Sadāśivendrasarasvatī and Yogasudhākara 

Chapter 4

अथ कैवल्यपादः

जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥

वीरासने समासीनं संविन्मुद्रालसत्करम् ।
कैवल्यानन्ददं कंचिज्ज्योतिर्धातुमुपास्महे ॥

अ. इत्थं पूर्वस्मिन्पादे समाधेरन्तरङ्गं संयमसंज्ञं धारणादित्रयं संयमस्य लक्ष्यभूतान्परिणामभेदाञ्श्रद्धाद्वारा कैवल्यफलकपुरुषख्यात्यर्था ज्ञानक्रियारूपाः सिद्धीवाभिधाय अधुनाकैवल्यस्वरूपं प्राधान्येन प्रतिपादयितुकामः प्रथमं तावत्सिद्धिपञ्चकं प्रपञ्चयति-

टि. [प्रथमद्वितीयपादयोः योगतत्साधने प्रतिपादिते । तृतीये संयमसंज्ञम् अन्तरङ्गतयं, संयमस्य लक्ष्या:, परिणामभेदा:, सिद्धयश्च उक्ता: ।तत्र काश्चिदती-तानागतज्ञानादिसिद्धयः श्रद्धाद्वारा कैवल्ययोगस्य अङ्गानि ।काश्चित् इन्द्रिय जयादयः साक्षात् अङ्गानि । तारकसंज्ञिविवेकज्ञानसिद्धि: योगस्य फलमिति निरूपितम् । इदानीं कैवल्यस्वरूपं प्राधान्येन प्रतिपादनीयं, तदर्थं कैवल्यभागीदं चित्तं, परलोकः, क्षणिकविज्ञानातिरिक्तात्मा, चित्तविकारसुखादिभोक्ता, धर्ममेघश्व वक्तव्यः, प्रासङ्गिकं चान्यत् वक्तव्यम्, इति चतुर्थ: पाद आरभ्यते । सामान्यतया सिद्धयःपञ्चविधा:-; जन्मजाः, मन्त्रजा:, ओषधिजाः, तपोजा समाधिजा इति । ]
यो – जन्मना पक्ष्यादीनामाकाशगमनादिसिद्धिः । ओषधी रसायनादिः ; तत्सेवया माण्डव्यादीनां कायादिसिद्धिः । मन्त्रस्त्रैपुरादिः ; तज्जवेन केषांचिदणिमादिसिद्धिः । शरीरशोषणादिकं तपः ; तेन विश्वामित्रादीनां सिद्धिः। समाधिजास्त्वधस्तादभिहिताः॥१॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

अ. ननु परमेश्वरसमाराधनादितपः प्रभावेणैव नन्दीश्वरो मनुष्यदेहेन देवत्वमगमदित्युपाख्यायते; तत्कथम् ? मनुष्यदेहस्य देवशरीराकारेण परिणामायोगादित्याशङ्कय आह-

यो – प्रधानादयः पृथिव्यन्ताः प्रकृतयः । तासां सर्वत्र विद्यमानतयानरादिदेहावयवेष्वापूराद्धर्मादिनिमित्तानुरोधेनावयवानुप्रवेशाज्जात्यन्तर-परिणामो युज्यत इत्यर्थः॥२॥

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

अ. ननु प्रकृत्यापूरो धर्मादिनिमित्तमपेक्षते चेत्तस्यैवास्तु प्रवर्तकत्वम् ; किं तेन ? न चेष्टापत्तिः, अपसिद्धान्तापातादित्याशङ्कय आह-

यो – निरीश्वरसांख्येऽपि पुरुषार्थ एवानागतः प्रकृतीनां प्रवर्तकः । सेश्वराणां नस्तु तदुद्देशेनेश्वरः प्रवर्तक इत्युद्देश्यतया पुरुषार्थः प्रवर्तक इति राद्धान्तः । अतः प्रकृतीनां धर्मादिकं निमित्तं न प्रवर्तकम्, तत्कार्यत्वात् । अपि तु ततो निमित्ताद्वरणस्य प्रतिबन्धस्य भेदोनाशो भवति । धर्मेणाधर्मनिरासे प्रकृतयः स्वयमेव देवादिपरिणामे प्रवर्तन्ते । यथा क्षेत्रिक: कृषीवलो जलस्योन्नत देशादिव रणभेदमात्रं करोति, ततः पाथः स्वत एव केदारात्केदारान्तरे प्रवर्तते, तद्वत् इत्यर्थः॥३॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

