
Sadāśivendrasarasvatī and Yogasudhākara
Chapter 3
अथ विभूतिपादः
देशबन्धश्चित्तस्य धारणा ॥१॥
यदाराधनतः सिद्धाः सिद्धीरष्टाववाप्नुवन् । तमपायतमोभानुमुमापतिमुपास्महे ॥
अ. इत्थं पूर्वस्मिन्पादे समाधिपरिपन्थिक्लेशतनूकरणार्थं समाधिभावनार्थं च पृथक्क्रियायोगं क्लेशतन्मूलकर्मतद्विपाकतत्फलजात्यादीनां दुःखत्वेन हेयत्वं हेयहेतुं तद्धानं कैवल्यं तदुपायभूतां पुरुषख्यातिं तत्साधनं यमादिपञ्चकं बहिरङ्गं च अभिधाय, अथ अधुना धारणादित्रयमन्तरङ्गंसंयमपदवाच्यं तदवान्तरफलविभूतिजातं च आचक्षाणः प्रथमं धारणांलक्षयति-
टि. [ यम-नियम – आसन प्राणायाम प्रत्याहारादीनि योगस्य बहिरङ्गानि प्रपञ्चितानि । इतः परम् योगस्य अन्तरङ्गसाधनानि धारणा – ध्यान-समाधि-रूपाणि क्रमेण उपदिश्यते । नाभिचक्रहृदयनासाग्रादौ देशे संप्रज्ञातयोगसिद्धये
चित्तस्य स्थिरीकरणं ‘’धारणा’ इत्युच्यते ।
यो – आधारादिदेशा अधस्तादभिहिताः । तत्र आत्मनि वा चित्तस्य बन्धः स्थापनं धारणेत्युच्यते । तदुकं योगयाज्ञवल्क्ये – ‘यमादिगुण-युक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिर्योगशास्त्रविशारदैः इति ॥१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
अ. तत्साध्यं ध्यानं लक्षयति-
यो – तत्र यथोक्तदेशे प्रत्ययस्यैकतानता एकविषयप्रवाहः, स च विच्छिद्य जायमानो ध्यानं भवति । तदुक्तम्- ‘विलाप्य विकृति कृत्स्नां संभवव्यत्ययक्रमात् । परिशिष्टं च सन्मात्रं चिदानन्दं विचिन्तयेत् इति॥२॥
तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
अ. ध्यानप्रकर्षात्संतत एकविषयप्रवाहः समाधिः, तं लक्षयति-
टि. [सम्यक् आधीयते एकाग्रीक्रियते यत्न मनः, सः समाधिः । अतिस्वच्छ-चित्तवृत्तिप्रवाहरूपं ध्यानमेव अर्थमात्रस्वरूपेण निर्भासमानम् ]
यो – तदेव ध्यानमेव ध्येयैकगोचरतया निर्भासमानं ध्यानस्वरूप’ शून्यमिव स्थितं समाधिर्भवति । तदुक्तम्ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति विना । संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः इति । नात्राङ्गाङ्गिनोरत्यन्ताभेदः शङ्कनीयः, ईषद्भेदस्य विद्यमानत्वात् । तथा हि- कर्तृकरणानुसंधानपुरःसरं जायमानः प्रत्ययो ध्यानम् । तदुत्कर्षात्कर्तृकरणानुसंधानमन्तरेणैव ध्येयमात्त्रगोचरतया निर्भासमानः समाधिः । स एव अपरवैराग्यपुरस्सर मादरनैरन्तयं दीर्घकालासेवितो निरस्तरजस्तमो लेश सुख प्रकाशमयसत्त्वोद्रेकादनवद्यवंशारद्य प्रद्योतनरूपश्चिरतरमनुवर्तमानः संप्रज्ञातसमाधिर्भवति । परवैराग्यपूर्वकनिरोधप्रयत्नेन तस्यापि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधि-भवति । तदुक्तम् – मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । या संप्रज्ञातनामासौ समाधिरभिधीयते’ इत्येष विभागो द्रष्टव्यः॥३॥
त्रयमेकत्र संयमः ॥४॥
अ- इत्थं पूर्वपादोहिष्टं धारणादित्रयं व्याख्याय, तस्य व्यवहारलाघवाय संयमसंज्ञामाहू-
टि. [ धारणा – ध्यान-समाधित्त्रयम् एकविषयं संयमसंज्ञं भवति । ]
यो – एकविषयं धारणादित्रयं संयमसंज्ञं भवतीत्यर्थः॥४॥
तज्जयात् प्रज्ञालोकः ॥५॥
अ. ततः किम् ? अत आह—
यो – तस्य संयमस्य जयात् स्थैर्यात् समाधिप्रज्ञाया आलोकः ऋतंभरत्वं भवतीत्यर्थः॥५॥
तस्य भूमिषु विनियोगः ॥६॥
अ. ननु क्व विनियुक्तः प्रज्ञालोकः फलं प्रसूते इत्यपेक्षायामाह –
यो – पूर्वोक्त सवितर्कनिर्वित कंस विचारनिर्विचारादिभूमिषु संयमस्य विनियोगः कर्तव्थः । तत्र विनियुक्तः संयमः पूर्वपूर्वभूमिजयेनोत्तर-भूमेर्निर्विचाराभिधाया वैशारद्येऽनवद्याध्यात्मख्यातिमुत्पाद्य सद्भूतार्थप्रद्योतनरूपां समाधिप्रज्ञामुत्पादयतीति तात्पर्यार्थः॥६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
