्रोत्रस्योपकारपकार-दर्शनात् । शब्दानां च श्रोत्र-सहकारिणां पार्थिवादि-शब्द-ग्रहणे कर्तव्ये कर्ण-शष्कुल-सुषिर-वर्ति श्रोत्रं स्वाश्रयन-भोगतासाधारण-शब्दमपेक्षते । गन्धादि-गुण-सहकारिभिर्घ्राणादिभिर्बाह्ये पृथिव्यादि-वर्ति-गन्धाद्य्-आलोचनं कार्यं दृष्टम् । आहङ्कारिकम् अपिघ्राण-रसन-त्वक्-चक्षु-श्रोत्रं भूताधिष्ठानम् एव, भूतोपकारापकाराभ्यां घ्राणादीनामुपकरापकार-दर्शनाद् इत्य् उक्तम् ।
तच्चेदं श्रोत्रम् आहङ्करिकमयः-प्रतिममयस्कान्त-मणि-कल्पेन वक्तृ-वक्त्र-समुत्पन्नेन वक्त्र-स्थेन शब्देनाकृष्टं स्व-वृत्ति-परम्परयावक्तृ-वक्त्रमागतं शब्दमालोचयति । तथाच दिग्-देश-वृत्ति-शब्द-प्रतीतिः प्राण-भृन्-मात्रस्य नास्ति बाघके प्रमाणीकृता भविष्यतीति ।
तथा च पञ्चशिखस्य वाक्यं-तुल्य-देश-श्रावणानाम् एक-देश-श्रुतित्वं सर्वेषां भवति इति । तुल्य-देशानि श्रवणनि श्रोत्राणि येषां चैत्रदीनां ते तथोक्ताः । सर्वेषांश्रवणान्याकाश-वर्तीनीत्य् अर्थः । तच्चश्रोत्राधिष्टानमाकाशं शब्द-गुणक-तन्मात्रादुत्पन्नं शब्द-गुणकं येन शब्देन सहकारिणा पार्थिवादीन् शब्दान् गृह्णाति, तस्मात्सर्वेषामेक-जातीया श्रुतिः शब्द इत्य् अर्थः । तदनेन श्रोत्राधिष्टानत्वमाकाशस्य शब्द-गुणत्वं च दर्शितमिति । तच् चएक-देश-श्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येक-जातीया शब्द-व्यञ्जिका श्रुतिर् यद्-आश्रयातदेवाकाश-शब्द-वाच्यम् । नहीदृशी श्रुतिमन्तरेण शब्द-व्यक्तिः, न चेदृशी श्रुतिः पृथिव्य्-आदि-गुणस् तस्य स्वात्मनि व्यङ्ग-व्यञ्जकत्वानुपपत्तेरिति ।
अनावरणं चाकाश-लिङ्गम् । यद्याकाशं नाभविष्यदन्योन्यं सम्पिण्डितानि मूर्तानि न सूचीभिरप्याभेत्स्यन्त । ततश् च सर्वैर् एव सर्वमवृतं स्यात् । न च मूर्त-द्रव्य-भाव-मात्राद् एवानवरणम् । अस्याभावस्य भावाश्रितत्वेन तद्-अभावेऽभावाद्, न च चिति-शक्तिस्तस्याश्रया भवितुम् अर्हति, अपरिणामितयाऽवच्छेदकत्वाभावात् । न च दिक्-कालादयः पृथिव्य्-आदि-द्रव्य-व्यतिरिक्ताः सन्ति । तस्मात् तादृशः परिणति-भेदोनभस एवेति सर्वमवदातम् ।
अनावरणे चाकाश-लिङ्गे सिद्धे यत्र यत्रानावरणं तत्र सर्वत्राकाशमिति सर्व-गतत्वम् अप्य् आकाशस्य सिद्धमित्य् आह-तथाऽमुर्तस्य इति । श्रोत्र-सद्-भावे प्रमाणम् आह–शब्द-ग्रहण- इति । क्रिया हि करण-साध्या दृष्टा, यथा छिद्रादिर्वास्यादि-साध्या । तदिह शब्द-ग्रहण-क्रिययाऽपि करण-साध्यया भवितव्यम्, यच्च करणं तच् चश्रोत्रमिति ।
अथास्याश्चक्षुर्-आदय एव कस्मात्करणं न भवन्ति ? इत्य् अतआह-बधिराबधिरयोःिति । अन्वय-व्यतिरेकाभ्याम् अवधारणम् । उपलक्षणं चैतत्,त्वग्-वातयोश्चक्षुस्-तेजसोरसनोदकयोर्नासिका-पृथिव्योः सम्बन्ध-संयमाद् दिव्य-त्वग्-आद्यप्य् ऊहनीयम्॥४१॥
कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥
योग-वार्तिकम् :कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश् चाकाश-गमनम् ॥च-कारोऽत्र विकल्पार्थकः । कीदृशः संबन्धः ?इत्य् आकाङ्क्षयाम् आह-यत्रेति । यत्रासनादौ शरीरं तिष्ठति, तत्र शरीरावच् छेदेनाप्याकाशं तिष्ठति । तत्र हेतुः-तस्याकाशस्यावकाश-दातृत्वादिति। अतः कायस्याकाशेन संबन्धः प्राप्ति-रूपो व्यापनमिति यावद् इत्य् अर्थः ।
तत्रेति । तत्र संबन्धे कृत-संयमः तत्-संबन्धं जित्वा साक्षात्कारेण स्वेच्छाधीनं कृत्वा लघुर्भवतीत्य् आगामिनान्वयो भविष्यति । द्वितीय-हेतुं व्याचष्टे-लघुषुवा इत्यादिना, जित-संबन्ध इत्यन्तेन । समापत्तिं तत्-स्थ-तद्-अञ्जनतां । जित-संबन्धः स्वायत्तीकृत-कायाकाश-संबन्ध इत्य् अर्थः ।