अ. यदा योगी युगपद्भोगार्थं बहून्कायान्निमिमीते, तदा तेषु कस्माच्चित्तानि भवन्तीत्यत आह-

टि. [अग्नेर्विस्फुलिङ्गा इव मूलकारणात् अस्मितामात्नादेव योगिनः स्वयं निर्मितेषु कायेषु चित्तानि भवन्ति । ]
यो – योगप्रभावान्निर्मीयन्त इति निर्माणानि चित्तानि योगिसंकल्पाधीनप्रकृत्यापूरात्कायवदहंकारात्स्वप्रकृतेर्जायन्त इत्यर्थ॥४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

अ. तर्हि चित्तानां भिन्नाभिप्रायत्वाद्योगिनो भोगासिद्धिरित्यत आह-

यो – निर्मितचित्तानां नायकं चित्तमेकं योगी स्वभोगानुकूलप्रवृत्तिविशेषनियामकं निर्मिमीते तेन भोगस्तदनुसंधानं च युज्यते इत्यर्थः॥५॥

तत्र ध्यानजमनाशयम् ॥६॥

अ. इत्थं जन्मादिभिः सिद्धिपञ्चकप्रपञ्चनपुरःसरं सिद्धान्तानांपञ्चविधानि चित्तान्यभिहितानि । अधुना तेष्वपवर्गभागीयं चित्तं निर्धारयितुम् आह-

यो – तत्र तेषु जन्मादिसिद्धचित्तेषु यत्समाधिसिद्धचित्तम्, तदनाशयं क्लेशकर्मविपाकाशयशून्यमपवर्गयोग्यं भवतीत्यर्थः॥६॥

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥

अ. इत्थम् अस्तु योगिनश्चित्तम्, तत्कर्म कीदृशमित्यपेक्षायामाह—

यो – काम्यकर्म विहितत्वाच्छुक्लम् । निषिद्धं कृष्णम् । मिश्रं शुक्लकृष्णम् । तदेतत्त्रयमितरेषामयोगिनां संपद्यते । तच्च त्रिविधं जन्म प्रयच्छति । तदुक्तम्- ‘शुभैराप्नोति देवत्वं निषिद्धैनौरकों गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’ इति । अथ योगस्यानिषिद्धत्वादकृष्णत्वेऽपि विहितत्वाच्छुक्लत्वमेवेति चेत्, मैवम्;अकाम्यत्वाभिप्रायेणाशुक्ल कृष्णत्वाभिधानात् । अतश्चित्तशुद्धिविवेक-ख्यातिद्वारा मोक्षैकफलक मशुक्लकृष्णं योगिनः कर्मेत्यर्थः॥७॥

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

अ. अधुना प्रसङ्ग । द्विपाकाशयाभिव्यक्तेः कर्माभिव्यक्तिनिदानत्व-मभिधातुमाह-

यो – ततो यथोदीरितविविधात्मककर्मणोरनन्तरं विपाकदानायाभिव्यक्तौ सत्यां तद्विपाकानुगुणानामेव वासनानामभिव्यक्तिर्भवति, न विरुद्धानामित्यर्थः । देवत्वप्राप्ती च चित्ते प्रसुप्ता एव नरभोगवासना भवन्ति, तासामभिव्याक्तौ दिव्यभोगायोगादिति भावः॥८॥

जाति-देश-कालव्यवहितानामप्यानन्तर्य्यं, स्मृति-संस्कारयोरेकरूपत्वात् ॥९॥

अ. नन्वेता नरभोगवासना देवत्वादिजन्म सहस्रव्यवधानानन्तरं कथं तर्हि पुनर्नरजन्मन्यभिव्यज्यन्त इत्याशङ्कय आह-

