
Sadāśivendrasarasvatī and Yogasudhākara
Chapter 2
योगासूत्रम् (साधनपादः)
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
परापश्यन्त्यादिभेदभिन्नामेकां निसर्गतः । श्री चिदानन्दमयीं नित्यां वाचं कांचिदुपास्महे ॥
अ. पूर्वं सावान्तरभेदं सान्तरङ्गसाधनं सफलं समाधिमभिधाय अधुना पूर्वाभिहितसाधनेऽप्रवर्तमानमानसमपक्वकषायकरणं प्रति बहिरङ्गसाधनं क्रियायोगमाह्-
टि. [पूर्वस्मिन् पादे चित्तवृत्तिनिरोधरूप योग उक्तः । तस्य योगस्य अस्मिन् पादे साधनान्युच्यन्ते इत्यनयोः पादयोः सम्बन्धः । समाहितचित्तस्य योगमभिधाय व्युत्थितचित्तस्य योगः कथं सिद्ध्यति ? इति तत्साधनप्रतिपादनाय क्रियायोगमाह।]
यो – हितमितमेध्याशनं तपः । परमपवित्रप्रणवादिमन्त्रजपः स्वाध्यायः । ईश्वरे लीलया स्वीकृतातिमनोहराङ्गे परमगुरौ कायवाङ्मनोभिर्निर्वर्तितो भक्तिविशेषः प्रणिधानम् । तानि प्रियारूपत्वाद्योगसाधनत्वाच्च क्रियायोग इति शुद्धसारूप्यलक्षणाश्रयणेन निरूप्यन्ते ‘आयुर्घुतम्’ इतिवदित्यर्थः ॥१॥
समाधिभावनार्थः क्लेशतनू करणार्थश्च ॥२॥
अ. स किमर्थ इत्यत आह-
टि. [निबिडेषु क्लेशेषु सत्सु समाधिः न सिध्यति । तस्मात् क्रियायोगः क्लेशान् तनूकृत्य समाधिं निष्पादयति ]
यो – समाधेर्भावनं निष्पादनम् अर्थः प्रयोजनं यस्य स तथोक्तः, क्लेशानां तनूकरणं शिथिलीकरणम् अर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति – दीर्घकालनैरन्तयं सत्कारानुबन्धितप आदिक्रियायोगाङ्गानुष्ठानेन क्लेशा विशरारुतामिताः सन्तः पुरुषान्यताख्यातावनुपप्लवायां समूलकाषं कषिता भवन्तीति ॥२॥
अविद्याऽस्मितारागद्वेषाभिनिवेशा: क्लेशाः ॥३॥
अ. के ते क्लेशाः कियन्त इत्यपेक्षायामाह –
टि. [क्लिश्यन्ति – कर्मतत्फलप्रवर्तकास्सन्तः पुरुषं दुःखाकुर्वन्ति, इति क्लेशाः ।]
यो – पुरुषं क्लेशयन्ति दुःखाकुर्वन्तीति क्लेशाः । ते पञ्चेत्यर्थः ॥३॥
विद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
अ. अथास्मितादीनामविद्यानिदानत्वमाह –
टि. [सत्यपि सर्वेषां तुल्ये क्लेशस्वे मूलभूतत्वात् अविद्यायाः प्राधान्यं प्रतिपादयति । ]
यो – प्रसुप्तास्तनवो विच्छिन्ना उदाराचास्मितादयश्चत्वारः । तेषा-मुत्तरेषामविद्या भावरूपो विपर्ययः, सा क्षेत्रं प्रसवभूमिः । तन
प्रसुप्तत्वं प्रबोधसहकारस्याभावेनानभिव्यक्तिः । तनुत्वं प्रतिपक्षभावनया शिथिलीकरणम् । विच्छिन्नत्वं बलवता क्लेशेनाभिभवः । उदारत्वं सहकारिसंनिधिवशात्कार्यकारित्वमित्यर्थः॥४॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
अ. अथ अविद्यास्वरूपमाह-
यो – अतस्मिंस्तद्बुद्धिर्विपर्यय इत्युक्तं भवति । तद्यथा – अनित्ये स्वर्गादौ नित्यत्वाभिमानः । अशुचौ मांसासृक्पूय विण्मूत्रादिशालिनि काये शुचित्वप्रत्ययः । दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपः । अनात्मनि देहादावात्मबुद्धिः इत्यविद्या चतुष्पदेत्यर्थः॥५॥
दृग्दर्शऩशक्त्योरेकात्मतेवास्मिता ॥६॥
अ. अविद्यामूलास्मितामाह-
टि. [दृक्शक्तिः पुरुषः, दर्शनशक्तिः अन्तःकरणस्य सात्त्विकः परिणामः तयोः भोक्तृभोग्यत्वेन भिन्नत्वेऽपि एकताभिमान: अस्मिता ]
यो – सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मितेत्यर्थः॥६॥
सुखानुशयी रागः ॥७॥
अ. रागं निरूपयति-
यो – सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकं सुखसाधनेषु तृष्णारूपो राग इत्यर्थः॥७॥
दुःखानुशयी द्वेषः ॥८॥