आकाश-गतावुपाय-द्वय-साधारणं क्रमम् आह-लघुरित्य्-आदिना । प्रथमं लघुर्भवति, ततो लघुतया जले पृथिव्याम् इव पद्भ्यां संचरतीत्य्-आदिः क्रम इत्य् अर्थः ।सुगमम् अन्यत् ॥४२॥
बहिरकल्पिता वृत्तिर्महाविदेहा, ततः प्रकाशावरणक्षयः ॥४३॥
तत्त्व-वैशारदी :परम् अपिपर-शरीरावेश-हेतुं संयमं क्लेश-कर्म-विपाक-क्षय-हेतुम् आह-बहिर्-अकल्पिता वृत्तिर् महा-विदेहा, ततः प्रकाशावरण-क्षयः ॥
विदेहाम् आह-शरीरादिति । अकल्पिताया महा-विदेहाया य उपायस्तत्-प्रदर्शनाय कल्पितांविदेहाम् आह–सा यदिइति । वृत्ति-मात्रं कल्पना-ज्ञान-मात्रं, तेन । महा-विदेहाम् आह-या तुइति । उपायोपेयते कल्पिताऽकल्पितयोराह–तत्रैति ।
किं पर-शरीरावेश-मात्रम् ?इति । नेत्याह-ततश् चैति । ततो धारणातोमहा-विदेहाया मनः-प्रवृत्तेः सिद्धेः ।क्लेशश् च कर्म च, ताभ्यां विपाक-त्रयं जात्य्-आयुर्-भोगास्तद् एतद्रजस्-तमो-मूलं विगलित-रजस्-तमसः सत्त्व-मात्राद् विवेक-ख्याति-मात्र-समुत्पादात् ।तद् एतद्विपाक-त्रयं रजस्-तमो-मूलतया तद्-आत्मकं सद्-बुद्धि-सत्त्वमावृणोति । तत्-क्षयाच् च निरावरणं योगि-चित्तं यथेच्छं विहरति विजानाति चेति ॥४३॥
स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥४४॥
तत्त्व-वैशारदी : स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥ स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वानि । तेषु संयमात्तज्-जयः ।
(१) स्थूलम् आह—तत्रैति । पार्थिवाः पाथसीयास्तैजसा वायवीया आकाशीया शब्द-स्पर्श-रूप-रस-गन्धा यथा-सम्भवं विशेषाः षड्ज-गान्धारादयः शीतोष्णादयो नील-पीतादयः कषाय-मधुरादयः सुरभ्य्-आदयः । एते हि नाम-रूप-प्रयोजनैः परस्परतो भिद्यन्तैति विशेषाः । एतेषां पञ्च पृथिव्यां । गन्ध-वर्जं चत्वारोऽप्सु । गन्ध-रस-वर्ज-त्रयस्तेजसि । गन्ध-रस-रूप-वर्जं द्वौ नभस्वति । शब्द एवाकाशे । त एत ईदृशा विशेषाः सहाकारादिभिर् धर्मैः स्थूल-शब्देन परिभाषिताः शास्त्रे । तत्रापि पार्थिवास्तावद् धर्माः—
आकारो गौरवं रौक्ष्यं वरणं स्थैर्यम् एव च ।
वृत्तिर्भेदः क्षमा कार्श्ये काठिन्यं सर्व-भोग्यता॥
अपां धर्माः-
स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत्।
शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः ॥
तैजसा धर्माः-
ऊर्ध्व-भाक् पाचकं दग्धृ पावकं लघु भास्वरम्।प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्न-लक्षणम् ॥
वायवीया धर्माः-
तिर्यग्-यानं पवित्रत्वमाक्षेपो नोदनं बलम्।
चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्-विधाः ॥
आकाशीया धर्माः-
सर्वतो गतिर् अव्यूहोऽविष्टम्भश्चेति च त्रयः ।आकाश-धर्मा व्याख्याताः पूर्व-धर्म-विलक्षणाः ॥
त एत आकार-प्रभृतयो धर्मास्तैः सहेति । आकारश् च सामान्य-विशेषो गोत्वादिः ।
(२) द्वितीयं रूपम् आह-द्वितीयं रूपं स्व-सामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जले मज्जा-पुष्टि-बलाधान-हेतुः । वह्निर् उष्णतौदर्ये सौर्ये भौमे च सर्वत्रैव तेजंसि समवेतोष्णतेति । सर्वं चैतद् धर्म-धर्मिणोर् अभेद-विवक्षयाभिधानम् । वायुः प्रणामी वहन-शीलः । तद् आह–
चलनेन तृणादीनां शरीरस्याटनेन च ।
सर्वगं वायु-सामान्यं नामीत्वम् अनुमीयते ॥
सर्वतो-गतिर् आकाशः । सर्वत्र शब्दोपलब्धि-दर्शनात् । श्रोत्राश्रयाकाश-गुणेन हि शब्देन पार्थिवादि-शब्दोपलब्धिर् इत्य् उपपादितम् अधस्तात् । एतत्-स्वरूप-शब्देनोक्तम् । अस्यैव मूर्त्य्-आदि-सामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयः मूर्त्य्-आदीनां सामान्यानां भेदाः । सामान्यान्य् अपि मूर्त्य्-आदीनि जम्बीर-पनसामलक-फलादीनि रसादि-भेदात् परस्परं व्यावर्तन्ते । तेनैतेषाम् एते रसादयो विशेषाः । तथा चोक्तं-एक-जाति-समन्वितानां प्रत्येकं पृथिव्य्-आदीनां एकैकया जात्या मूर्ति-स्नेहादिना समन्वितानाम् एषां षड्जादि-धर्म-मात्र-व्यावृत्तिर् इति । तद् एवं सामान्यं मूर्त्य्-आद्य् उक्तं विशेषाश् च शब्दादय उक्ताः ।