यो- अनादी संसारे येन कर्मणा यस्मिन जन्मनि भोगेः संचिता या वासनाः तासां जन्मकोट्या स्वर्गादिदेशेन कल्पशतेन च व्यवहितानामपि तज्जातीयेन कर्मणा तस्मिञ्जन्मनि पुनः प्राप्ते सति तेनैव कर्मणा जन्मनामभिव्यक्तानामानन्तयं स्मृतिद्वारा भोगादिहेतुत्वं भवति । कुतः ? स्मृतिसंस्कारयोरेकरूपत्वात् । क्रिया ज्ञानमन्यद्वा रागादिकं यच्छ-क्त्यात्मना स्थितं स संस्कारः । तत्र क्रियासंस्कारः क्रियात्मना परिणतः, ज्ञानसंस्कारः स्मृत्यात्मना, अन्यसंस्कारोऽन्यात्मना परिणत इत्येवं
स्मृतिसंस्कारयोरभेदेनैकविषयत्वेन च एकरूपत्वादानन्तर्य शब्दितः कार्य-कारणभावः सजातीययोः संभवति, न विजातीययो: । न हि व्यवधानं संस्कारस्य विरूपकार्यकारित्वमापादयति तथात्वे घटानुभवजसंस्कारादनन्तरमननुभूतस्मृत्यापत्तेरित्यर्थः॥९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

अ. ननु जन्मान्तरितवासना न सन्तीति वदन्तं चार्वाकं प्रत्याह-

यो – न केवलं तासां वासनानामानन्तर्यम्, किं त्वनादित्वमपीतिचार्थः । ‘सदाहं भूयासम्’ इत्याशिषो मरणवासस्य नित्यत्वात्सर्वजनेष्वव्यभिचारादित्यर्थः॥१०॥

हेतु-फलाश्रयालम्बनैः सङगृहीतत्वाद् एषामभावे तदभावः ॥११॥

अ. ननु वासनानामनादितया कथं तदुच्छेदः ? तत्वाह-

यो – नैताः पुरुषवदनादयः, किं तु कार्या एव प्रवाहानादयः । अतः कारणोच्छेदादुच्छेदः संभवति । तथा हि- पूर्वपूर्वसंस्कार- लक्षणाविद्या ह्यस्मिताहेतुः । सा च मनुष्योऽहं ममेदमिष्टमनिष्टमिति भ्रमहेतुः । सोऽपि रागद्वेषयोः । तौ च परनिग्रहानुग्रहादिद्वारा धर्माधर्मयोः । तौ च भोगे । सोऽपि वासनासु । ता: पुनर्भ्रमादिषु । इत्यनादि संसारचक्रमनिशमावर्तते । तत्र वासनानां क्लेशकर्माणि हेतवः, जात्यायुर्भोगाः फलम्, चित्तमाश्रयः, शब्दादिकमालम्बनम् ; तैः संगृहीतत्वात् आदरनैरन्तर्य सत्कारानुबन्ध्यष्ट । ङ्गयोग-जाविप्लवविवेकख्यात्या उच्छेदे सति कारणानामभावादुच्छेदो भवतीत्यर्थः॥११॥

अतीतानागतं स्वरूपतोऽस्त्यव्वभेदाद् धर्माणाम् ॥१२॥

अ. नन्वास्तां तावदासां वासनानामुच्छेदः ; किमुत्पत्तिः असतीनां सतीनां वा ? न तावदाद्यः, असंभवात्; न ह्यसतः शशविषाणस्यसास्ति; नापि द्वितीय:, असंभवादेव; न हि सद्रूपायाश्चितिशक्तेरुत्पत्तिः संभवति येन तथा स्पादित्याशङ्कय, शक्तिरूपेण स्वप्रकृतौ विद्यमानाना-मेवाभिव्यक्तिरुत्पत्तिरित्याशयेन आह-