यो – दुःखाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निन्दा द्वेष
इत्यर्थः॥८॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥
टि. [स्वस्य रसेन संस्कारणैव वहतीति स्वरसवाही । पूर्वजन्मानुभूतवासनाबलाज्जायमानः मरणदुःखानुभवः “शरीरादिभिः मम वियोगो माभूत्” इति सर्वेषाम् अभिनिवेश: ]
यो – स्वरसतः प्रवाहशीलो विदुषोऽपि तथा मूढवदारूढो भयत्रासोऽभिनिवेशः ।पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात् सर्वस्य प्राण-भृन्मात्रस्य आ क्रिमेः आ च विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तमन्तरेण प्रवर्तमानो भयरूपोऽभिनिवेश इति ॥९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
अ. पूर्वं कर्मयोगम् अभिधाय तेन विरसाः क्लेशास्तत्समनन्तरभाविपुरुषख्यात्या दग्धा भवन्ति इत्यर्थादभिहितम् । तत्र सुक्ष्माणां दग्धानाम् अधुना समूलोन्मूलनोपायमाह-
यो – चित्तस्य निवृत्ताधिकारस्य प्रकृतौ प्रलयः प्रतिप्रसवः । तेन हेयाः सूक्ष्माः क्लेशाः । स्वमूलभूतचित्तहानौ तत्संस्काररूपाः सूक्ष्मा समूलघातं हता भवन्तीत्यर्थः ॥१०॥
ध्यानहेयास्तद्वृत्तयः ॥११॥
अ. अथ स्थूलानां समूलं कषणोपायमाह-
यो – क्रियायोगेण शिथिलाः स्थूलास्ताः क्लेशवृत्तयः पुरुषध्यानेनैव हातव्याः । हीनाश्च स्वमूलचित्तोन्मूलनेनोन्मूलिता भवन्तीत्युक्तम् ॥११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
अ. इत्थं क्लेशांस्तद्धानोपायं च अभिधाय क्लेशनिदानत्वमुपदर्शयन्नाह अधुना कर्माशयस्य-
टि. [कर्माशय: – आशेरते सांसारिकाः पुरुषाः अस्मिन्नित्याशयः, कर्मणां धर्मा-धर्मरूपः संस्कारः । क्लेशा:- कामक्रोधादय: मूलं अस्येति क्लेशमूलः । ]
यो- रागद्वेषादिकले निदानः कर्मणां धर्माधर्मरूप सत्कार: कर्माशयः । स च दृष्टजन्मवेदनीय इहैवानुभाव्यः, अदृष्टजन्मवेदनीयश्चामुत्रानु-भाव्यः । तत्राद्यो यथा नन्दिकेश्वरस्तीव्रतपश्चर्यादिसाधनेन ईश्वरां समाराध्य सद्य एव देवत्वादिकमलभत, नहुषो महर्ण्यपराधेन सद्यः सर्पत्वमगमत् । द्वितीयस्तु स्वर्गनरकादिहेतुरित्यर्थः ॥१२॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥
अ. न केवलं क्लेशमूलत्वं कर्माशयस्यैव, किं तु तद्विपाकस्यापीत्याह-
यो – क्लेशरूपे मूले सत्येव कर्मणां विपाकः फलम् । स च त्रिविध:-जातिर्जन्म देवत्वादिर्वा । आयुश्चिरकालं देहप्राणयोर्योगः । इन्द्रिय-र्विषयानुभवो भोग इति । तत्र भोगो मुख्यः, जात्यायुषी तच्छेषभूते इति विभागः । सूत्रद्वयस्यायमभिसंध्यर्थः- सत्सु क्लेशेषु कर्मतत्फले भवतः ; विवेकख्यात्यग्निदग्धेषु कर्मालब्धात्मकं सत्वितुषशाल्यादिवन्न फलं प्रसूत इति ॥ १३॥
ते ह्लाद-परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
अ. अधुना जात्यादीनां हेयत्वार्थे फलमाह-
यो – ते जात्यायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुका दुःखफला भवन्ति विभागेन अविवेकिनामित्यर्थः॥१४॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
अ. विवेकिनां तु ते सर्वे दुःखफला एवेत्याह-
यो – परिणामदुःखं तापदुःखं संस्कारदुःखम्, तैरित्यर्थः । तत्र सुखे सति आगामिनस्तादृशस्य सुखस्य कारणं पुण्यमननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिर्जायमाना चित्तं दुःखाकरोतीति परिणामदुःखम् । सुखभोगकाले रोगाद्विनिमित्तेन रजोगुणविकाररूपा संतापात्मिका प्रतिकूला वृत्तिर्जायते; सा च ‘अहं पापी, धिङ्मां दुरात्मानम्’ इत्येवं। चित्तं संतापयति ; तदिदं तापदुःखम् । तथा सुखनाशे तत्संस्कारः सुखं स्मारयित्वा स्मारयित्वा हृदयं दहति; तदिदं संस्कारदुःखम् । एतैर्दुःखैर्योगात्, किं च गुणवृत्तिविरोधाच्च गुणानां सत्त्वरजस्तमसां या वृत्तयः प्रकाशप्रवृत्तिमोहात्मिकाः तासामतिचपलकल्लोलवन्निरन्तरं
