
Sadāśivendrasarasvatī and Yogasudhākara
Chapter 1
योगासूत्रम् (समाधिपादः)
योगसुधाकरो नाम ॥ योगसूत्रवृत्तिः ॥
यद्भावनादवापीयं प्रत्यक्चितिरनामया ।
क्लेशकर्माद्यसंस्पृष्टं तमीशं कंचनाभजे ।। १ ।।
श्रीमत्पतञ्जलेस्तस्य पदद्वन्द्वमनिन्दितम् ।
वन्दे येन मनःकायवाचां शुद्धिरकार्यसौ ।। २ ।।
विद्यारत्नं मया लब्धं यत्कृपापारवारिधेः ।
वन्दे तान्विबुद्धैर्वन्द्यान्वन्दकानन्ददान्गुरून् ।। ३ ।।
श्रीमद्देशिकवक्त्राब्जान्निशम्याथ विलोड्य ताम् ।
फणीन्द्रभणितेः काचिद्वृत्तिरारभ्यते मया ।। ४ ।
अथ योगानुशासनम् ॥१॥
अ. इह खलु भगवान्पतञ्जलिः प्रेक्षावत्प्रवृत्त्यौपयिकं शास्त्रप्रतिपाद्यं दर्शयति-
टि. [अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । योगः अनुशिष्यते विविच्य बोध्यते अनेनेति योगानुशासनं शास्त्रमधिकृतं बोद्धव्यमित्यर्थः । हिरण्यगर्भाद्युपदिष्टस्यैव योगस्य विविच्य बोधनमत्रेति बोध्यम् । ]
यो- अन अथशब्दः आरम्भार्थः, अर्थान्मङ्गलार्थश्च । ‘युज समाधौ’ इति धातोर्योगः समाधिः तस्यानुशासनं हैरण्यगर्भं शास्त्रमनुसृत्य शिष्यते व्याख्यायते ससाधनः सफलः समाधिरनेनेत्यनुशासनं शास्त्रम् । तथा च कस्मैचित्कैवल्यकामाय प्रतिपाद्ययोगप्रतिपादकं शास्त्रमारभ्यत इत्यक्षरार्थः । तत्र समाधिद्विविधः संप्रज्ञातोऽसंप्रज्ञातश्चेति । स च चित्तस्य धर्मः । चित्तं हि त्रिगुणात्मकत्वात्पञ्चभूम्युपेतम् । भूमयश्च – क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति । तन-रजसा विषयेषु क्षिप्यमाणं क्षिप्तम् ; तमसा निद्रालस्यादिवृत्तिमन्मूढम् ; ईषद्रजस्तमःसंस्पृष्टेन सत्त्वेन कादाचित्कध्यानयुक्ततया क्षिप्ताद्विशिष्टं विक्षिप्तम् ; विधूतरजस्तमोमलेन शुद्धसत्त्वेनैकाग्रमेकतानम् ; प्रशान्त-सकलवृत्तिकं संस्कारशेषं निरुद्धम् । एवं च आद्यभूमित्रयपरित्यागेनाव-शिष्टभूमिद्वयोपेतस्य चित्तस्य समाधिद्वयं धर्म इति विवेक: ॥१॥
योगश्चित्तवृत्तिनिरोधः ॥२॥
अ. अधुना द्विविधस्य समाधेः साधारणं लक्षणं लक्षयति-
टि. [सत्त्वपरिणामरूपस्य चित्तस्य – अन्तःकरणस्य या वृत्तयः वक्ष्यमाणाः तासां निरोधः बहिर्मुखताविच्छेदात् अन्तर्मुखतया स्वकारणे लयः]
यो- रजस्तमोवृत्त्योर्निरोधो योग इत्यर्थः । अतः सात्त्विकवृत्तिसत्त्वेऽपि संप्रज्ञाते नाव्याप्तिः ॥ २ ॥
दा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
अ. ननु बुद्धिवृत्तिस्वभावायाश्चितिशक्तेर्वृत्तिनिरोधे कथं स्थितिरित्याशङ्कयाह-
टि.[तदा-सर्वासां वृत्तीनां निरोधकाले द्रष्टुः– चैतन्यमात्नस्वरूपस्य पुरुषस्य स्वरूपे-चिन्मात्ने अवस्थानं स्थितिः भवति । ]
यो- यदा सर्वासां वृत्तीनां निरोधः, तदा द्रष्टुश्चितिशक्तेः स्वाभाविकैस्वरूपे स्थितिः कुसुमापगमे स्फटिकमणेरिवेत्यर्थः । चितिशरकेश्चंतन्यमात्रं स्वभावो न वृत्तय इति भावः ।। ३ ।।
वृत्तिसारूप्यमितरत्र ॥४॥
अ. ननु तर्हि व्युत्थाने चितिशक्तेः स्वरूपात्प्रच्युतिः स्यादित्यत्राह –
टि. [इतरत्न–योगादन्यम्मिन् काले द्रष्टुः – पुरुषस्य वृत्तिसारूप्यम् – सात्त्विक-राजसतामसवृत्तिभिः तद्रूपत्वम् बुद्धिवृत्तिपुरुषयोः ऐक्यभानम् भवति इत्यर्थ: ।]
यो- यद्यपि निर्विकारा चितिशक्तिः सदा स्वरूप एवावतिष्ठते, तथापि निरोधादन्यत्र वृत्तिषूत्पद्यमानासु तत्र चितिच्छायायां प्रतिबिम्बितायां तदविवेकात्तत्तादात्म्यमापन्नेव चितिशक्तिर्भवति जपारक्त इव स्फटिकः । अतो न स्वरूपात्प्रच्युतिः । न हि लौहित्य भ्रमसमये समस्ति स्फटि-कमणेरवदातस्वभावात्प्रच्युतिरिति भावः । एतेन सूत्रद्वयेनार्थाद्यन्निरोधे चितिशक्तिः स्वरूपप्रतिष्ठा, यद्वयुत्थाने स्वरूपाप्रतिष्ठेव भवति तच्चि-त्तमिति द्वित्तीयसूत्रगतचित्तपदं व्याख्यातं भवति ॥ ४ ॥
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥५॥
अ. अधुना निरोद्धव्यानां वृत्तीनामियत्तामाह-
टि. [क्लिष्टाः – तामसराजसाः अक्लिष्टाः – सात्त्विकाः वृत्तयः – वृत्तिसमुदायाः पञ्च-तय्यः-पञ्चा अवयवविशिष्टा: ]
यो- पञ्च तयबर्या अवयवा वक्ष्यमाणाः प्रमाणादयो यासां सामान्य-वृतीनां ताः पञ्चतय्यो वृत्तयश्चित्तस्य परिणामाः । बहुवचनं तु मैत्रादिपुरुष बहुत्वाभिप्रायेण ताः कीदृश्यः ? क्लिष्टा अक्लिष्टाः ; वक्ष्यमाणैः क्लेशैः संश्लिष्टाः स्वरूपाप्रतिष्ठाप्रत्ययाः क्लिष्टाः, तैर-संश्लिष्टाः स्वरूपप्रतिष्ठाप्रत्यया अक्लिष्टाः । यद्यपि पञ्चस्वेव क्लिष्टा नाम क्लिष्टानां चान्तर्भावः, तथापि क्लिष्टा एव निरोद्धव्या इति मन्दबुद्धि कारयितुं ताभिः सहाक्लिष्टा अप्युदाहृताः ।। ५ ।।