टि. [“नासतो विद्यते भावः नाऽभावो विद्यते सतः” इति गीतोपदेशदर्शनात्सत्ताभूतवासनायाः कथं नाशः सम्भवेत् ? इति प्राप्ते, उच्यते ]
यो – अतीतानागतं धर्मजातं धर्मिणि शक्तिरूपेणास्त्येव । अतस्तस्याभिव्यक्तिपदवेदनीयोत्पत्तिरुपपद्यते । ननु तर्हि वासनादिबन्धस्य विद्यमानत्वात्तत्त्वज्ञानवैयर्थ्यमिति चेत्, न ; धर्माणामनागताद्यध्वनां भेदात् । वर्तमानाध्वनि दुःखादिवासनाचित्रं साधिका रम संख्येयपरिणामशीलं चित्तं भोग्यतामापन्नं बन्ध इत्युच्यते । तत्त्वज्ञाने सति निरधिकारमतीताध्वनि प्रवेशितं प्रवृत्त्यात्मना सदपि पुनर्व्युत्थानबीजस्य कर्तव्यपुरुषार्थस्य कृतत्वान्न पुनरावर्तत इत्यर्थः॥१२॥

ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥

अ. ननु स्वरूपतोऽस्तीत्युक्तम् ; किं तत्स्वरूपमित्यत आह-

यो – व्यक्ता वर्तमानाध्वानः, सूक्ष्मा अतीतानागताध्वानः, ते महदादयो घटादिविशेषान्ता गुणात्मानः सत्त्वरजस्तमःस्वरूपाः तत्प्रकृतिकत्वात् इत्यर्थः॥१३॥

परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥

अ. ननु महदादीनां गुणत्रयपरिणामत्वेन प्रत्येकमेकत्वं न स्यादित्याशङ्कय आह-

टि. [ यद्यपि गुणाः त्रयः, तथापि तेषां अङ्गाङ्गित्वात् वस्तुनः तत्त्वं एकत्वम्]
यो – दृश्यते हि बहूनामेकः परिणामः, यथा तैलवर्त्तिवह्नीनामेकः प्रदीपपरिणामः । न च तर्हि मृत्सुवर्णक्षीराणामेकः परिणामः स्यादिति वाच्यम्; तेषामङ्गाङ्गिभावाभावात् । गुणानां त्वङ्गाङ्गिभावेन तत्परिणामस्यैकत्वाद्वस्तुनो महदादेस्तत्त्वमेकत्वं युज्यत इत्यर्थः॥१४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥१५॥

अ. नंनु क्षणिकविज्ञानात्मकचित्तातिरिक्तं वस्तु नास्त्येवेति वदन्तं बौद्धं प्रत्याह-

यो – तयोर्विज्ञानात्मकचित्तवस्तुनोर्विभक्तः पन्था भिन्नो मार्गः । यथैकस्यां कुतः ? वस्तुतः स्त्रीपिण्डादेः साम्येऽपि चित्तानां भेदात् । नाय पत्युः सुखविज्ञानं सपत्न्या दुःखविज्ञानं कामुकस्य तदलाभान्मोहे विषादविज्ञानं निष्कामस्योपेक्षाविज्ञानम् ; सर्वेषाम् ‘या त्वया दृष्टा सा मयापि दृष्टा’ इत्यबाधितविषयप्रत्यभिज्ञानादेकं वस्त्वनेकं विज्ञान-मिति तयोर्भेदः । अतो न विज्ञानात्मकं सर्वं वस्तु; किं तु तस्माद्भिन्नं गुणत्रयपरिणाम इति दिक् ॥१५॥

न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥१६॥

अ. नन्वस्तु विज्ञानादन्यद्वस्तु; तच्चैकविज्ञानाधीनमिति वदन्तंप्रत्याह-

यो – यद्येकचित्तस्य ग्राह्यं घटवस्तु, तदा तस्मिंश्चित्ते पटादिषु व्यग्रे तद्वस्तु अप्रमाणकं किं स्यात् ? न स्यादित्यर्थः । न चेष्टापत्तिः पुनस्तद्दर्शने सोऽयमित्यबाधितप्रत्यभिज्ञानात् एकस्य व्यग्रत्वेऽप्यन्येनदृश्यमानत्वाच्च । तस्मान्नैकचित्ततन्त्रं वस्तु किं तु चित्तातिरिक्तं स्वतन्त्रमिति सिद्धम्॥१६॥