परिणतानां विरोधः परस्परं बाध्यबाधकत्वं तस्माच्च सर्वमेव भोगसाधनं जगद्विवेकिनो दुःखमेव, विवेकिनमक्षिपात्रम् ऊर्णातन्तुरिवात्यन्तमुद्वेजयति । अतः सर्वं दुःखं हेयमिति भावः॥१५॥
हेयं दुःखमनागतम् ॥१६॥
अ. अधुना अनागतदुःखस्य विशिष्य हेयत्वमाह-
यो – अतीतस्य गतत्वाद्वर्तमानस्य भोगेनैव क्षयात् अनागतमेव दुःखं हेयमित्यर्थः॥१६॥
द्रष्टृ-दृश्ययोः संयोगो हेयहेतुः ॥१७॥
अ. अथ हेयहेतुमाह-
यो – द्रष्टा दुग्रूपः पुरुषः, दृश्यम् बुद्धिसत्त्वम्, तयोः संयोगः स्वस्वामिभावः ; स चेन्द्रियप्रणाडिकथा चित्ते विविधशब्दाद्याकारेण परिणते सति तत्र चितिच्छायायां प्रतिबिम्बतायां तदविवेकरूपाविद्याकृतः । स च यस्य दुःखस्य हेतुरित्यर्थः॥१७॥
प्रकाश-क्रिया-स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
अ. दृश्यं प्रपञ्चयति-
यो – प्रकाशः प्रख्यारूप:, क्रिया प्रवृत्तिरूपा, स्थितिनियमरूपा, ताः सत्त्वरजस्तमसां धर्माः शीलं स्वाभाविकं रूपं यस्य तत्तथोक्तम् ; द्यूतेन्द्रियात्मकं भूतानि महाभूततन्मातभेदभिन्नानि इन्द्रियाणि बुद्धिकर्मेन्द्रियान्तः करणभेदभिन्नानि एतद्ग्राह्यग्रहणरूपमात्मा स्वाभिन्नः परिणामो यस्य तत्तथोक्तम्; भोगापवर्गार्थं भोगमोक्षप्रयोजनं तद्दृश्यम् इत्यर्थः॥१८॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
अ. एतस्य गुणत्रयात्मकस्य दृश्यस्य परिणामं विभज्य दर्शयति-
यो – विशेषा महाभूतेन्द्रियमनोरूपाः षोडश विकाराः, अविशेषाः तन्मात्राहुंकाराः षट् प्रकृतिविकृतयः, लयं गच्छतीति लिङ्गमानं प्रकृतिविकाररूपं महत्तत्त्वम्, अलिङ्गं गुणानां साम्यावस्थारूपं प्रधानम् ; एतानि चत्वारि गुणानां पर्वाणि अवस्थाविशेषा इत्यर्थः॥१९॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
अ. इत्थं हेयं दृश्यं प्रथमं निरूप्य उपादेयं द्रष्टारं निरूपयितुमाह-
यो – द्रष्टा पुरुषो दृशिमातश्चिन्मात्रो न ज्ञानादिधर्मकः, तद्धर्मकत्वे तस्य वृत्तिरूपतया विनाशशीलत्वात् ‘उपयन्नपयन्धर्मो, विकरोति हि धर्मिणम्’ इति न्यायेनात्मनः कौटस्थ्यं हीयते । अतः शुद्धः अपरिणाम्यपि प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन्नतदात्मापि तदात्मभूत इव प्रतिभासत इत्यर्थः॥२०॥
तदर्थं एव दृश्यस्यात्मा ॥२१॥
अ. इत्थं दृश्यद्रष्टारावभिधाय तयोः शेषशेषित्वमभिधातुमाह-
यो – दृश्यस्य भोग्यस्यात्मा स्वरूपं द्रष्टृर्थमेव न स्वार्थम्, अचेतनत्वादित्यर्थः॥२१॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥
अ. ननु द्रष्टुः प्रयोजने निष्पन्ने सति कृतकृत्यतया प्रधाने निर्व्यापारेअधुना संसारो नोपलभ्येतेति चेत्, नेत्याह-
यो – प्रधानमेकं पुरुषा अनन्ताः । तथा च पुरुषख्यातिपर्यन्तं
भोगापवर्गों दत्वा कंचन कृतार्थं प्रति नष्टं निर्व्यापारमपि पुरुषान्तरसाधारणत्वादनष्टमेवावतिष्ठते । तथा चैकमुक्तौ सर्वमुक्तिप्रसङ्गानवकाश इति भावः॥२२॥
स्व-स्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
अ. इत्थं दृश्यद्रष्टारौ व्याख्याय तत्संयोगं व्याख्यातुमाह-
