Vachaspati Mishra and Tattvavaisharadi

Chapter 4

अथ कैवल्यपादः

जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥

तत्त्व-वैशारदी : तद् एवं प्रथम-द्वितीय-तृतीय-पादैः समाध-तत्-साधन-तद्-विभूतयः प्राधान्येन व्युत्पादिताः । इतरत् तु प्रासङ्गिकम् औप्द्घातिकं चोक्तम् । इहेदानीं तद्-धेतुकं कैवल्यं व्युत्पादनीयम् । न चैतत् कैवल्य-भागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्त-करण-सुखाद्य्-आत्मक-शब्दाद्य्-उपमोक्तारम् आत्मानं च प्रसङ्ख्यान-परम-काष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तद् एतत् सर्वम् अत्र पादे व्युत्पादनीयम् इतरच् च प्रसङ्गाद् उपोद्घाताद् वा ।

तत्रप्रथम-सिद्ध-चित्तेषु कैवल्य-भागीयं चित्तं निर्धारयितु-कामः पञ्चतयीं सिद्धिम् आह-जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥

व्याचष्टे-देहान्तरिता इति । स्वर्गोपभोग-भागीयात् कर्मणो मनुष्य-जातीयाचरितात् कुतश्च् इन् निमित्ताल् लब्ध-परिपाकात् क्वचिद् देव-निकाये जात-मात्रस्यैव दिव्य-देहान्तरिता सिद्धिर् अणिमाद्या भवतीति ।

औषधि-सिद्धिम् आह-असुर-भवनेषु इति । मनुष्यो हि कुतश्चिन् निमित्ताद् असुर-भवनम् उपसम्प्राप्तः कमनीयाभिर् असुर-कन्याभिर् उपनीतं रसायनम् उपयुज्य अजरामरणत्वम् अन्याश् च सिद्धीर् आसादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद् विन्ध्य-वासीति ।

मन्त्र-सिद्धिम् आह-मन्त्रैरिति । तपः-सिद्धिम् आह-तपसेति । सङ्कल्प-सिद्धिम् आह-काम-रूपी इति। यद् एव कामयतेऽणिमादिः तद् एक-पदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्रतद् एव शृणोति मनुते वेति । आदि-शब्दाद् दर्शनादयः संगृहीताइति । सिद्धान्तिजाः । समाधिजाः सिद्धयो व्याख्या अधस्तने पादे ॥१॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

तत्त्व-वैशारदी : अथ चतसृषु सिद्धिष्व् औषधादि-साधनासु तेषाम् एव कायेन्द्रियाणां जात्य्-अन्तर-परिणतिर् इष्यते । सा पुनर् न तावद् उपादान-मात्रात् । न हि तावन्-मात्रम् उपादानं न्यूनाधिक-दिव्यादिव्य-भावेऽस्य भवति । नो खल्व् अविलक्षणं कारणं कार्य-वैलक्षण्यायालम् । मास्याकस्मिकत्वं भूद् इत्य् आशङ्क्य पूरयित्वा सूत्रं पठति-तत्र कायेन्द्रियाणाम् अन्य-जातीय-परिणतानां, जात्य्-अन्तर-परिणामः प्रकृत्यापूरात् । मनुष्य-जाति-परिणतानां कायेन्द्रियाणां यो देव-तिर्यग्-जाति-परिणामः, स खलु प्रकृत्यापूरात् ।

कायस्य हि प्रकृतिः पृथिव्य्-आदीनि भूतानि, इन्द्रियाणां च प्रकृतिर् अस्मिता, तद्-अवयवानुप्रवेश आपूरस् तस्माद् भवति । तद् इदम् आह-पूर्व-परिणामेति । ननु यद्य् आपूरेणानुग्रहः कस्मात् पुनर् असौ न सदातन इत्य् अत आह-धर्मादीति । तद् अनेन तस्यैवशरीरस्य बाल्य-कौमार-यौवन-वार्धकादीनि च न्यग्रोध-धानाया न्यग्रोध-तरुम् अभावश् च वह्नि-कणिकायास् तृण-राशि-निवेशिताया वा प्रोद्भव-ज्वाला-सहस्र-समालिङ्गित-गगन-मण्डलत्वं च व्याख्यातम् ॥२॥

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

तत्त्व-वैशारदी : प्रकृत्यापूराद् इत्य् उक्तम् । तत्रेदं सन्दिह्यते-किम् आपूरः प्रकृतीनांस्वाभाविको धर्मादि-निमित्तो वेति ? किं प्राप्तम् ? सतीष्व् अपि प्रकृतिषु कदाचिद् आपूराद् धर्मादि-निमित्त-श्रवणाच् च तन्-निमित्त एवेति प्राप्तम् । एवं प्राप्त आह-निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥

सत्यं धर्मादयो निमित्तं, न तु प्रयोजकाः, तेषाम् अपि प्रकृति-कार्यत्वात् । न च कार्यं कारणं प्रयोजयति, तस्य तद्-अधीनोत्पत्तितयाकारण-परतन्त्रत्वात् । स्वतन्त्रस्य च प्रयोजकत्वात् । न खलु कुलालम् अन्तरेण मृद्-दण्ड-चक्र-सलिलादय उत्पत्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते, किं तु स्वतन्त्रेण कुलालेन । न च पुरुषार्थोऽपि प्रवर्तकः, किं तु तद्-उद्देशेनेश्वरः । उद्देशता-मात्रेणपुरुषार्थः प्रवर्तक इत्य् उच्यते । उत्पत्सोस् त्व् अस्य पुरुषार्थस्याव्यक्तस्य स्थितिनां-कारणत्वं युक्तम् । न चैतावता धर्मादीनाम् अनिमित्तता । प्रतिबन्धापनयन-मात्रेण क्षेत्रिकवद् उपपत्तेः । ईश्वरस्यापिधर्माधिष्ठानार्थं प्रत्बन्धापनय एव व्यापारो वेदितव्यः । तद् एतन् निगद-व्याख्यातेन भाष्येणोक्तम् ॥३॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

तत्त्व-वैशारदी : प्रकृत्यापूरेण सिद्धीः समर्थ्यं सिद्धि-विनिर्मित-नाना-काय-वर्ति-चित्तैकत्व-नानात्वे विचारयति-यदा त्विति । तत्र नाना-मनस्त्वे कायानां प्रति-चित्तम् अभिप्राय-भेदाद् एकाभिप्रायानुरोधश् च परस्पर-प्रतिसन्धानं च न स्यातां पुरुषान्तरवत् । तस्माद् एकम् एव चित्तं प्रदीपवद् विसारितया बहून् अपि निर्माण-कायान् व्याप्नोतीति प्राप्त आह-निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥ यद् यावज् जीवच् छरीरं तत् सर्वम् एकैकासाधारण-चित्तान्वितं दृष्टम्, तथा च निर्माण-कायाइति सिद्धं, तेषाम् अपि प्रातिस्विकं मन इत्य् अभिप्रायेणाह-अस्मिता-मात्रमिति ॥४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

तत्त्व-वैशारदी : यद् उक्तम् अनेक-चित्तत्वे एकाभिप्रायानुरोधश् च प्रतिसन्धानं च न स्यातामिति सत्रोत्तरं सूत्रं-प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ अभविष्यद् एष दोषो यदि चित्तम् एकं नाना-काय-वर्ति मनो-नायकं न निरमास्यत, तन्-निर्माणे त्व् अदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर् मनोभिः कृतं वा नायक-निर्माणेन, निजस्यैव मनसो नायकत्वादिति वाच्यं, प्रमाण-सिद्धस्य नियोग-पर्यनुयोगानुपपत्तेरिति । अथ पुराणम् एतत्भवति-

एकस् तु प्रभु-शक्त्या वै बहुधा भवतीनांशरीरः ।

भूत्वा यस्मात् तु बहुधा भवत्य् एकः पुनस् तु सः ॥

तस्माच् च मनसो भेदा जायन्ते चैत एव हि ।

एकधा तद् द्विधा चैव त्रिधा च बहुधा पुनः ॥

योगीनांशरीरः शरीराणि करोति विकरोति च ।

प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् उग्रं तपश् चरेत् ।

संहरेच् च पुनस् तानि सूर्यो रश्मि-गमान् इव ॥इति ।

तद् एतेनाभिप्रायेणाह-बहूनां चित्तम् एकम् अनेकेषाम् ॥५॥

तत्र ध्यानजमनाशयम् ॥६॥

तत्त्व-वैशारदी : तद् एवम् उदितेषु पञ्चसु सिद्ध-चित्तेष्व् अपवर्ग-भागीयं चित्तं निर्धारयति-तत्र ध्यानजम् अनाशयम् ॥ आशेरत इत्य् आशयाः कर्म-वासनाः क्लेश-वासनाश् च । त एते न विद्यन्ते यस्मस् तद् अनाशयं चित्तम् अपवर्ग-भागीयं भवतीत्य् अर्थः । यतो रागादि-निबन्धना प्रवृत्तिर् नास्त्य् अतो नास्ति पुण्य-पापाभिसम्बन्धः ।

कस्मात् पुना रागादि-जनिता प्रवृत्तिर् नास्तीत्य् अत आह-क्षीण-क्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोऽन्तरेभ्यो विशेषं दर्शयितुम् इतरेषाम् आशयवत्ताम् आह-इतरेषां त्विति ॥६॥