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥१७॥

अ. ननु चित्तस्याहंकारिकत्वेन सर्वगतत्वात्सर्वदा सर्वं ज्ञायेतेत्यत आह-

टि. [योगिनां सिद्धान्तरीत्या चित्तं विभु, (सर्वत्र विद्यमानम्) अतः तत्सम्वन्धस्य सर्वत्र विद्यमानत्वात् सर्वे विषयाः सदा ‘कुतो न ज्ञातव्याः ? कस्मिंश्चित्समये कस्यचन विषयस्यैव ज्ञानं भवति इत्याशङ्कय, समाधीयते ]
यो – सर्वगतत्वेऽपि चित्तं यत्न शरीरे वृत्तिमत्तेन शरीरेण सह
संबन्धो यस्य वस्तुनस्तत्रैव ज्ञानं नेतरत्र । एवं चेन्द्रियप्रणाडिकया चित्तं येन वस्तुनोपरक्तं तद्वस्तु ज्ञातम्, यदुपरक्तं न भवति तदज्ञातमित्यर्थः । अनेन चित्तं परिणामि ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति चित्तस्य परिणामित्वेऽनुमानमुक्तं भवतीत्यभिसंधिः ॥१७॥

सदा ज्ञाताः चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥

अ. नन्वित्थमात्मनोऽपि परिणामित्वं किं न स्यादित्यत आह-

यो – पुरुषोऽपरिणामी सदा ज्ञातृत्वात् न यदेवं न तदेवं यथा
चित्तम् । तथा यद्यसौ पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदा ज्ञातत्वं न स्यात् । अतः सदाज्ञातृत्वादपरिणामी पुरुष इत्यर्थः॥१८॥

न तत् स्वाभासंदृश्यत्वात् ॥१९॥

अ. ननु क्षणिकं चित्तमेव स्वपरावभासकमस्तु, किं पुरुषेणेत्यत
आह-

यो – ‘घटोऽयं रूपवान्’ इतिवत् ‘सुख्यहम्’ ‘क्रुद्धोऽहम् ‘ ‘शान्तं मे मनः’ इति दृश्यत्वाच्चित्तं स्वभासं स्वप्रकाशं न भवति ; किं तु स्वातिरिक्तद्रष्टृकं न क्षणिकम्, ‘सोऽहम्’ इति प्रत्यभिज्ञानात् इत्युक्तम्॥१९॥

एक-समये चोभयानवधारणम् ॥२०॥

अ. किं च-

यो- यदि चित्तं स्वपरावभासकं स्यात्तदा तयोश्चित्तार्थयोजंन्य-
जनकभावेन चित्तक्षणेऽर्थस्य अर्थक्षणे चित्तस्य चासत्त्वादेकस्मिन्नेव क्षणे तयोरुभयोरवधारणमनुभवो न स्यात् । तस्मात्पुरुष एव चित्ताथयोरवभासको न चित्तमित्यर्थः॥२०॥

चित्तांतर दृश्ये बुद्धिबुद्धेः अतिप्रसंगः स्मृतिसंकरश्च ॥२१॥

अ. ननु मा नाम भूच्चित्तं स्वप्रकाशम् ; चित्तान्तरेण प्रकाश्य-
ताम् ; किं पुरुषेणेत्याशङ्कय आह—

यो – यदि नीलादिगोचरं चित्तं चित्तान्तरेण दृश्येत, तदा तदपि बुद्ध्यात्मकं चित्तमन्यया बुद्ध्या, साप्यन्ययेत्यतिप्रसङ्गः स्यात् । किं चानन्तचित्तानामनुभवे सत्यनन्तचित्तस्मृतीनां संकरः प्राप्नोति । अतः चितिशक्तिभास्यं चित्तमिति सिद्धम्॥२१॥

चितेरप्रतिसंक्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥२२॥

अ. ननु कूटस्थनित्यायाश्चितिशक्तेश्चित्तेन क्रियापूर्वक संप्रयोगासंभवात्कथं तत्तया भास्यमित्यत आह-