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
अ. अथ नामधेय लक्षणाभ्यां वृत्तीविशदयितुं सूत्रषट्कमाचष्टे –
टि. [ प्रमाण विपर्यय विकल्प निद्रा स्मृतयः एता: चित्तवृत्तयः भवन्ति । ]
यो- अतोऽपरा वृत्तिर्न समस्तीत्युद्देशसूत्रस्य फलम् ।। ६ ।।
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
टि. [ प्रमाणाद्याः पञ्चवृत्ती: क्रमेण पञ्चभि: सूतैः लक्षयति । ]
यो- नीण्येव प्रमाणानीति भावः । वृत्तावज्ञातार्थावगाही चितिशक्तेः प्रतिबिम्बः प्रमा । तत्करणं वृत्तिः प्रमाणम् । तत्त्वं प्रमाणसामान्यलक्षणम् । तत्र चक्षुरादिद्वारा व्यक्तिविशेषनिर्धारणी चित्तवृत्तिः प्रत्यक्षप्रमाणम् । तदाकारवृत्तौ चितिशक्तेः प्रतिबिम्ब: प्रत्यक्षप्रमा । एवं ध्यानसमाधिद्वारा चितिशक्तिविशेषावद्योतिका संप्रज्ञाताख्या चित्त-वृत्तिः प्रत्यक्षप्रमाणम् । ज्ञाता चितिशक्तिः फलम् । लिङ्गज्ञानद्वारा लिङ्गिसामान्यनिर्धारणी वृत्तिरनुमानम् । तत्र प्रतिबिम्बोऽनुमितिः । पदार्थज्ञानद्वारा वाक्यार्थावगाहिनी वृत्तिरागमः । तत्र प्रतिबिम्ब: शाब्दः । अनुमानागमावुभयत्र समानाविति पृथङ् नोदाहृतौ ।। ७ ।।
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
टि. [अतथाभूते अर्थे तथा उत्पद्यमानं ज्ञानं विपर्ययः । संशयोऽपि अतद्रूप-प्रतिष्ठत्वात् मिथ्याज्ञानम् । ]
यो- विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानं बाधानन्तरं व्यवहाराजनकं यत् अतद्रूपप्रतिष्ठम् तस्यार्थस्य यद्रूपं पारमार्थिकं स्वरूपं तत्त्रा-प्रतिष्ठितं तदनवगाहि । तत्त्वं लक्षणम् । अतो न विकल्पेऽतिव्याप्तिः, तस्य बाधितत्वेऽपि केषांचित्पण्डितानां व्यवहारजनकत्वात् । नापि संशये, तस्यापि लक्ष्यत्वात् ।। ८ ।।
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
टि. [शब्दविषयकज्ञानम् अनुपतति तज्जन्यो वृत्तिविशेष इत्यर्थः । वस्तुशून्यः-अर्थशून्यः विकल्पः]
यो- ‘राहोः शिरः’ इति शब्दश्रवणानन्तरं जायमाना वस्तुशून्या वृत्तिर्विकल्पः । अतो वाक्यार्थगोचरवृत्तौ नातिव्याप्तिः, तस्या वस्तुशून्यत्वाभावात् । नापि विपर्यये, तस्य शब्दज्ञानाननुपातित्वात् ।। ९ ।।
अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१०॥
टि. [अभावप्रत्यय: आलंबनं यस्या वृत्तेः सा निद्रा ]
यो- वस्त्वभावः प्रतीयते यस्मिन्नावारके तमसि सति, तत्तमोऽभाव-प्रत्ययः । तं विषयीकुर्वती वृत्तिनिद्रा । तस्याः ‘सुखमहमस्वाप्सं न किंचिदवेदिषम्’ इति स्मरणस्यानुभवपूर्वकत्वाद्वृत्तित्वम् ॥१०॥
अनुभूत विषयासम्प्रमोषः स्मृतिः ॥११॥
टि. [अनुभूतस्य विषयस्य य: असंप्रमोषः संस्कारद्वारेण बुद्धी, आरोहः, स स्मृति:]
यो- अनुभूतस्य पित्रादेः असंप्रमोषः तदनुभवजन्यमनुसंधानं स्मृति-रित्यर्थः । एतेन वृत्तय इत्याद्यनुभूतविषयेत्यन्तेन सूत्रसप्तकेन द्वितीय-सूत्नगतवृत्तिपदं व्याख्यातं भवति । इतोऽवशिष्टेन पादेन निरोध-पदमर्थाव्याख्यायत इति द्रष्टव्यम्॥११॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
अ. अधुना पश्वविधवृत्तिनिरोधोपायमाह –
टि. [तन्निरोध:- पूर्वोक्तवृत्तीनां स्वकारणभूते चित्ते शक्तिमानतया अवस्थानं अभ्यासवैराग्याभ्यां भवति । ]
यो- चित्तस्य निसर्गतो निर्गत स्रगादिगोचर वृत्तिसरित्पूरं वैराग्येण विनिवार्य समाध्यभ्यासेन प्रशान्तप्रवाहः संपाद्यते । अतस्तदुभयनिबन्धनो निरोध इत्यर्थः॥ १२ ॥
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
अ. ननु जपादावावृत्तिलक्षणोऽभ्यासो विधातुं पार्यंते ; को नाम निरोधेऽभ्यास इत्यत आह-
टि. [तत्न–अभ्यासवैराग्ययोर्मध्ये रजस्तमोवृत्तिशून्यस्य चित्तस्य एकाग्रतासंपादने यत्नः यमादिसाधनानां असकृत् अनुष्ठानम् अभ्यासः]
यो- तत्त्र तयोर्मध्ये । स्थितिर्नैश्चल्यं निरोधः, तत्र । ‘चर्मणि द्वीपिनं हन्ति’ इतिवन्निमित्तार्थेयं सप्तमी । एवं च स्थितिनिमित्तको यत्नो मानस उत्माहः स्वत एव बहिः प्रवाहशीलं चित्तं सर्वथा निरोत्स्यामी-त्येवंविध उत्साह आवर्त्यमानोऽभ्यास इत्युच्यते ॥१३॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥
अ. ननु अद्यतनाभ्यासः स्वयमदृढः सन्ननादिसंचितब्युत्थानसंस्कारान् कथमभिभवेदित्याशङ्कय आह-