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥

तत्त्व-वैशारदी : तत्रैव च हेतु-परं सूत्रम् अवतारयति-यतैति । कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥पदं स्थानम् । चतुर्षु समम् एता चतुष्पदा । यद् यावद् बहिः-साधन-साध्य तत्रसर्वत्रास्ति कस्य चित् पीडा । न हि ब्रीह्य्-आदि-साधनेऽपि कर्मणि पर-पीडा नास्ति, अवघातादि-समये पिपीलिकादि-वध-सम्भवात् । अन्ततो बीजादि-वधेन स्तम्भादि-भेदोत्पत्ति-प्रतिबन्धात् । अनुग्रहश् च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपः-स्वाध्याय-ध्यानवताम् असन्न्यासिनाम् । शुक्लत्वम् उपपादयति-सा हीति । अशुक्लाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति-क्षीणेति । कर्म-संन्यासिनो हि न क्वचिद् बहिः-साधन-साध्ये कर्मणि प्रवृत्ताइति न चैषाम् अस्ति कृष्णः कर्माशयः । योगानुष्ठान-साध्य् अस्य कर्माशय-फलस्येश्वरे समर्पणान् न शुक्लः कर्माशयः । निरत्यय-फलो हि शुक्ल उच्यते । यस्य फलम् एव नास्ति, कुतस् तस्य निरत्यय-फलत्वम् इत्य् अर्थः । तद् एवं चतुष्टयीं कर्म-जातिम् उक्त्वा कतमा कस्येत्य् अवधारयति-तत्राशुक्लमिति ॥७॥

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

तत्त्व-वैशारदी : कर्माशयं विविच्य क्लेशाशय-गतिम् आह-ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ यज् जातीयस्य पुण्य-जातीयस्यापुण्य-जातीयस्य वाकर्मणो यो विपाको दिव्यो वा नारको वा जात्यायुर्-भोगस् तस्य विपाकस्यानुगुणाः । ता एवाह-या वासनाः कर्म-विपाकम् अनुशेरतेऽनुकुर्वन्ति । दिव्य-भोग-जनिता हि दिव्य-कर्म-विपाकानुगुणा वासनाः । न हि मनुष्य-भोग-वासनाभिव्यक्तो दिव्य-कर्म-फलोपभोग-सम्भवः । तस्मात् स्व-विपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीयैति भाष्यार्थः ॥८॥

जाति-देश-कालव्यवहितानामप्यानन्तर्य्यं, स्मृति-संस्कारयोरेकरूपत्वात् ॥९॥

तत्त्व-वैशारदी : स्याद् एतत् । मनुष्यस्य प्रायणानन्तरम् अधिगत-मार्जार-भावस्यानन्तरतया मनुष्य-वासआया एवाभिव्यक्त्या भवितव्यम् । न खल्व् अस्ति सम्भवो यद् अनन्तर-दिवसानुभूतं न स्मर्यते व्यवहित-दिवसानुभूतं च स्मर्यत इत्य् अत आह-जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं, स्मृति-संस्कारयोर् एक-रूपत्वात् ॥

भवतु वृष-दंश-वासनाया जात्य्-आदि-व्यवाधः, तथापितस्याःफलत आनन्तर्यम् । वृष-दंश-विपाकेन कर्म्णा तस्या एव स्व-विपाकानुगुणाया अभिव्यक्तौ तत्-स्मरण-समुत्पादा इत्य् आह-वृष-दंश-विपाकोदयःिति । उदेत्य् अस्माद् इत्य् उदयः कर्माशयः । पुनश् च स्व-व्यञ्जकाञ्जन एवोदियात्, अभिव्यञ्ज्येत विपाकारम्भाभिमुखः क्रियेतेत्य् अर्थः । अभिसंस्कार-क्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्व-विपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्य् अर्थः ।

आनन्तर्यम् एव फलतः कारण-द्वारम् उपपाद्य कार्य-द्वारम् उपपादयति-कुतश् च स्मृतीति । एक-रूपतया सादृश्यम् । तद् एवाह-यथाइति ।

नन्व् अनुभव-सरूपाश् चेत् संस्कारास् तथा सत्य् अनुभवा विशरारव इत्य् एतेऽपि विशरारवः कथं चिर-भाविनेऽनुभवाय कल्पेरन्न् इत्य् अत आह-ते च कर्म-वासनानुरूपाइति । यथापूर्वं स्थायि क्षणिक-कर्म-निमित्तम् अपि, एवं क्षणिक-कर्म-निमित्तोऽपि संस्कारः स्थायी । किञ्चिद् भेदाधिष्ठानं च सारूप्यम् । अन्यथाभेदे तत्त्वेन सादृश्यानुपपत्तेर् इत्य् अर्थः । सुगमम् अन्यत् ॥९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

तत्त्व-वैशारदी : स्याद् एतत् । व्यज्येरन् पूर्व-पूर्वतर-जन्माभिसंस्कृता वासना यदि पूर्व-पूर्वतर-जन्म-सद्-भावे प्रमाणं स्यात् । तद् एव तु नास्ति । न च जात-मात्रस्य जन्तोर् हर्ष-शोक-दर्शन-मात्रं प्रमाणं भवितुम् अर्हति,पद्मादि-सङ्कोच-विकास-वत् स्वाभाविकत्वेन तद्-उपपत्तेर् इत्य् अत आह-तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ तासां वासनानाम् अनादित्वं च, न केवलम् आनन्तर्यमिति चार्थःाशिषो नित्यत्वात् । आत्माशिषो वासनानाम् अनादित्वे नित्यत्वाव्यभिचारादिति ।

ननु स्वाभाविकत्वेनापु उपपत्तेर् असिद्धम् आशिषो नित्यत्वम् इत्य् अत आह-एयमिति । नास्तिकः पृच्छति-कस्मात् ? उत्तरं-जात-मात्रस्य जन्तोरिति । अत एवैतस्मिन् जन्मन्य् अनुभूत-मरण-धर्मकस्य मरणम् एव धर्मः, सोऽननुभूतो येन स यथोक्तस् तस्य मातरङ्कात् प्रस्खलतः कम्पमानस्य माङ्गल्य-चक्रादि-लाञ्छितं तद्-उरः-सूत्रम् अतिगाढ-पाणि-ग्राहम् अवलम्ब्यमानस्य बालकस्य कम्प-भेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस् तन्-निमित्तो मरण-त्रासः कथं भवेदिति ?

ननूक्त-स्वभावाद् इत्य् अत आह-न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते गृह्णाति स्वोत्पत्तौ । एतद् उक्तं भवति-बलकस्येदृशो दृश्यमानः कम्पो भय-निबन्धन ईदृश-कम्पत्वाद् अस्मद्-आदि-कम्पवत् । बालकस्य भयं द्वेष-दुःख-स्मृति-निमित्तं भयत्वा अस्मद्-आदि-भयवत् । आगामि-प्रत्यवायोत्प्रेक्षा-लक्षणं च भयं न दुःख-स्मृति-मात्राद् भवति, अपि तु यतो बिभेति, तस्य प्रत्यवाय-हेतु-भावम् अनुमाय-सम्प्रत्य् अपि प्रत्यवायं भ्यं च विदध्यादिति । तस्माद् यज् जातीयाद् अनुभूत-चराद् द्वेषानुषक्तं सर्वम् उपपादितं तस्य स्मरणात् तज्-जातीयस्यानुभूयमानस्य तद्-दुःख-हेतुत्वम् अनुमाय, ततो बिभेति । न च बालकेनास्मिन् जन्मनि स्खलनस्यान्यत्र दुःख-हेतुत्वम् अवगतम् । न च तादृशंदुःखम् उपलब्धम्तस्मात् प्राग्-भवीयोऽनुभवः परिशिष्यते । तच् चैतद् एवं पयोगम् आरोहति-जात-मात्रस्य बालस्य स्मृतिः पूर्वानुभव-निबन्धनास्मृतित्वाद् अस्मद्-आदि-स्मृतिवदिति । न च पद्म-सङ्कोच-विकासाव् अपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरम् अपेक्षते, वह्नेर् औष्ण्यं प्रत्य् अपि कारणान्तरापेक्षाप्रसङ्गात् । तस्माद् आगन्तुकम् अरुणर-सम्पर्क-मात्रम् एव कमलिनी-विकास-कारणम् । सङ्कोच-कारणं च संस्कारः स्थिति-स्थापकैति । एवं स्मिताद्य्-अनुमित-हर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तद् आस्तां तावत् ।

प्रकृतम् अनुसंहरति-तस्मादिति। निमित्तं लब्ध-विपाक-कालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।

प्रसङ्गतश् चित्त-परिणाम-विप्रतिपत्तिं निराचिकीर्षुर् विप्रतिपत्तिम् आह-घट-प्रासाद- इति । देह-प्रदेश-वर्तिकार्य-दर्शनाद् देहाद् बहिः-सद्-भावे चित्तस्य न प्रमाणम् अस्ति । न चैतद् अणु-परिमाणं, दीर्घ-शष्कुली-भक्षणादाव् अपर्यायेण ज्ञान-पञ्चकानुत्पाद-प्रसङ्गात्१५४ । न चाननुभूयमान-क्रम-कल्पनायां प्रमाणम् अस्ति । न चैकम् अणु मनो नाना-देशैर् इन्द्रियैर् अपर्यायेण सम्बन्धुम् अर्हति । तत्-पारिशेष्यात् काय-परिमाणंचित्तं घट-प्रासाद-वर्ति-प्रदीपवत् । सङ्कोच-विकासौ पुत्तिका-हस्ति-देहयोर् उत्पयस्येते । शरीर-परिमाणम् एवाकारः परिमाणं यस्येत्य् अपरे प्रतिपन्नाः ।

नन्व् एवं कथम् अस्य क्षेत्र-बीज-संयोगः, न खल्व् एतद् अनाश्रवं मृत-शरीरान् मातृ-पितृ-देह-वर्तिनी लोहित-रेतसी प्राप्नोति, परतन्त्रत्वात् । न हि स्थाण्व्-आदिष्व् आगच्छत्सु तुच्छाया गच्छति । न चागच्छति पदे तद्-आश्रयं चित्तं गच्छति । तथा च न संसार स्याद् इत्य् अत आह-तथा चान्तराभावः संसारश् च युक्तैति । तथा च शरीर-परिमाणत्वे देहान्तर-प्राप्तये पूर्व-देह-त्यागो देहान्तर-प्राप्तिश् चान्तरास्यातिवाधिक-शरीर-संयोगाद् भवतः । तेन खल्व् अयं देहान्तरे सञ्चरेत् । तथा च पुराणं-अङ्गुष्ठ-मात्रं पुरुषं निश्चकर्ष यमो बलात्१५५ [म.भा. ३.२९७.२७] ।