टि. [योगिनां सिद्धान्ते पुरुषः क्रियारहित: । तादृशस्य कथं चित्तवृत्तीनां अनुभवसम्भवः ? यः क्रियावान् स एव कर्ता । यः कर्ता स एव भोक्ता । अत: पुरुषस्य भोक्तृत्वं कथं संभवेत् इत्याशङ्कय परिहरति । ननु कूटस्थस्य साक्षिणः चित्तेन क्रियापूर्वकसंबन्धाभावात् तेन कथं संवेद्यमित्यत आह चितेरिति । ]
यो – यथा परिणामित्वाद्बुद्धितत्त्वस्य क्रियया घटादौ संप्रयोगः समस्ति, न तथा चितिशक्तेर्बुद्धितत्त्वे प्रतिसंक्रमः संप्रयोगः अपरिणामित्वात् । अपि तु सवितुः सलिले प्रतिबिम्बवच्चितिशक्तेर्बुद्धौप्रतिबिम्बे सति तस्या बुद्धेश्चिदाकारतापत्तौ सत्यां स्वभोग्यबुद्धिसंवेदनं
भवति । चिच्छायाग्राहित्व संबन्धेन चिदुपरक्तं चित्तं चिद्भास्यम् इत्यनवद्यम्॥२२॥

 

द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

अ. ननु तहि केषांचिच्चित्तमेव चिदात्मेति भ्रमः कथमित्याशङ्कय तेषां भ्रमवीजमाह –

टि. [चित्तमेव पुरुषस्य सर्वार्थं ग्रहीतृग्रहणग्राह्यरूपाखिलदृश्याधारभूतम् ।
न चित्तारिक्तं पुरुषस्य दृश्यमिति । यतो द्रष्टृदृश्याभ्यां उपरक्ता बुद्धिवृत्तिः साक्षाद्दृश्या । तदारूढतया तु द्रष्टृशब्दादिश्च दृश्यो भवतीति क्षणिकविज्ञानमेव चित्तमिति बौद्धमते चित्तातिरिक्त आत्मा प्रसाधितः । द्रष्टा पुरुष:, तेन उपरक्तं तदाकारतामिव प्राप्तं दृश्योपरक्तं विषयाकारपरिणामं यदा भवति, तदा तदेव
सर्बार्थग्रहणं जायते ।।]
यो – सर्वो द्रष्टृदृश्यरूपोऽर्थो विषयो यस्य तत्सर्वार्थम् । तत्र
चित्सांनिध्याच्चिद्रूपतामिव प्राप्तं द्रष्टुपरक्तं द्रष्टृविषयं भवति । इन्द्रियादिद्वारा दृश्योपरक्तं तदाकारं भवति । तथा च भोग्यशब्दाद्याकारं सुखदुःखादिपरिणामलक्षणभोगात्मकं चित्तं दृश्यमपि चित्प्रतिबिम्बाभेदादात्मेति सौगतानां भ्रमः । तत्र विवेकिना चित्तस्य भोग्यतया तस्मादन्यो भोक्ता स्वीकर्तव्य इति भावः॥२३॥

तदसंख्येय वासनाभिः चित्रमपि परार्थं संहत्यकारित्वात् ॥२४॥

अ. अतश्च अन्यो भोक्ता चित्तादस्तीत्याह-

टि. [चित्तादन्यः पुरुषः कश्चिदस्ति इत्यत्र प्रमाणान्तरं अनेन उपदिशति । ]
यो – यद्यपि क्लेशकर्म विपाकवासनाभिरनन्ताभिश्चितं सुखाद्याश्रयतया भोक्तृकल्पं चित्तम्, तथापि परस्य निरुपचरितचित्स्वभावस्याथ भोगापवर्गों साधयतीति परार्थ भोग्यमेव न भोक्ता । कस्मात् ? संहत्य देहेन्द्रियादिसहकारिभिर्मिलित्वा भोगादिकार्यकारित्वात् । यन्मिलित्वा कार्यकारि तत्परार्थं, यथा गृहादि देवदत्तार्थम् । तस्माच्चित्तादन्यचिदात्मा भोक्तास्तीति सिद्धम्॥२४॥

विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥२५॥

अ. इत्थं प्रासङ्गिकं परिसमाप्य अधुना कैवल्यं निरूपयितुं तद्योग्यम् अधिकारिणं दर्शयति-