टि. [ स तु – अभ्यास: बहुकाल नैरन्तर्येण आदरातिशयेन च सेव्यमानः स्थिरो भवति । विषयसुखवासनादिभिः अविचाल्यो भवति ]
यो- यदि दिवसेर्मासैर्वा समाधिसिद्धि वाञ्छेत् तदा विद्यमानाश्चत्वार एव वेद: ; तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः ; नाद्याप्यसौ समागता’ इति मूढवचनानुसार्येवायं योगी स्यात् । अतः संवत्सरैर्जन्मभिर्वा दीर्घकालं योग आसेवितव्यः । तथा च स्मर्यते – अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ इति । यदि चिरमा सेव्यमानोऽपि विच्छिद्य विच्छिद्यासेव्येत, तर्युत्पद्यमाना योगसंस्काराः समनन्तरभा विविच्छेदकालीनैर्व्युत्थान संस्कारैरभिभूयेरैन् । अतो निरन्तरमासेवितव्यः । सत्कार आदरः । अनादरे लयविक्षेपकषायादयः प्रसज्जेरन् । तस्मादादरेणासेवितव्यः । दीर्घकालादित्रैविध्येनासेवितस्यसमाधेर्द्दढभूमित्वं नाम प्रबलतरदुःखेनापि चालयितुमशक्यत्वम् । तच्चस्मर्यते – ‘ यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते’ इति ॥१४॥
दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥
अ. अथ वैराग्यं द्विविधमपरं परं चेति । अपरं च यतमानव्यतिरेकैकेन्द्रियवशीकारभेदेन चतुर्विधम् । तत्राद्यत्त्रयमर्थात् सूचयन्साक्षाच्चतुर्थम् आह-
टि. [द्विविधो हि विषयः दृष्ट: आनुश्रविकश्व । इहैव उपलभ्यमानाः अन्नपानंश्वर्यादयः दृष्टाः । वेदसमधिगताः स्वर्गप्रकृतिलयादयो विषया: आनुश्रविकाः, तयोः परिणामविरसत्वदर्शनात् विगतेच्छस्य वशीकारसंज्ञा वैराग्यमुच्यते । ]
यो- स्रक्चन्दनादयो विषया दृष्टाः । वेदोक्तस्वर्गादय अनुश्रविकाः । तनोभयत्रापि सत्यामपि तृष्णायां विवेकतारतम्येन यतमानादिवैराग्यतयं भवति । यतमानत्वं नाम ‘अस्मिञ्जगति कि सारं किमसारमिति गुरुशास्त्राभ्यां विज्ञास्यामि’ इत्युद्योगः । स्वचित्ते पूर्वं विद्यमानानां दोषाणां मध्येऽभ्यस्यमानेन विवेकेनैतावन्तः पक्वा एतावन्तोऽवशिष्टा इति विवेचनं व्यतिरेकः । दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मकत्व-बोधेन तां प्रवृत्ति परित्यज्य मनस्यौत्सुक्यमात्रेण तृष्णास्थापनमे केन्द्रियत्वम् । वितृष्णत्वं वशीकारः । तदिदमपरं वैराग्यमष्टाङ्गयोगप्रवर्तकत्वेन संप्रज्ञातस्यान्तरङ्गम्, असंप्रज्ञातस्य तु बहिरङ्गम्॥१५॥
तत्परं पुरुषख्यातेर्गुण वैतृष्ण्यम् ॥१६॥
अ. अथ तस्यान्तरङ्गं परवैराग्यम् आह-
टि. [पुरुषख्याते :-पुरुषसाक्षात्कारप्राप्त्यनन्तरं, गुणवंतृष्ण्यम् – स्थूलसूक्ष्मरूपगुणेभ्यो वैराग्यं यत् तत् परम् । चित्तस्य ज्ञानप्रसादावस्थानिष्पन्नात्मज्ञानतारूपम् इत्यर्थः ।]
यो- संप्रज्ञातस माध्यभ्यासपाटवेनगुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कारः ; तस्मादशेषगुणत्रयव्यवहारे वैतृष्ण्यं यत्, तत्परं वैराग्यम् इत्यर्थः॥१६॥
वितर्कविचारानन्दाऽस्मितानुगमात्सम्प्रज्ञातः ॥१७॥
अ. इत्थम् अभ्यासवैराग्ये निरूप्य तत्साध्यं समाधिम् आह-
टि. [सम्यक् – संशयविपर्ययरहितत्वेन प्रज्ञायते – प्रकर्षेण ज्ञायते भाव्यस्वरूपम् येन सः संप्रज्ञातसमाधिः भावनाविशेषः । भावना च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्नवेशनम् । ]
यो- सम्यक् प्रज्ञायते येन भाव्यं वस्तु स संप्रज्ञातः समाधिर्भावनाविशेषः । स च वितर्कादिरूपैश्चतुभिरनुगमाच्चतुर्विधः -सवितर्कः सविचार: सानन्दः सास्मित इति । तव भावनया भाव्यभूतेन्द्रियगोचरसाक्षात्कारः सवितर्कः। पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कारः सविचारः । सानन्दः । रजस्तमोलेशानुविद्धसत्त्व प्रधानबुद्धिगोचरसाक्षात्कारः
शुद्धसत्त्वप्रधानमहत्तत्त्वगोचरसाक्षात्कार: सास्मितः । तत्र वितर्कविचारद्वयं ग्राह्यम् । आनन्दो ग्रहणम् । अस्मिताख्यो ग्रहीता । तेषु ग्राह्यग्रहणग्रहीतृषु भावनोत्कर्षः संप्रज्ञातो योग इत्यर्थः॥१७॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
अ. इत्थम् अपरवैराग्यसाध्यं संप्रज्ञातं निरूप्य परवैराग्यसाध्यम् असंप्रज्ञातमाह-
टि. [वृत्तीनाम् अभावो विरागः तस्य प्रत्ययः कारणं परवैराग्यं तदभ्यासः पूर्वम् उपायो यस्य तादृशः संस्कारविशेषः असंप्रज्ञातः । ]
यो- विरामो वृत्त्युपरमः, तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः प्रयत्नः, तस्याभ्यासः पौनःपुन्येन संपादनम्, तत्पूर्वस्तज्जन्यः संप्रज्ञातादन्यः संस्कारशेषः प्रशान्तसकलवृत्तिकस्य चित्तस्वरूपस्य दुर्लक्षत्वात्संस्कार-रूपेण योऽवशिष्यते सोऽसप्रज्ञात इत्यर्थः