सर्वतो-गतिर् आकाशः सर्वत्र शब्दोपलब्धि-दर्शनात् । श्रोत्राश्रयाकाश-गुणेन हि शब्देन पार्थिवादि-शब्दोपलब्धिरित्युपपादितमधस्तात् । एतत्स्वरूप-शब्देनोक्तम् । अस्यैव मूर्त्य्-आदि-सामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयोमूर्त्य्-आदीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्य्-आदीनि जम्बीर-पनसामलक-फलादीनि रसादि-भेदात् परस्परं व्यावर्तन्ते । तेनैतेषाम् एते रसादयो विशेषाः । तथा चोक्तम्-एकेति । एक-जाति-समन्वितानां प्रत्येकं पृथिव्य्-आदीनाम् एकैकया जात्या मूर्ति-स्नेहादिना समन्वितानाम् एषां षड्जादि-धर्म-मात्र-व्यावृत्तिरिति । तद् एवं सामान्यं मूर्त्य्-आद्य्-उक्तं विशेषाश् च शब्दादय उक्ताः ।
ये चाहुः सामान्य-विशेषाश्रयो द्रव्यम् इति तान् प्रत्य् आह-सामान्येति । सामान्य-विशेष-समुदायोऽत्र
दर्शने द्रव्यम् । येऽपि तद्-आश्रयो द्रव्यम् आस्थिषत तैर् अपि तत्-समुदायोऽनुभूयमानो नापह्नोतव्यः । न च तद्-अपह्नवे तयोर् आधारो द्रव्यमिति भवति । तस्मात् तद् एवास्तु द्रव्यम् ।न तु ताभ्यां तत्-समुदायाच् चतद्-आधारम् अपरं द्रव्यम् उपलभामहे ।ग्रावभ्यो ग्राव-समुदायाद् इव च तद्-आधारम् अपरंपृथग्-विधं शिखरम् ।
समूहो द्रव्यम् इत्य् उक्तम् । तत्र समूह-मात्रं द्रव्यमिति भ्रमापनुत्तये समूह-विशेषो द्रव्यमिति निर्धारयितुं समूह-प्रकारान् आह-द्विष्ठो हीति ।यस्माद् एवंतस्मान् न समूह-मात्रं द्रव्यम् इत्य् अर्थः । द्वाभ्यांप्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारम् आह–प्रत्यस्तमितेति । प्रत्यस्तमितो भेदो येषाम् अवयवानां ते तथोक्ताः प्रत्यस्तमित-भेदाअवयवा यस्य स तथोक्तः । एतद् उक्तं भवति–शरीर-वृक्ष-यूथ-वन-शब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयव-भेदस् तद्-वाचक-शब्दा-प्रयोगात् समूह एकोऽवगम्यत इति । युतायुत-सिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरण-चतुष्टयम्। युतायुत-सिद्धावयवत्त्वं चाग्रे वक्ष्यते ।
द्वितीयं प्रकारम् आह-शब्देनोपात्तभेदावयवानुगतः समूह उभये देव-मनुष्या इति । देव-मनुष्या इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नाव् उपात्तौ।
ननूभय-शब्दात्तद्-अवयव-भेदो न प्रतीयते । तत् कथमुपात्त-भेदावयवानुगतः ? इत्यत आह-ताभ्याम् इति । ताभ्यां भागाभ्याम् एव समूहोऽभिधीयते। उभय-शब्देन भाग-द्वय-वाचि-शब्द-सहितेन समूहो वाच्यः । वाक्यस्य वाक्यार्थ-वाचकत्वाद् इति भावः ।
पुनर् द्वैविध्यम् आह-स चेति । भेदेन चाभेदेन च विवक्षितः । भेद-विवक्षितम् आह–आम्राणां वनं ब्राह्मणानां सङ्घ इति ।भेदएवषष्ठी-श्रुतेः ।यथागर्गाणांगौर् इति। अभेद-विवक्षायाम् आह–आम्र-वणं ब्राह्मण-सङ्घ इति ।ाम्राश् चतेवनंचेतिसमूह-समूहिनोर् अभेदं विवक्षित्वासामानाधिकरण्यम् इत्य् अर्थः ।विधान्तरम् आह–स पुनर् द्विविध इति ।
युत-सिद्धावयवः समूहः । युत-सिद्धाः पृथक्-सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः ।यूथं वनम् इति । सान्तराला हि तद्-अवयवा वृक्षाश्च गावश्च। अयुत-सिद्धावयवश्च समूहो वृक्षो गौः परमाणुर् इति । निरन्तरा हि तद्-अवयवाः सामान्य-विशेषा वा सास्नादयो वेति । तद् एतेषु समूहेषु द्रव्य-भूतं समूहं निर्धारयति-अयुत-सिद्धेति । तद् एवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतम् उपसंहरति–एतत् स्वरूपम् इत्य् उक्तम् इति ।