टि. [शास्त्रफलं कैवल्यं निर्णेतं दशभिः सूतैः उपक्रमते ]
यो – पूर्वोक्तविवेकेन बुद्धेरन्यश्चिन्मातः पुरुषोऽहमिति विशेषदर्शिननात्मभावे तत्त्वे भावना जिज्ञासा विनिवर्तते, ज्ञाते जिज्ञासायोगात् । यस्य पूर्वजन्मसुकृतपरिपाकेण तत्त्वजिज्ञासा जायते, सोऽधिकारीति भावः॥२५॥

 

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥

अ. ननु तत्त्वजिज्ञासोविशेषदर्शनानन्तरं चित्तं कीदृशं भवतीत्यपेक्षायाम् ‘आह-

टि. [तत्वजिज्ञासोः विशेषदर्शनानन्तरं चित्तं कथं स्यात् ? इत्येतदुपदिशति । ]
यो-  पूर्वं बुद्ध्यादावात्मत्वभ्रमदशायां यच्चित्तं विषयनिम्नं संसारप्राग्भारमासीत्, तदिदानीं निवृत्तभ्रमस्य योगिनश्चित्तं विवेकनिम्नं द्रष्टृदृश्ययोविवेको निम्नमालम्बनभूमिर्यस्य तत् ; विवेकनिष्ठमितियावत् । अत एव कैवल्यं प्राग्भारः अवधिर्यस्य तत्कैवल्यप्राग्भारं कैवल्यफलावसानं भवतीत्यर्थः॥२६॥

तच्छिद्रेषु प्रत्ययांतराणि संस्कारेभ्यः ॥२७॥

अ. यद्येवं तदा अस्य व्युत्थानप्रत्ययाः कुतो भवन्तीत्यत आह-

यो – विवेकख्यातिपरस्यानुक्षणं क्षीयमाणेभ्यो व्युत्थानसंस्कारेभ्यो विवेकख्यातिच्छिद्रेष्वभिव्यक्तेभ्यः प्रत्ययान्तराणि भवन्तीत्यर्थः ॥२७॥

हानमेषां क्लेशवदुक्तम् ॥२८॥

अ. ननु कोऽयमेतेषां संस्काराणां हानोपाय इत्यत्नाह—

यो – यथा अविद्यादिक्लेशा विवेकख्यात्या दग्धाः पुनः संस्कारं न प्रसुवते, तथा व्युत्थानसंस्कारा अपि पुरुषख्यातिदग्धा अप्रसवधर्माणो भवन्तीत्यर्थः॥२८॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥२९॥

अ. अथ विवेकख्यातेरपि व्युत्थानरूपतया तन्निरोधोपायमुपदर्शयितुमाह –

टि. [ एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधौ यादृशस्य योगिनः समाधि-प्रकर्षप्राप्तिः भवति, तथाविधम् उपायमाह ]
यो – विवेकख्यातिरेव विशोकरूपावान्तर फलोन्मुखी सती प्रसंख्यानमित्युच्यते । तत्रापि अकुसीदस्य, कुत्सितेषु विषयेषु सीदतीति कुसीदो रागः, तद्रहितस्य विरक्तस्य, अत एव सर्वथा सर्वात्मना विवेकख्यातेः योगिनः अशुक्लकृष्णं धर्मं कैवल्यफलं मेहति सिञ्चतीति धर्ममेघाख्यः समाधिर्भवतीत्यर्थं॥२९॥

ततः क्लेश-कर्म-निवृत्तिः ॥३०॥

अ. ततः किमित्यत आह-

टि. [धर्ममेघसमाधेः फलमुपदिशति अनेन सूत्रेण । धर्मम् – अशुक्लाकृष्णं कैवल्यफलं मेहति – सिञ्चति इति धर्ममेघ:। ]
यो – ततो धर्ममेघात्सवासनक्लेशतन्मूलकर्मणां निवृत्तिर्भवती-त्यर्थः॥३०॥