टि. [द्रष्टृदृश्ययोः संयोग एव संसारस्य कारणम् इत्युक्तम् । तादृश-संयोगस्य स्वरूपम् उपदिश्यते)
यो – स्वशक्तिर्दृश्य स्वभाव:, स्वामिशक्तिर्दृक्स्वभावः । तयोश्चंत्तचेतनत्वेन व्यवस्थितयोः स्वरूपोपलब्धिर्भोगापवर्गरूपा । तस्या हेतुः प्रत्ययः संयोगो द्रष्टृदृश्यभावो विद्याकृत इति व्याख्यातम् । एवं च यस्याभावे दृग्दृश्ययोः स्वरूपोपलब्धिनः भवति, यद्भावे सा भवति, स संयोगः कार्येकोन्नेय इत्युपदिष्टं भवति॥२३॥
तस्य हेतुरविद्या ॥२४॥
अ. संयोगस्याप्युपायमाह –
यो – तस्य संयोगस्य पूर्वोक्ताविद्या हेतुः कारणमित्यर्थः॥२४॥
तदभावे संयोगभावो हानं तद् दृशेः कैवल्यम् ॥२५॥
अ. इत्थं हेयं तद्धेतुं च अभिधाय अधुना हानं तद्धेतुं च निरूपयितुमाहद्वाभ्याम् –
यो – तस्या अविद्याया अभावाद्विद्यया विनाशात्तत्कृतसंसयोगविनाशो हानं यत्, तदेव दृशेनित्यमुक्तायाश्वितिशक्तेः कैवल्यमित्यर्थः॥२५॥
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
टि. [मोक्षम् उक्त्वा तद्धेतुः उच्यते । दृग्दृश्ययो: भेदो विवेकः, तस्य ज्ञानं ख्यातिः। विप्लवो मिथ्याज्ञानम् ।]
यो – अविप्लवा अविद्याविरोधिनी सत्त्वपुरुषयोः अन्यताख्यातिर्हानस्य कैवल्यस्य हेतुरित्यर्थः – अयं सूत्रद्वयस्याभिसंध्यर्थः- आदर नैरन्तर्य-दीर्घकालानुबन्धियमनियमाद्यष्टाङ्गानुष्ठानेन सत्त्वपुरुषान्यताख्यातो अविप्लवायो जातायामविद्यादयः पञ्च क्लेशास्तत्कृत संयोगश्च समूलकार्ष कषिता भवन्ति । कुशला कुशल कर्माशयास्तद्विपाकाश्च समूलघातं हता भवन्ति । ततश्च परवैराग्येणान्यताख्यातिनिवृत्तौ निरोधसमाध्यभ्यासेन चित्ते निवर्तते सति पुरुषस्य निर्लेपस्य स्वरूपप्रतिष्ठारूपं कैवल्यं भवतीति ॥२६॥
तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥२७॥
अ. अथ जीवन्मुक्तस्य पुरुषस्य ज्ञानवैभवमाह-
यो – तस्य संजातविवेकख्यातेः : पुरुषस्य सप्तधा-सप्तप्रकारा- प्रान्तभूमिः प्रकर्षेणान्तो निवृत्तिः फलत्वेन यासां वा भूमय़ोऽवस्था यस्याः सा प्रज्ञा प्रान्तभूमिः सप्तप्रकारा । अयमर्थः – संजातविवेकख्यातेः पुरुषस्य सप्त प्रज्ञाभूमयः । तत्र चतस्रः कार्यविमुक्तिसंज्ञाः, तित्रश्चित्तविमुक्ति-संज्ञाः । तद्यथा— ज्ञातव्यमखिलं ज्ञातं मया न किंचिज्ज्ञातव्यमस्तीति जिज्ञासानिवृत्तिरेका । हातव्यं सर्वं बन्धजातं हीनं मम न किचिद्धेय-मस्तीति जिहासानिवृत्तिद्वितीया । केवल्यप्राप्त्या प्राप्तव्यमखिलं प्राप्तं ततो न किचित्रातव्यमस्तीति प्रेानिवृत्तिस्तृतीया । विवेकख्याति-लाभेन कर्तव्यमखिलं कृतं न किंचिन्मम कार्यमस्तीति चिकीर्षानिवृत्ति-चतुर्थी । कृतार्थ मे बुद्धिसत्त्वमिति शोकनिवृत्तिरेका । मम बुद्ध्यादयो गुणाः प्रलीनाः प्रयोजनाभावात्पुननं प्ररोहन्तीति भयनिवृत्तिद्वितीया । तदाहं गुणातीतस्वरूपमात्रेणावस्थितश्चिदेकरस इति सकल विकल्पनिवृत्तिस्तृतीया । इति संप्तधा प्रान्तभूमिर्द्रष्टव्येति॥२७॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
अ. पूर्वस्मिन्पादे समाहितचित्तस्यान्तरङ्गसाधने अभ्यासवैराग्येमभिधाय आदावस्मिन्पादे व्युत्थितचित्तस्य क्रियायोगोऽभिहितः । अधुना ततोऽपि व्युत्थितचित्तस्य संप्रज्ञातसाधनान्यष्टाङ्गान्यभिधातुम् आह-
टि. [संप्रज्ञातसाधनान्युपदिशति – योगाङ्गानाम् योगस्य च अनुष्ठानात् अशुद्धेः क्लेशकर्मरूपाया: क्रमेण क्षये जायमाने ज्ञानस्य विशुद्धिः आ निर्विकल्पकविवेकख्यातेः भवति इत्यर्थः ।]