अ. अत एव संप्रज्ञातसमाधिप्रज्ञाया धारणादित्रयमन्तरङ्गमित्याह-
टि. [ धारणा ध्यान – समाधय: अन्तरङ्गसाधनानि ]
यो – पूर्वोक्ताः पञ्च यमादयः संप्रज्ञातस्य प्रतिबन्धकप्रत्यक्षगान. प्राणादिमलप्रक्षयप्रणाडिकया बहिरङ्गाणि ; तेभ्यश्वित्तविषयतया सजातीयत्वाद्धारणादितयमन्तरङ्गमित्यर्थः॥७॥
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
अ. तदप्यसंप्रज्ञातस्यावृत्तिकस्य विजातीयत्वाद्बहिरङ्गमित्याह-
टि. [ धारणाध्यानसमाधयः यद्यपि संप्रज्ञातसमाधेः अन्तरङ्गसाधनानि, परं असंप्रज्ञातसमाधेः बहिरङ्गसाधनान्येव । ]
यो – विजातीयत्वेऽपि संप्रज्ञातप्रज्ञोत्पादनद्वारोपकारितया बहिरङ्ग-त्वमविरुद्धम्त देवोपकारित्वमधस्तादसूत्रयत्सूत्रकारः – ‘श्रद्धावीर्य-स्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्’ इति ॥८॥
व्युत्थाननिरोधसंस्कारयोरभिभव प्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
अ. ननु ‘ तदपि बहिरङ्गं निर्बीजस्य’ इत्युक्तम् । कोऽसौ निर्बीज: समधिरित्यपेक्षायामाह –
यो – व्युत्थानसंस्काराः समाधिविरोधिनः । ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं च अभिभूयन्ते तद्विरोधिनश्च निरोध-संस्काराः प्रादुर्भवन्ति । तथा सति निरोध एकैकस्मिन्क्षणे चित्तमनुगच्छति । सोऽयमीदृशश्वित्तस्य निरोधपरिणामो निर्बीज: समाधिर्भवति॥९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
अ. ननु ‘प्रतिक्षणं परिणामिनो हि भावा ऋते चितिशक्तेः ‘ इति न्यायेन चित्तस्य सर्वदा परिणामप्रवाहो वक्तव्यः ; तत्र व्युत्थित-वितस्य वृत्तिप्रवाहः स्फुट:, निरुद्धचित्तस्य तु कथमित्याशङ्कया उत्तरमाह-
यो – यथा समिदाज्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्धया प्रज्वलति, समिदादिप्रक्षये प्रथमक्षंणे किंचिच्छाम्यति, उत्तरोत्तरक्षणे शान्तिर्वर्धते ; तथा निरुद्धचिसस्योत्तरोत्तराधिकं प्रशमः प्रवहति । तत्र पूर्वपूर्वप्रशमजनितसंस्कार एवात्तरोत्तरप्रशमस्य कारणमित्यतः प्रशमप्रवाहसंभवान्न कोऽपि दोष इति भावः॥१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
अ. इत्थं निरोधपरिणामरूपं निर्बीजसमाधिमभिधाय संप्रज्ञातसमाधिपरिणाममभिधातुमाह-
यो – रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वान्पदार्थान्गृह्णाति । तस्य रजोगुणस्य निरोधाय क्रियमाणेन योगिनः प्रयत्नविशेषेण दिने दिने सर्वार्थता क्षीयते, एकाग्रता चोदेति । तादृशचित्तस्य परिणामः समाधिः इत्युच्यते॥११॥
शान्तोदित तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
अ. ननु केयमेकाग्रतेत्यपेक्षायामाह –
यो – शान्तोऽतीतः, उदितो वर्तमानः, प्रत्ययश्चित्तवृत्तिः । अतीतः प्रत्ययों यं पदार्थं गृह्णाति तमेव चेदुदितोऽपि गृह्णीयात्, तदा तौ तुल्यौ भवतः । तादृशचित्तपरिणाम एकाग्रतेत्युच्यते । इत्थं निरोधपरिणामः समाधिपरिणाम एकाग्रतापरिणामश्चेत्ययं त्रिविधः परिणामश्चित्तस्य धर्मपरिणाम इत्युच्यते । एवं लक्षणपरिणामोऽपि ‘निरोधलक्षण-चित्तान्वय:’ इत्यनेन सूच्यते । स यथा- निरोधस्य धर्मस्य लक्षणं अध्वनयम् । तत्नानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः तत्परि-त्यागेनातीताध्वस्वीकारः । एवं कालावच्छिन्नस्य तस्यैव निरोधस्या-वस्थापरिणामोऽपि ‘ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावो’ इत्यनेन संगीयते । एवं समाध्येकाग्रतापरिणामयोर्लक्षणावस्थापरिणामी सूत्रद्वयेनप्रेक्षावद्भिः ऊहनीयो॥१२॥
एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्थापरिणामाव्याख्याताः ॥१३॥
अ. इत्थम् अभिहितं परिणामत्रयं संयमाद्विभूतीर्वक्तुकामः संयमलक्ष्यत्वेनान्यत्रातिदिशति –
टि. [निरोधसमाध्येकाग्रतेति त्रिविधोक्तचित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेषु, इन्द्रियेषु चक्षुरादिषु, बुद्धिकर्मभेदेन स्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामः उक्तः ।]
यो – एतेन विधाभिहितेन चित्तधर्मादिपरिणामेन भूतेषु पृथिव्यादिषु चक्षुरादीन्द्रियेषु च धर्मिषु धर्मलक्षणावस्थापरिणामा व्याख्याता द्रष्टव्याः । तत्र मृद्रूपस्य धर्मिणो घटाकारपरिणामो धर्मपरिणामः । तस्यैव घटस्य धर्मस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः तत्परित्यागेनातीताध्वपरिग्रहो लक्षणपरिणामः । तस्यैव घटस्य क्षणे क्षणे परिणामोऽवस्थापरिणामः । अतः प्रतिक्षणं परिणामिनो हि भावाः ऋते चितिशक्तेरिति संक्षेपः॥१३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
अ. धर्मस्यायं त्रिविधः परिणामः ; तद्धर्मिणं दर्शयति-
यो – शान्ताः कृतव्यापारा अतीताः, उदिता जलाहरणादिव्यापाराविष्टाः वर्तमानाः, अव्यपदेश्याः शक्तिरूपेण मृदादिषु धर्मिषु स्थिता अनागताः तानेतान् घटीयन्त्रवदनिशमा वर्तमानान्योऽनुपतत्यन्वेति, सोऽयमनुपाती धर्मी, यथा चूर्णपिण्डाद्यन्वितमृदादिः इत्यर्थः॥१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
अ. नन्वेकस्य धर्मिणः परिणामबहुत्वे को हेतुः इत्यत आह-
टि. [ एकस्य धर्मिणः कथम् अनेके परिणामाः इत्यत्र कारणम् उपदिशति ]
यो – मृदि चूर्णपिण्डयोः पिण्डघटयोर्घटकपालयोः पौर्वापर्यरूपां क्रमस्यान्यत्वं ‘दृश्यमानमेकस्या एव मृदः परिणामानां चूर्णादीनां धर्माणामन्यत्वे हेतुर्ज्ञापकः । एवमनागतवर्तमानातीताध्वनां क्रमात लक्षणपरिणामान्यत्वं धर्माणां ज्ञेयम् । तथा क्षणपरम्परया घटादीनां दुर्लक्ष सूक्ष्मपरिणामक्रमेणावस्थापरिणामान्यत्वं बोध्यम्॥१५॥
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
अ. इत्थं संयमलक्ष्यमभिधाय अधुना आ पादसमाप्तेः संयमस्य तत्तद्विषये वशीकारज्ञापनाय विभूतीरभिधातुमाह-
यो – धर्मिण्येते धर्मा:, तेष्वनागतादय एतेऽध्वानः, एता अवस्थाः, इति धर्मलक्षणावस्थारूपपरिणामत्रये संयमाद्योगिनोऽतीतानागतवस्तुसाक्षात्कारो भवति । चित्तसत्त्वं हि निसर्गतः सर्वार्थप्रद्योतनस्वभावं रजस्तमोमलप्रतिबन्धस्य संयमेन प्रक्षये सति प्रमाणमनपेक्ष्य सर्वं जानातीति भावः॥१६॥
शब्दार्थ-प्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
टि. [शब्दो वर्णध्वनिरूपः, अर्थ: जातिगुणक्रियादिः प्रत्ययः ज्ञानम् एषाम् इतरेतराध्यासात् – बुद्धयेकरूपतासंपादनात् सङ्कीर्णत्वम्, तेषां प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति, तस्य सर्वेषां मृगपश्वादीनां शब्दस्य ज्ञानमुत्पद्यते ]
यो – गौरिति शब्दो गौरित्यर्थो गौरिति प्रत्यय इत्याबाल पण्डितं शब्दार्थप्रत्ययानामितरेतराभेदाध्यासात्संकरः प्रसिद्धः । तेषां वर्णव्यङ्गयं पदं, पदव्यङ्गचं वाक्यं, शक्त्यादिवृत्त्या बोधकमिति शब्दतत्त्वम् ; अर्थो द्रव्यादिर्वाच्यो लक्ष्यश्चेत्यर्थतत्त्वम् ; शब्दजन्योऽर्थविषयः प्रत्यय इति ज्ञानतत्त्वम्; इति यः प्रविभागः शास्त्रयुक्तिभ्यां सिद्धस्तस्मिन्संय-मात्सर्वशब्दादिवशी कारसूचकं सर्वभूतानां पक्ष्यादीनां रुतज्ञानं भवति,इममर्थमेते संगिरन्त इति संयमी जानातीत्यर्थः ॥१७॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