॥१८॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥
अ. सोऽयमसंप्रज्ञातो द्विविधो भवप्रत्यय उपायप्रत्ययश्चेति । तत्त्राद्यो मोक्ष्यमाणैर्हेयः । तमाह-
टि. [अविद्याकारणकः समाधिः षट्कौशिकदेहाभाववतां, प्रकृतिलयानां च भवति । जीवाः विदेहाः प्रकृतिलयाश्चेति द्विविधाः । तत्र स्थूलदेहापेक्षां विना लिङ्गदेहमात्रेण सर्वव्यवहारकरणशक्ताः विदेहाः । चर्म-रक्त- मांस – मेदस् – अस्थिमज्जादयः स्थूलशरीरकोशाः । एतैर्युक्तो देहः षाट्कौशिकदेहः । एकादशेन्द्रियाणि पञ्चभूततन्मात्राणि, अद्द्ङ्कारः, महत्तत्त्वं एतैर्युक्तं शरीरं षट्कोशशून्यं सूक्ष्मशरीरम् ।]
यो- भवन्ति अस्मिञ्जन्तव इति भवः संसारोऽविद्याख्यः, स प्रत्ययो हेतुर्यस्य स संसारमूलोऽसंप्रज्ञातः । स च भूतेन्द्रियेष्वात्मत्वभावनया विधूतदेहानां विदेहानाम् अव्यक्तमहदहंकारपञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनानां प्रकृतिलयानां भवत्यन्तवत्फलः । तदीयं चित्तंविवेकख्यात्यभावात्सुप्तचित्तवल्लीनमप्युत्थाय संसारे पततीति भावः॥१९॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
अ. अथ मुमुक्षभिरुपादेयमुपायप्रत्ययम् आह-
टि. [इतरेषां – विदेहलयप्रकृतिलयान्तातिरिक्तानां श्रद्धाद्युपायजन्य एव असंप्रज्ञातः ‘जन्ममात्नादित्यर्थः । श्रद्धा आरतिक्यबुद्ध्या विवेकख्यातियोगोत्कण्ठा । वीर्यतद्विषयाधारणा । वीर्याच्च स्मृतिः – ध्यानम् । ध्यानाच्च समाधिः – ध्येयसाक्षात्कारफलकः ततो ध्येयसाक्षात्काररूपः संप्रज्ञातो भवति । ]
यो- ममायं योग एव परपुरुषार्थसाधनमिति प्रत्ययः श्रद्धा । सा चोत्कर्षश्रवणेनोपजायते । उत्कर्षश्च स्मर्यते – ‘तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कमिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ।’ इति । तस्यां च श्रद्धायामवसितायां वीर्यमुत्साहो भवति ‘सर्वथा योगं संपादयिष्यामि’ इति । एतादृशोत्साहेन तदा तदानुष्ठेयानि योगाङ्गानि स्मर्यन्ते । तया च स्मृत्या सम्यगनुष्ठित समाधेरेध्यात्मप्रसादे सति, ऋतंभरा प्रज्ञोदेति । तत्पूर्वं कस्तत्प्रज्ञापूर्वकोऽसंप्रज्ञातसमाधिः इतरेषां विदेहप्रकृतिलयेभ्योऽर्वाचीनानां योगिनां सिध्यति इत्यर्थः॥२०॥
तीव्रसंवेगानामासन्नः ॥२१॥
अ. इत्थं परवैराग्यसाध्यं समाधिं विधाय तस्य तारतम्येन समाधेः संघ्रयतारतम्यम् आह –
टि. [संवेगो – वैराग्यं येषां तीव्रम्, उपायाश्च अधिमात्राः तेषां योगिनां आसन्नः – समाधिः असंप्रज्ञातः ततो मोक्ष इत्यर्थः । ]
यो- संवेगो वैराग्यम् तद्भेदाद्योगिन स्त्रिविधा मृदुसंवेगा मध्यसंवेगास्तीव्रसंवेगाश्चेति । तत्र तीव्रसवेगानामासन्नः समाधिलाभः । अल्पेनैव कालेन समाधिर्लभ्यत इत्यर्थः॥२१॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
अ. तीव्रसंवेगेष्वेव तारतम्यम् आह-
टि. [मृदुतीव्रः मध्यतीव्रः अधिमानतीव्र इति साधनानुष्ठानशैत्र्यं त्रिधा भवति ]
यो- मृदुतीव्रो मध्यतीव्रोऽधिमान तीव्रश्च । तेष्वप्युत्तरोत्तरस्य त्वरया सिद्धिर्द्रष्टव्या । तदेवमधिमात्रतीव्रस्य दृढभूमाव संप्रज्ञातसमाधी लब्धे सति, पुनर्व्युत्थातुमशक्तं सन्मनो नश्यति । ततः प्रत्यक्वितिः स्वे महिम्नि निर्विघ्नं निरन्तरमवतिष्ठत इत्यर्थः॥२२॥
ईश्वरप्रणिधानाद्वा ॥२३॥
अ. अथासन्नतमसमाधिलाभे उपायान्तरमुपदर्शयति-
टि. [ संप्रज्ञातसमाधेः शीघ्रप्राप्त्यै सुलभमुपायान्तरमुपदिशति ]
यो- ईश्वरो वक्ष्यमाणलक्षणः । तस्मिन् परमगुरौ प्रणिधानं भावनाविशेषः । तस्मादासन्नतमः समाधिलाभः । ईश्वरो हि समाराधनादिना साधनेन आराधित; ‘इदमस्येष्टमस्तु’ इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः । ननु पुष्करपलाशवन्निर्लेपस्य पुरुषस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियेतेति चेत्, उच्यतेतापकस्य रजसः सत्त्वमेव तप्यम् । बुद्ध्यात्मना परिणते सत्त्वे तप्यमाने तदारोहवशेन तदभेदावगाही पुरुषोऽपि तप्यत इत्युप चर्यते । तदुक्तम् – “सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा ये वा राज सास्तापकास्ते । तस्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा’ इति । इत्थं तप्यमानं पुरुषं परमेश्वरः स्वेच्छया निर्माण ·कायमधिष्ठाय लौकिक वैदिकसंप्रदायप्रद्योतकोऽनुगृह्णातीत्यनवद्यम्॥२३॥
क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥२४॥