तद् एतद् अमृष्यमाणः स्व-मतम् आह-वृत्तिर् एवास्य विभुनश् चित्तस्य सङ्कोच-विकाशिनीत्य् आचार्यःस्वयम्भूः प्रतिपेदे । इदम् अत्राकूतम्-यद्य् अनाश्रयं चित्तं न देहान्तर-सञ्चारि कथम् एतद्-आतिवादिकम् आश्रयते । तथापि देहान्तर-कल्पनायाम् अनवस्था । न चास्य देहान् निष्कर्षम् आतिवाहिकस्य सम्भवति, निष्कृष्टस्य चेतसस् तत्-सम्बन्धात् । अस्तु तर्हि सूक्ष्म-शरीरम् एवासर्गादाच् च प्रलयान् नियतं चित्तानाम् अधिष्ठानं षाट्कौशिक-शरीरम् अप्य् अवर्ति । तेन हि चित्तमा सत्य-लोकाद् आ चावीचेस् तत्र तत्र शरीरे सञ्चरति । निषकर्षश् चास्योपपन्नः षाट्कौशिकात् कायात् । तत्र हि तद्-अन्तराभावस् तस्य नियतत्वात् । न चास्यापि सद्-भावे प्रमाणम् अस्ति । न खल्व् एतद् अध्यक्ष-गोचरः । न च संसारोऽस्यानुमानं, आचार्य-मतेनाप्य् उपपत्तेः ।

आगमस् तु पुरुषस्य निष्कर्षम् आह । न च चित्तं वा सूक्ष्म-शरीरं वा पुरुषः, किं तु चिति-शक्तिर् अप्रतिसक्रमा । न चास्या निष्कर्षः संभवतीत्य् औपचारिको व्याख्येयः । तथा च चित्तेश् चित्तस्य च तत्र तत्र वृत्त्य्-अभाव एव निष्कर्षार्थः । यच् च शरीरीतिहास-पुराणेषु मरणानन्तरं प्रेत-शरीर-प्राप्तिस् तद्-विमोकश् च स-पिण्डी-करणादिभिर् इत्य् उक्तं तद् अनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिद् आगमः । लब्ध-शरीर एव च यम-पुरुषैर् अपि पाश-बद्धो नीयते न त्व् आतिवाहिक-शरीरः । तस्माहङ्कारिकत्वाचेतसोऽहङ्कारस्यच गगन-मण्डलवत् त्रैलोक्य-व्यापित्वाद् विभुत्वं मनसः । एवं चेद् अस्य वृत्तिर् अत्र विभ्वीति सर्व-ज्ञ-तापात् तरितस्य यत उक्त-वृत्तिर् एवास्येति ।

स्याद् एतत् । चित्त-मात्राधीनाया वृत्तेः सङ्कोच-विकासौ कुतः कादाचित्काव् इत्य् अत आह-तच् च धर्मादि-निमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-निमित्तं च इति । आदि-ग्रहणेनेन्द्रिय-धनादयो गृह्यन्ते । श्रद्धादीति । अत्रापि वीर्य-स्मृत्य्-आदयो गृह्यन्ते । आन्तरत्वे संमतिम् आचार्याणाम् आह-तथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लम् । तयोर् बाह्याभ्यन्तरयोर् मध्ये । ज्ञान-वैराग्येतज्-जनितौ धर्मौ केन बाह्य-साध्येन धर्मेणातिशय्येते अभिभूयेते ? ज्ञान-वैराग्यजौ एव धर्मौ तम् अभिभवतः, बीजम् आबाद् अपनयत इत्य् अर्थः । अत्रैअ सुप्रसिद्धम् उदाहरणम् आह-

ददण्डकारण्यमिति॥१०॥

हेतु-फलाश्रयालम्बनैः सङगृहीतत्वाद् एषामभावे तदभावः ॥११॥

तत्त्व-वैशारदी : थैताश् चित्त-वृत्तयो वासनाश् चानादयश् चेत् कथम् आसाम् उच्छेदः ? न खलु चिति-शक्तिर् अनादिर् उच्छिद्यत इत्य् अत आह-हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥

अनादेर् अपि समुच्छेदो दृष्टः । तद् यथानागतत्वस्येति स्वयभिचारत्वाद् असाधनम् । चिति-शक्तिस् तु विनाश-कारणाभावान् न विनश्यति, न त्व् अनादित्वात् । उक्तं च वासनानाम् अनादीनाम् अपि समुच्छेदे कारणं सूत्रेणेति । अनुग्रहोपघाताव् अपि धर्माधर्मादि-निमित्तम् उपलक्षयतः । तेन सुरापानादयोऽपि संगृहीता भवन्ति ।

नेत्री नायिका । अत्रैव हेतुम् आह-मूलमिति । प्रत्युप्तन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुम् आहन हीति । यद् अभिमुखी-भूतं वस्तु कामिनी-सम्पर्कादि । व्यापकाभावे व्याप्यस्याभावैति सूत्रार्थः ॥११॥

अतीतानागतं स्वरूपतोऽस्त्यव्वभेदाद् धर्माणाम् ॥१२॥

तत्त्व-वैशारदी : उत्तरं सूत्रम् अवतारयितुं शङ्कते-नास्तीति । असतैति तु सम्पातायातं निदर्शनाय वा । अतीतानागतं स्वरूपतोऽस्त्य् अध्व-भेदाद् धर्माणाम् ॥ नासताम् उत्पादो न सतां विनाशः । किं तु सताम् एव धर्माणाम् अध्व-भेद-परिणाम एवोदयव्ययाविति सूत्रार्थः ।

अनुभूता प्राप्ता येन व्यक्तिस् तत् तथा, सम्प्रति व्यक्तिर् नास्तीति यावत् । इतश् च त्रैकाल्येऽपि धर्मः सन्न् इत्य् आह-यदि चेति । न ह्य् असज् ज्ञान-विषयः सम्भवतीति निरूपाख्यत्वात् । विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्य-विषयं च विज्ञानं योगिनाम् अस्मद्-आदीनां च व्ज्ञानम् असति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्माद् अतातानागते सान्य-रूपेण समनुगते स्तैति । एवम् अनुभवतो ज्ञानं विषय-सत्त्वे हेतुर् उक्तम् । उद्देश्यत्वाद् अप्य् अनागतस्य विषयत्वेन सत्त्वम् एवेत्य् आह-किं च भोग-भागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद् यन् निमित्तं तत् सर्वं नैमित्तिके सत्य् एव विशेषम् आधत्ते । यथा अवेदाध्यायादयः । न खल्व् एते काण्डलावादयोऽसन्तम् उत्पादयन्ति । सत एव तु तत्-प्राप्ति-विकारो कुर्वन्ति । एवं कुलालादयोऽपि सत एव घटस्य वर्तमानी-भाव-हेतव इत्य् आह-सतश् चेति ।

यदि तु वर्तमानत्वाभावाद् अतीतानागतयोर् असत्त्वं हन्त भो वर्तमानस्याप्य् अभावोऽतीतानागतत्वाभावात्, अध्व-धर्म्य-विशिष्टतया तु सत्त्वं त्रयाणाम् अप्य् अविशिष्टम् इत्य् अभिप्रायेणाह-धर्मी चेति । प्रत्येकम् अवस्थानं प्रत्यवस्थितिरिति । द्रव्यतैति द्रव्ये धर्मिणि । सार्व-विभक्तिकस् तसिः । यद्य् अतीतानागतावतीतानागतत्वेन स्तस् तर्हि वर्तमान-समये तत्त्वाभावान् न स्याताम् इत्य् अत आह-एकस्य चेति । प्रकृतम् उपसंहरति-इति नाभूत्वा भावैति ॥१२॥

ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥

तत्त्व-वैशारदी : स्याद् एतत्, अयं तु नाना-प्रकारो धर्मिधर्मावस्था-परिणाम-रूपो विश्व-भेद-प्रपञ्चो न प्रधानाद् एकस्माद् भवितुम् अर्हति, न ह्य् अविलक्षणात् कारणात् कार्य-भेद-सम्भव इत्य् अत आह-ते व्यक्त-सूक्ष्मा गुणात्मानः ॥

ते त्र्य्-अध्वनो धर्मा व्यकाश् च सूक्ष्माश् च गुणात्मानो न त्रैगुण्यातिरिक्तम् एषाम् अस्ति कारणम्, वैचित्र्यं तु तद्-आहैतानादि-क्लेश-वासनानुगताद् वैचित्र्यात् । यथोक्तं वायु-पुराणे-वैश्वरूप्यात् प्रधानस्य परिणामोऽयम् अद्भुतःिति ।

व्यक्तानां पृथिव्य्-आदीनाम् एकादशेन्द्रियाणां च वर्तमानानाम् अतीतानागतत्वं षड् अविशेषा यथा-योगं भवन्ति । सम्प्रति विश्वस्य नित्यानित्य-रूपे विभजन् नित्य-रूपम् आह-सर्वम् इदमितिदृश्यमानम् । संनिवेशः संस्थान-भेदवान् परिणाम इत्य् अर्थः । अत्रैव षष्टि-तन्त्र-शास्त्रस्यानुशिष्टिः । मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाह्नायैवान्यथाभवत्य् एवं विकारा अप्य् आविर्भाव-तिरोभाव-धर्माणः प्रतिक्षणम् अन्यथा । प्रकृतिर् नित्यतयामाया-विधर्मिणी परमार्थेति ॥१३॥

परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥

तत्त्व-वैशारदी : भवतु त्रैगुण्यस्येत्थं परिणाम-वैचित्र्यं, एकस् तु परिणामः पृथिवीति वा । तोयमिति वा कुतः ? नानात्मन एकत्व-विरोधाद् इत्य् आशङ्क्य सूत्रम् अवतारयति-यदा तु सर्वे गुणाइति ।

परिणामैकत्वाद् वस्तु-तत्त्वम् ॥ बहूनाम् अप्य् एकः परिणामो दृष्टः । तद् यथा गवाश्व-महिष-मातङ्गानां रुम-निक्षिप्तानाम् एको लवणत्व-जातीय-लक्षणः परिणामो वर्ति-तैलानलानां च प्रदीपैति । एवं बहुत्वेऽपिगुणानां परिणामैकत्वम् । ततस् तन्-मात्र-भूत-भौतिकानां प्रत्येकं तत्त्वम् एकत्वम् । ग्रहणात्मकानां सत्त्व-प्रधानतयाप्रकाशात्मनाम् अहङ्कारावान्तर-कार्याणां करण-भावेनैकः परिणामः श्रोत्रम् इन्द्रियम् । तेषाम् एव गुणानां तमः-प्रधानतया जडत्वेन ग्राह्यात्मकानांशब्द-तन्मात्र-भावेनैकः परिणामः शब्दो विषयः । शब्दैतिशब्द-तन्मात्रम् विषयैति जडत्वम् आह, न तु तन्मात्रस्य श्रोत्र-विषयत्व-सम्भवैति । शेषं सुगमम् ।

अत् ह विज्ञान-वादिनं वेनाशिकम् उत्थापयति-नास्त्य् अर्थो विज्ञान-विसहचरःिति । यदि हि भूत-भौतिकानि विज्ञान-मात्राद् भिन्नानि भवेयुस् ततस् तद्-उत्पत्ति-कारणम् ईदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत् कथं प्रधान-कल्पनम् ? कथं च ग्रहणानाम् इन्द्रियाणाम् अहङ्कार-विकाराणां कल्पनेति ? तथा हि-जडस्यार्थस्य स्वयम् अप्रकाशत्वान् नास्त्य् अर्थो विज्ञान-विसहचरः । साहचर्यं सम्बन्धः, तद्-अभावो विसहचरत्वम् । विर् अभावार्थः । विज्ञानासम्बन्धी नास्तीति व्यवहार-योग्य इत्य् अर्थः । अस्ति तु ज्ञानम् अर्थ-विसहचरम् । तस्य स्वयं-प्रकाशत्वेन स्व-गोचरास्तिता-व्यवहारे कर्तव्ये जडम् अर्थं प्रत्यपेक्षाभावात् । तद् अनेन वेद्यत्व-सहोपलम्भ-नियमौ सूचितौ विज्ञान-वादिना ।

तौ चैवं प्रयोगम् आरोहतः-यद् वेद्यतेयेन वेदनेन तत्त्वतो न भिद्यते, यथा ज्ञानस्यात्मा । वेद्यन्ते च भूत-भौतिकानीति विरुद्ध-व्याप्तोपलब्धिः । निषेध्य-भेद-विरुद्धेन व्याप्तं वेद्यत्वंदृश्यमानं स्व-व्यापकम् अभेदम् उपस्थापयत् तद्-विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद् येन नियत-सहोपलम्भं तत् ततो न भिद्यते । यथैकस्माच् चन्द्राद् द्वितीयश् चन्द्रः । नियत-सहोपलम्भश् चार्थो ज्ञानेनेति व्यापक-विरुद्धोपलब्धिः । निषेध्य-भेद-व्यापकानियम-विरुद्धो नियमोऽनियमं निवर्तयंस् तद्-व्याप्तं भेदं प्रतिक्षिपतीति ।

स्याद् एतत् । अर्थश् चेन् न भिन्नो ज्ञानात्मकं भिन्नवत् प्रतिभासत इत्य् अत आह-कल्पितमिति । यथाहुर् वैनाशिकाः-

सहोपलम्भ-नियमाद् अभेदो नील-तद्-धियोः ।

भेदश् च भ्रान्ति-विज्ञानैर् दृश्येतेन्दाव् इवोदये ॥१५७ इति ।

कल्पितत्वं विशदयति-ज्ञान-परिकल्पनेति । निराकरोति-तैति । ते कथं श्रद्धेय-वचनाः स्युरिति सम्बन्धः । प्रतिज्ञानम् उपस्थितं प्रत्युपस्थितम् । कथम् ? तथेति । यथा यथावभासत इदं-कारास्पदत्वेन तथातथा स्वयम् उपस्थितं न तु कल्पनोपकल्पितं विज्ञान-विषयतापन्नम् । स्व-माहात्म्येनेति विज्ञान-कारणत्वम् अर्थस्य दर्शयति । यस्माद् अर्थेन स्वकीया ग्राह्य-शक्त्या विज्ञानम् अजनि तस्माद् अर्थस्य ग्राहकम् । तद् एवं भूतं वस्तु कथम् अप्रमाणात्मकेन विकल्प-विज्ञान-बलेनेति । विकल्पस्याप्रामाणिकत्वात् तद्-बलस्यापि तद्-आत्मनोऽप्रमाणात्मकत्वम् । तेन वस्तु-स्वरूप-मृत्-सृज्योपप्लुतं कृत्वा । उपगृह्येति काचित्कः पाठः । तत्रापि स एवार्थः ।

तद् एवापलपन्तः श्रद्धातव्य-वचनाः स्युरिति । इदम् अत्राकूतम्-सहोपलम्भ-नियमश् च वेद्यत्वं च हेतू सन्दिग्ध-व्यतिरेकतयानैकान्तिकौ । तथा हि-ज्ञानाकारस्य भूत-भौतिकादेर् यद् एतद् बाह्यत्वं स्थूलत्वं च भासेते, न ते ज्ञाने सम्भवतः । तथा हि-नाना-देश-व्याइन्ता स्थौल्यम् विच्छिन्न-देशता च बाह्यत्वम् । न चैक-विज्ञानस्य नाना-देश-व्यापिता विच्छिन्न-देशता चोपपद्यते, तद्-देशत्वा-तद्-देशत्व-लक्षण-विरुद्ध-धर्म-संसर्गस्य इकत्रासम्भवात् । सम्भवे वा त्रैलोक्यस्य इकत्व-प्रसङ्गात् ।

अत एवास्तु विज्ञान-भेदैति चेत् ? हन्त भोः ! परम-सूक्ष्म-गोचराणां प्रत्ययानां परस्पर-वार्तानभिज्ञानां स्व-गोचर-मात्र-जागरूकाणां कुतस्त्योऽयं स्थूलावभासः ? न च विकल्प-गोचरोऽभिलापः, संसर्गाभावाद् विशद-प्रतिभासत्वाच् च । न च स्थूलम् आलोचितं यतस् तद्-उपाधिकस्य विशदताभवेत् पृष्ठ-भाविनः । न चाविकल्पवद् विकल्पोऽपि स्वाकार-मात्र-गोचरः, तस्य चास्थूलत्वान् न स्थूल-गोचरो भवितुम् अर्हति । तस्माद् बाह्ये च प्रत्यये स्थूलस्य बाह्य् अस्य चासम्भवाद् अलीकम् एव तद् आस्थातव्यम् ।

न चालीकं विज्ञानाद् अभिन्नम् । विज्ञानस्य तद्वत् तुच्छत्व-प्रसङ्गात् । तथा च वेद्यत्वस्याभेद-व्याप्यत्वाभावात् कुतो भेद-प्रतिपक्षतम् । सहोपलम्भ-नियमश् च सद्-असतोर् इव विज्ञानस्य उल्पयोः सतोर् अपि स्वभावाद् वा कुतश्चित् प्रतिबन्धाद् वोपपत्स्यते । तस्माद् अनैकान्तिकत्वाद् एतौ हेत्व्-आभासौ विकल्प-मात्रम् एव बाह्याभावे प्रसुवाते ।

न च प्रत्यक्ष-माहात्म्यं विकल्प-मात्रेणापोह्यते । तस्मात् साधूक्तं कथम् अप्रमाणात्मकेन विकल्प-ज्ञान-बलेनेति । एतेन प्रत्ययत्वम् अपि स्वप्नादि-प्रत्यय-दृष्टान्तेन निरालम्बनत्व-साधनम् अपास्तम् । प्रमेय-विकल्पस् त्व् अवयवि-व्यवस्थापनेन प्रयुक्तः । विस्तरस् तु न्याय-कणिकायाम् अनुसरणीयैति तद् इह कृतं विस्तरेणेति ॥१४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥१५॥

तत्त्व-वैशारदी : तद् एवम् उत्सूत्रं भाष्यकृद् विज्ञानातिरिक्त-स्थापने युक्तिम् उक्त्वा सौत्रीं युक्तिम् अवतारयति-कुतश् चैतदिति । वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥

यन् नानात्वे यस्य इकत्वं तत् ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानम् एकं भिन्नेभ्यो देवदत्त-विष्णुमित्र-प्रत्ययेभ्यो भिद्यते । ज्ञान-नानात्वेऽपि चार्थो न भिद्यतैति भवति विज्ञानेभ्योऽन्यः । अभेदश् चार्थस्य ज्ञान-भेदेऽपि प्रमातॄणां परस्पर-प्रतिसन्धानाद् अवसीयते । अस्ति हि रक्त-द्विष्ट-विमूढ-मध्यस्थानाम् एकस्यां योष् इति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयापीति । तस्माद् वस्तु-साम्ये चित्त-भेदाज् ज्ञान-भेदात् तयोर् अर्थ-ज्ञानयोर् विभक्तः पन्थाः स्वरूप-भेदोपायः । सुख-ज्ञानं कान्तायां कान्तस्य , सपत्नीनां दुःख-ज्ञानं, चैत्रस्य तु ताम् ऐन्दतो मूढ-ज्ञानम् विषादः ।