टि. [पूर्वजन्मज्ञानावबोधोपायम् उपदिशति । द्विविधा वासनासंस्काराः, केचित् स्त्मृयुत्पादनफलाः केचिज्जात्यायुर्भोगहेतवो धर्माधर्माख्या:, तेषु संयमं यदा करोति, भावनयैव पूर्ववृत्तानुसन्धानात् उद्बुद्धसंस्कारः सर्वम् अतीतं पूर्वजन्मानुभूतजात्यादिकं प्रत्यक्षेण पश्यति ]
यो – अनुभवक्लेशजाः स्मृतिक्लेशहेतवः, कर्मजाः सुखदुःखहेतवः, इति द्वये संस्काराश्चित्तधर्माः पूर्वजन्मपरम्परासंचिताः सन्ति । तेषु श्रुतेष्वनुमितेषु च संयमेन साक्षात्कृतेषु तद्धेतुत्वेन स्वीयपरकीयपूर्व-जन्मपरम्परायाः साक्षात्कारो भवति । न च संस्कारसंयमात्कथं पूर्वजन्मसाक्षात्कार इति शङ्कनीयम् ; इति शङ्कनीयम्; सानुवन्धसंस्कारसंयमादनु-बन्धत्वेन पूर्वजन्मसाक्षात्कारोत्पत्तेः संभवादिति समञ्जसम् ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
अ. सिद्धयन्तरमाह –
यो – प्रत्ययस्य परचित्तस्य संयमात्तत्साक्षात्कारो भवति इत्यर्थः॥१९॥
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
अ. ननु संस्कारसाक्षात्कारात्तदनुबन्ध साक्षात्कारवत् किं परचित्त-साक्षात्कारादालम्बनज्ञानं भवति ? नेत्याह-
यो – परचित्तमात्रं साक्षात्क्रियते ;सालम्बनं सविषयं तु न साक्षात्क्रियते, तस्यालम्बनस्याज्ञातत्वात् । न हि लिङ्गादिना ज्ञाते संयमप्रवृत्तिः समस्ति । यदि परचित्तं ज्ञात्वा संयमेन साक्षात्कृत्यास्ये-दानीं किमालम्बनमिति स्वचित्तं प्रणिधत्ते, तदा तत्कालीनमालम्बनं जानाति । रागादिवृत्तयस्तु चित्ताभेदात्सदा साक्षात्क्रियन्त इति विशेषः॥२०॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्द्धानम् ॥२१॥
अ. सिद्ध्यन्तरमाह-
टि. [योगिनः अन्तर्धानं भवति, न केनचित् असौ दृश्यत इत्याकारकसिद्ध्यन्तरं उपदिशति ]
यो – कायस्य चाक्षुषताप्रयोजकं यद्रूपमस्ति तस्मिन्संयमात्तस्य रूपस्यपरचक्षुर्ग्राह्यतानुकूलायाः शक्तेः स्तम्भे प्रतिबन्धे सति परचाक्षुषज्ञानाविषयत्वे जाते, अन्तर्धानं योगिदेहस्याचाक्षुषत्वं यथाकामं सिध्यतीत्यर्थः॥२१॥
एतेन शब्दाद्यन्तर्धानमुक्तम् ॥२२॥
अ. उक्तमन्यत्र अतिदिशति-
यो – एतेन स्वीयशब्दस्पर्शरूपरसगन्धानां संयमाच्छ्रोताद्यग्राह्यत्वसिद्धिरुक्ता भवतीति वेदितव्यम्॥२२॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरांतज्ञानमरिष्टेभ्यो वा ॥२३॥
टि. [कर्मणि क्रियमाणसंयमेन मरणकालनिश्चयो जायते इत्येतदुपदिशति ]
यो – सोपक्रमं शीघ्रविपाकं कर्म, निरुपक्रमं च चिरविपाकं कर्म यत्, ततोभयत्र संयमेन साक्षात्कारात्तद्विपाकस्यायुषोऽपरान्तोऽवसानम्, तस्य मम कायवियोग इति साक्षात्कारो ज्ञानममुष्मिन्देशेऽमुककाले
भवति ॥२३॥
अरिष्टेभ्यो वा ॥२४॥
अ. प्रसङ्गात्साधारणं मरणसूचकमाह-
यो – अरिवत् वासयन्तीत्यरिष्टानि विविधानि आध्यात्मिकादीनि मरणलिङ्गानि, तेभ्यो वा मरणज्ञानं भवत्ययोगिनोऽपीत्यर्थः॥२४॥
मैत्र्यादिषु बलानि ॥२५॥
यो – मंत्र्यादिषु संयमेन तेषां बलानि वीर्याणि भवन्ति, यैर्योगी प्राणिमात्रस्य सुखकरः सुहृद्भवति, दुःखादुद्धर्ता भवति । उपेक्षात्वौदासीन्यमात्रम् । न तस्य बलं किंचित्समस्ति, संयमाभावाद् इत्यर्थः ॥२५॥
बलेषु हस्तिबलादीनि॥२६॥
यो – हस्तिहनुमदादीनां बलेषु तद्भावेन संयमात्तानि बलानि योगिनः प्रादुर्भवन्ति, चित्तस्य स्वतः सर्वसामर्थ्यादित्यर्थः॥२६॥
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२७॥
टि. [सूक्ष्मानां, तिरोभूतानां, अतिदूरदेशे च विद्यमानानां वस्तूनां सिद्धिः उपदिश्यते ]
यो – ज्योतिष्मती प्रवृत्तिरधस्तादभिहिता । तस्या योऽयमालोकोज्योतिरालम्बनं निर्मलबुद्धिसत्त्वं, तस्य सूक्ष्मे परमाण्वादी भूमिव्यवहिते निध्यादौ विप्रकृष्टे मेर्वन्तर्वर्तिरसायनादौ च न्यासात्प्रक्षेपात्तेषां ज्ञानं साक्षात्कारो भवति ; सोरालोकसंप्रयोगात्लूटादिसाक्षात्कारवद् इत्यर्थः॥२७॥