यो – वक्ष्यमाणयोगाङ्गानामनुष्ठानादशुद्धेः क्लेशरूपायाः क्रमेण क्षये जायमाने, ज्ञानस्य दीप्तिर्वृद्धिः आविवेकख्यातेर्भवतीत्यर्थः । योगाङ्गानुष्ठानं शुद्धिद्वारा प्रज्ञासाधनमिति भावः॥२८॥
यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ॥२९॥
अ. कानि पुनस्तानि योगाङ्गानीत्यपेक्षायामाह – ॥२९॥
अहिंसा-सत्यास्तेय-ब्रह्मचर्य्यापरिग्रहा यमाः ॥३०॥
अ. तत्र के यमा इत्यपेक्षायामाह –
यो – अहिंसादिभ्यः निषिद्धकर्मभ्यो योगिनं यमयन्ति निवर्तयन्तीति यमाः । तनाहिसा कायवाङ्मनोभिः सर्वदा सर्वभूतानामहिंसनम् । सत्यं सर्वदानृतानभिभाषणम् । अस्तेयं परस्वत्वानपहारः । ब्रह्मचर्यमष्टविधमैथुनत्यागः । अपरिग्रहः शरीरस्थितिमानव्यतिरिक्तभोगसाधनास्वीकारः । एतें पश्च यमा इत्यर्थः ॥३०॥
जाति-देश-काल-समयानवच्छिन्नाः सार्वभौभा महाव्रतम् ॥३१॥
अ. एतेषां योगिभिरुपादेयं विशेषम् आह-
यो – जातिर्ब्राह्मणत्वादिकम्, तत्सदाहं न हनिष्यामीत्यहिंसा जात्या परिच्छिन्ना । देशे तीर्थादौ काले नियतचतुर्दश्यादौ वा कमपि न हनिष्यामीति देशकालाभ्यामवच्छिन्ना । देवब्राह्मणाद्यर्थातिरेकेण न हनिष्यामीति संमयावच्छिन्ना । समयो नियतोऽवसर इत्यर्थः । प्राणिमात्रं क्वचिदपि कदाचिदपि कस्यापि कृतेऽहं न हनिष्यामीति जात्यादिभिश्चतुभिरनवच्छिन्ना भवर्त्याहिंसा पुष्कला । एवं सत्यादयोऽप्यनवच्छिन्ना ऊहनीयाः । इत्थमेते सर्वासु जात्यादिषु भूमिषु विदिताः सार्वभौमा महाव्रतमित्युच्यन्त इत्यर्थः॥३१॥
शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
अ. अथ नियमानाह-
यो – जन्महेतून्काम्यधर्मान्निवर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमाः । शौचं मृज्जलाभ्यां बाह्यमलनिवृत्तिः, मैत्यादिभावनयान्तरसूयादिमलनिवृत्तिः । संतोषो यथालाभपरितुष्टिः । तपः कायशोषणम्, तदुक्तं योगयाज्ञवल्क्ये विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्’ इति । स्वाध्यायो गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधावैदिकास्तान्तिकाश्च । वैदिकाः प्रगीताप्रगीतभेदेन द्विविधाः । तान्त्रिकाः स्त्रीपुंनपुंसकभेदेन त्रिविधाः । तदलं मन्त्ररहस्योद्घोषेण । ईश्वरप्रणिधानं नाम अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदुक्तम्- ‘कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहम् ‘ इति । फलाभिसंधेरुपघातकत्वमभिहितं महद्भिः – ‘अपि प्रयत्नसंपन्न कामेनोपहतं तपः । न तुष्टये महेशस्य श्वलीढमिव पायसम्’ इति । एतानि शौचादीनि पञ्च नियमा इत्यर्थः॥३२॥
वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥
अ. ननु सति परिपन्थिनि जाग्रति कथं यमादिसिद्धिः इत्यत आह-
टि. [वितर्कैः हिंसादिभिः बाधने प्राप्ते सति, इत्यन्वयः ]
यो – एतेषां यमनियमादीनां वितर्केहिंसादिसंकल्पैः ‘हनिष्याम्येनम्’, ‘अनृतं वदिष्यामि’ ‘परस्वमादास्ये’ इत्यादिभिर्वाधने प्राप्ते सति’ यमादिपरो योगी ‘संसाराङ्गारेषु अहं तप्यमानो यमादिकं शरणमुपगतो हिंसादिकमत्यजम् ; पुनस्तदाददानः कौलेयकेन वान्ताशिना समः’ इत्मनेन प्रकारेण वितर्कप्रतिपक्षान् भावयेत् इत्यर्थः॥३३॥
वितर्का हिसादयः कृत-कारितानुमोदिता लोभ-क्रोधनोह-पूर्वका मृदु-मव्याधिमात्रा दुःखाः नानन्तफला इति प्रतिपक्षनावनम् ॥३४॥
अ. अधुना वितर्काणां स्वरूपप्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण कथयन् प्रतिपक्षभावनं स्फुटयति-