(३) तृतीयं रूपं विवक्षुः पृच्छति-अथेति ।ुत्तरम् आह–तन्मात्रम् इति । तस्यैकोऽवयवः परिणाम-भेदः परमाणुः । सामान्यं मूर्तिः । शब्दादयोविशेषास् तद्-आत्मा । अयुत-सिद्धा निरन्तरा येऽवयवाः सामान्य-विशेषास् तद्-भेदेष्व् अनुगतः समुदायः । यथा च परमाणुः सूक्ष्मं रूपम् एवं सर्व-तन्मात्राणि सूक्ष्मं रूपम् इति ।ुपसंहरति–एतद् इति ।
(४) अथ भूतानां चतुर्थं रूपं ख्याति-क्रिया-स्थिति-शीला गुणाः कार्य-स्वभावानुपातिनःकार्य-स्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वय-शब्देनोक्ताः ।
(५) अथैषां पञ्चमं रूपमर्थवत्त्वं विवृणोति-भोगेति ।
नन्व् एवम् अपि सन्तु गुणा अर्थवन्तः । तत्-कार्याणांतुकुतोऽर्थवत्त्वम् ? इत्य् अत आह-गुणा इति ।भौतिकागो-घटादयः । तद् एवं संयम-विषयम् उक्त्वा संयमं तत्-फलं चाह–तेष्व् इति ।भूत-प्रकृतयः भूत-स्वभावाः ॥४४॥
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥४५॥
तत्त्व-वैशारदी : सङ्कल्पानुविधाने भूतानां किं योगिनः सिद्ध्यतेत्यत आह-ततोऽणिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च ॥
स्थूल-संयम-जयाच् चतस्रः सिद्धयो भवन्तीत्य् आह-तत्रैति ।णिमा महान् अपि भवत्यणुः ।लघिमामहानपि लघुर्भूत्वेषीका-तूल इवाकाशे विहरति । महिमाअल्पोऽपि ग्राम-नग-गगन-परिमाणो भवति ।प्राप्तिःसर्वे भावाः सन्निहिता भवन्ति योगिनः । तद्यथा भूमिष्ठ एवाङ्गुल्य्-अग्रेण स्पृशति चन्द्रमसम् ।
स्वरूप-संयम-विजयात् सिद्धिम् आह-प्राकाम्यमिच्छानभिघातैति । नास्य रूपं भूत-स्वरूपैर्मूर्त्य्-आदिभिरभिहन्यते ।भूमाव् उन्मज्जति निमज्जति च यथोदके ।
सूक्ष्म-विषय-संयम-जयात्सिद्धिम् आह-वशित्वमिति ।भूतानि पृथिव्य्-आदीनि, भौतिकानि गो-घटादीनि । तेषु वशीस्वतन्त्रो भवति, तेषां त्व् अवश्यः । तत्-कारण-तन्मात्र-पृथिव्य्-आदि-परमाणु-वशीकारात्तत्-कार्य-वशीकारस्तेन यानि यथाऽवस्थापयति, तानि तथाऽवतिष्ठन्त इत्य् अर्थः ।
अन्वय-विषय-संयम-जयात्सिद्धिम् आह-ईशितृत्वमिति । तेषांभूत-भौतिकानां विजित-मूल-प्रकृतिः सन् यः प्रभवौत्पादो यश्चाप्यायोविनाशो यश् च व्यूहोयथावद् अवस्थापनं तेषाम् ईष्टे ।
अर्थवत्त्व-संयमात्सिद्धिम् आह-यत्र-कामावशायित्वं सत्य-सङ्कल्पताइति ।विजित-गुणार्थवत्त्वो हि योगी यद् यदर्थतया सङ्कल्पयति, तत् तस्मै प्रयोजनाय कल्पते । विषम् अप्य् अमृत-कार्ये सङ्कल्प्य भोजयन् जीवयतीति ।
स्यादेतत्-यथा शक्ति-विपर्यासं करोति,एवं पदार्थ-विपर्यासमपि कस्मान्न करोति ? तथा चन्द्रमसमादित्यं कुर्यात्, कुहूंश् च सिनीवालीमित्यतआह-न च शक्तोऽपिइति । न खल्वेते यत्र कामावसायिनस्तत्र-भवतः परमेश्वरस्याज्ञामुत्क्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जाति-देश-कालावस्था-भेदेनानियत-स्वभावा इति युज्यते, तासु तद्-इच्छाऽनुविधानम् इति ।ेतान्यष्टावैश्वर्याणि ।
तद्-धर्मानभिघात इति । अणिमादि-प्रादुर्भाव इत्यनेनैव तद्-धर्मानाभिघात-सिद्धौ पुनरुपादानं काय-सिद्धिवद् एतत्-सूत्रोपबद्ध-सकल-विषय-संयम-फलवत्त्व-ज्ञापनाय । सुगममन्यद्॥४५॥
रूप-लावण्य-बल-वज्रसंहननत्वानि कायसम्पत् ॥४६॥
तत्त्व-वैशारदी : काय-सम्पदम् आह-रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत्॥ वज्रस्येव संहननम् अवयव-व्यूहो दृढो निविडो यस्य, स तथोक्तः ।[तस्य भावस् तत्त्वम् इति] ॥४६॥
ग्रहण-स्वरूपा स्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥४७॥
तत्त्व-वैशारदी : जित-भूतस्य योगिन इन्द्रिय-जयोपायम् आह-ग्रहण-स्वरूपास्मितान्वयार्थ-वत्त्व-संयमाद् इन्द्रिय-जयः ॥ग्रहणं च, स्वरूपं च, अस्मिता च, अन्यवश् च, अर्थवत्त्वं च । तेषु संयमः, तस्माद् इत्य् अर्थः ।