भुवनज्ञान सूर्ये संयमात्॥२८॥
यो – सुषुम्नादिसहस्रमयूखमालिनि दिवि द्योतमाने मार्तण्डमण्डले संयमाद्दृश्याभिन्न चित्तं चतुर्दश भुवनानि साक्षात्करोतीत्यर्थः । अयमेव सकलभुवनसाक्षात्कारोऽस्मिन् शास्त्रे मधुमती सिद्धिरित्युच्यते॥२८॥
चन्द्रे तारकाव्यूहज्ञानम्॥२९॥
यो – नक्षत्रपतौ तुषारकर बिम्बे संयमान्नक्षत्राणां संनिवेशविशेषं साक्षात्करोति । सूर्यस्य नक्षत्राभिभावकत्वात्तत्सय मात्तत्साक्षात्कारो न भवतीति भावः॥२९॥
ध्रुवे तद्गतिज्ञानम्॥३०॥
यो – ध्रुवे संयमात्तासां तारकाणां गतिं जानाति – असौ तारकामुना ग्रहेण साकमनया सृत्या एतावन्तमनेहसं गच्छतीति॥३०॥
नाभिचक्रे कायव्यूहज्ञानम् ॥३१॥
अ. इत्थं बाह्यसिद्धीरभिधाय अधुनाध्यात्मिकसिद्धीरभिधातुमाह-
यो – कायस्य मध्यभागे यन्नाभिचक्रं मणिपूरकाख्यं दशदलम्, तस्मिन्संयमाद्देहस्य वातपित्तादिसंनिवेशविशेषं जानातीत्यर्थः॥३१॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः॥३२॥
यो – जिह्वातन्तोरधस्तात्कण्ठस्य कूपाकारः प्रदेशोऽस्ति, यत्त्र प्राणादेः संघर्षणात्क्षुत्पिपासे भवतः । तत्त्र, संयमात्तन्निवृत्तिर्भवतीत्यर्थः॥३२॥
कूर्मनाड्यां स्थैर्यम्॥३३॥
टि. [चित्तस्य स्थैर्यतायै उपायोपदेश: ]
यो – कण्ठकूपात् अधस्ताद्वक्षसि कूर्माकारा काचिन्नाड्यस्ति । तत्र संयमात्तत्प्रविष्टस्य चित्तस्य स्थैर्यं सिध्यतीत्यर्थः॥३३॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥३४॥
टि. [सिद्धपुरुषान् साक्षात् द्रष्टुं उपायः ]
यो – शिरःकपालयोश्छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगाद्भास्वरं मूर्धज्योतिः । तत्र संयमात्तेन निःसृता देहस्था चित्तमणिप्रभा सिद्धान् अदृश्यानपि पश्यतीत्यर्थः॥३४॥
प्रातिभाद्वा सर्वम् ॥३५॥
यो – विवेकख्यातिर्हि प्रसंख्यानं संसारतारकम् । तदर्थं संयमे क्रियमाणे प्रसंख्यानोदयसूचकं प्रतिभया ऊहमात्रेण जातं प्रातिभं ज्ञानं भवति । तस्माद्वा योगी सर्वं जानाति । यथा सूर्योदयसूचकारुणप्रभया सर्वं लोकः पश्यति, तद्वदित्यर्थः॥३५॥
हृदये चित्तसंवित्॥३६॥
यो – अधोमुखे हृत्पद्मे चित्तस्थाने संयमात्सवासनचित्तस्य संविद्भवतीत्यर्थः॥३६॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३७॥
यो – बुद्धघात्मनोः भोग्यभोक्तृत्वेनात्यन्तभिन्नयोः यः प्रत्ययाविशेषो बुद्धिपरिणामः सुखदुःखमोहप्रत्ययैः पुरुषस्य प्रतिबिम्बग्राहिभिरविशेष: सारूप्यं प्रतिबिम्बद्वारा यः सुखाद्यारोपः, स भोगो बुद्धिस्थो दृश्यत्वातपरार्थः पुरुषस्य भोक्तुः शेषभूतः । तस्मात्परार्थाद्भोगाज्जडादन्यश्चित्स्वभावः स्वार्थोऽनन्यशेषः पुरुषः । तत्र संयमात्पुरुषस्य साक्षात्कारो भवति । तं साक्षात्कारमपि पुरुषो जानाति । न पुनर्ज्ञाता ज्ञेयः, ज्ञातृज्ञेयत्वयोरत्यन्तविरोधादिति भावः॥३७॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते ॥३८॥
अ. अधुना अस्यैव संयमस्य पुरुषसाक्षात्कारात्प्राग्भवाः सिद्धीरुपदर्शयति-
यो – दिव्यशब्दग्राहकं श्रोत्रं यदास्य योगिनो भवति, तदा तस्य श्रोतस्य श्रावणमिति तान्त्रिकी संज्ञा भवति । एवं घ्राणस्य वार्त्तेति संज्ञेत्याद्यह्यम्॥३८॥
ते समाधावपसर्गा व्युत्थाने सिद्धयः ॥३९॥
अ. तर्ह्ययं योगी कृतकृत्य:; किं तस्यकार्यमस्तीत्याशङ्कमानं प्रत्याह-