अ. कः पुनः स ईश्वर इत्यत्राह कर्म-
टि. [अविद्या – अस्मिता – रागद्वेषाभिनिवेशादिक्लेशा, धर्माधर्मों, सुखदु:खादयः, संस्काराः, एते कालत्नयेऽपि यत्र न संबद्धा:, य: जीवाद्भिन्नः सः ईश्वरः। ]
यो- क्लिश्नन्तीति क्लेशा वक्ष्यमाणलक्षणा अविद्यादयः । मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाकः फलं जात्यायुर्भोगादि: । आशेरत इत्याशयाः संस्काराः । तैरपरामृष्टोऽसंश्लिष्टः । संश्लिष्टस्तु संसारी जीवः । मुक्तस्त्वसश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद्वद्ध इव । अतः पुरुषविशेषो नित्यमुक्त ईश्वरः । तस्य सार्वज्ञयमंश्वर्यं च अनादिसिद्धप्राकृत शुद्धसत्त्वात्मक चित्तसंबन्धादिति द्रष्टव्यम् ॥२४॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
अ. अथ तत्र प्रमाणम् आह-
यो- तत्र ईश्वरे निरतिशयं सर्वज्ञत्वस्य वीजं मूलम् । एतदुक्तंभवति-अस्मदादिज्ञानं निरतिशयेन ज्ञानेनाविनाभूतं सातिशयत्वात् । यत्सातिशयं तत्समानजातीयेन निरतिशयेन युक्तम्, यथा विभुपरिमाणेन कुम्भपरिमाणम् । अतः परिशेषादनुमानसिद्ध निरतिशयज्ञानवानीश्वर इति॥२५॥
पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥
अ. नन्वयमेक एवेश्वरः किमन्येऽपि सन्ति ? नेत्याह-
टि. [ब्रह्मादिदेवतापेक्षया जगत्कारणभूतस्य भगवतः विशेषम् अन उपदिशति ]
यो- ये सर्गादावुत्पन्नाः पूर्वे ब्रह्मादयः, ते मासर्त्वयनहायनादिरूपेणकालेन परिच्छिद्यन्ते । तदुक्तम्– ‘ये रम्या ये ‘शुभाचाराः सुमेरुगुरवोऽपि ये । कालेन विनिगीर्णास्ते गरुडेनेच पन्नगाः’ इति । अतस्तेषामपि· भगवानेक’ एव गुरुरीश्वरः ; कालेनानवच्छेदात् ‘ज्ञः कालकालः’ इति श्रुतेः । अनेनेश्वरस्य महाप्रभावत्वमुक्तं भवति ॥२६॥
तस्य वाचकः प्रणवः ॥२७॥
अ. अथ तस्य नामधेयम् आह-
यो- तस्य परमेश्वरस्य प्रणवः प्रकर्षेण नूयते स्तूयतेऽनेनेति प्रणव ओंकारः वाचकोऽभिधायक इत्यर्थः॥२७॥
तज्जपस्तदर्थभावनम् ॥२८॥
अ. इत्थं नामधेयमभिधाय पूर्वम् ‘ ईश्वरप्रणिधानात् ‘ इत्युक्तं तत्प्रणिधानं सफलमुपदर्शयति द्वाभ्याम् –
(सू) तज्जपस्तदर्थभावनम् ॥२८॥
(सू) ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥
यो- एतदुक्तं भवति – तस्य प्रणवस्य यो जपः, तस्मिन् दीर्घकालनेरन्तर्यसत्कारैस्तदर्थासङ्गचिद्रूपेश्वरभावनापुरःसरं प्राधान्येन दृढमासेविते सति, पश्चात्स्वत एव बाग्व्यापाररूपे तस्मिन्प्रलीने, वाचकस्य न्यग्भावात्तदर्थासङ्गचिद्रूपगोचरवृत्तिसंतानरूपभावनायां दीर्घकालादिभिर्दृढमासेवितायाम्, ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेन ईश्वरं विश्रान्तिभूमितयालभमानं सत् तत्सादृश्यात्स्वस्वामिनमसङ्गचिद्रूपमात्मानं स्मारयित्वा अविषयतया तमप्यलभमानं निरिन्धनाग्निवत्स्वयं संस्कारावशेषं भवति । ततः प्रत्यक्चेतनाधिगमः । प्रत्यक्चासौ चेतना, तस्याः प्राप्तिरधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठते । अतः सर्वासां वृत्तीनां प्रविलयादन्तरायाभावश्च भवति । अयमेक ईश्वरप्रणिधानस्य विशेष इति॥२८॥-॥२९॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥
पूर्वसूत्रं दृष्टव्यम् ॥२९॥
व्याधिस्त्यान संशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्धभूमि-कत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥
अ. के तेऽन्तराया इत्यपेक्षायामाह –
यो- ये चित्तं योगाद्विक्षिपन्ति भ्रंशयन्ति ते नव विक्षेपा योगस्यान्तराया विघ्नाः । तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् । विरुद्धकोटिद्वयावगाहि ज्ञानं संशयः । अहिंसासत्यादिसाधनानामभावनं प्रमादः कायवा क्चित्तगुरुत्वादप्रवृत्तिरालस्यम् । विषयाभिलाषोऽविरतिः । अतस्मस्तद्बुद्धिर्भ्रान्तिदर्शनम् । कुतश्चिन्निमित्तात्समाधिभूमेरलाभोऽलब्धभूमिकत्वम् । लब्धायामपि तस्यां चित्तस्याप्रतिष्ठानवस्थितत्वम् इत्यर्थः॥३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥
अ. न केवलम् एते विक्षेपा योगनाशकाः, अपि तु उपद्रवकरा इत्याह-
यो- यथोक्तव्याधिजे दुःखम् । तच्चाध्यात्मिकादिभेदात्त्रिविधम् । विषयाभिलाषविघातान्मुनसि क्षोभो दौर्मनस्यम् । सर्वाङ्गचलनमङ्गमेजयत्वम् । तच्च योगाङ्गासनविरोधि । अपानः श्वासः । स च रेचकविरोधी । प्राणः प्रश्वासः । स तु पूरकविरोधी । अथ वा श्वासो बाह्यकुम्भकविरोधी, प्रश्वासः आन्तरकुम्भकविरोधी, अङ्गमेजयत्वं कुम्भक्द्वयविरोधीत्यर्थः, ‘नोच्छ्वसेन्नव निश्वस्यान्नैव गात्राणि चालयेत् ’ इति कुम्भके तन्निषेधश्रवणात् । अत एते दुःखादयो विक्षेपैः सह भवन्ति, विक्षिप्तचित्तस्य भवन्ति इत्यर्थः॥३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