गृहीतिर्ग्रहणं । तच्च ग्राह्याधीन-निरूपणम् इति ग्राह्यं दर्शयति-सामान्य-विशेषात्माइति ।
ग्राह्यम् उक्त्वा ग्रहणम् आह-तेषुइति । वृत्तिरालोचनं विषयाकारा परिणतिर् इति यावत् ।
ये त्वाहुः-सामान्य-मात्र-गोचरेन्द्रिय-वृत्तिर् इति,तान्प्रत्याह-न चैति । गृह्यत इति ग्रहणं, सामान्य-मात्र-गोचरं ग्रहणम् बाह्येन्द्रिय-तन्त्रं हि मनो बाह्ये प्रवर्तते, अन्यथान्ध-बधिराद्य्-अभाव-प्रसङ्गात् । तदिह यदि न विशेष-विषयमिन्द्रियं, तेनासावनालोचितोविशेषैतिकथंमनसाऽनुव्यवसीयेत ? तस्मात् सामान्य-विशेष-विषयमिन्द्रियालोचनम् इति ।
तद् एतद् ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपम् आह-स्वरूपं पुनःिति । अहङ्कारो हि सत्त्व-भागेनात्मीयेनेन्द्रियाण्यजीजनत्, अतो यत्तत्र करणत्वं सामान्यं, यच् च नियत-रूपादि-विषयत्वं विशेषस्तदुभयम् अपिप्रकाशात्मकम् इत्य् अर्थः ।
तेषां तृतीयं रूपम् इति । अहङ्कारो हीन्द्रियाणां कारणम् इति। यत्रेन्द्रियाणि तत्र तेन भवितव्यम् इति सर्वेन्द्रिय-साधारण्यात्सामान्यमिन्द्रियाणाम् इत्य् अर्थः ।
चतुर्थ-रूपम् इति । गुणानां हि द्वैरूप्यं व्यवसायात्मकत्वं व्यवसेयात्मकत्वं च । तत्र व्यवसेयात्मकतां ग्राह्यातामास्थाय पञ्च-तन्मात्राणि भूत-भौतिकानि च निर्मिमते, व्यवसायात्मकत्वंतु ग्रहण-रूपमास्थाय, साहङ्काराणीन्द्रियाणीत्य् अर्थः । शेषं सुगमम्॥४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
तत्त्व-वैशारदी : पञ्च-रूपेन्द्रिय-जयात् सिद्धीराह-ततो मनोजवित्वं विकरण-भावः प्रधान-जयश् च ॥ विदेहानामिन्द्रियाणां करण-भावो विकरण-भावः ।देशः काश्मीरादिः ।कालोऽतीतादिः ।विषयः सूक्ष्मादिः । सान्वयेन्द्रिय-जयात्सर्व-प्रकृति-विकार-वशित्वं प्रधान-जयस्ता एताः सिद्धयो मधु-प्रतीका इत्य् उच्यन्तेयोग-शास्त्र-निष्णातैः ।
स्याद् एतत्, इन्द्रिय-जयादिन्द्रियाणि स-विषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्-कारणानां किमायातम् ? इत्य् अत आह-एताश् च इति ।करणानामिन्द्रियाणां पञ्च-रूपाणिग्रहणादीनि, तेषां जयात् । एतद् उक्तं भवति-नेन्द्रिय-मात्र-जयस्यैताः सिद्धयोऽपि तु पञ्च-रूपस्य, तद्-अन्तर्-गतं च प्रधानादीति ॥४८॥
सत्त्व-पुरुषान्यताख्यातिमात्रस्य सर्वभावाधिस्ठातृत्वंसर्वज्ञातृत्वञ्च ॥४९॥
तत्त्व-वैशारदी : त एते ज्ञान-क्रिया-रूपैश्वर्य-हेतवः संयमाः साक्षात्पारम्पर्येण च स्व-सिद्ध्य्-उपसंहार-सम्पादित-श्रद्धा-द्वारेण यद्-अर्थास्तस्याः सत्त्व-पुरुषान्यता-ख्यातेरवान्तर-विभूतीर्दर्शयति-सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥
निर्धूत-रजस्-तमो-मलतया वैशारद्यं, ततः परा वशीकार-सञ्ज्ञा, रजस्-तमोभ्याम् उपप्लुतं हि चित्त-सत्त्वम् अवश्यम् आसीत् तद्-उपशमे तु तद्-वश्यं योगिनो वशिनः, तस्मिन् वश्ये योगिनः सत्त्व-पुरुषाऽन्यता-ख्याति-मात्र-रूप-प्रतिष्ठस्य सर्व-भावाधिष्ठातृत्वम् । एतद् एव विवृणोति-सर्वात्मानः इति ।व्यवसायव्यवसेयात्मानः जड-प्रकाश-रूपा इत्य् अर्थः । तद् अनेन क्रियैश्वर्यम् उक्तम् ज्ञानैश्वर्यम् आह–सर्व-ज्ञातृत्वमिति । अस्वा अपि द्विविधायाः सिद्धे वैराग्याय योगि-जन-प्रसिद्धां सञ्ज्ञाम् आह–एषा विशोका इति । क्लेशाश् च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा ॥४९॥
तद्वराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