यो – ते प्रातिभादयः समाधावपवर्गफले उपसर्गा विघ्ना भवन्ति । अतो मोक्षमाकाङ्क्षता ते तावदुपेक्षणीयाः । यदि तत्नापेक्षा स्यात्तदा मोक्षाद्भ्रष्टः कथं कृतकृत्यतामियात् ? न ह्यात्मप्रत्ययमन्तरेण कृतकृत्यता समस्ति । न चैते स्वात्मज्ञान उपकुर्वन्ति । अपि तु व्युत्थाने सिद्धयो भवन्ति । एतदेवाभिप्रेत्योक्तम्- ‘द्रव्यमन्त्रक्रियाकालशक्तयः साधु सिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ सर्वेच्छालाभसंशान्तो आत्मलाभोदयो हि यः । स कथं सिद्धिवाञ्छायां मग्नचित्तेन लभ्यते ‘ इति ॥३९॥
बन्धकारणशैथिल्यात्प्रचार संवेदनाच्च चित्तस्य परशरीरावेशः॥४०॥
अ. तदेवं संयमस्य साक्षात्काररूपात्मदर्शनान्तां विभूतिमभिधाय अथ क्रियारूपमाह –
टि. [तदेवं संयमस्य ज्ञानरूपां विभूतिं आत्मदर्शनान्तां उक्त्वा क्रियारूपां उपदिशति ]
यो – सर्वतव्याप्तिशीलस्य चित्तस्य स्वशरीरमावे संकोचेन स्थितिर्बन्धः । तस्य कारणं धर्माधमौ । तयोः संयमेन यच्छैथिल्य भवति प्रचरत्यनेन चित्तमिति प्रचारो नाडीसंघः, तस्यापि संयमेन यद्वेदनं साक्षात्कारो भवति; ताभ्यां चित्तस्य परकाये मृते जीवति वा प्रवेशो भवति । चित्तमन्विन्द्रियाण्यपि विशन्ति मक्षिका मधुकरराजमिवेत्यर्थः॥४०॥
उदानजयात् जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च॥४१॥
यो – समस्तेन्द्रियाणां युगपत्तूलज्वालावदुत्पन्ना या वृत्तिर्जीवशब्दवाच्या, सा क्रियाभेदेन प्राणापानादिसंज्ञाभिव्यपदिश्यते । तत्नोदानस्य आ नासाग्रात्आ शिरोवृत्तेः संयमेन जयाज्जलादिष्वसक्तो योगी लघु-त्वादुपरि गच्छति, स्वेच्छ्या मरणं च लभत इत्यर्थः॥४१॥
समानजयाज्ज्वलनम् ॥४२॥
यो – आ हृदयात् आ नाभि स्थितः समानः । तस्य वशीकारान्नाभिनि-कटस्थाग्नेर्ज्वलनं भवति । येनासौ योगी ज्वलन्निव दृश्यत इत्यर्थः॥४२॥
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम्॥४३॥
यो – आहंकारिकस्यापि श्रोत्रस्याकाशेनाधाराधेयभावः संबन्धोऽस्ति । तन संयमाद्दिव्यं श्रोत्रेन्द्रियं भवति । तेन दिव्यशब्दान्युगपज्जानातीत्यर्थः॥४३॥
कायाकाशयोः संबंधसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम्॥४४॥
यो – तयोः संयोगं जित्वा लघुतूलादी वा तद्भावेन समाधिना
लघुकायो भूत्वा आकाशे विहरति, तत ऊर्णातन्तुषु, पश्चान्मार्तण्ड-मयखेषु, ततो यथेच्छं गगने गच्छतीत्यर्थः॥४४॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४५॥
यो – शंरीरे अहंभावे सति मनसो या बहिर्वृत्तिः सा कल्पिता विदेहाख्या । यदा देहेऽहंभाव परित्यागे सति स्वत एव या मनसो बहिर्वृत्तिः सेयमकल्पिता महाविदेहाख्या । तत्न संयमात्प्रकाशशीलस्य चित्तस्य क्लेशादिमलाः सर्वे क्षीयन्त इत्यर्थः॥४५॥
स्थूलस्वरूप सूक्ष्मान्वयार्थवत्त्व संयमाद्भूतजयः॥४६॥
टि. [पञ्चानां भूतानां पञ्च स्थूलत्वादयो धर्माः, तत्र कृतसंयमस्य भूतजयो भवति]।
यो – स्थूलं च स्वरूपं च सूक्ष्मं चांन्वयश्चार्थवत्त्वं च पञ्चैतानि पञ्चभूतानां रूपाणि । तव क्रमेणैकैकन्यूनैः शब्दादिगुणैर्युकं
परिदृश्यमानं स्थूलम् । क्रमेण काठिन्यस्नेहौष्ण्यप्रेरणा सर्वगतत्वलक्षण स्वरूपम् । पञ्च तन्मात्राणि सूक्ष्मम् । स्वकार्यं कारणत्वेनान्वेती-त्यन्वयो गुणत्रयम् । भोगापवर्गज्ञानसामर्थ्यं गुणनिष्ठमर्थवत्त्वम् । तेषु पश्ञ्चरूपेषु स्थूलादिक्रमेण संयमाद्भूतानि योगिसंकल्पानुसारीणि भवन्ति, धेनवो वत्सानुसारिण्य इवेत्यर्थः॥४६॥
ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥४७॥
अ. ननु अस्तु भूतजयः; किं तत इत्यत आह-
यो – ततो भूतजयाद्योगिनः अणिमाद्यष्टमहासिद्धयः प्रादुर्भवन्ति । परमाणुतुल्यत्वमणिमा । विभुत्वं महिमा । तूलपिण्डवल्लघुत्वं लघिमा । मेरुवद्गुरुत्वं गरिमा । अङ्गुल्या चन्द्रस्पर्शनं प्राप्तिः । सत्यसंकल्पत्वं प्राकाम्यम् । भूतनियन्तृत्वं वशित्वम् । भूतस्रष्टृत्त्वमीशितृत्वम् । इत्यष्टैश्वर्याणि । । अत्र प्राप्तयन्तानि स्थूलसंयमा-त्सिध्यन्ति । स्वरूपसंयमात्प्राकाम्यम् । अवशिष्टमवशिष्टत्रयसंय-मादिति विभागः । कायसंपद्वक्ष्यमाणलक्षणा, तद्धर्मेंस्तस्य काठिन्या-दिभूतधर्मैरनभिघातश्च योगिनो भूतजयात्सिध्यतीत्यर्थः॥४७॥