अ. इत्थम् अन्तरायानुक्त्वा ते कस्मान्नाशनीया इत्यपेक्षायां पूर्वोक्त-मीश्वरप्रणिधानमेवास्मिन्नंशे स्मारयति –
टि. [सूत्नद्वयोक्ता अन्तरायाः ईश्वरप्रणिधाननिरस्या इति मुख्यकल्पाभिप्रायेण उक्तम् । तदसम्भवे यत्नकुत्रचित् ऐकाग्र्येणापि एते बलवदभ्यासतो निरसीनाया भवन्तीत्यत आह – तत्प्रतिषेधार्थं एकतत्वाभ्यास इति ]
यो- तेषां सोपद्रवाणां विक्षेपाणां विनाशार्थमेकतत्त्वस्येश्वरस्याभ्यासः कर्तव्यः । एतदुक्तं भवति -एकतत्त्वगोचरमनोवृतिप्रवाहानुकूलो यत्नोऽभ्यासः । स च दीर्घकालनंरन्तर्यमत्रर्दढमासेवितव्यः । आसेविते च तस्मिन्व्याध्यादयो वासनाः क्षणनंव विशरारुनां यान्ति । तदुक्तम-वासनासं परित्यागे यदि यत्नं करोष्यलम् । तत्तं शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ‘ इति॥३२॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥
अ. अधुना संप्रज्ञातभूमिरूपैकाग्रतोपायान् ‘मंत्री-‘ इत्यादि ‘यथाभिमत -‘ इत्यन्तेन सूतसप्ताह-
टि. [चित्तस्य असूयादि मलवतः योगायोगात् तन्मलनिरासोपायान् वदति मैत्री-त्यादिना । मंत्री-सौहार्दं सुखितेषु, करणा- कृपा दुःखितेषु, मुदिता – हर्षं पुण्यवत्सु, उपेक्षा – औदासीन्यमपुण्यवत्सु भावयेत्]
यो- चित्तं हि रागद्वेषपुण्यपापैः कलुषीक्रियते । तत्र स्वप्नादौ स्वेनानुभूयमानं सुखमनुशेते ‘सर्वं सुखजातं मे भूयात्’ इति कश्विद्धी-बृत्तिविशेषो रागः । स च सुखजातस्य दृष्टादृष्टसामग्रचभावेन संपादयितुमशक्यत्वाच्चित्तं कलुषीकरोति । यदा तु सुखिप्राणिषु मैत्रीं भावयेत् ‘सर्वेऽप्येते सुखिनो मदीया:’ इति, तदा तत्सुखं स्वकीयमेव संपन्नमिति तत्र रागो निवर्तते । न केवलं रागः, किं तु परगुणासहन-दोषाविष्करणरूपासूयेर्ष्यादिकमपि निवर्तते । निवृत्ते च रागासूये-र्ष्यादौ वर्षास्वतीतासु शरत्सरिदिव चित्तं प्रसीदति । तथा दुःख-मनुशेते ‘सर्वं दुःखं सर्वथा मे मा भूत्’ इति कश्चित्प्रत्ययो द्वेषः । स च वैर्यादिषु सत्सु निवारयितुमशक्यत्वात्सदा हृदयं दहति । यदा’ स्वस्येव परेषां प्रतिकूलं दुःखं मा भूत्’ इत्यनेन प्रकारेण करुणां दुःखिप्राणिषु भावयेत्, तदा वैर्यादिषु द्वेषो निवर्तते । न केवलं द्वेषः, कि, तु दुःखित्वप्रतियोगिकस्वसुखित्वप्रयुक्तो दर्पोऽपि निवर्तते । स च दर्पो भगवता दर्शितः – ‘ ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’ इति । अत उभय-निवृत्तौ चित्तं प्रसीदति । तथा प्राणिनः स्वभावत एव पुण्यं नानु-तिष्ठन्ति, पापं त्वनुतिष्ठन्ति । अतस्ते पुण्यपापे पश्चात्तापं जनयतः । यदि पुण्यपुरुषेषु मुदितां भावयेत् तदा तद्वासनया स्वयमप्यप्रमत्तः पुण्ये प्रवर्तते । तथा पापिषपेक्षां भावयन्स्वयमपि पापान्निवर्तते । अतः पश्चात्तापाभावेन चित्त प्रसीदति । ननुं पुण्यात्मसु मुदितां भावयतः पुण्ये प्रवृत्तिः फलत्वेनोक्ता ; सा च योगिनो न युक्ता, तस्य पुनर्जन्म-करत्वात् । मैवम् ; काम्यस्येष्टापूर्तादेर्जन्म हेतुत्वादिह तु योगाभ्यास-जन्यस्य जन्मानापादकस्याशुक्लकृष्णस्य पुण्यस्य विवक्षितत्वात् । वक्ष्यति च भगवान् सूत्रकारः – ‘ कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरे-षाम्’ इति । अतो मैत्यादिभावनया रागादिवासनानिवृत्तौ प्रसाद स्थैर्यमापन्नं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः । तदुक्तम – पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् । स्थिति बध्नासि चेर्चाह पदमा-सादयस्यलम्’ इति॥३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