तत्त्व-वैशारदी : संयमान्तराणां पुरुषार्थाभास-फलत्वाद् विवेक-ख्याति-संयमस्य पुरुषार्थतां दर्शयितुं विवेक-ख्यातेः पर-वैराग्योपजनन-द्वारेण कैवल्यं फलम् आह-तद्-वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥यदास्य योगिनः क्लेश-कर्म-क्षयः,तदैवं ज्ञानं भवति । किम्-भूतम् ? इत्य् आह-सत्त्वस्यायं विवेक-प्रत्ययो धर्मः ।शेषं तत्र तत्र व्याख्यातत्वात् सुगमम् ॥५०॥
स्थान्य्-उपनिमन्त्रणे सङ्ग – स्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
तत्त्व-वैशारदी : सम्प्रति कैवल्य-साधने प्रवृत्तस्य योगिनः प्रत्यूह-सम्भवे तन्-निराकरण-कारणम् उपदिशति-स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनर् अनिष्ट-प्रसङ्गात् ॥स्थानानि येषां सन्ति, ते स्थानिनो महेन्द्रादयः, तैर् उपनिमन्त्रणं, तस्मिन् सङ्गश् च स्मयश् च न कर्तव्यः,पुनरनिष्ट-प्रसङ्गात्।
तत्र यद् देवाः स्थानैरुपमन्त्रयन्ते तं योगिनम् एकं निर्धारयितुं यावन्तो योगिनः सम्भवन्ति, तावत एवाह-चत्वारैति ।
तत्र प्रथम-कल्पिकस्यस्वरूपम् आह-तत्राभ्यासी इति ।प्रवृत्त-मात्रं न पुनर् वशीकृतं ज्योतिःज्ञानं परि चित्तादि-विषयं यस्य स तथा ।
द्वितीयम् आह-ऋतम्भर-प्रज्ञ इति ।यत्रेदमुक्तम्–ऋतम्भरा तत्र प्रज्ञा[१.४८] इति । स हि भूतेन्द्रियाणि जिगीषुः ।
तृतीयम् आह-भूतेन्द्रिय-जयीइति । तेन हि स्थूलादि-संयमेन ग्रहणादि-संयमेन च भूतेन्द्रियाणि जितानि । तम् एवाह–सर्वेषुइति। सर्वेषु भावितेषु निष्पादितेषु भूतेन्द्रिय-जयात् पर-चित्तादि-ज्ञानादिषु पर-वैराग्य-पर्यन्तेषु कर्तव्य-साधनवान् पुरुष-प्रयत्नस्य साधन-विषयस्यैव साध्य-निष्पादकत्वात् ।
चतुर्थम् आह-चतुर्थ इति । तस्य हि भगवतो जीवन्-मुक्तस्य चरम-देहस्य चित्त-प्रतिसर्ग एकोऽर्थः ।
तदेतेषु यागिषूपनिमन्त्रण-विषयं योगिनमवधारयति-तत्र मधुमतीम् इति । प्रथम-कल्पिके तावन् महेन्द्रादीवां तत्-प्राप्ति-शङ्कैव नास्ति, तृतीयोऽपि तैर्नोपनिमन्त्रणीयः, भूतेन्द्रिय-वशित्वेनैव तत्-प्राप्तेः, चतुर्थेऽपि पर-वैराग्य-सम्पत्तेरासङ्गाशङ्का दूरोत्सारितैवेति, पारिशेष्याद् द्वितीय एव ऋतम्भर-प्रज्ञस्तद्-उपनिमन्त्रण-विषय इति ।वैहायसम् आकाश-गामि, अक्षयमविनाशि, अजरंसदाऽभिनवम् । स्मय-करणे दोषम् आह-स्मयादयम् इति। स्मयात्सुस्थितं-मन्यो नानित्यताम्भावयिष्यति, न तस्यां प्रणिधास्यतीत्यर्थः ।सुगमम् अन्यत् ॥५१॥
क्षण तत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
तत्त्व-वैशारदी : उक्ता क्वचित् क्वचित् संयमात्सर्वज्ञता । सा च न निःशेषज्ञता, अपि तु प्रकार-मात्र-विवक्षया, यथा सर्वैर् व्यञ्जनैर् भुक्तम् इति । अत्र हि यावन्तो व्यञ्जन-प्रकारास् तैर् भुक्तमिति गम्यते, न तु निःशेषैर् इति । अस्ति च निःशेष-वचनः सर्व-शब्दः, यथा-उपनीतम् अन्नं सर्वम् अमितं प्राशकेनेति, तत्र हि निःशेषमिति गम्यते । तद् इह निःशेषज्ञाता-लक्षणस्य विवेकज-ज्ञानस्य साधनं संयमम् आह-क्षण-तत्-क्रमयोः संयमाद् विवेकजं ज्ञानम्॥
क्षण-पदार्थं निदर्शन-पूर्वकम् आह-यथा इति । लोष्ठस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्व-तारतम्यं व्यवतिष्ठते, सोऽपकर्ष-पर्यन्तः परमाणुर् यथा तथाऽपकर्ष-पर्यन्तः कालः क्षणः, पूर्वापर-भाग-विकल-काल-कलेति यावत्, तम् एव क्षणं प्रकारान्तरेण दर्शयति-यावता वा इति । परमाणु-मात्रं देशमतिक्रामेदित्य् अर्थः । क्रम-पदार्थम् आह–तत्-प्रवाह इति। तत्-पदेन क्षणः परामृश्यते ।
न चेदृशः क्रमो वास्तवः, किन्तु काल्पनिकः । तस्य समाहार-रूपस्यायुगपद्-उपस्थितेषु वास्तवत्वेन विचारासहत्वाद् इत्य् आह-क्षण-तत्-क्रमयोःिति । अयुगपद्-भावि-क्षण-धर्मत्वात्क्रमस्य क्षण-समाहारस्यावास्तवत्वात् क्षण-तत्-क्रमयोरप्य् अवास्तवत्वं समाहारस्य । नैसर्गिक-वैतण्डिक-बुद्ध्य्-अतिशय-रहिता लौकिकाः, प्रतिक्षणम् एव व्युत्थित-दर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति ।