स्याद् एतत्, य एकस्य चित्तेन परिकल्पितः कामिनी-लक्षणोऽर्थस् तेनैवान्येषाम् अपि चित्तम् उपरज्यतैति साधारणम् उपपद्यत इत्य् अत आह-न चान्येति । तथा सत्य् एकस्मिन् नील-ज्ञानवति सर्व एव नील-ज्ञानवन्तः स्युरिति ।

नन्व् अर्थ-वादिनाम् अप्य् एकोऽर्थः कथं सुखादि-भेद-भिन्न-विज्ञान-हेतुः, न ह्य् अविलक्षणात् कारणात् कार्य-भेदो युक्त इत्य् अत आह-साङ्ख्य-पक्षैति । एकस्यैव बाह्य् अस्य वस्तुनस् त्रैगुण्य-परिणामस्य त्रैगुण्यम् उपपन्नम् । एवम् अपि सर्वेषाम् अविशेषेण सुख-दुःख-मोहात्मकं विज्ञानं स्याद् इत्य् अत आह-धर्मादि-निमित्तापेक्षमिति । रजः-सहितं सत्त्वं धर्मापेक्षं सुख-ज्ञानं जनयति । सत्त्वम् एअ तु विगलित-रजस्कं विद्यापेक्षं माध्यस्थ्य-ज्ञानमिति । ते च धार्मादयो न सर्वे सर्वत्र पुरुषे सन्ति, किं तु कश्चित् किंचित् अत्युपपन्ना व्यवस्थेति ॥१५॥

न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥१६॥

तत्त्व-वैशारदी : अत्र केचिद् आहुः प्रावादुकाः-ज्ञान-सहभूर् एवार्थोभोग्यत्वात् सुखादिवदिति । एतद् उक्तं भवतिभवत्व् अर्थो ज्ञानाद् व्यतिरिक्तस् तथाप्य् असौ जडत्वान् न ज्ञानम् अन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथा च ज्ञान-समय एवास्ति नान्यदा, प्रमाणाभावादिति । तद् एतद् उसूत्रं तावद् दूषयति भाष्य-कारः-त एतया द्वाराइति । वस्तु खलु सर्व-चित्त-साधारणम् अनेक-क्षण-परम्परोह्यमानं परिणामात्मकम् अनुभूयते लौकिक-परीक्षकैः । तच् चेद् विज्ञानेन सह भवेन् नूनम् एवं विधम् एवं चेद् इदम् अंशस्योपरि कोऽयम् अनुरोधो येन सोऽपि नापह्नूयेतेत्य् अर्थः ।

मा वा भूद् इदम् अंशस्यापह्नवो ज्ञान-सहभूर् एवास्त्व् अर्थः ? तत्राप्य् आह-, चैक-चित्त-तन्त्रं वस्तु१६२ तद् अप्रमाणकं तदा किं स्यात् ? ॥

यद् धि घट-ग्राहि चित्तं तद् यदा पट-द्रव्य-व्यग्रतया न घटे वर्तते, यद् वा, विवेक-विषयम् आसीत् तदैव च निरोधं समापद्यते, तदा घट-ज्ञानस्य विवेक-ज्ञानस्य वाभावाद् विवेको वा घटो वा ज्ञान-भेद-मात्र-जीवनस् तन्-नाशान् नष्ट एव स्याद् इत्य् आह-एक-चित्त- इति ।

किं तत् स्यान् न स्याद् इत्य् अर्थः । सम्बध्यमानं च चित्तेन कुत् उत्पद्येत ? ये चास्यानुपस्थिता भागास् ते चास्य न स्युः, एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत । तस्मात् स्वतन्त्रोऽर्थः सर्व-पुरुष-साधारणः । स्वतन्त्राणि च चित्तानि प्रति-पुरुषं प्रवर्तन्ते । तयोः सम्बन्धाद् उपलब्धिः पुरुषस्य भोगैति ॥१६॥

तद्-उपरागापेक्षत्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥

तत्त्व-वैशारदी : स्याद् एतत् । अर्थश् चेत् स्वतन्त्रः, स च जड-स्वभावैति न कदाचित् प्रकाशेत् । प्रकाशने वा जडत्वम् अप्य् अस्यापगतमितिभावोऽप्य् अपगच्छेत् । न जातु स्वभावम् अपहाय भावो वर्तितुम् अर्हति । न चेन्द्रियाद्य्-आधेयो जड-स्वभावस्यार्थस्य धर्मः प्रकाशैति साम्प्रतम् । अर्थ-धर्मत्वे नीलत्वादिवत् सर्व-पुरुष-साधारण इत्य् एकः शास्त्रार्थज्ञःिति सर्व एव विद्वांसः प्रसज्येरन् जामः कश्चिद् अस्ति । न चातीतानागतयोर् धर्मः प्रत्युत्पन्नो युक्तः । तस्मात् स्वतन्त्रोऽर्थ उपलम्भ-विषयैति मनोरथ-मात्रम् एतद् इत्य् अत आह-तद्-उपरागापेक्षत्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥

जड-स्वभावोऽप्य् अर्थ इन्द्रिय-प्रणालिकया चित्तम् उपरञ्जयति । तद् एवं-भूतं चित्त-दर्पणम् उपसक्रान्त-प्रतिबिम्बा चिति-शक्तिश् चित्तम् अर्थोपरक्तं चेतयमानार्थम् अनुभवति, न त्व् अर्थे किञ्चित् प्राकट्यादिकम् आधत्ते । नाप्य् असम्बद्धा चित्तेन, तत्-प्रतिबिम्ब-सङ्क्रान्तेर् उक्तत्वाद् इति । यद्यपि च सर्व-गतत्वाच् चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषयेणास्ति सम्बन्धः, तथापि यत्र शरीरे वृत्तमच् चित्तं, तेन सह सम्बन्धो विषयाणाम् इत्य् अयस्कान्त-मणि-कल्पाइत्य् उक्तम् । अयः-सधर्मकं चित्तम् इति । इन्द्रिय-प्रणालिकयाभिसम्बध्योपरञ्जयन्ति । अत एव चित्तं परिणामीत्य् आह-वस्तुनैति॥१७॥

सदा ज्ञाताः चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥

तत्त्व-वैशारदी : तद् एवं चित्त-व्यतिरेकिणम् अर्थम् अवस्थाप्य् तेभ्यः परिणति-धर्मकेभ्यो व्यतिरिक्तम् आत्मानम् आदर्शयितुं तद् वैधर्म्यम् अपरिणामित्वम् अस्य वक्तुं पूरयित्वा सूत्रं पठति, यस्य तु तद् एव चित्तं विषयस् तस्य-सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥

क्षिप्त-मूढ-विक्षिप्तैकाग्रतावस्थितं चित्तम् आ निरोधात् सर्वदा पुरुषेणानुभूयते वृत्तिमत् । तत् कस्य हेतोः ? यतः पुरुषोऽपरिणामी । परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञात-विषयो भवेत् । ज्ञात-विषय एव त्व् अयम् । तस्माद् अपरिणामी । ततश् च परिणामिभ्योऽतिरिच्यत इति ।

तद् एतद् आह-यदि चित्तवतिति । सदा ज्ञातत्वं तु मनसः स-वृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् । तस्य प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति । तथा चापरिणामिनस् तस्य पुरुषस्य न परिणामिनश् चित्ताद् भेद इति भावः ॥१८॥

न तत् स्वाभासंदृश्यत्वात् ॥१९॥

तत्त्व-वैशारदी : अत्र वैनाशिकम् उत्थापयति-स्याद् आशङ्काइति । अयम् अर्थःस्याद् एतद् एवं यदि चित्तम् आत्मनो विषयः स्यात् । न त्व् एतद् अस्ति, अपि तु स्व-प्रकाशम् एतद्-विषयाभासं पूर्व-चित्तं प्रतीत्य समुत्पन्नम् । तत् कुतः पुरुषस्य सदाज्ञात-विषयत्वम् ? कुतस्तरां वापरिणामितया परिणामिनश् चित्ताद् भेद इति ? न तत्-स्वाभासं दृश्यत्वात् । भवेद् एतद् एवं यदि स्व-संवेदनं चित्तं स्यात् । न त्व् एतद् अस्ति । तद् धि परिणामितया नीलादिवत् अनुभव-व्याप्यम् । यच् चानुभव-व्याप्यं न तत्-स्वाभासं भवितुम् अर्हति, स्वात्मनि वृत्ति-विरोधात् । न हि तद् एव क्रिया च कर्म च कारकं च । न हि पाकः पच्यते, छिदा वा छिद्यते । पुरुषस् त्व् अपरिणामी नानुभव-कर्मेतिनास्मिन् स्वयं-प्रकाशता । तस्माद् दृश्यत्वादर्शन-कर्म चित्तं न स्वाभाविकम् । आत्म-प्रकाश-प्रतिबिम्बतस्यैव चित्तस्य तद्-वृत्ति-विषयाः प्रकाशन्त इति भावः ।

ननु दृश्योऽग्निः स्वयं-प्रकाशश् च, न हि यथा घटादयोऽग्निना व्यज्यन्त एवम् अग्निर् अग्न्य्-अन्तरेणेत्य् अत आह-न चाग्निरिति । कस्मात् ? न हिइति । मा नामाग्निर् अग्न्य्-अन्तरात् प्रकाशिष्ट विज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्य् अर्थः । प्रकाशश् चायमिति । अयम् इति पुरुष-स्वभावात् प्रकाशाद् व्यवच्छिनत्ति । क्रिया-रूपः प्रकाश इति यावत् ।