यो – वितर्का हिंसादय इति स्वरूपनिर्देश: । तत्र हिंसा विप्रकारास्वयं कृता, कुर्विति कारिता, साधु साध्वित्यनुमोदिता चेति । ततैकैका कारणभेदात्पुनस्त्रिविधा भवति धनादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भविष्यतीति मोहेन । एवं नवविधा जाता हिंसा । लोभक्रोधमोहाः प्रत्येकं त्रिविधा भवन्ति मृदुमध्याधिमात्रत्वेन । तत्पूर्वका हिंसादयोऽपि मृदुत्वादिना त्रिविधा भवन्ति । तथा कृता कारितानुमोदिता च प्रत्येकं नवधा भवतीति हिंसायाः सप्तविंशतिर्भेदा भवन्ति । मृदुमध्याधिमात्रा अपि प्रत्येकं त्रिविधा भवन्ति – मृदुमृदुमंध्यमृदुः तीव्र मृदुः, मृदुमध्यो मध्यमध्यः तीव्रमध्यः, मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति । एवं लोभो नवविधः । तथा क्रोधमोहाविति तत्पूर्वा कृता हिंसा सप्तविंशतिभेदा भवति । तथा कारितानुमोदिता चेत्येकाशीतिभेदा हिंसा भवति । एवमनृतादिष्वपि योज्यम् । इत्थंभूता वितर्का दुःखं नरकादिकम्, अज्ञानं स्थावरादिभावम्, भ्रान्तिसंशयरूपं च अनन्तं फलं प्रयच्छन्तीति प्रतिपक्षाणां वितर्कशत्रूणां भावनमित्यर्थः । अनेन भावनेन तद्धाने सति निर्विघ्ना यमादयः सिध्यन्ति । तत्सिद्धो चित्तपरिकर्मद्वारा कैवल्यं सिध्यतीत्यभिसंधिः॥३४॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥
अ. अधुना यमादीनां सिद्धिसूचकमवान्तरफलं क्रमेण दर्शयति-
यो – सति अहिंसास्थैर्ये, तस्याहिंसकस्य योगिधौरेयस्य सनिधौ स्वभावविरुद्धानां गोव्याघ्रादीनामपि वैरत्यागो भवतीत्यर्थः । एतदेवाभिप्रेत्योक्तं वासिष्ठे – ‘ मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि’ इति ॥३५॥
सत्याभ्यासवतः किं भवतीत्याह-सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥
यो – क्रिया धर्माधर्मरूपा, तस्याः फलं स्वर्गादिकम् ; तयोराश्रयो वाङ्मात्रेण दाता, तस्य भावस्तत्त्वम् । योगिनः स्वर्गादिफलदातृत्वं वाङ्मात्रेण सिध्यतीत्यर्थः ॥३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
यो – दिव्यानि रत्नानि योगिनः पुरत उपस्थितानि भवन्ति इत्यर्थः ॥३७॥
ब्रह्मचर्य्य प्रतिष्ठायां वीर्य्यलाभः ॥३८॥
यो – वीर्यनिरोधो हि ब्रह्मचर्यम् । तत्सिद्धौ निरतिशयं सामर्थ्यं भवति । निरतिशयसामर्थ्यशालिना योगिना कृतः शिष्येषूपदेशः सद्यः फलतीति भावः ॥३८॥
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः॥३९॥
यो – कथमित्यस्य भावः कथंता, जन्मनि कथंता तस्याः संबोध: साक्षात्कारः, पूर्वजन्मनि कोऽहं कीदृशोऽतिष्ठं किं कार्यमकरवमिति जिज्ञासायां सर्वमनेन योगिना सम्यग्ज्ञायत इत्यर्थः ॥३९॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
अ. इत्थं यमसिद्धीरभिधाय अधुना नियमसिद्धीः
क्रमेण अभिदधाति-
यो – शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिस्वभावोऽयं कायः । अतः तस्मिन्नवभिश्छिद्रैर्निरन्तरं स्रवत्सु मलेषु रोमकूपैरसंख्यातैः स्विन्ने गात्रे को नामाखेदेन प्रक्षानयितुं शक्नुयात् ? तदुक्तम्- ‘नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बाह्यशौचैःन शुध्यन्ति नान्तः शौचं तु विद्यते ‘ इति । एवं स्वकाये जुगुप्सावतः परकाया एतादृशा इति दोषदर्शिनः तैः संसर्गो न कदाचिदपि भवति । यदि स्वकायदुर्गन्धेन जुगुप्सा न स्यात्किं नामैतस्य निर्वेदकारणं भवेत् ? तदुक्तम्– ‘स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते ‘ इति ॥४०॥