तत् किं क्षणोऽप्यवास्तवः? नेत्याह-क्षणस्तुवस्तु-पतितःवास्तव इत्य् अर्थः । क्रमस्यावलम्बनम् अवलम्बः सोऽस्यास्तीति, क्रमेणावलम्ब्यते वैकल्पिकेनेत्यर्थः । क्रमस्य क्षणावलम्बनत्वे हेतुम् आह-क्रमश् च इति । क्रमस्यावास्तवत्वे हेतुम् आह–न च इति । चो हेत्व्-अर्थे । यस् तु वैयात्यात् सह-भावम् उपेयात्तं प्रत्याह–क्रमश् च न द्वयोरिति । कस्माद् असम्भवः ? इत्य् अत आह-पूर्वस्मादिति । उपसंहरति–तस्माद् इति । तत् किम् इदानीं शशविषाणायमाना एव पूर्वोत्तर-क्षणाः ? नेत्याह-ये तु इति । अन्विताःसामान्येन[साम्येन] समन्वागता इत्य् अर्थः । उपसंहरति–तेनैति । वर्तमानस्यैवार्थ-क्रियासु स्वोचितासु सामर्थ्याद् इति ॥५२॥
जाति-लक्षण-देशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
तत्त्व-वैशारदी : यद्यप्य् एतद् विवेकजं ज्ञानं निःशेष-भाव-विषयम् इत्य् अग्रे वक्ष्यते, तथाप्य् अतिसूक्ष्मत्वात् प्रथमंतस्य विषय-विशेष उपक्षिप्यते-जाति-लक्षण-देशैर् अन्यत्वानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥
लौकिकानां जाति-भेदोऽन्यताया ज्ञापक-हेतुः । तुल्या जातिर् गोत्वं, तुल्यश् च देशः पूर्वादिः । कालाक्षी-स्वस्तिमत्योर् लक्षण-भेदः परमिति । द्वयोर् आमलकयोस् तुल्यामलकत्व-जातिः, वर्तुलत्वादि-लक्षणं तुल्यं । देश-भेदः परमिति । यदा तु योगि-ज्ञानं जिज्ञासुना केनचित् पूर्वामलकमन्य-व्यग्रस्य योगिनो ज्ञातुर् उत्तर-देश उपावर्त्यते, उत्तर-देशम् आमलकं ततोऽपसार्य पिधाय वा, तदा तुल्य-देशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः, प्राज्ञस्य लौकिकस्य त्रि-प्रमाणी-निपुणस्य१५२ । असन्दिग्धेन च तत्त्व-ज्ञानेन भवितव्यं, विवेकज-ज्ञानवतो योगिनः सन्दिग्धत्वानुपपत्तेः । अत उक्तं सूत्र-कृता-ततः प्रतिपत्तिः इति । ततैति व्याचष्टे–विवेकज-ज्ञानादिति ।
क्षण-तत्-क्रम-संयमाज्जातं ज्ञानं कथमामलकं तुल्य-जाति-लक्षण-देशादामलकान्तराद्विवेचयतीति पृच्छति-कथमिति । उत्तरम् आह–पूर्वामलक-सहक्षणो देशःपूर्वामलकेनैक-क्षणो देशः, तेन सह निरन्तर-परिणाम इति यावद्, उत्तरामलक-सहक्षणाद् देशादुत्तरामलक-निरन्तर-परिणामाद् भिन्नः ।
भवतु देशयोर् भेदः, किम् आयातमामलक-भेदस्य ? इत्य् अत आह-ते चामलकेस्व-देश-क्षणानुभव-भिन्नेइति। स्व-देश-सहितोयः क्षणः,तस्यामलकसय कालकला स्व-देशेन सहौत्तराधर्य-रूप-परिणाम-लक्षिता सा स्व-देश-क्षणः, तस्यानुभवःप्राप्तिर्वा ज्ञानं वा, तेन भिन्ने आमलके । ययोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्य-परिणाम-क्षण आसीत्, तयोर्देशान्तरौत्तराधर्य-परिणाम-क्षण-विशिष्टत्वम् अनुभवन् संयमी ते भिन्ने एव प्रत्येति, सम्प्रति तद्-देश-परिणामेऽपि पूर्व-परिणामाद्विशिष्टस्य चैतद्देश-परिणाम-क्षणस्य संयमतः साक्षात्-करणात् । तदिदमुक्तम्-अन्य-देश-क्षण-भिन्न-देश-क्षणानुभवस्तु तयोरन्यत्वे हेतुः इति ।
अनेनैव निदर्शनेन लौकिक-परीक्षक-संवादादिना परमाणोरपीदृशस्य भेदो योगीश्वर-बुद्धि-गम्यः श्रद्धेयैत्य् आह-एतेन इति । अपरे तु वर्णयन्तिवर्णनमुदाहरति–ये इति वैशेषिका हि नित्य-द्रव्य-वृत्तयोऽन्त्या विशेषा इत्याहुः, तथा हि-योगिनोमुक्तान् तुल्य-जाति-देश-कालान् व्यवधि-रहितान् परस्परतो भेदेन प्रत्येकं तत्त्वेन प्रतिपद्यन्ते । तस्मादस्ति कश्चिद् अन्त्यो विशेष इति ।