एतद् उक्तं भवति-या या क्रिया सा सा सर्वा कर्तृ-करण-कर्म-सम्बन्धेन दृष्टा । यथा पाको दृष्टश् चैत्राग्नि-तण्डुल-सम्बन्धेन । तथा प्रकाशोऽपि क्रियेति तयापि तथा भवितव्यम् । सम्बन्धश् च भेदाश्रयो नाभेदे सम्भवतीत्य् अर्थः । किं च, स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्य चिद् इति शब्दार्थः । स्याद् एतत्, मा भूद् ग्राह्यं चित्तम्, न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्त-निवृत्तिर् इत्य् अत आह-स-बुद्धिइति । बुद्धिश् चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्ति-भेदाः क्रोध-लोभादयः स्वाश्रयेण चित्तेन स्व-विशेषित्य् आह-च सह प्रत्यात्मम् अनुभूयमानाश् चित्तस्याग्राह्यतां विघटयन्तीत्य् अर्थः । स्व-बुद्धि-प्रचार-प्रतिसंवेदनम् एव विशदयतिक्रुद्धोऽहम् इति ॥१९॥

एक-समये चोभयानवधारणम् ॥२०॥

तत्त्व-वैशारदी : एक-समये चोभयानवधारणम् ॥ स्वभासं विषयाभासं चित्तम् इति ब्रुवाणो न तावद् येनैव व्यापारेणात्मानम् अवधारयति तेनैव विषयम् अपीति वक्तुम् अर्हति । न ह्य् अविलक्षणो व्यापारः कार्य-भेदाय पर्याप्तः । तस्माद् व्यापार-भेदोऽङ्गीकर्तव्यः । न च वैनाशिकानाम् उत्पत्ति-भेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेर् अविलक्षणायाः कार्य-वैलक्षण्य-सम्भवः, तस्याकस्मिकत्व-प्रसङ्गात् । न चैकस्योत्पत्ति-द्वय-सम्भवः । तस्माद् अर्थस्य च ज्ञान-रूपस्य चावधारणं नैकस्मिन् समय इति । तथा चोक्तं वैनाशिकैः-भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते इति । तस्माद् दृश्यत्वम् एतच् चित्तस्य सदातनं स्वाभासत्वम् अपनयद् द्रष्टारं च द्रष्टुर् अपरिणामित्वं च दर्शयतीति ॥२०॥

चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥२१॥

तत्त्व-वैशारदी : पुनर् वैनाशिकम् उत्थापयति-स्यान् मतिः । मा भूद् दृश्यत्वेन स्व-संवेदनम्, एवम् अप्य् आत्मा न सिध्यति, स्व-सन्तान-वर्तिना चरम-चित्त-क्षणेन स्व-रस-निरुद्ध-स्वजनक-चित्त-क्षण-ग्रहणाद् इत्य् अर्थः । समं च तज्-ज्ञात्वेन , अनन्तरं चाव्यवहितत्वेन, समनन्तरं तेन । चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥

बुद्धिर् इति चित्तम् इत्य् अर्थः । नागृहीता चरमा बुद्धिः पूर्व-बुद्धि-ग्रहण-समर्था । न हि बुद्ध्यासम्बद्धा पूर्व-बुद्धिर् बुद्धा भवितुम् अर्हति । न ह्य् अगृहीत-दण्डो दण्डिनम् अवगन्तुम् अर्हति । तस्माद् अनवस्थेति । विज्ञान-वेदनासंज्ञा-रूप-संस्काराः स्कन्धाः । साङ्ख्य-योगादयः प्रवादाः । साङ्ख्याश् च योगाश् च त एवादयो येषां वैशेषिकादि-प्रवादानां ते साङ्ख्य-योगादयः प्रवादाः । सुगमम् अन्यत् ॥२१॥

चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥२२॥

तत्त्व-वैशारदी : स्याद् एतत् । यदि च्चित्तं न स्वाभासं नापि चित्तान्तर-वेद्यम् आत्मनापि कथं भोक्ष्यते चित्तम् ? न खल्व् आत्मनः स्वयं-प्रकाशस्याप्य् अस्ति काचित् क्रिया । न च ताम् अन्तरेण कर्ता । न चासंबद्धश् चित्तेन कर्मणा तस्य भोक्तातिप्रसङ्गाद् इत्य् आशयवान् पृच्छति-कथमिति । सूत्रेणोत्तरम् आहचितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥

यत् तद् अवोचत् वृत्ति-सारूप्यम् इतरत्र [१.४] इति तद् इतः समुत्थितम् । चितेः स्व-बुद्धि-संवेदनं बुद्धेस् तद्-आकारापत्तौ चिति-प्रतिबिम्बाधारतया तद्-रूपतापत्तौ सत्याम् । यथा हि चन्द्रमसः क्रियामन्तरेणापि सङ्क्रान्त-चन्द्र०प्रतिबिम्बम् अमलं जलम् अचलं चलम् इव चन्द्रमसम् अवभासत्वय् एवं विनापि चिति-व्यापारम् उपसङ्क्रान्त-चिति-प्रतिबिम्बं चित्तं स्व-गतया क्रियया क्रियावतीनांम् असंगताम् अपि सङ्गतां सूत्रार्थः । भास्यम् अप्य् एतद्-अर्थम् असकृत् तत्र तत्र व्याख्यातम् इति न व्याख्याम् अत्र ।

बुद्धि-वृत्त्य्-अविशिष्टत्वे ज्ञान-वृत्तेर् आगमम् उदाहरति-तथा चोक्तंन पातालम् इति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्ध-स्वभावस्य चिति-च्छायापन्नां मनो-वृत्तिम् एव चिति-च्छायापन्नत्वाच् चितेर् अप्य् अविशिष्टां गुहां वेदयन्ते । तस्याम् एव गुहायां तद् गुह्यं ब्रह्म, तद्-अपनये तु स्वयं-प्रकाशम् अनावरणम् अनुपसर्गं प्रद्योतते चरम-देहस्य भगवत इति ॥२२॥

 

द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

तत्त्व-वैशारदी : तद् एवं दृश्यत्वेन चित्तस्य परिणामिनस् तद्-अतिरिक्तः पुमान् अपरिणति-धर्मोपपादितः । सम्प्रति लोक-प्रत्ययक्षम् अप्य् अत्र प्रमाणयति-अतश् चैतद् इति । अवश्यं चैतद् इत्य् अर्थः । द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥ यथा हि नीलाद्य्-अनुरक्तं चित्तं नीलाद्य्-अर्थं प्रत्यक्षेणैवावस्थापयत्य् एवं द्रष्टृ-च्छायापत्त्या तद् अनुरक्तं चित्तं द्रष्टारम् अपि प्रत्यक्षेणावस्थापयति । अस्ति हि द्व्य्-आकारं ज्ञानं नीलम् अहं संवेद्मीति । तस्माज् ज्ञेयवत् तज्-ज्ञातापि प्रत्यक्षासिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो बिम्बम् । न त्व् एतावता तद् अप्रत्यक्षम् । न चास्य जल-गतत्वे तद् अप्रमाणम् इति चन्द्र-रूपेऽप्य् अप्रमाणं भवितुम् अर्हति । तस्माच् चित्त-प्रतिबिम्बतया चैतन्य-गोचरापि चित्त-वृत्तिर् न चैतन्य-गोचरेति । तद् इदं सर्वार्थत्वं चित्तस्येति ।

तद् एतद् आह-मनो हिइति । न केवलं तद्-आकारापत्त्या मन्तव्येनार्थेनोपरक्तम् मनोऽपि तु स्वयं चेति । च-कारो भिन्न-क्रमः पुरुषेणेत्य् अस्यानन्तरं द्रष्टव्यः । तच्-छायापत्तिः पुरुषस्य वृत्तिः ।

इयं च चैतन्य-च्छायापत्तिश् चित्तस्य वैनाशिकैर् अभ्युपेतव्या । कथम् अन्यथा चित्ते चैतन्यम् एत आरोरयाम्बभूवुर् इत्य् आह-तद् अनेनैति । केचिद् वैनाशिका बाह्यार्थ-वादिनः, अपरे विज्ञान-मात्र-वादिनः ।

ननु यदि चित्तम् एव द्रष्ट्र्-आकारं दृश्याकारं चानुभूयते, हन्त् चित्ताद् अभिन्नाव् एवास्तां द्रष्टृ-दृश्यौ । यथाहुः-

अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासित-दर्शनैः ।

ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते ॥[?] इति ।

तत् कथम् एतेऽनुकम्पनीया इत्य् अत आह-समाधि-प्रज्ञायाम् इति । ते खलूक्ताभिर् उपपत्तिभिश् चित्तातिरिक्तं पुरुषम् अभ्युपगम्याप्य् अष्टाङ्ग-योगोपदेशेन समाधि-प्रज्ञायाम् आत्म-गोचरायाम् अवतार्य बोधयितव्याः । तद् यथासमाधि-प्रज्ञायां प्रज्ञेयोऽर्थः आत्मा प्रतिबिम्बी-भूतोऽन्यः । कस्मात् ? तस्य आत्मन आलम्बनी-भूतत्वात् ।

अथ चित्ताद् अभिन्नम् एव कस्मान् नालम्बनं भवतीति यदि युक्ति-बोधितोऽपि वैजात्याद् वदेत्, तत्र हेतुम् आह-स चेद् आत्म-रूपोऽर्थश् चित्त-मात्रं स्यात्, न तु ततो व्यतिरिक्तस् ततः कथं प्रज्ञयैव प्रज्ञा-रूपम् अवधार्येत ? स्वात्मनि वृत्ति-विरोधात् ।

उपसंहरति-तस्मात् इति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्य् आहएवम् इति । जातितः स्वभावत इत्य् अर्थः ॥२३॥

तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥२४॥

तत्त्व-वैशारदी : चित्तातिरिक्तात्म-सद्भावे हेत्व्-अन्तरम् अवतारयति-कुतश् च इति । तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥ यद्यप्य् असङ्ख्येयाः कर्म-वासनाः क्लेश-वासनाश् च चित्तम् एवाधिशेरते, न तु पुरुषम्, तथा च वासनाधीना विपाकाश् चित्ताश्रयतया चित्तस्य भोक्तृताम् आवहन्ति, भोक्तुर् अर्थे च भोग्यम् इति सर्वं चित्तार्थं प्राप्तं, तथापि तच्-चित्तम् असङ्ख्येय-वासना-विचित्रम् अपि परार्थम् । कस्मात् ? संहत्य-कारित्वाद् इति सूत्रार्थः ।

व्याचष्टे-तद् एतद् इति । स्याद् एतत्, चित्तं संहत्यापि करिष्यति, स्वार्थं च भविष्यति, कः खलु विरोध इति ? यदि कश्चिद् ब्रूयात् तं प्रत्य् आह-संहत्य-कारिणाइति । सुख-चित्तम् इति भोगम् उपलक्षयति । तेन दुःख-चित्तम् अपि द्रष्टव्यम् । ज्ञानम् इत्य् अपवर्ग उक्तः । एतद् उक्तं भवतिसुख-दुःखे चित्त-प्रतिकूलानुकूलात्मके नात्मनि सम्भवतः, स्वात्मनि वृत्ति-विरोधात् । न चान्योऽपि संहत्य-कारी साक्षात् परम्परया वा सुख-दुःखे विदधानस् ताभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा । तस्माद् यः साक्षात् परम्परया वा न सुख-दुःखयोर् व्याप्रियते, स एवाभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुषः । एवम् अपवृज्यते येन ज्ञानेन तस्यापि ज्ञेय-तन्त्रत्वात् स्वात्मनि च वृत्ति-विरोधान् न ज्ञानार्थत्वम् । न बाह्य-विषयाद् अस्माद् अपवर्ग-सम्भवोऽस्ति, विदेह-प्रकृति-लयानाम् अपवर्गासम्भवात् । तस्मात् तज्-ज्ञानम् अपि पुरुषार्थम् एव, न तत् स्वार्थं नापि पर-मात्रार्थम् । संहत-परार्थत्वे चानवस्था-प्रसङ्गाद् असंहत-परार्थ-सिद्धिर् इति ॥२४॥

विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥२५॥

तत्त्व-वैशारदी : तद् एवं कैवल्य-मूल-बीज युक्तिमयम् आत्म-दर्शनम् उक्त्वा तद्-उपदेशाधिकृतं पुरुषम् अनधिकृत-पुरुषान्तराद् व्यावृत्तम् आह-विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥ यस्यात्म-भावे भावनास्ति तस्याष्टाङ्ग-य्गोपदेशाननुतिष्ठतो युञ्जानस्य तत्-परिपाकाच् चित्त-सत्त्व-पुरुषयोर् विशेष-दर्शनाद् आत्म-भाव-भावना निवर्तते । यस्यात्म-भाव-भावनैव नास्तिकस्य , तस्योपदेशानधिकृतस्यापरिनिश्चितात्म-तत्पर-लोक-भावस्य नोपदेशो न विशेष-दर्शनं नात्म-भाव-भावना-निवृत्तिर् इति सूत्रार्थः ।

नन्व् आत्म-भाव-भावनायाश् चित्त-वर्तिन्याः कुतोऽवगम इत्य् अत आह-यथा प्रवृषि इति । प्राग्-भवीयं तत्त्व-दर्शन-बीजम् अपवर्ग-भागीयं यत् कर्माष्टाङ्ग-योगानुष्ठानं तद्-एक-देशानुष्ठानं वा तद्-अभिनिर्वर्तितम् अस्तीत्य् अनुमीयते । तस्य चात्म-भाव-भावनावश्यम् एव स्वाभाविकी वस्त्व् अभ्यासं विनापि प्रवर्तते । अनधिकारिणम् आगमिनां वचनेन दर्शयतियस्याभावाद् इदमिति ।

पूर्व-पक्षः-नास्ति कर्म-फलं पर-लोकिनोऽभावात् पर-लोकाभाव इति । तत्र रुचिः । अरुचिश् च निर्णये पञ्चविंशति-तत्त्व-विषये । आत्म-भाव०भावना प्राग्-व्याख्याता । विशेष-दर्शिनः परामार्शम् आहचित्तस्य इवेति । अस्य विशेष-दर्शन-कुशलस्यात्म-भाव-भावना विनिवर्तत इति ॥२५॥

 

तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥२६॥

तत्त्व-वैशारदी : अथ विशेष-दर्शिनः कीदृशं चित्तम् इत्य् अत आह-तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥ निगद-व्याख्यातम् ॥२६॥

तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥

तत्त्व-वैशारदी : स्याद् एतत्-विशेष-दर्शनं चेद् विवेक-निष्ठं न जातु चित्तं व्युत्थितं स्यात् । दृश्यते चास्य भिक्षाम् अटतो व्युत्थितम् इत्य् अत आहतच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥

प्रत्यय- इति । प्रतीयते येन स प्रत्ययश् चित्त-सत्त्वम् । तस्माद् विवेकश् चितेः । तेन निम्नस्य । जानामीति ज्ञानान् मोक्षो विविच्य दर्शितः । न जानामीति मोहः । तन्-मूलावहङ्कार-ममकारावहम् अस्मीति वा ममेति वा दर्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः । पूर्व-संस्कारेभ्यो व्युत्थान-संस्कारेभ्यः ॥२७॥

हानम् एषां क्लेशवद् उक्तम् ॥२८॥

तत्त्व-वैशारदी : स्याद् एतत् । सत्य् अपि विवेक-विज्ञानं व्युत्थान-संस्कारा यदि प्रत्ययान्तराणि प्रसुवते कस् तर्हि हान-हेतुर् एषां यतः प्रत्यान्तराणिन पुनः प्रसुवीरन्न् इत्य् आह-हानम् एषां क्लेशवद् उक्तम् ॥ अपरिपक्व-विवेक-ज्ञानस्याक्षीयमाणा व्युत्थान-संस्काराः प्रत्यान्तरं प्रसुवते, न तु परिपक्व-विवेक-ज्ञानस्य क्षीणाः प्रत्यान्तराणि प्रसोतुम् अर्हन्ति । यथा विवेक-च्छिद्र-समुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते ।

तत् कस्य हेतोः ? तद् एते क्लेशा विवेक-ज्ञान-वह्नि-दग्ध-बीज-भावा इति । एवं व्युत्थान-संस्कारा अपीति । अथ व्युत्थान-संस्कारा विवेक-ज्ञान-संस्कारैर् निरोद्धव्याः । विवेक-संस्काराश् च निरोध-संस्कारैः । निरोध-संस्काराणां त्व् अबाह्य-विषयत्वं दर्शितम् । निरोधोपायः प्रायश् चिन्तनीय इत्य् अत आह-ज्ञान-संस्कारास् तु इति । पर-वैराग्य-संस्कारा इत्य् अर्थः ॥२८॥

विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥२९॥

तत्त्व-वैशारदी : तद् एवं व्युत्थान-निरोधोपायं प्रसङ्ख्यान-निरोधोपायम् आह-प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥ ततः प्रसंख्यानान् न किञ्चित् सर्व-भावाधिष्ठातृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति, परिणामित्व-दोष-दर्शनेन विरक्तः सर्वथा विवेक-ख्यातिर् एव भवति ।

एतद् एव विवृणोति-तत्रापीति । यदा व्युत्थान-प्रत्यया भवेयुस् तदा नायं ब्राह्मणः सर्वथा विवेक-ख्यातिः । यतस् तस्य न प्रत्ययान्तराणि भवन्ति, ततः सर्वथा विवेक-ख्यातिर् इति । तदास्य धर्म-मेघः समाधिर् भवति ।

एतद् उक्तं भवति-प्रसंख्याने विरक्तस् तन्-निरोधम् इच्छन्द् धर्म-मेघं समाधिम् उपासीत । तद्-उपासने च सर्वथा विवेक-ख्यातिर् भवति । तथा च तं निरोद्धुं पारयतीति ॥२९॥

ततः क्लेश-कर्म-निवृत्तिः ॥३०॥

तत्त्व-वैशारदी : तस्य च प्रयोजनम् आह-ततः क्लेश-कर्म-निवृत्तिः ॥ कस्मात् पुनर् जीवन्न् एव विद्वान् विमुक्तो भवति ? उत्तरम्-यस्माद् इति । क्लेश-कर्म-वासनेद्धः किल कर्माशयो जात्य्-आदि-निदानम् । न चासति निदाने निदानो भवितुम् अर्हति । यथाहात्र भगवान् अक्षपादःवीत-राग-जन्मादर्शनात्[न्या.सू. ३.१.२४] इति ॥३०॥

तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥३१॥

तत्त्व-वैशारदी : अथैवं धर्म-मेघे सति कीदृशं चित्तम् इत्य् अत आह-तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥ आव्रियते चित्त-सत्त्वम् एभिर् इत्य् आवरणानि मलाः क्लेश-कर्माणि । सर्वे च त आवरण-मलाश् चेति सर्वावरण-मलाः । तेभ्योऽपेतस्य चित्त-सत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्य् अनया व्युत्पत्त्या, आनन्त्याद् अपरिमेयत्वाज् ज्ञेयम् अल्पम् । यथा हि शरदि घन-पटल-मुक्तस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्या घटादयोऽल्पाः प्रकाशन्त एवम् अपगतरजस्तमसश् चित्त-सत्त्वस्य प्रकाशानन्त्याद् अल्पं प्रकाश्यम् इति ।

तद् एतद् आह-सर्वैर् इति । एतद् एव व्यतिरेक-मुखेन स्फोरयतिआवरकेणतमसाभिभूतम् इति । क्रिया-शीलेन रजसा प्रवर्तितम् अत एवोद्घाटितम् । प्रदेशाद् अपनीतं तम इत्य् अर्थः । अत एव सर्वान् धर्मान् ज्ञेयान् मेहति वर्षति प्रकाशनेनेति धर्म-मेघ इत्य् उच्यते ।