रूपलावण्यबलवज्रसंहननत्वानि काय संपत् ॥४८॥
अ. कायसंपदं व्याख्यातुमाह-
यो – चक्षुःप्रियं रूपम् । सर्वाङ्गसौन्दर्यं लावण्यम् । वीर्यं बलम् । वज्रस्येव संहननमवयवव्यहो यस्य तद्भावो वज्रसंहननत्वम् ; नच्च हनूमति प्रसिद्धम्॥४८॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४९॥
अ. इत्थं ससाधनफलं भूतजयमभिधाय सोपायफलमिन्द्रियजयमभि-धातुमाह-
यो – ग्रहणं स्वरूपमस्मितान्वयोऽर्थवत्त्वं च पञ्चैतानि श्रोतादिपञ्चेन्द्रियाणां रूपाणि । तत्र शब्दादिगोंचरा वृत्तयो ग्रहणम् । स्वरूपं प्रकाशकत्वम् । अस्मिता सात्त्विकाहकारः । अन्वयार्थवत्त्वे व्याख्याते । तेषु पञ्चस्विन्द्रियरूपेषु संयमादिन्द्रियजयो भवतीत्यर्थः॥४९॥
ततो मनोजवित्वं निकरणभावः प्रधानजयश्च ॥५०॥
अ. ततः किम् ? अत आह—
यो – मनोजवित्वं कायस्य मनोवदनुत्तमो गतिलाभ: । विकरणभावः कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविशेषापेक्षो वृत्तिएताः सिद्धयः लाभः । प्रधानजयः प्रकृतिविकारेषु वशित्वम् । करणपञ्चकस्वरूपजयाद्योगिनः प्रादुर्भवन्तीत्यर्थः । एता अणिमाद्या: प्रधानजयान्ताः सिद्धयोऽस्मि शास्त्रे मधुप्रतीकाः संगीयन्ते । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः, मधुतुल्या इत्यर्थः॥५०॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वंसर्वज्ञातृत्वं च ॥५१॥
अ. इत्थं संयमाच्छ्रद्धाद्वारा विवेकख्यात्यर्था ज्ञानक्रियासिद्धीरभिधाय अधुना विवेकख्यातेरवान्तरसिद्धीरभिधातुमाह-
यो – पूर्वोदीरितस्वार्थसंयमेन निरस्तरजस्तमोमलस्य चित्तस्य जये वशीकारसंज्ञारूपा परवैराग्ये स्थितस्य सत्त्वपुरुषयोर्विवेकख्यातिः समुत्पद्यते । तन्मात्रस्य तन्निष्ठस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वेषां व्यवसायव्यवसेयात्मकानां गुणपरिणामरूपाणां स्वामिवदा-क्रमणम् । सर्वज्ञातृत्वं तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं च सिध्यति । एषा विशोका नाम सिद्धि:॥५१॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५२॥
अ. अधुना विवेकख्यातेर्मुख्यां सिद्धिमभिधातुमाह-
टि. [एतस्यां विशोकायां सिद्धौ यदा वैराग्यम् उत्पद्यते, तदा दोषाणां रागादीनां यद्बीजम् अविद्यादयः तस्य क्षये निर्मूलत्वे कैवल्यम् आत्यन्तकी दुःखनि-वृत्तिः ।]
यो – तस्यां विशोकायां सिद्धौ वैराग्यात्तद्धेतुभूतविवेकख्यातावपिपरं वैराग्यं भवति । ततः सर्वप्रतिपत्त्यस्तमये परं वैराग्यमाश्रितस्यपुरुषधौरेयस्य क्लेशबीजानि दग्धशालिकल्पानि मनसा सार्धं प्रत्यस्तं गच्छन्ति । प्रक्षोणेषु तेषु दृढभूमावसंप्रज्ञातपदवेदनीये संस्कारशेष-ताव्यपदेश्ये निर्बीजसमाधौ लब्धे, शुद्धायाश्चितिशक्तेः स्वरूपप्रतिष्ठारूपं कैवल्यं सिध्यतीत्यर्थः । इयं संस्कारशेषाख्मा सिद्धि:॥५२॥
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्॥५३॥
अ. अधुना अन्नान्तरायोत्पत्तौ तन्निराकरणकारणमाह-