तथा च, स एव नित्यानां परमाण्व्-आदीनां द्रव्याणां भेदक इति । तदेतद् दूषयति-तत्रापि इति ।जाति-देश-लक्षणान्युदाहृतानि ।मूर्तिःसंस्थानं । यथैकं विशुद्धावयव-संस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्य-व्यग्रस्य द्रष्टुः कुत्सितावयव-सन्निवेश उपावर्त्यते, तदा तस्य संस्थान-भेदेन भेद-प्रत्ययः । शरीरं वा मूर्तिः, तत्-तत्-संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूत-चरेण यादृश-तादृशेन भेद इति सर्वत्र भेद-प्रत्ययस्यान्यथा-सिद्धिर्नान्त्य-विशेष-कल्पना, व्यवधि-भेद-कारणं, यथा कुश-पुष्कर-द्वीपयोर्देश-स्वरूपयोर् इति ।यतो जाति-देशादि-भेदा लोक बुद्धि-गम्याः । अत उक्तं-क्षण-भेदस् तु योगि-बुद्धि-गम्य एवेति । एव-कारः क्षण-भेदमवधारयति, न योगि-बुद्धि-गम्यत्वम् । तेन भूत-चरेण देह-सम्बन्धेन मुक्तात्मनाम् अपि भेदो योगि-बुद्धि-गम्य उन्नेय इति ।यस्य तूक्ता भेद-हेतवो न सन्ति तस्य प्रधानस्य प्रभेदो नास्तीत्याचार्यो मेने, यस्मादूचे-कृतार्थं प्रति नष्टमप्य् अनष्टं तदन्य-साधारणत्वाद् इति । तदाह–मूर्ति-व्यवधि इति ।ुक्त-भेद-हेतूपलक्षणम् एतद्, जगन्-मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः॥५३॥
तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥५४॥
तत्त्व-वैशारदी : तद् एवं विषयैक-देशं विवेकज-ज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति-तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ विवेकजं ज्ञानमिति लक्ष्य-निर्देशः । शेषं लक्षणम्, संसार-सागरात् तारयतीति तारकम् ।
पूर्वस्मात् प्रातिभाद्विशेषयति-सर्वथा-विषयम् इति । पर्याया अवान्तर-विशेषाः, अतएव विवेकजं ज्ञानं परिपूर्णं, नास्य क्वचित्किञ्चित्कथञ्चित् कदाचिदगोचर इत्य् अर्थः । आसतां तावज्ज्ञानान्तरं, सम्प्रज्ञातोऽपि तावद् अस्यांशः ।
तस्मादतः परं किं परिपूर्णम् ? इत्य् आह-अस्यैवांशे योग-प्रदीप इति । योग-प्रदीपः सम्प्रज्ञातः ।
किम्-उपक्रमः किम्-अवसानश्चासौ ? इत्य् आह-मधु-मती- इति । ऋतम्भरा प्रज्ञैव मधु मोद-कारणत्वाद्, यथोक्तं प्रज्ञा-प्रसादमारूह्य इति । तद्वती मधुमती तामुपादाय, यावदस्य परिसमाप्तिः सप्तधा प्रान्त-भूमिः प्रज्ञा, अत एव विवेकजं ज्ञानं तारकं भवति, तदृशस्य योग-प्रदीपस्य तारकत्वाद् इति ॥५४॥
सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥
तत्त्व-वैशारदी : तद् एवम् परम्परया कैवल्यस्य हेतून् स-विभूतीन् संयमान् उक्त्वा, सत्त्व-पुरुषान्यता-ज्ञानं साक्षात्-कैवल्य-साधनमित्य् अत्र सूत्रमवतारयति-प्राप्तैति । विवेकजं ज्ञानं भवतु मा वा भूत्, सत्त्व-पुरुषान्यता-ख्यातिस् तु कैवल्य-प्रयोजिकेत्य् अर्थः-
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यमिति । इतिःसूत्र-समाप्तौ ।
ईश्वरस्य पूर्वोक्तैः संयम-ज्ञान-क्रिया-शक्तिमतः, अनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकज-ज्ञान-भागिनः, इतरस्य वानुत्पन्न-ज्ञानस्य न विभूतिषु काचिदपेक्षाऽस्तीत्याह-न हि इति ।
ननु यद्यनपेक्षिता विभूतयः कैवल्ये, व्यर्थस्तर्हि तासामुपदेशः ? इत्यत आह-सत्त्व-शुद्धि-द्वारेणैति । इत्थम्-भूत-लक्षणे तृतीया, नात्यन्तमहेतवः कैवल्ये विभूतयः, किन्तु न साक्षादित्य् अर्थः । ज्ञानं विवेकजमुपक्रान्तं । यच् च पारम्पर्येण कारणं तदौपचारिकं, नमुख्यम् । परमार्थतस् तु ख्यातिर् एव मुख्येत्य् अर्थः ।ज्ञानादितिप्रसङ्ख्यानादित्य् अर्थः ॥५५॥
अत्रान्तरङ्गाण्यङ्गानि परिणामा प्रपञ्चिताः । संयमाद् भूति-संयोगस्तासु ज्ञानं विवेकजम्॥ इति पादार्थ-संग्रहः श्लोकः।
इति श्रीमद्-वाचस्पति-मिश्र-विरचितायां पातञ्जल-भाष्य-व्याख्यायां तत्त्व-वैशारद्यां विभूति-पादस्तृतीयः समाप्ताः ॥३॥

Share This
Share this post with your friends!