सत्त्वशुद्धि-सौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥
अ. संप्रति अन्तःशौचसिद्धिम् आह –
टि. [बहिः शौचस्थैर्यसिद्धिम् उक्त्वा अन्तः शौचसिद्धिम् उपदिशति । ]
यो – सत्त्वस्य बुद्धेरसूयेर्ष्यादिमलनिवृत्तिः शुद्धिः, ततः सौमनस्यं सत्त्वोत्कर्ष:, तत ऐकाग्रचं नैश्चल्यम्, ततो बाह्येन्द्रियजयः, तत आत्मदर्शनयोग्यत्वं पुरुषसाक्षात्कारार्हत्वम्, तान्येतानि परस्परहेतुहेतुमद्भावेन शौचाद्भवन्तीत्यर्थः॥४१॥
सन्तोषादनुत्तमः सुखलाभः ॥४२॥
टि. [ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैतेनार्हतः षोडशीं कलाम् ]
यो – संतुष्टस्य योगिनः सत्त्वोत्कर्षादन्तनिरतिशयं सुखमाविर्भवति । न केवलमेवम्; प्रत्युत वैषयिकं सुखं विषमिव प्रतिकूलं भवतीत्यर्थः । तदुक्तम् – ‘संतोषामृतपानेन ये शान्तास्तृप्तिमागताः । भोगश्रीरेतुला तेषां एषा प्रतिविषायते ‘ इति ॥४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥
यो – स्वधर्मकृच्छ्रादिना क्लेशपापक्षयात्कायस्य अणिमादिसिद्धिः, इन्द्रियाणां च सूक्ष्मव्यवहितप्रकृष्टार्थग्राहित्व सिद्धिर्भवतीत्यर्थः ॥४३॥
स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥४४॥
टि. [प्रणवादिमन्त्रजपात् मोक्षशास्त्राध्ययनाद्वा स्वेष्टदेवतायाः संभाषणादिक सिध्यति ]
यो – अभिमतमन्त्रजपादभिमतदेवतायाः संभाषणादिकं सिध्यति इत्यर्थः ॥४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥
यो – ईश्वरे अकामनया सकलकर्मसमर्पणात्समाधिसिद्धिः । समाधि-चित्तस्य समाधानं प्रसाद इति यावत्॥४५॥
स्थिरसुखमासनम् ॥४६॥
अ. इत्थं सावान्तरफलान् यमनियमान्निरूप्य क्रमप्राप्तमासनं तत्साधनं तत्फलं च तावत् आह-
टि. [निश्चलं सुखावहं च यदासनं तत् योगाङ्गम् । आस्यते अनेनेत्यासनम् । तत् द्विविधं बाह्यं, शारीरं च । तत्र चैलाजिनकुशोत्तरं बाह्यम्, शारीरं पद्मस्वस्ति-कादि इति भेद: । ]
यो – पद्मस्वस्तिकादिना यादृशेन देहस्थापनेन यस्य पुरुषस्य अवयव-व्यवथानुत्पत्तिलक्षणं सुखं देहचलनराहित्यलक्षणं स्थैर्यं च संपद्यते, तदेव मुख्यमासनम् । पद्मासनादिस्वरूपं तु याज्ञवल्क्येन निरूपितम्-‘ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले शुभे । अङ्गुष्ठौ च निबध्नी-याद्धस्ताभ्यां व्युत्क्रमेण तु । पद्मासनं भवेदेतत्सर्वेषामभिपूजितम्’ इत्यादिना॥४६॥
प्रयत्नशैथिल्यानन्त्य’समापत्तिभ्याम् ॥४७॥
यो – तस्य च प्रयत्नशैथिल्यं लौकिक उपायः । गमनगृहकृत्यतीर्थ-
स्नानादिविषयो यः प्रयत्नो मानस उत्साहः तस्य शैथिल्यम् । अन्यथा उत्साहो बलाद्देहमुत्थाप्य यत्न क्वापि प्रेरयति । फणसहस्रेण धरणीं धारयित्वा स्थैर्येणावस्थितो योऽयमनन्तः स एवाहमस्मीति ध्यानं चित्तस्यानन्ते समापत्तिः । तया यथोक्तासनसंपादकमदृष्टं निष्पद्यते । अतस्ताभ्यामासनं सिध्यतीत्यर्थः ॥४७॥
ततो द्वन्द्वानभिघातः ॥४८॥
यो – सिद्धे च आसने शीतोष्णसुखदुःखमानावमानादिद्वन्द्वैर्यथापूर्वं नाभिहन्यत इत्यर्थः॥४८॥
तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥
अ. अथ आसनानन्तरभाविनं प्राणायाममाह-