यो. प्राणस्य शरीरान्तगतस्य वायोः प्रच्छर्दनं द्वात्रिंशन्मात्राप्रमाणेन शनैः शन: पिङ्गलया बहिविरेचनम् । रेचितं पश्चादिडया षोडशमात्राप्रमाणेनान्तरापूर्य पूरितस्य पुनश्चतुःषष्टिमात्राप्रमाणेन विधारण-मान्तरकुम्भकः। रेचितस्य वोक्तप्रमाणेन बहिरेव विधारणं बाह्य-कुम्भकः । अनेन रेचकपूरकबाह्याभ्यन्तर कुम्भकरूपप्राणायामत्रयं भवति । तेन प्राणस्पन्दे निरुद्धे सति चित्तदोषाः प्रदह्यन्ते । तथा च श्रुतिः – ‘यथा पर्वतधातूनां दह्यन्ते धमता मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्’ इति । तत्रोपपत्तिर्वसिष्ठेन दर्शिता-प्राणस्पन्दक्षये यत्नः यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । मर्तव्यो धीमतोच्चकैः’ इति । अतः प्राणमनः स्पन्दयोः सहभावित्वात्प्राणनिग्रहे मनो निगृह्यते । ननु सहस्पन्दो न युक्तः, सुषुप्तौ चेष्टमानेऽपि प्राणे मनसोऽचेष्टमानत्वात् । मैवम्; विलीनत्वेन तदानीं मनस एवाभावात् । ननु ‘ क्षीणे प्राणे नासिकयोच्छ्वसीत’ इति श्रुतिव्याहतमिति चेत्, न ; अनुल्बणत्वस्य क्षयत्वेनात्र विवक्षितत्वात् । यथा पर्वनमारोहतः श्वासवेगो यावान्भवति न तावानासीनस्य विद्यते; तथा प्राणायामपाटवोपेतस्येतस्मादल्पः श्वासो भवति । अतः एतदेवाभिप्रेत्य श्रूयते – ‘ भूत्वा तत्त्रायतः प्राणः शनरेव समुत्सृजेत्’ इति । प्राणायाम पाटवेन प्राणे निरुद्धे सति निर्मृष्टनिखिलदोषं सच्चित्तमेकाग्रतापदं लभत इत्यर्थः॥३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥३५॥
टि. [विषयाः गन्धादयः दिव्याः पञ्चविषयत्वेन अस्याः सन्तीति विषयवती प्रवृत्तिः मनसः स्थैर्यं करोति । ]
यो- नासाग्रजिह्वाग्रतालुजिह्वामध्य जिह्वामूलेषु प्रदेशेषु चित्तस्य संयमाद्दिव्यगन्धरसरूपस्पर्शशब्दविषयवत्यः संविदः प्रवृत्तयः शीघ्रमुत्पन्नाः सत्यो विश्वासमुत्पाद्य अतिसूक्ष्मेश्वरादो मनसः स्थिति बध्नन्ति । अतो मन एकाग्रतां प्राप्नोति इत्यर्थः॥३५॥
विशोका वा ज्योतिष्मती ॥३६॥
टि. [विगतशोका प्रकाशरूपा च प्रवृत्तिः मनसः स्थैर्यहेतुः । सा च अन्तः करणस्य पुरुषस्य वा योगजसाक्षात्काररूपा वृत्तिः । तयोश्च विधूतरजस्तमोमलतया सत्त्वमयत्वेन सुखमयत्वात् विशोकत्वम् । प्रकाशमयत्वात् ज्योतिष्मतीत्वम् । ]
यो – अष्टदलहृदम्बुजं रेचकेनोध्वंमुखं नीत्वा तत्कर्णिकास्थायां सुषुम्नाख्यायां नाड्यां सौरचान्द्रमसवैद्युतादिप्रभानिभस्य चित्ततत्त्वस्य ध्यानात्तज्ज्योतिर्गोचरा संविज्ज्योतिष्मती विशोका शोकशून्या प्रवृत्तिरुत्पन्ना सती मनसः स्थिति संपादयति । ततः तन्मन एकाग्रत लभत इत्यर्थः॥३६॥
वीतरागविषयं वा चित्तम् ॥३७॥
यो – शुकादीनां यद्वीतरागं चित्तम्, तस्य ध्यानात् योगिनश्चित्तं नीरागं सदेकाग्रतां लभत इत्यर्थः॥३७॥
स्वप्न निद्राज्ञानालम्बनं वा ॥३८॥
यो – स्वप्ने शास्त्रीयं यन्मनोहरं वस्तु दृष्टं, सुषुप्तौ यत्सुखं ज्ञायते तन ध्यानात्तज्ज्ञेयालम्बनं चित्तं निश्चलं सद् एकाग्रतां लभत इत्यर्थः ॥३८॥
यथांभिमतध्यानाद्वा ॥३९॥
यो- कि बहुना ? यथेष्टं यद्यच्छास्त्रार्थं दैवं रूपम्, तद्ध्यानाच्चित्तम् अचश्चलं सदेकाग्रतां लभत इत्यर्थः ॥३९॥
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
अ. ननु एतैरुपायैरेकाग्रतालाभे किं ज्ञापकमित्यत्राह-
यो – अस्यैकाग्रतामापन्नस्य चित्तस्य सूक्ष्मे स्थूले वा वस्तुनि निविशमानस्य परमाण्वन्तः परममहत्त्वान्तो वशीकारोऽप्रतिघातो भवति इत्यर्थः ॥४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
अ. इत्थमेकाग्रतोपायान्सावान्तरफलान् उक्त्वा तत्समुत्पन्नैकाग्राताभिवृद्धिलक्षणस्यं सबीजसमाधेः सविषयं स्वरूपमाह -टि. [क्षीणा वृत्तयो यस्य तस्य चेतसः स्फटिकमणेरिव ग्रहीतृग्रहणग्राह्येषु तत्स्थंतदेकाग्रता तदञ्जनता तन्मयत्वं तद्रूपपरिणामो भवतीति । ]
यो – अभिजातस्य अत्यवदातस्य स्फटिकमणेर्यथा जपाकुसुमोपरागात्स्वरूपाभिभवेन रक्ताकारता भवति, एवं क्षीणवृत्तेर्विधूत रजस्तमोवृत्तिकस्य चित्तस्य भूतेन्द्रियतन्मात्रान्तःकरणरजस्तमोलेशानुविद्धाहंकारविधूतरजस्तमोमलशुद्धसत्त्वात्मकमहत्तत्त्वेषु ग्राह्यग्रहणग्रहीतृषु तत्स्थस्यतदुपरक्तस्य तदञ्जनता स्वरूपपरित्यागेन तत्तद्रूपता तस्य सम्यगापत्तिः संप्रज्ञातसमापत्तिः इत्यर्थः ॥४१॥
तत्र शब्दार्थज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥४२॥
अ. इत्थं सामान्यतः संप्रज्ञातसमापत्तिमुक्त्वा अधुना वितर्कविचाररूपग्राह्यसमापत्तेः सवितर्कनिर्वितर्क स- विचारनिर्वि चारभेदेन चातुर्विध्यं आह त्रिभिः-
टि. [संप्रज्ञाताख्या समापत्तिः पुनः अवान्तरभेदात् चतुर्धा भवति – सवितर्का, निर्वितर्का, सविचारा, निर्विचारा चेति । तत्र सवितर्कायाः स्वरूपमुच्यते । शब्दः, अर्थः- जात्यादिः, ज्ञानं – बुद्धिवृत्तिः, विकल्पः एते यस्यां भासन्ते, सा सवितर्का]
यो – गौरिति शब्दः गोरित्यर्थः गौरिति ज्ञानम्, तेषां परस्परतादात्म्यगोचरा ये विकल्पाःतैः संकीर्णा तत्तुल्या सवितर्का समापत्तिः, तस्या विकल्पत्वाविशेषात् इत्यर्थः॥४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निवितर्का ॥४३॥