तदा सर्वावरणमलापेतस्य ज्ञानस्यानंत्यात् ज्ञेयमल्पम् ॥३१॥

अ. तदा किं भवतीत्यत्राह –

टि. [अक्लेशेनैव सर्वं जानातीत्यर्थ: । ]
यो – आवृण्वन्ति चित्तमित्यावरणा रजस्तमोमयाः क्लेशकर्मरूपा । सर्वे च ते आवरणमलाः, तैर्धर्ममेघेणापेतस्य ज्ञानस्य विशुद्धबुद्धचालोकस्यानन्त्याज्ज्ञेयं सर्वं गगने खद्योतवदल्पमेवमला: भवतीत्यर्थः॥३१॥

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥

अ. ततः किमित्यवाह-

यो – ततो धर्ममेघफलीभूत परवैराग्यात्मकानन्तज्ञानानन्तरं विवेकख्यातौ निरुद्धायाम्, कृतार्थानां कृतो निष्पादितोऽर्थो भोगापवर्गरूपः पुरुषार्थो यैस्ते तथोक्तास्तेषां सत्त्वादिगुणानां महदाद्यहंकारक्रमेण यः परिणामक्रम: तस्य समाप्तिर्भवतीत्यर्थः॥३२॥

क्षणप्रतियोगी परिणामापरांत निर्ग्राह्यः क्रमः ॥३३॥

अ. कोऽसौ क्रम इत्यपेक्षायामाह-

टि. [क्षणशब्दार्थः- क्षणाः- कलांशा:, तेषु समाहितबुद्धिना क्रमो ज्ञेयः । तत्र क्षणप्रतियोगी क्रम इति स्वरूपनिर्देश:।]
यो – क्षणप्रतियोगी क्रम इति स्वरूपनिर्देशः । क्षणौ प्रतियोगिनी निरूपकौ यस्य स क्षणप्रतियोगी । एवं क्षणिकपरिणामक्रमो मन्तव्यः । तत्र प्रमाणं परिणामापरान्तनिर्ग्राह्य इति । मृदि पिण्डघटकपालचूर्ण-कणानां प्रत्यक्षपरिणामानां पूर्वान्तः पिण्डः अपरान्तः कण इति पूर्वोत्तरावधिग्रहणेन क्रमो निष्कृष्य ग्राह्यो भवतीत्यर्थः॥३३॥

पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति  ॥३४॥

अ. गुणानां परिणामक्रमसमाप्तौ किं फलिष्यतीत्यत्राह-

टि. [शास्त्रेण उपदिष्टस्य योगफलभूतस्य कैवल्यस्य असाधारणं स्वरूपं उपदिशति । ]
यो – कृतभोगापवर्गाणां कार्यकारणात्मनां गुणानां प्रधाने प्रतिप्रसवः प्रलयः कैवल्यम्, चितिशक्तिः कूटस्थनित्या शुद्धासङ्गचित्स्वभावा शक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धयादिसंबन्धविधुरा वा कैवल्यं भवतीत्यतिशोभनम् । इतिशब्द: शास्त्रपरिसमाप्तिद्योतनार्थः॥३४॥

यत्कृपापोतमासाद्य समुत्तीर्णो भवार्णवात् ।
नमोऽस्तु तस्मै गुरवे स्वाविद्याध्वान्तभानवे ।। १ ॥

क्वाहं क्वयोगसरणिर्गहनार्था तथाप्यहम् ।
श्रीगुरोः कृपयाकार्षं वृत्तिं योगसुधाकरम् ॥ २ ॥

फणीन्द्रसूत्रग्रथिता मद्वाङ्मौक्तिकमालिका ।
समर्प्यते मया श्रीमद्गुरोश्चरणपङ्कजे ॥ ३ ॥

इति श्रीपरमहंसपरिव्राजकाचार्य श्रीपरमशिवेन्द्रसरस्वतीपादाब्ज सेवापरायणेन श्रीसदा-शिवेन्द्रसरस्वत्या विरचितायां श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे सांख्यप्रवचनापरनामधेये योगसुधाकराभिधायां वृत्तौ चतुर्थः कैवल्यपादःसमाप्तः ॥

error: Content is protected !!

Share This

Share this post with your friends!