यो – तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदरूपः । तत्र श्वासो नाम बाह्यस्य वायोरन्त रानयनम् । प्रश्वासः पुनः कौष्ठस्य वायोनिःसरणम् । तयोरुभयोरपि संचरणाभाव प्राणायामः । ननु नेदं प्राणायामसामान्यलक्षणम्, तद्विशेषेषु रेचकपूरक कुम्भकप्रकारेषु तदनुगतेरयोगादिति चेत्, नैष दोषः; सर्वत्रापि श्वासप्रश्वासयोर्गतिविच्छेदसंभवात् । तथा हि-कौष्ठ्यस्य वायोनिर्गमनं रेचकः, यः प्रश्वासरूपः । बाह्यस्य वायोः अन्तर्धारणं पूरंकः, यः श्वासरूपः । अन्तःस्तम्भवृत्तिः कुम्भकः, यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र श्वासप्रश्वासयोर्गतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः । ननु कुम्भके गत्यभावेऽपि रेचकपूरकयोरुछ्वास निश्वासगती विद्येते इति चेत्, नैष दोषः ; अधिकमात्राभ्यासेन स्वभावसिद्धायाः समप्राणगते विच्छेद-संभवात्॥४९॥
स तु बाह्याभ्यन्तरस्तम्भवृत्ति देशकालसङ्ख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥५०॥
अ. तमेवाभ्यासमाह –
टि. [प्राणायामस्यावान्तरभेदान् प्रदर्शयति ]
यो – रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्यथा – स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसंमुखे द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद्वा निर्गत्य चतुर्विंशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नातिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालनेन निश्चेतव्यम् । सेयं देशपरीक्षा । रेचककाले प्राणस्यावृत्तयो दश विंशतिस्त्रिश दित्यादिभिः कालपरीक्षा । अस्मिन्मासे प्रतिदिनं दश रेचका आगामिमासे विशतिरुत्तरमासे विशदित्यादिभिः संख्यापरीक्षा । एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिविशेषो नाव-गम्यते, तथापि काल संख्याव्याप्तिरवगम्यत एव । यथा घनीभूत-स्तूलपिण्डः प्रसार्यमाणो दीर्घो विरलतया सूक्ष्मश्च भवति, तथा प्राणोऽपिदेशकालसंख्याभिरभ्यस्यमानो दीर्घो दुर्लक्षतया सूक्ष्मश्च संपद्यत इत्यर्थः॥५०॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥
अ. अथ रेचकादिभ्यस्त्रिभ्योऽन्यं प्रकारमाह-
टि. [पूर्वसूत्रेण रेचकं – पूरक – कुम्भकरूपस्य त्रिविधस्य प्राणायामस्य लक्षण-मुक्त्वा इदानीं तुरीयं प्राणायामम् उपदिशति ]
यो – यथाशक्ति वायुं विरेच्यानन्तरं क्रियमाणो बहिः कुम्भकः । यथाशक्ति वायुमापूर्यानन्तरं क्रियमाणोऽन्तः कुम्भकः । रेचकपूरका-वनादृत्य केवलकुभ्भकोऽभ्यस्यमानः पूर्वत्रयापेक्षया चतुर्थो भवति । निद्रातन्द्रादिदोषयुक्तानां रेचकादित्रयम्, तद्रहितानां चतुर्थ इति विवेकः॥५१॥
ततः क्षीयते प्रकाशावरणम् ॥५२॥
अ. अथ प्राणायामफलमाह-
टि. [प्राणायामेन सद्भावः उपदिश्यते] समाधिसिद्धिरूपोत्तमफलसद्भावेऽपि अवान्तरफलस्यापि
यो – प्रकाशस्य सत्त्वस्यावरणं तमो निद्रालस्यादिहेतुः, तस्य क्षयो भवतीत्यर्थः॥५२॥
धारणासु च योग्यता मनसः ॥५३॥
अ. फलान्तरमाह –
यो – आधारनाभिचक्रहृदय भ्रूमध्य ब्रह्मरन्ध्रादिदेशविशेषे चित्तस्यावस्थानं धारणा । तत्र प्राणायामेन रजोगुणकार्याच्चाञ्चल्यात् तमोगुण-कार्यादालस्यादेव निवारितं मनो योग्यं भवतीत्यर्थः॥५३॥
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥
अ. अथ क्रमप्राप्तं प्रत्याहारमाह-
यो – शब्दस्पर्शरूपरसगन्धादिविषयेभ्यो निर्वार्तिताः श्रोत्रादयश्चित्त-स्वरूपमनुकुर्वन्तीव अवतिष्ठन्त इत्यर्थः॥५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥
अ. प्रत्याहारफलमाह –
यो – इन्द्रियाणाम् अतिचञ्चलानां परमा वश्यता निश्चलता, विषयेष्वत्यन्तमप्रसर इति यावत् ॥५५ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ द्वितीय: साधनपादः समाप्तः ॥

Share This
Share this post with your friends!