यो – चत्वारः खल्वमी योगिनः प्रथमकल्पिको मधुभूमिकः प्रज्ञाज्यो-तिरतिक्रान्तभावनीयश्चेति । तत्नाद्यः संयमे प्रवृत्तिमातो न किंचिज्जानाति । संयमेन भूतेन्द्रियाणि साक्षात्कृत्य तज्जिगीषुर्द्वितीयः । भूतेन्द्रियजयी पुरुषमाचिख्यासुस्तृतीयः । संप्राप्तपुरुषख्यातौ परवै- राग्यसंपन्नश्चतुर्थः । सोऽसौ भगवान्महानुभावो जीवन्मुक्तो विघ्न-शङ्काकलङ्कशून्यः । तृतीयो जितभूतेन्द्रियत्वान्महेन्द्रादिभिरक्षोभ्यः । आद्यस्तु देवनिमन्त्रणायोग्यः । अतः परिशेषाद्द्द्वितीयः स्थानिभिः शक्रादिभिः शक्यते प्रार्थयितुम् — ‘भो योगिन्, इहास्यताम् । स्वर्गादि-स्थाने रम्यताम् । कमनीयेयं कन्या । दिव्योऽयं भोगः । रसायनमिदं-जरामृत्युनिवारणम् । इदं कामगं यानम्’ इति । एवं प्रार्थने सङ्ग आसक्तिः, ‘अहो मम योगप्रभाव:, इति स्मयश्च न कर्तव्यः, किं त्वित्थं तत्र दोषं भावयेत्— ‘घोरेषु संसाराङ्गारेष्वहं पापच्यमानः कथं-चित्क्लेशादिध्वान्तध्वंसकं योगप्रदीपमलभे । तस्यैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमेतैर्वश्वितःपुनः पुनः प्रदीप्तस्य संसारहुतभुजः स्वात्मानमिन्धनीकुर्याम् ? अतः स्वस्ति वः स्वप्नसमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्यः’ इति । एवं निश्चितमतिः पुरुषधौरेयः समाधिं भावयेत् । यदि तत्र सङ्गस्मयौ भवेताम्, तदास्य योगभ्रष्टस्य पुनरनिष्टं प्रसज्जेत । तस्मात्सङ्गस्मययोरकरणं कैवल्यान्तरायनिवारणकारणमित्यर्थः॥५३॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्॥५४॥
अ. अधस्तात् स्वार्थसंयमात्पुरुषज्ञानं भवतीत्यभिहितम् । अधुनातदेवान्यसंयमात्तावद्भवतीत्याह-
यो – अभेद्यः कालविभागः सत्यः क्षणः । अन्ये तु मुहूर्तादयः कालविभागाः क्षणसमूहरूपा असत्याः । न हि क्षणानां समूहो वस्तुसन् । तत्रायमस्मात्पूर्वः क्षण: अयमुत्तरः क्षण इति क्षणानां तेषां क्रमस्य पौर्वापर्यस्य च संयमादतिसूक्ष्माणां भेदसाक्षात्कारो विवेको भवति । तेन युगपद्वियदादिपुरुषान्तसाक्षात्कारो जायत इत्यर्थः॥५४॥
जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततःप्रतिपत्तिः॥५५॥
अ. अधुना अस्य साक्षात्कारस्य सूक्ष्मं विषयविशेषमभिधातुमाह-
यो – लोके हि भावानां तयो भेदनिश्वयहेतवः । तत्र देशेन लक्षणेन च तुल्ययोर्गोगवययोर्जात्या भेदधोः । देशजातिभ्यां तुल्ययोर्गवोः कृष्णश्वेतादिलक्षणेन भेदधीः । जातिलक्षणाभ्यां तुल्ययोरामलकयोः पूर्वोत्तरादिदेशभेदाद् भेदनिश्चयः । यदा पुनर्योगिनो ज्ञानपरीक्षार्थं केनचित्पूर्व देशस्थमामलकमुत्तरामलकदेशे विन्यस्योत्त रामलकमन्यव्यासक्ते योगिन्यपहृतम्, तयोरामलकयोरामलकत्वजात्या रूपपरिमाणादिलक्षणेन देशेन च तुल्ययोर्जात्यादिभिरन्यताया अनवच्छेदादनिश्वयात् ततस्त-स्मात्क्षणसंयमजविवेकज्ञाना देवान्यत्वप्रतीतिर्योगिनो भवतीत्यर्थः॥५५॥
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्॥५६॥
अ. इत्थं विवेकज्ञानस्य विषयविशेषमभिधाय अधुना तस्य संप्रकारं विषयसामान्यमभिधातुमाह-
यो – क्षणसंयमजं ज्ञानं सर्ववस्तुस्वरूपविषयं सर्वथा सर्वप्रकारविषयं पुरुषतत्त्वावगाहित्वात्संसारसागरं तारयतीति तारकसंज्ञम् अक्रमं युगपदेव करतलामलकवत्सर्व समूहालम्बनमित्यर्थः॥५६॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५७॥
अ. अधुना तस्य विवेकज्ञानस्य फलं दर्शयितुमाह-
यो – निरस्तसमस्तरजस्तमोमलस्य बुद्धिसत्त्वस्य विवेकख्यात्यासंस्कारशेषस्य सर्ववृत्तिशून्यत्वं शुद्धिः । पुरुषस्यापि नित्यशुद्धस्य तदा कल्पितभोगशून्यत्वं शुद्धिः । एवं च तयोः शुद्धिसाम्ये सति कैवल्यं पुरुषख्यात्युत्पन्नपरवैराग्येण सकलवृत्तिनिवृत्तौ तत्कृतभोगनिवृत्तेः कूट-स्थनित्यशुद्धानन्तायाश्चितिशक्तेः स्वरूपप्रतिष्ठालक्षणं कैवल्यं सिध्यतीत्यर्थः । येन केन प्रकारेणोत्पन्नया पुरुषख्यात्या परवैराग्यद्वारा परमपदं कैवल्यं लभ्यत इति परमतात्पर्यम् ॥५७॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ तृतीयः विभूतिपादः समाप्तः॥

Share This
Share this post with your friends!