नन्व् अयम् अस्तु धर्म-मेघः समाधिः स-वासन-क्लेश-कर्माशय-प्रशम-हेतुः, अथ सत्य् अप्य् अस्मिन् कस्मान् न जायते पुनर् जन्तुः ? इत्य् अत आह-यत्रेदम् इति । कारण-समुच्छेदाद् अपि चेत् कार्यं क्रियते हन्त भो मणि-वेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपन्नार्थतायाम् आणको लौकिक उपपन्नार्थः स्यात्अविध्यद् अन्धो मणिमिति । आवयद् ग्रथितवान् । प्रत्यमुञ्चत् पिनद्धवान् । अभ्यपूजयत् स्तुतवान् इति ॥३१॥

ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥३२॥

तत्त्व-वैशारदी : ननु धर्म-मेघस्य परा काष्ठा ज्ञान-प्रसाद-मात्रं परं वैराग्यंस-मूल-घातम् अपहन्तु व्युत्थान-समाधि-संस्कारान् स-क्लेश-कर्माशयान्, गुणास् तु स्वत एव विकार-करण-शीलाः कस्मात् तादृशम् अपि पुरुषं प्रति देहेन्द्रियादि नारभन्त इत्य् अत आह-ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥ शोलम् इदं गुणानां यद् अमी यं प्रति कृतार्थास् तं प्रति न प्रवर्तन्त इति भावः ॥३२॥

क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥३३॥

तत्त्व-वैशारदी : अत्रान्तरे परिणाम-क्रमं पृच्छति-अथ कोऽयम् इति । क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥ परिणाम-क्रमः क्षण-प्रतियोगी, क्षणः प्रतिसम्बन्धी यस्य स तथोक्तः । क्षण-प्रचयाश्रय इत्य् अर्थः । न जातु क्रमः क्रमवन्तम् अन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात् क्षण-प्रचयाश्रयः परिशिष्यते ।

तद् इदम् आह-क्षणानन्तर्यात्मा इति । परिणाम-क्रमे प्रमाणम् आहपरिणामस्य इति । नवस्य हि वस्त्रस्य प्रयत्न-संरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानम् । तेन हि परिणामस्य क्रमः । ततः प्राग् अपि पुराणतायाः सूक्ष्मतम-सूक्ष्मतर-सूक्ष्म-स्थूल-स्थूलतर-स्थूलतमत्वादीनां परुवापर्यम् अनुमीयते ।

एतद् एव व्यतिरेक-मुखेन दर्शयति-न हिइति । अननुभूतोऽप्राप्तः क्रम-क्षणो अयति३ सा तथोक्ता ।

नन्व् एष क्रमः प्रधानस्य न सम्भवति, तस्य नित्यत्वाद् इत्य् अत आह-नित्येषु च इति । बहु-वचनेन सर्व-नित्य-व्यापितां क्रमस्य प्रतिजानीते ।

तत्र नित्यानां प्रकार-भेदं दर्शयित्वा नित्य-व्यापितां क्रमस्योपपादयति-द्वयीइति । ननु कूटस्थं स्वभावाद् अप्रच्युतम् अस्तु नित्यम् । परिणामि सदैव स्वरूपाच् च्यवमानं कथं नित्यम् ? इत्य् अत आह-यस्मिनिति । धर्म-लक्षणावस्थानाम् उदय-व्यय-धर्मत्वं, धर्मिणस् तु तत्त्वाद् अविघात एवेति । अथ किं परिणामापरान्त-निर्ग्राह्यता सर्व-क्रमस्य ? नेत्य् आह-तत्र गुण-धर्मेषु बुद्ध्य्-आदिषुइति । यतो लब्ध-पर्यवसानो धर्माणां विनाशात् । प्रधानस्य तु परिणाम-क्रमो न लब्ध-पर्यवसानः ।

ननु प्रधानस्य धर्म-रूपेण परिणामाद् अस्तु परिणाम-क्रमः, पुरुषस्य त्व् अपरिणामिनः कुतः परिणाम-क्रमः ? इत्य् अत आह-कूटस्थ- इति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात् तत्-परिणामेन परिणामाध्यासः । मुक्तानां चास्ति-क्रियाम् उपादायावास्तवोऽपि परिणामो मोह-कल्पितः, शब्दस्य पुरः-सरतया तत्-पृष्ठो विकल्पोऽस्ति-क्रियाम् उपादत्त इति ।

गुणेष्व् अलब्ध-पर्यवसानः परिणाम-क्रम इत्य् उक्तम् । तद्-असहमानः पृच्छति-अथैति । स्थित्याइति महा-प्रलयावस्थायाम् । गत्याइति सृष्टौ । एतद् उक्तं भवतियद्य् आनान्त्यान् न परिणाम-समाप्तिः संसारस्य , हन्त भोः कथं महा-प्रलय-समये सर्वेषाम् आत्मनां सहसा समुच्छिद्येत, कथं च सृष्ट्य्-आदौ सहस्रोत्पद्येत संसारः ? तस्माद् एकैकस्यात्मनो मुक्ति-क्रमेण सर्वेषां विमोक्षाद् उच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधान-परिणाम-क्रम-परिसमाप्तिः । एवं च प्रधानस्याप्य् अनित्यत्व-प्रसङ्गः । न चापूर्व-सत्त्व-प्रादुर्भाव इष्यते येनानन्त्यं स्यात्, तथा सत्य् अनादित्व-व्याहतेः सकल-शास्त्रार्थ-भङ्ग-प्रसङ्ग इति भावः ।

उत्तरम् आह-अवचनीयम् अनुत्तरार्हम् एतत् । एकान्तत एव तस्यावचनीयता दर्शयितुम् एकान्त-वचनीयं प्रश्नं दर्शयतिअस्ति प्रश्नैति । सर्वो जातो मरिष्यतिइति प्रश्नः । उत्तरंओं भो इति । सत्यं भो इत्य् अर्थः ।

अविभज्य वचनीयम् उक्त्वा प्रविभज्य वचनीयं प्रश्नम् आह-अथ सर्वैति । विभज्य-वचनीयताम् आहविभज्यैति । विभज्य-वचनीयम् एव प्रश्नान्तरं विस्पष्टार्थम् आहतथा मनुष्य- इति । अयं त्व् अवचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुष-संसारस्यान्तवत्त्वम् अनन्तवत्त्वं वा शक्यम् एकान्ततो वक्तुम्, यथा प्राण-भृन्-मात्रस्य श्रेयस्त्वम् अश्रेयस्त्वं वा नैकान्ततः शक्यम् अवधारयितुम् । यथा जात-मात्रस्य मरणम् एकान्तः । विभज्य पुनः शक्यावधारणम् इत्य् आह-कुशलस्य इति ।

अयम् अभिसन्धिः-क्रमेण मोक्षे सर्वेषां मोक्षात् संसारोछेद इत्य् अनुमानम् । तच् चागम-सिद्ध-मोक्षाश्रयम् । तथा चाभ्युपगत-मोक्ष-प्रतिपादकागम-प्रमाण-भावः कथं तम् एवागमं प्रधान-विकार-नित्यतायाम् अप्रमाणीकुर्यात् ? तस्माद् आगम-बाधित-विषयम् एत अनुमानं न प्रमाणम् । श्रूयते हि श्रुति-स्मृतीतिहास-पुराणेषु सर्ग-प्रतिसर्ग-परम्पराया अनादित्वम् अनन्तत्वं चेति ।

अपि च सर्वेषाम् एवात्मनां संसारस्य न तावद् युगपद् उच्छेदः सम्भवी । न हि पण्डित-रूपाणाम् अप्य् अनेक-जन्म-परम्पराभ्यास-परिश्रम-साध्या विवेक-ख्याति-प्रतिष्ठा । किं पुनः प्राणभृन्-मात्रस्य स्थावर-जङ्गमादेर् एकदाकस्माद् भवितुम् अर्हति । न च कारणायौगपद्यं युज्यते । क्रमेण तु विवेक-ख्याताव् असङ्ख्येयानां क्रमेण मुक्तौ न संसारो च्छेदो ऽनन्तत्वाज् जन्तूनाम् असंख्येयत्वाद् इति सर्वम् अवदातम् ॥३३॥

पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥३४॥

तत्त्व-वैशारदी : कैवल्य-स्वरूपावधारण-परस्य सूत्रस्यावान्तर-सङ्गतिम् आह-गुणाधिकारेति । पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥

कृत-करणीयतया पुरुषार्थ-शून्यानां यः प्रतिप्रसवः स्व-कारणे प्रधाने लयः, तेषां कार्य-कारणात्मकानां गुणानां व्युत्थान-समाधि-निरोध-संस्कारा मनसि लीयन्ते, मनोऽस्मितायां, अस्मिता लिङ्गे, लिङ्गम् अलिङ्ग इति । योऽयं गुणानां कार्य-कारणात्मकानां प्रतिसर्गस् तत् कैवल्यम् । यं कञ्चित् पुरुषं प्रति प्रधानस्य मोक्षः । स्वरूप-प्रतिष्ठा वा पुरुषस्य मोक्ष इत्य् आह-स्वरूपेति । अस्ति हि महा-प्रलयेऽपि स्वरूप-प्रतिष्ठा चिति-शक्तिः, न चासौ मोक्ष इत्य् अत आह-पुनर् इति । सौत्र इति शब्दः शास्त्र-परिसमाप्तौ ॥३४॥

इति श्री-वाचस्पति-मिश्र-विरचितायां पातञ्जल-योग-सूत्र-भाष्य-व्याख्यायां तत्त्व-वैशारद्यां कैवल्य-पादश् चतुर्थः ॥४॥

error: Content is protected !!

Share This

Share this post with your friends!