यो – शब्दज्ञानाभ्यां विकल्पित एवार्थे शब्दसङ्केतो गृह्यते, तस्य स्मृत्याशाब्दबोधो विकल्प एव जायते । मतः संकेतस्मृतेः परिशुद्धौ प्रलये सतितत्कार्यस्य विकल्पस्य प्रलयात् समाधिभावना स्वीयभावनात्वशून्येव भूत्वा अविकल्पितार्थमात्रेणैव निर्भास्यमाना निर्वितर्का समापत्तिः इत्यर्थः ॥४३॥
एतयैव सविचारा निविचारा च सूक्ष्मविषया व्याख्याता ॥४४॥
अ. उक्तन्यायमन्यत्रातिदिशति-
टि. [ स्थूलविषये समापत्तिद्वैविध्यं प्रदर्श्य सूक्ष्मेऽपि विषये तस्य द्वैविध्यम् अतिदिशति ]
यो – एतयैव विकल्पितस्थूलाकारया सवितर्कया अविकल्पितस्थूलाकारया निर्वितर्कया च सूक्ष्मविषया स्वशब्दज्ञानाभ्यामभेदेन विकल्पितसूक्ष्मतन्मात्त्रेन्द्रियगोचरा सविचारा अविकल्पितसूक्ष्म तन्मात्रेन्द्रियगोचरा निर्विचारा च व्याख्याता भवति इत्यर्थः ॥४४॥
सूक्ष्मविषयत्वं चाऽऽलिङ्गपर्यवसानम् ॥४५॥
अ. किं निर्विचारसमापत्तेस्तन्मावेष्वेवावसानम् ? नेत्याह-
यो – अस्याः समापत्तेः सूक्ष्मविषयत्वमलिङ्गे प्रधाने पर्यवस्यति । तथाहि–तन्मात्रेभ्योऽहंकारः सूक्ष्मः, तस्मादपि महान्, ततोऽपि प्रधानम् । तद्धि न लीयत इत्यलिङ्गमुच्यते । ततः परं न सूक्ष्मा प्रकृतिः समस्ति । पुरुषस्तु न प्रकृतिः सर्गे निमित्तमात्रमिति ध्येयम् ॥४५॥
ता एव सबोज: समाधिः ॥४६॥
अ. संप्रज्ञातसमापत्तीरुपसंहरति-
टि. [एतावत्पर्यन्तं स्थूलविषयाः सूक्ष्मविषयाश्च चतस्रः समापत्तयः उक्ताः। एता एव ‘संप्रज्ञातसमाधय: ।
यो – ता एव पूर्वोक्ता एव विवेकख्यात्यभावेनबन्धबीजसत्त्वात्सबीज: समाधिः इत्यर्थः ॥४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
अ. इत्यं संप्रज्ञातमुपसंहृत्य असंप्रज्ञातमुपायप्रत्ययमुपसंहर्तुं तस्य पूर्वरङ्गं निर्विचारातिशयमाह-
टि. [निर्विचारस्य प्रकृष्टाभ्यासवशात् वैशारद्ये-नैर्मल्ये सति भध्यात्म- प्रसादः समुपजायते । चित्तस्य तदेव वैशारद्यं यत्स्थितौ दाढर्थम् ।]
यो – निर्विचारस्य प्रधानपर्यन्तसूक्ष्मगोचरस्य यद्वैशारद्यमभ्यासपाटवेन तस्य प्रधानान्तन्यग्भावाच्चितिशक्तेरुद्वेगः, तस्मिन् सत्यध्यात्मनश्चितिशक्तेः प्रसादः ख्यातिः जायते ॥४७॥
ऋतम्भरा तत्र प्रज्ञा ॥४८॥
अ. ततः किम् –
टि. [ऋतं सत्यं बिर्भात कदाचिदपि न विपर्ययेण आच्छाद्यते, सा ऋतम्भरा तस्मिन् सति भवति तस्माच्च प्रज्ञालोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोति ]
यो – तत्र पुरुषख्यातौ सत्याम् ऋतं सत्यमात्मानं विभर्ति प्रकाशयतीति ऋतंभरा प्रज्ञा धर्मंमेघः समाधिर्जायत इत्यर्थः ॥४८॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
अ. ऋतंभरत्वोपपत्तिमाह-
टि. [आगमानुमानाभ्यामेव प्रमाणाभ्यां अर्थतत्वं गृह्यताम् अलं तदुत्तरं योगेनेत्याशङ्कायां उच्यते – श्रुतेति, शब्दानुमाने हि सामान्यमातविषयके, तद्विषयातिरिक्तविषया च योगजप्रज्ञा, विशेषविषयवत्वात् ]
यो – सूक्ष्मव्यवहित विप्रकृष्टवस्तुषु योगिप्रत्यक्षं निर्वर्तते । आगमानुमानाभ्यां तानि वस्तूनि ज्ञायन्ते । ते च श्रुतानुमानजन्ये प्रज्ञे सामान्यमेव गोचरयतः । इदं तु योगिप्रत्यक्षं विशेषर्गोचरत्वात् ऋतंभरमित्यर्थः॥४९॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥
अ. तस्याः प्रज्ञाया असंप्रज्ञातसमाधी बहिरङ्गत्वसिद्ध्यर्थमुपकारित्वम् आह-
यो – तस्याः प्रज्ञाया अभ्यासजन्यो यः संस्कारः, स चान्यान्व्युत्थानसंस्कारान्प्रतिबध्नाति बाधत इति तत्प्रतिबन्धीत्यर्थः॥५०॥
तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ॥५१॥
अ. इत्यम् असंप्रज्ञातसमाधेर्बहिरङ्गसाधनमभिधाय निरोधप्रयत्नस्वअन्तरङ्गसाधनतां सूचयन्निर्बीजम् उपसंहरति-
टि. [पञ्चाशत्तमेन सूत्रेण संप्रज्ञातसमाधिजन्यविशेषमुपदिश्य अनेन एकपञ्चाश्चतमेन असंप्रज्ञातसमाधिजन्यफलविशेषम् उपदिशति ]
यो – परवैराग्यसहकृतविरामप्रत्ययेन प्रज्ञासंस्कारस्यापि निरोधे सत्युत्पत्स्यमानप्रज्ञासंस्कारस्य सर्वस्यापि निरोधादशेषबन्धनिवृत्तेर्निर्बीजः समाधिर्लभ्यते । तस्मिन्समाधौ लब्धे सति पुनर्व्युत्थातुमशक्तं सत्चित्तं नश्यति । ततः कूटस्थनित्यानन्ता शुद्धा चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठत इत्यतिशोभनम् ॥५१॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ समाधिपादः समाप्तः॥

Share This
Share this post with your friends!